| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । जगाम विपुलं लिङ्गमोंकारं मुक्तिदायकम् ॥ ३२.१॥
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ . jagāma vipulaṃ liṅgamoṃkāraṃ muktidāyakam .. 32.1..
तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ ३२.२॥
tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ . provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām .. 32.2..
इदं तद् विमलं लिङ्गमोंकारं नाम शोभनम् । अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३२.३॥
idaṃ tad vimalaṃ liṅgamoṃkāraṃ nāma śobhanam . asya smaraṇamātreṇa mucyate sarvapātakaiḥ .. 32.3..
एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् । सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ३२.४॥
etat parataraṃ jñānaṃ pañcayatanamuttamam . sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam .. 32.4..
अत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ३२.५॥
atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ . ramate bhagavān rudro jantūnāmapavargadaḥ .. 32.5..
यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शक्यते । तदेतद् विमलं लिङ्गमोङ्कारं समवस्थितम् ॥ ३२.६॥
yat tat pāśupataṃ jñānaṃ pañcārthamiti śakyate . tadetad vimalaṃ liṅgamoṅkāraṃ samavasthitam .. 32.6..
शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ३२.७॥
śāntyatītā tathā śāntirvidyā caiva parā kalā . pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram .. 32.7..
पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् । ओंकारबोधतं लिङ्गं पञ्चायतनमुच्यते ॥ ३२.८॥
pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam . oṃkārabodhataṃ liṅgaṃ pañcāyatanamucyate .. 32.8..
संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ३२.९॥
saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam . dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ .. 32.9..
अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ ३२.१॥
atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā . upāsya devamīśānaṃ prāptavantaḥ paraṃ padam .. 32.1..
मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतम शुभम् । गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ३२.११॥
matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatama śubham . gocarmamātraṃ viprendrā oṅkāreśvaramuttamam .. 32.11..
कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारं कपर्दीश्वरमेव च ॥ ३२.१२॥
kṛttivāseśvaraṃ liṅgaṃ madhyameśvaramuttamam . viśveśvaraṃ tathoṃkāraṃ kapardīśvarameva ca .. 32.12..
एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥ ३२.१३॥
etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ . na kaścidiha jānāti vinā śaṃbhoranugrahāt .. 32.13..
एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ ३२.१४॥
evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ . kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ .. 32.14..
समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । कथयामास विप्रेभ्यो भगवान् ब्रह्मवित्तमः ॥ ३२.१५॥
samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ . kathayāmāsa viprebhyo bhagavān brahmavittamaḥ .. 32.15..
अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ॥ ३२.१६॥
asmin sthāne purā daityo hastī bhūtvā bhavāntikam . brāhmaṇān hantumāyāto ye'tra nityamupāsate .. 32.16..
तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः । रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ ३२.१७॥
teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ . rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ .. 32.17..
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ ३२.१८॥
hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ . vasastasyākarot kṛttiṃ kṛttivāseśvarastataḥ .. 32.18..
अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुंगवाः । तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ ३२.१९॥
atra siddhiṃ parāṃ prāptā munayo munipuṃgavāḥ . tenaiva ca śarīreṇa prāptāstat paramaṃ padam .. 32.19..
विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्त्तिताः । कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ ३२.२॥
vidyā vidyeśvarā rudrāḥ śivāye ca prakīrttitāḥ . kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ .. 32.2..
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः । कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ ३२.२१॥
jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ . kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ .. 32.21..
जन्मान्तरसहस्रेण मोक्षोऽन्यत्राप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ ३२.२२॥
janmāntarasahasreṇa mokṣo'nyatrāpyate na vā . ekena janmanā mokṣaḥ kṛttivāse tu labhyate .. 32.22..
आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ ३२.२३॥
ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi . gopitaṃ devadevena mahādevena śaṃbhunā .. 32.23..
युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः । उपासते महादेवं जपन्ति शतरुद्रियम् ॥ ३२.२४॥
yuge yuge hyatra dāntā brāhmaṇā vedapārāgāḥ . upāsate mahādevaṃ japanti śatarudriyam .. 32.24..
स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ ३२.२५॥
stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam . dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam .. 32.25..
गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ ३२.२६॥
gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ . teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ .. 32.26..
संप्राप्य लोके जगतामभीष्टं। सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं। ध्यायन्ति चित्ते यतयो महेशम् ॥ ३२.२७॥
saṃprāpya loke jagatāmabhīṣṭaṃ. sudurlabhaṃ viprakuleṣu janma . dhyāne samādhāya japanti rudraṃ. dhyāyanti citte yatayo maheśam .. 32.27..
आराधयन्ति प्रभुमीशितारं। वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ ३२.२८॥
ārādhayanti prabhumīśitāraṃ. vārāṇasīmadhyagatā munindrāḥ . yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum .. 32.28..
नमो भवायामलयोगधाम्ने। स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ ३२.२९॥
namo bhavāyāmalayogadhāmne. sthāṇuṃ prapadye giriśaṃ purāṇam . smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam .. 32.29..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां द्वात्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ dvātriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In