| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः । किमकार्षीन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ ३१.१॥
prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ . kimakārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ .. 31.1..
सूत उवाच ।
प्राप्य वाराणसीं दिव्यामुपस्पृश्य महामुनिः । पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ ३१.२॥
prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ . pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam .. 31.2..
तमागतं मुनिं दृष्ट्वा तत्र ये निवसन्ति वै । पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुंगवम् ॥ ३१.३॥
tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai . pūjayāñcakrire vyāsaṃ munayo munipuṃgavam .. 31.3..
पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीम् । महादेवाश्रयाः पुण्यां मोक्षधर्मान् सनातनान् ॥ ३९.४॥
papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīm . mahādevāśrayāḥ puṇyāṃ mokṣadharmān sanātanān .. 39.4..
स चापि कथयामास सर्वज्ञो भगवानृषिः । माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ३१.५॥
sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ . māhātmyaṃ devadevasya dharmān vedanidarśitān .. 31.5..
तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः । पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ३१.६॥
teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ . pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam .. 31.6..
जैमिनिरुवाच ।
भगवन् संशयञ्चैकं छेत्तुमर्हसि तत्त्ववित् । न विद्यते ह्यविदितं भवता परमर्षिणः ॥ ३१.७॥
bhagavan saṃśayañcaikaṃ chettumarhasi tattvavit . na vidyate hyaviditaṃ bhavatā paramarṣiṇaḥ .. 31.7..
केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः । अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ३१.८॥
kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ . anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ .. 31.8..
ब्रह्मचर्यमथो मौनमन्ये प्राहुर्महर्षयः । अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥ ३१.९॥
brahmacaryamatho maunamanye prāhurmaharṣayaḥ . ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ .. 31.9..
केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा । तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ ३१.१॥
kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā . tīrthayātrāṃ tathā kecidanye cendriyanigraham .. 31.1..
किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुंगव । यदि वा विद्यतेऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ३१.११॥
kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṃgava . yadi vā vidyate'pyanyad guhyaṃ tadvaktumarhasi .. 31.11..
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ ३१.१२॥
śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ . prāha gambhīrayā vācā praṇamya vṛṣaketanam .. 31.12..
साधु साधु महाभाग यत्पृष्टं भवता मुने । वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ ३१.१३॥
sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune . vakṣye guhyatamād guhyaṃ śruṇvantvanye maharṣayaḥ .. 31.13..
ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् । गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ ३१.१४॥
īśvareṇa purā proktaṃ jñānametat sanātanam . gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ .. 31.14..
नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः । न वेदविदुषे देयं ज्ञानानां ज्ञानमुत्तमम् ॥ ३१.१५॥
nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ . na vedaviduṣe deyaṃ jñānānāṃ jñānamuttamam .. 31.15..
मेरुश्रृङ्गे महा देवंमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत ॥ ३१.१६॥
meruśrṛṅge mahā devaṃmīśānaṃ tripuradviṣam . devāsanagatā devī mahādevamapṛcchata .. 31.16..
देव्युवाच ।
देवदेव महादेव भक्तानामार्त्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ ३१.१७॥
devadeva mahādeva bhaktānāmārttināśana . kathaṃ tvāṃ puruṣo devamacirādeva paśyati .. 31.17..
सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः । आयासबहुलान्याहुर्यानि चान्यानि शंकर ॥ ३१.१८॥
sāṃkhyayogastathā dhyānaṃ karmayogo'tha vaidikaḥ . āyāsabahulānyāhuryāni cānyāni śaṃkara .. 31.18..
येन विब्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान् सूक्ष्मः सर्वेषामपि देहिनाम् ॥ ३१.१९॥
yena vibrāntacittānāṃ yogināṃ karmiṇāmapi . dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmapi dehinām .. 31.19..
एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम । हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ ३१.२॥
etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitama . hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana .. 31.2..
ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृ । वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ ३१.२१॥
avācyametad vijñānaṃ jñānamajñairbahiṣkṛ . vakṣye tava yathā tattvaṃ yaduktaṃ paramarṣibhiḥ .. 31.21..
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ ३१.२२॥
paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī . sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī .. 31.22..
तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ ३१.२३॥
tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ . nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ .. 31.23..
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ३१.२४॥
uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat . jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama .. 31.24..
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानेसंस्थितान्येव दिव्यभूमिगतानि च ॥ ३१.२५॥
sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca . śmaśānesaṃsthitānyeva divyabhūmigatāni ca .. 31.25..
भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् । अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ ३१.२६॥
bhūrloke naiva saṃlagnamantarikṣe mamālayam . ayuktāstanna paśyanti yuktāḥ paśyanti cetasā .. 31.26..
श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ ३१.२७॥
śmasānametad vikhyātamavimuktamiti śrutam . kālo bhūtvā jagadidaṃ saṃharāmyatra sundari .. 31.27..
देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्तते ॥ ३१.२८॥
devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama . madbhaktāstatra gacchanti māmeva praviśantate .. 31.28..
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ ३१.२९॥
dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat . dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet .. 31.29..
जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३१.३१॥
janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam . avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam .. 31.31..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥ ३१.३१॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ . striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ .. 31.31..
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३१.३२॥
kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ . kālena nidhanaṃ prāptā avimukte varānane .. 31.32..
चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३१.३३॥
candrārddhamaulayastryakṣā mahāvṛṣabhavāhanāḥ . śive mama pure devi jāyante tatra mānavāḥ .. 31.33..
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषः। ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३१.३४॥
nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣaḥ. īśvarānugṛhītā hi sarve yānti parāṃ gatim .. 31.34..
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३१.३५॥
mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam . aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ .. 31.35..
दुर्लभा तपसा चापि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३१.३६॥
durlabhā tapasā cāpi pūtasya parameśvari . yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī .. 31.36..
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३१.३७॥
prasādājjāyate hyetanmama śailendranandini . aprabuddhā na paśyanti mama māyāvimohitāḥ .. 31.37..
अविमुक्तं न सेवन्ति मूढा ये तमसावृताः । विण्मूत्ररेतसां मध्ये संवसन्ति पुनः पुनः ॥ ३१.३८॥
avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ . viṇmūtraretasāṃ madhye saṃvasanti punaḥ punaḥ .. 31.38..
हन्यमानोऽपि यो विद्वान् वसेद् विघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३१.३९॥
hanyamāno'pi yo vidvān vased vighnaśatairapi . sa yāti paramaṃ sthānaṃ yatra gatvā na śocati .. 31.39..
जन्ममृत्युजरामुक्तं परं याति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङिक्षणाम् ॥ ३१.४॥
janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam . apunarmaraṇānāṃ hi sā gatirmokṣakāṅikṣaṇām .. 31.4..
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डतः । न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥ ३१.४१॥
yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍataḥ . na dānairna tapobhiśca na yajñairnāpi vidyayā .. 31.41..
प्राप्यते गतिरुत्कृष्टा याऽविमुक्ते तु लभ्यते । नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ॥ ३१.४२॥
prāpyate gatirutkṛṣṭā yā'vimukte tu labhyate . nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ .. 31.42..
किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ २९.४३॥
kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā . bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ .. 29.43..
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ३१.४४॥
avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam . avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam .. 31.44..
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ३१.४५॥
kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye . teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam .. 31.45..
प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः । केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ३१.४६॥
prāyāgaṃ naimiṣaṃ puṇyaṃ śrīśailo'tha mahālayaḥ . kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca .. 31.46..
कुरुक्षेत्रं रुद्रकोटिर्नर्मदाहाटकेश्वरम् । शालिग्रामं च पुष्पाग्रं वंशं कोकामुखं तथा॥ ३१.४७॥
kurukṣetraṃ rudrakoṭirnarmadāhāṭakeśvaram . śāligrāmaṃ ca puṣpāgraṃ vaṃśaṃ kokāmukhaṃ tathā.. 31.47..
प्रभासं विजयेशानं गोकर्णं शङ्कुकर्णकम् । एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ॥ ३१.४८॥
prabhāsaṃ vijayeśānaṃ gokarṇaṃ śaṅkukarṇakam . etāni puṇyasthānāni trailokye viśrutāni ha .. 31.48..
न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः । वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥ ३१.४९॥
na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ . vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī .. 31.49..
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् । अन्यत्र सुलभा गङ्गा श्राद्धं दानं तथा जपः ॥ ३१.५॥
praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam . anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tathā japaḥ .. 31.5..
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् । यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ॥ ३१.५१॥
vratāni sarvamevaitad vārāṇasyāṃ sudurlabham . yajeta juhuyānnityaṃ dadātyarcayate'marān .. 31.51..
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः । यदि पापो यदि शठो यदि वाऽधार्मिको नरः ॥ ३१.५२॥
vāyubhakṣaśca satataṃ vārāṇasyāṃ stito naraḥ . yadi pāpo yadi śaṭho yadi vā'dhārmiko naraḥ .. 31.52..
वाराणसीं समासाद्य पुनाति सकुलत्रयं । वाराणस्यां महादेवं येऽर्चयन्ति स्तुवन्ति वै ॥ ३१.५३॥
vārāṇasīṃ samāsādya punāti sakulatrayaṃ . vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai .. 31.53..
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः । अन्यत्र यागज्ज्ञानाद्वा संन्यासादथवाऽन्यतः ॥ ३१.५४॥
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ . anyatra yāgajjñānādvā saṃnyāsādathavā'nyataḥ .. 31.54..
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना । ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ॥ ३१.५५॥
prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā . ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai .. 31.55..
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना । यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥ ३१.५६॥
te vindanti paraṃ mokṣamekenaiva tu janmanā . yatra yogastathā jñānaṃ muktirekena janmanā .. 31.56..
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् । यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ॥ ३१.५७॥
avimuktaṃ samāsādya nānyad gacchet tapovanam . yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam .. 31.57..
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते । ज्ञानध्यानाभिनिष्ठानां परमानन्दमिच्छताम् ॥ ३१.५८॥
tadeva guhyaṃ guhyānāmetad vijñāya mucyate . jñānadhyānābhiniṣṭhānāṃ paramānandamicchatām .. 31.58..
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु । यानि कान्यविमुक्तानि देवैरुक्तानि नित्यशः ॥ ३१.५९॥
yā gatirvihitā subhru sāvimukte mṛtasya tu . yāni kānyavimuktāni devairuktāni nityaśaḥ .. 31.59..
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा । यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ॥ ३१.६॥
purī vārāṇasī tebhyaḥ sthānebhyo hyadhikāśubhā . yatra sākṣānmahādevo dehānte svayamīśvaraḥ .. 31.6..
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् । यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ॥ ३१.६१॥
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam . yat tat parataraṃ tattvamavimuktamiti śrutam .. 31.61..
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् । भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ॥ ३१.६२॥
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt . bhrūmadhye nābhimadhye ca hṛdaye caiva mūrddhani .. 31.62..
यथाऽविमुक्तादित्ये वाराणस्यां व्यवस्थितम् । वरणायास्तथा चास्या मध्ये वाराणसी पुरी ॥ ३१.६३॥
yathā'vimuktāditye vārāṇasyāṃ vyavasthitam . varaṇāyāstathā cāsyā madhye vārāṇasī purī .. 31.63..
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् । वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥ ३१.६४॥
tatraiva saṃsthitaṃ tattvaṃ nityamevāvimuktakam . vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati .. 31.64..
यत्र नारायणो देवो महादेवादिवेश्वरात् । तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३१.६५॥
yatra nārāyaṇo devo mahādevādiveśvarāt . tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ .. 31.65..
उपासते मां सततं देवदेवः पितामहः । महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ॥ ३१.६६॥
upāsate māṃ satataṃ devadevaḥ pitāmahaḥ . mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ .. 31.66..
वाराणसीं समासाद्य ते यान्ति परमां गतिम् । तस्मान्मुमुक्षुर्नियतो वसेच्चामरणान्तिकम् ॥ ३१.६७॥
vārāṇasīṃ samāsādya te yānti paramāṃ gatim . tasmānmumukṣurniyato vaseccāmaraṇāntikam .. 31.67..
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते । किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ॥ ३१.६८॥
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate . kintu vighnā bhaviṣyanti pāpopahatacetasaḥ .. 31.68..
ततो नैव चरेत् पापं कायेन मनसा गिरा । एतद् रहस्यं वेदानां पुराणानां द्विजोत्तमाः ॥ ३१.६९॥
tato naiva caret pāpaṃ kāyena manasā girā . etad rahasyaṃ vedānāṃ purāṇānāṃ dvijottamāḥ .. 31.69..
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः । देवतानामृषीणां च श्रृण्वतां परमेष्ठिनाम् ॥ ३१.७॥
avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ . devatānāmṛṣīṇāṃ ca śrṛṇvatāṃ parameṣṭhinām .. 31.7..
देव्यै देवेन कथितं सर्वपापविनाशनम् । यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ॥ ३१.७१॥
devyai devena kathitaṃ sarvapāpavināśanam . yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ .. 31.71..
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् । यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ॥ ३१.७२॥
yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam . yaiḥ samārādhito rudraḥ pūrvasminneva janmani .. 31.72..
तं विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् । कलिकल्मषसंभूता येषामुपहता मतिः ॥ ३१.७३॥
taṃ vindanti paraṃ kṣetramavimuktaṃ śivālayam . kalikalmaṣasaṃbhūtā yeṣāmupahatā matiḥ .. 31.73..
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः । ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ॥ ३१.७४॥
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ . ye smaranti sadā kālaṃ vindanti ca purīmimām .. 31.74..
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्। यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ॥ ३१.७५॥
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam. yāni ceha prakurvanti pātakāni kṛtālayāḥ .. 31.75..
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः । आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् ॥ ३१.७६॥
nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ . āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām .. 31.76..
मृतानां च पुनर्जनम् न भूयो भवसागरे । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३१.७७॥
mṛtānāṃ ca punarjanam na bhūyo bhavasāgare . tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ .. 31.77..
योगी वाप्यथवाऽयोगी पापी वा पुण्यकृत्तमः । न वेदवचनात् पित्रोर्न चैव गुरुवादतः ॥ ३१.७८॥
yogī vāpyathavā'yogī pāpī vā puṇyakṛttamaḥ . na vedavacanāt pitrorna caiva guruvādataḥ .. 31.78..
मतिरुत्क्रमणीया स्यादविमुक्तागतिं प्रति ॥ ३१.७९॥
matirutkramaṇīyā syādavimuktāgatiṃ prati .. 31.79..
सूत उवाच
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः । सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ३१.८॥
ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ . sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha .. 31.8..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकत्रिशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge ekatriśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In