| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । जगाम विपुलं लिङ्गमोंकारं मुक्तिदायकम् ॥ ३२.१॥
स शिष्यैः संवृतः धीमान् गुरुः द्वैपायनः मुनिः । जगाम विपुलम् लिङ्गम् ओंकारम् मुक्ति-दायकम् ॥ ३२।१॥
sa śiṣyaiḥ saṃvṛtaḥ dhīmān guruḥ dvaipāyanaḥ muniḥ . jagāma vipulam liṅgam oṃkāram mukti-dāyakam .. 32.1..
तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ ३२.२॥
तत्र अभ्यर्च्य महादेवम् शिष्यैः सह महा-मुनिः । प्रोवाच तस्य माहात्म्यम् मुनीनाम् भावितात्मनाम् ॥ ३२।२॥
tatra abhyarcya mahādevam śiṣyaiḥ saha mahā-muniḥ . provāca tasya māhātmyam munīnām bhāvitātmanām .. 32.2..
इदं तद् विमलं लिङ्गमोंकारं नाम शोभनम् । अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३२.३॥
इदम् तत् विमलम् लिङ्गम् ओंकारम् नाम शोभनम् । अस्य स्मरण-मात्रेण मुच्यते सर्व-पातकैः ॥ ३२।३॥
idam tat vimalam liṅgam oṃkāram nāma śobhanam . asya smaraṇa-mātreṇa mucyate sarva-pātakaiḥ .. 32.3..
एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् । सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ३२.४॥
एतत् परतरम् ज्ञानम् पञ्चयतनम् उत्तमम् । सेवितम् सूरिभिः नित्यम् वाराणस्याम् विमोक्ष-दम् ॥ ३२।४॥
etat parataram jñānam pañcayatanam uttamam . sevitam sūribhiḥ nityam vārāṇasyām vimokṣa-dam .. 32.4..
अत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ३२.५॥
अत्र साक्षात् महादेवः पञ्च-आयतन-विग्रहः । रमते भगवान् रुद्रः जन्तूनाम् अपवर्ग-दः ॥ ३२।५॥
atra sākṣāt mahādevaḥ pañca-āyatana-vigrahaḥ . ramate bhagavān rudraḥ jantūnām apavarga-daḥ .. 32.5..
यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शक्यते । तदेतद् विमलं लिङ्गमोङ्कारं समवस्थितम् ॥ ३२.६॥
यत् तत् पाशुपतम् ज्ञानम् पञ्च-अर्थम् इति शक्यते । तत् एतत् विमलम् लिङ्गम् ओङ्कारम् समवस्थितम् ॥ ३२।६॥
yat tat pāśupatam jñānam pañca-artham iti śakyate . tat etat vimalam liṅgam oṅkāram samavasthitam .. 32.6..
शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ३२.७॥
शान्त्यतीता तथा शान्तिः विद्या च एव परा कला । प्रतिष्ठा च निवृत्तिः च पञ्च-अर्थम् लिङ्गम् ऐश्वरम् ॥ ३२।७॥
śāntyatītā tathā śāntiḥ vidyā ca eva parā kalā . pratiṣṭhā ca nivṛttiḥ ca pañca-artham liṅgam aiśvaram .. 32.7..
पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् । ओंकारबोधतं लिङ्गं पञ्चायतनमुच्यते ॥ ३२.८॥
पञ्चानाम् अपि देवानाम् ब्रह्म-आदीनाम् सत्-आश्रयम् । ओंकार-बोधतम् लिङ्गम् पञ्चायतनम् उच्यते ॥ ३२।८॥
pañcānām api devānām brahma-ādīnām sat-āśrayam . oṃkāra-bodhatam liṅgam pañcāyatanam ucyate .. 32.8..
संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ३२.९॥
संस्मरेत् ऐश्वरम् लिङ्गम् पञ्चायतनम् अव्ययम् । देहान्ते तत् परम् ज्योतिः आनन्दम् विशते बुधः ॥ ३२।९॥
saṃsmaret aiśvaram liṅgam pañcāyatanam avyayam . dehānte tat param jyotiḥ ānandam viśate budhaḥ .. 32.9..
अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ ३२.१॥
अत्र देवर्षयः पूर्वम् सिद्धाः ब्रह्मर्षयः तथा । उपास्य देवम् ईशानम् प्राप्तवन्तः परम् पदम् ॥ ३२।१॥
atra devarṣayaḥ pūrvam siddhāḥ brahmarṣayaḥ tathā . upāsya devam īśānam prāptavantaḥ param padam .. 32.1..
मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतम शुभम् । गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ३२.११॥
मत्स्योदर्याः तटे पुण्यम् स्थानम् गुह्यतम शुभम् । गोचर्म-मात्रम् विप्र-इन्द्राः ओङ्कार-ईश्वरम् उत्तमम् ॥ ३२।११॥
matsyodaryāḥ taṭe puṇyam sthānam guhyatama śubham . gocarma-mātram vipra-indrāḥ oṅkāra-īśvaram uttamam .. 32.11..
कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारं कपर्दीश्वरमेव च ॥ ३२.१२॥
कृत्तिवासेश्वरम् लिङ्गम् मध्यमेश्वरम् उत्तमम् । विश्वेश्वरम् तथा उंकारम् कपर्दीश्वरम् एव च ॥ ३२।१२॥
kṛttivāseśvaram liṅgam madhyameśvaram uttamam . viśveśvaram tathā uṃkāram kapardīśvaram eva ca .. 32.12..
एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥ ३२.१३॥
एतानि गुह्य-लिङ्गानि वाराणस्याम् द्विजोत्तमाः । न कश्चिद् इह जानाति विना शंभोः अनुग्रहात् ॥ ३२।१३॥
etāni guhya-liṅgāni vārāṇasyām dvijottamāḥ . na kaścid iha jānāti vinā śaṃbhoḥ anugrahāt .. 32.13..
एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ ३२.१४॥
एवम् उक्त्वा ययौ कृष्णः पाराशर्यः महा-मुनिः । कृत्तिवास-ईश्वरम् लिङ्गम् द्रष्टुम् देवस्य शूलिनः ॥ ३२।१४॥
evam uktvā yayau kṛṣṇaḥ pārāśaryaḥ mahā-muniḥ . kṛttivāsa-īśvaram liṅgam draṣṭum devasya śūlinaḥ .. 32.14..
समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । कथयामास विप्रेभ्यो भगवान् ब्रह्मवित्तमः ॥ ३२.१५॥
समभ्यर्च्य तथा शिष्यैः माहात्म्यम् कृत्तिवाससः । कथयामास विप्रेभ्यः भगवान् ब्रह्म-वित्तमः ॥ ३२।१५॥
samabhyarcya tathā śiṣyaiḥ māhātmyam kṛttivāsasaḥ . kathayāmāsa viprebhyaḥ bhagavān brahma-vittamaḥ .. 32.15..
अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ॥ ३२.१६॥
अस्मिन् स्थाने पुरा दैत्यः हस्ती भूत्वा भव-अन्तिकम् । ब्राह्मणान् हन्तुम् आयातः ये अत्र नित्यम् उपासते ॥ ३२।१६॥
asmin sthāne purā daityaḥ hastī bhūtvā bhava-antikam . brāhmaṇān hantum āyātaḥ ye atra nityam upāsate .. 32.16..
तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः । रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ ३२.१७॥
तेषाम् लिङ्गात् महादेवः प्रादुरासीत् त्रिलोचनः । रक्षण-अर्थम् द्विजश्रेष्ठाः भक्तानाम् भक्त-वत्सलः ॥ ३२।१७॥
teṣām liṅgāt mahādevaḥ prādurāsīt trilocanaḥ . rakṣaṇa-artham dvijaśreṣṭhāḥ bhaktānām bhakta-vatsalaḥ .. 32.17..
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ ३२.१८॥
हत्वा गज-आकृतिम् दैत्यम् शूलेन अवज्ञया हरः । वसः तस्य अकरोत् कृत्तिम् कृत्तिवास-ईश्वरः ततस् ॥ ३२।१८॥
hatvā gaja-ākṛtim daityam śūlena avajñayā haraḥ . vasaḥ tasya akarot kṛttim kṛttivāsa-īśvaraḥ tatas .. 32.18..
अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुंगवाः । तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ ३२.१९॥
अत्र सिद्धिम् पराम् प्राप्ताः मुनयः मुनि-पुंगवाः । तेन एव च शरीरेण प्राप्ताः तत् परमम् पदम् ॥ ३२।१९॥
atra siddhim parām prāptāḥ munayaḥ muni-puṃgavāḥ . tena eva ca śarīreṇa prāptāḥ tat paramam padam .. 32.19..
विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्त्तिताः । कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ ३२.२॥
विद्याः विद्येश्वराः रुद्राः च प्रकीर्त्तिताः । कृत्तिवासेश्वरम् लिङ्गम् नित्यम् आवृत्य संस्थिताः ॥ ३२।२॥
vidyāḥ vidyeśvarāḥ rudrāḥ ca prakīrttitāḥ . kṛttivāseśvaram liṅgam nityam āvṛtya saṃsthitāḥ .. 32.2..
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः । कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ ३२.२१॥
ज्ञात्वा कलि-युगम् घोरम् अधर्म-बहुलम् जनाः । कृत्ति-वासम् न मुञ्चन्ति कृतार्थाः ते न संशयः ॥ ३२।२१॥
jñātvā kali-yugam ghoram adharma-bahulam janāḥ . kṛtti-vāsam na muñcanti kṛtārthāḥ te na saṃśayaḥ .. 32.21..
जन्मान्तरसहस्रेण मोक्षोऽन्यत्राप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ ३२.२२॥
जन्म-अन्तर-सहस्रेण मोक्षः अन्यत्र आप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ ३२।२२॥
janma-antara-sahasreṇa mokṣaḥ anyatra āpyate na vā . ekena janmanā mokṣaḥ kṛttivāse tu labhyate .. 32.22..
आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ ३२.२३॥
आलयः सर्व-सिद्धानाम् एतत् स्थानम् वदन्ति हि । गोपितम् देवदेवेन महादेवेन शंभुना ॥ ३२।२३॥
ālayaḥ sarva-siddhānām etat sthānam vadanti hi . gopitam devadevena mahādevena śaṃbhunā .. 32.23..
युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः । उपासते महादेवं जपन्ति शतरुद्रियम् ॥ ३२.२४॥
युगे युगे हि अत्र दान्ताः ब्राह्मणाः वेदपार-आगाः । उपासते महादेवम् जपन्ति शतरुद्रियम् ॥ ३२।२४॥
yuge yuge hi atra dāntāḥ brāhmaṇāḥ vedapāra-āgāḥ . upāsate mahādevam japanti śatarudriyam .. 32.24..
स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ ३२.२५॥
स्तुवन्ति सततम् देवम् त्र्यम्बकम् कृत्तिवाससम् । ध्यायन्ति हृदये देवम् स्थाणुम् सर्व-अन्तरम् शिवम् ॥ ३२।२५॥
stuvanti satatam devam tryambakam kṛttivāsasam . dhyāyanti hṛdaye devam sthāṇum sarva-antaram śivam .. 32.25..
गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ ३२.२६॥
गायन्ति सिद्धाः किल गीतकानि ये वाराणस्याम् निवसन्ति विप्राः । तेषाम् अथा एकेन भवेन मुक्तिः ये कृत्तिवासम् शरणम् प्रपन्नाः ॥ ३२।२६॥
gāyanti siddhāḥ kila gītakāni ye vārāṇasyām nivasanti viprāḥ . teṣām athā ekena bhavena muktiḥ ye kṛttivāsam śaraṇam prapannāḥ .. 32.26..
संप्राप्य लोके जगतामभीष्टं। सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं। ध्यायन्ति चित्ते यतयो महेशम् ॥ ३२.२७॥
संप्राप्य लोके जगताम् अभीष्टम्। सु दुर्लभम् विप्र-कुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रम्। ध्यायन्ति चित्ते यतयः महेशम् ॥ ३२।२७॥
saṃprāpya loke jagatām abhīṣṭam. su durlabham vipra-kuleṣu janma . dhyāne samādhāya japanti rudram. dhyāyanti citte yatayaḥ maheśam .. 32.27..
आराधयन्ति प्रभुमीशितारं। वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ ३२.२८॥
आराधयन्ति प्रभुम् ईशितारम्। वाराणसी-मध्य-गताः मुनि-इन्द्राः । यजन्ति यज्ञैः अभिसंधि-हीनाः स्तुवन्ति रुद्रम् प्रणमन्ति शंभुम् ॥ ३२।२८॥
ārādhayanti prabhum īśitāram. vārāṇasī-madhya-gatāḥ muni-indrāḥ . yajanti yajñaiḥ abhisaṃdhi-hīnāḥ stuvanti rudram praṇamanti śaṃbhum .. 32.28..
नमो भवायामलयोगधाम्ने। स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ ३२.२९॥
नमः भवाय अमल-योग-धाम्ने। स्थाणुम् प्रपद्ये गिरिशम् पुराणम् । स्मरामि रुद्रम् हृदये निविष्टम् जाने महादेवम् अनेक-रूपम् ॥ ३२।२९॥
namaḥ bhavāya amala-yoga-dhāmne. sthāṇum prapadye giriśam purāṇam . smarāmi rudram hṛdaye niviṣṭam jāne mahādevam aneka-rūpam .. 32.29..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां द्वात्रिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् द्वात्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām dvātriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In