| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः । जगाम लिङ्गं तद् द्रष्टुं कपर्दीश्वरमव्ययम् ॥ ३३.१॥
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः । जगाम लिङ्गम् तत् द्रष्टुम् कपर्दी ईश्वरम् अव्ययम् ॥ ३३।१॥
samābhāṣya munīn dhīmān devadevasya śūlinaḥ . jagāma liṅgam tat draṣṭum kapardī īśvaram avyayam .. 33.1..
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः । पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ ३३.२॥
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः । पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ ३३।२॥
snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ . piśācamocane tīrthe pūjayāmāsa śūlinam .. 33.2..
तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह । मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ ३३.३॥
तत्र आश्चर्यम् अपश्यन् ते मुनयः गुरुणा सह । मेनिरे क्षेत्र-माहात्म्यम् प्रणेमुः गिरिशम् हरम् ॥ ३३।३॥
tatra āścaryam apaśyan te munayaḥ guruṇā saha . menire kṣetra-māhātmyam praṇemuḥ giriśam haram .. 33.3..
कश्चिदभ्याजगामेमं शार्दूलो घोररूपधृक् । मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् ॥ ३३.४॥
कश्चिद् अभ्याजगाम इमम् शार्दूलः घोर-रूपधृक् । मृगीम् एकाम् भक्षयितुम् कपर्दीश्वरम् उत्तमम् ॥ ३३।४॥
kaścid abhyājagāma imam śārdūlaḥ ghora-rūpadhṛk . mṛgīm ekām bhakṣayitum kapardīśvaram uttamam .. 33.4..
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ ३३.५॥
तत्र सा भीत-हृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सु संभ्रान्ता व्याघ्रस्य वशम् आगता ॥ ३३।५॥
tatra sā bhīta-hṛdayā kṛtvā kṛtvā pradakṣiṇam . dhāvamānā su saṃbhrāntā vyāghrasya vaśam āgatā .. 33.5..
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः । जगाम चान्यद्विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ३३.६॥
ताम् विदार्य नखैः तीक्ष्णैः शार्दूलः सु महा-बलः । जगाम च अन्यत् विजनम् देशम् दृष्ट्वा मुनि-ईश्वरान् ॥ ३३।६॥
tām vidārya nakhaiḥ tīkṣṇaiḥ śārdūlaḥ su mahā-balaḥ . jagāma ca anyat vijanam deśam dṛṣṭvā muni-īśvarān .. 33.6..
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी । अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ ३३.७॥
मृत-मात्रा च सा बाला कपर्दी ईश-अग्रतस् मृगी । अदृश्यत महा-ज्वाला व्योम्नि सूर्य-सम-प्रभा ॥ ३३।७॥
mṛta-mātrā ca sā bālā kapardī īśa-agratas mṛgī . adṛśyata mahā-jvālā vyomni sūrya-sama-prabhā .. 33.7..
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । वृषाधिरूढा पुरुषैस्तादृशैरेव संयता ॥ ३३.८॥
त्रि-नेत्रा नील-कण्ठा च शशाङ्क-अङ्कित-मूर्धजा । वृष-अधिरूढा पुरुषैः तादृशैः एव संयता ॥ ३३।८॥
tri-netrā nīla-kaṇṭhā ca śaśāṅka-aṅkita-mūrdhajā . vṛṣa-adhirūḍhā puruṣaiḥ tādṛśaiḥ eva saṃyatā .. 33.8..
पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि । गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ ३३.९॥
पुष्प-वृष्टिम् खेचराः तस्य मूर्धनि । गणेश्वरः स्वयम् भूत्वा न दृष्टः तद्-क्षणात् ततस् ॥ ३३।९॥
puṣpa-vṛṣṭim khecarāḥ tasya mūrdhani . gaṇeśvaraḥ svayam bhūtvā na dṛṣṭaḥ tad-kṣaṇāt tatas .. 33.9..
दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा तदा । कपर्दीश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ ३३.१॥
दृष्ट्वा एतत् आश्चर्य-वरम् जैमिनि-प्रमुखा तदा । कपर्दीश्वर-माहात्म्यम् पप्रच्छुः गुरुम् अच्युतम् ॥ ३३।१॥
dṛṣṭvā etat āścarya-varam jaimini-pramukhā tadā . kapardīśvara-māhātmyam papracchuḥ gurum acyutam .. 33.1..
तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः । कपर्दीशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ ३३.११॥
तेषाम् प्रोवाच भगवान् देव-अग्रे च उपविश्य सः । कपर्दीशस्य माहात्म्यम् प्रणम्य वृषभध्वजम् ॥ ३३।११॥
teṣām provāca bhagavān deva-agre ca upaviśya saḥ . kapardīśasya māhātmyam praṇamya vṛṣabhadhvajam .. 33.11..
इदं देवस्य तल्लिङ्गं कपर्द्दीश्वरमुत्तमम् । पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ ३३.१२॥
इदम् देवस्य तत् लिङ्गम् कपर्द्दीश्वरम् उत्तमम् । पूजितव्यम् प्रयत्नेन स्तोतव्यम् वैदिकैः स्तवैः ॥ ३३।१२॥
idam devasya tat liṅgam kaparddīśvaram uttamam . pūjitavyam prayatnena stotavyam vaidikaiḥ stavaiḥ .. 33.12..
ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् । जायते योगसिद्धिःश्च षण्मासेन न संशयः ॥ ३३.१३॥
ध्यायताम् अत्र नियतम् योगिनाम् शान्त-चेतसाम् । जायते योग-सिद्धिः च षष्-मासेन न संशयः ॥ ३३।१३॥
dhyāyatām atra niyatam yoginām śānta-cetasām . jāyate yoga-siddhiḥ ca ṣaṣ-māsena na saṃśayaḥ .. 33.13..
ब्रह्महत्यादिपापानि विनश्यन्त्यस्य पूजनात् । पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ ३३.१४॥
ब्रह्महत्या-आदि-पापानि विनश्यन्ति अस्य पूजनात् । पिशाचमोचने कुण्डे स्नातस्य अत्र समीपतस् ॥ ३३।१४॥
brahmahatyā-ādi-pāpāni vinaśyanti asya pūjanāt . piśācamocane kuṇḍe snātasya atra samīpatas .. 33.14..
अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः । शङ्कुकर्ण इति ख्यातः पूजयामास शंकरम् ॥ ३३.१५॥
अस्मिन् क्षेत्रे पुरा विप्राः तपस्वी शंसित-व्रतः । शङ्कुकर्णः इति ख्यातः पूजयामास शंकरम् ॥ ३३।१५॥
asmin kṣetre purā viprāḥ tapasvī śaṃsita-vrataḥ . śaṅkukarṇaḥ iti khyātaḥ pūjayāmāsa śaṃkaram .. 33.15..
जजाप रुद्रमनिशं प्रणवं रुद्ररूपिणम् । पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ॥ ३३.१६॥
जजाप रुद्रम् अनिशम् प्रणवम् रुद्र-रूपिणम् । पुष्प-धूप-आदिभिः स्तोत्रैः नमस्कारैः प्रदक्षिणैः ॥ ३३।१६॥
jajāpa rudram aniśam praṇavam rudra-rūpiṇam . puṣpa-dhūpa-ādibhiḥ stotraiḥ namaskāraiḥ pradakṣiṇaiḥ .. 33.16..
उवाच तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्। कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ॥ ३३.१७॥
उवाच तत्र योग-आत्मा कृत्वा दीक्षाम् तु नैष्ठिकीम्। कदाचिद् आगतम् प्रेतम् पश्यति स्म क्षुधा-अन्वितम् ॥ ३३।१७॥
uvāca tatra yoga-ātmā kṛtvā dīkṣām tu naiṣṭhikīm. kadācid āgatam pretam paśyati sma kṣudhā-anvitam .. 33.17..
अस्थिचर्मपिनद्धाङ्गं निःश्वसन्तं मुहुर्मुहुः । तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः॥ ३३.१८॥
अस्थि-चर्म-पिनद्ध-अङ्गम् निःश्वसन्तम् मुहुर् मुहुर् । तम् दृष्ट्वा स मुनि-श्रेष्ठः कृपया परया युतः॥ ३३।१८॥
asthi-carma-pinaddha-aṅgam niḥśvasantam muhur muhur . tam dṛṣṭvā sa muni-śreṣṭhaḥ kṛpayā parayā yutaḥ.. 33.18..
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंगतः । तस्मै पिशाच क्षुधया पीड्यमानोऽब्रवीद् वचः ॥ ३३.१९॥
प्रोवाच कः भवान् कस्मात् देशात् देशम् इमंगतः । तस्मै पिशाच क्षुधया पीड्यमानः अब्रवीत् वचः ॥ ३३।१९॥
provāca kaḥ bhavān kasmāt deśāt deśam imaṃgataḥ . tasmai piśāca kṣudhayā pīḍyamānaḥ abravīt vacaḥ .. 33.19..
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः । पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ ३३.२॥
पूर्व-जन्मनि अहम् विप्रः धन-धान्य-समन्वितः । पुत्र-पौत्र-आदिभिः युक्तः कुटुम्ब-भरण-उत्सुकः ॥ ३३।२॥
pūrva-janmani aham vipraḥ dhana-dhānya-samanvitaḥ . putra-pautra-ādibhiḥ yuktaḥ kuṭumba-bharaṇa-utsukaḥ .. 33.2..
न पूजिता मया देवा गावोऽप्यतिथयस्तथा । न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ ३३.२१॥
न पूजिताः मया देवाः गावः अपि अतिथयः तथा । न कदाचिद् कृतम् पुण्यम् अल्पम् वा सु अल्पम् एव वा ॥ ३३।२१॥
na pūjitāḥ mayā devāḥ gāvaḥ api atithayaḥ tathā . na kadācid kṛtam puṇyam alpam vā su alpam eva vā .. 33.21..
एकदा भगवान् देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ॥ ३३.२२॥
एकदा भगवान् देवः गोवृष-ईश्वर-वाहनः । विश्वेश्वरः वाराणस्याम् दृष्टः स्पृष्टः नमस्कृतः ॥ ३३।२२॥
ekadā bhagavān devaḥ govṛṣa-īśvara-vāhanaḥ . viśveśvaraḥ vārāṇasyām dṛṣṭaḥ spṛṣṭaḥ namaskṛtaḥ .. 33.22..
तदाऽचिरेण कालेन पञ्चत्वमहमागतः । न दृष्टं तन्महाघोरं यमस्य वदनं मुने ॥ ३३.२३॥
तदा अचिरेण कालेन पञ्चत्वम् अहम् आगतः । न दृष्टम् तत् महा-घोरम् यमस्य वदनम् मुने ॥ ३३।२३॥
tadā acireṇa kālena pañcatvam aham āgataḥ . na dṛṣṭam tat mahā-ghoram yamasya vadanam mune .. 33.23..
ईदृशीं योनिमापन्नः पैशाचीं क्षुधयाऽन्वितः । पिपासयाऽधुनाक्रान्तो न जानामि हिताहितम् ॥ ३३.२४॥
ईदृशीम् योनिम् आपन्नः पैशाचीम् क्षुधया अन्वितः । पिपासया अधुना आक्रान्तः न जानामि हित-अहितम् ॥ ३३।२४॥
īdṛśīm yonim āpannaḥ paiśācīm kṣudhayā anvitaḥ . pipāsayā adhunā ākrāntaḥ na jānāmi hita-ahitam .. 33.24..
यदि कंचित् समुद्धर्तुमुपायं पश्यसि प्रभो । कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ ३३.२५॥
यदि कंचिद् समुद्धर्तुम् उपायम् पश्यसि प्रभो । कुरुष्व तम् नमः तुभ्यम् त्वाम् अहम् शरणम् गतः ॥ ३३।२५॥
yadi kaṃcid samuddhartum upāyam paśyasi prabho . kuruṣva tam namaḥ tubhyam tvām aham śaraṇam gataḥ .. 33.25..
इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् । त्वादृशो न हि लोकेऽस्मिन् विद्यते पुण्यकृत्तमः ॥ ३३.२६॥
इति उक्तः शङ्कुकर्णः अथ पिशाचम् इदम् अब्रवीत् । त्वादृशः न हि लोके अस्मिन् विद्यते पुण्य-कृत्तमः ॥ ३३।२६॥
iti uktaḥ śaṅkukarṇaḥ atha piśācam idam abravīt . tvādṛśaḥ na hi loke asmin vidyate puṇya-kṛttamaḥ .. 33.26..
यत्त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः । संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ॥ ३३.२७॥
यत् त्वया भगवान् पूर्वम् दृष्टः विश्वेश्वरः शिवः । संस्पृष्टः वन्दितः भूयस् कः अन्यः त्वद्-सदृशः भुवि ॥ ३३।२७॥
yat tvayā bhagavān pūrvam dṛṣṭaḥ viśveśvaraḥ śivaḥ . saṃspṛṣṭaḥ vanditaḥ bhūyas kaḥ anyaḥ tvad-sadṛśaḥ bhuvi .. 33.27..
तेन कर्मविपाकेन देशमेतं समागतः । स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ॥ ३३.२८॥
तेन कर्म-विपाकेन देशम् एतम् समागतः । स्नानम् कुरुष्व शीघ्रम् त्वम् अस्मिन् कुण्डे समाहितः ॥ ३३।२८॥
tena karma-vipākena deśam etam samāgataḥ . snānam kuruṣva śīghram tvam asmin kuṇḍe samāhitaḥ .. 33.28..
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ ३३.२९॥
येन इमाम् कुत्सिताम् योनिम् क्षिप्रम् एव प्रहास्यसि ॥ ३३।२९॥
yena imām kutsitām yonim kṣipram eva prahāsyasi .. 33.29..
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोऽवगाहम् ॥ ३३.३॥
सः एवम् उक्तः मुनिना पिशाचः दयालुना देव-वरम् त्रिनेत्रम् । स्मृत्वा कपर्दी ईश्वरम् ईशितारम् चक्रे समाधाय मनः-अवगाहम् ॥ ३३।३॥
saḥ evam uktaḥ muninā piśācaḥ dayālunā deva-varam trinetram . smṛtvā kapardī īśvaram īśitāram cakre samādhāya manaḥ-avagāham .. 33.3..
तदाऽवगाढो मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमे विमाने शशाङ्कचिह्नाङ्कितचारुमौलिः ॥ ३३.३१॥
तदा अवगाढः मुनि-संनिधाने ममार दिव्य-आभरण-उपपन्नः । अदृश्यत अर्क-प्रतिमे विमाने शशाङ्क-चिह्न-अङ्कित-चारु-मौलिः ॥ ३३।३१॥
tadā avagāḍhaḥ muni-saṃnidhāne mamāra divya-ābharaṇa-upapannaḥ . adṛśyata arka-pratime vimāne śaśāṅka-cihna-aṅkita-cāru-mauliḥ .. 33.31..
विभाति रुद्रैरुदितो दिविस्थैः समावृतो योगिभिरप्रमेयैः । सवालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ ३३.३२॥
विभाति रुद्रैः उदितः दिवि-स्थैः समावृतः योगिभिः अप्रमेयैः । स वालखिल्य-आदिभिः एष देवः यथा उदये भानुः अशेष-देवः ॥ ३३।३२॥
vibhāti rudraiḥ uditaḥ divi-sthaiḥ samāvṛtaḥ yogibhiḥ aprameyaiḥ . sa vālakhilya-ādibhiḥ eṣa devaḥ yathā udaye bhānuḥ aśeṣa-devaḥ .. 33.32..
स्तुवन्ति सिद्धा दिवि देवसङ्घा नृत्यन्ति दिव्याप्सरसोऽभिरामाः । मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ ३३.३३॥
स्तुवन्ति सिद्धाः दिवि देव-सङ्घाः नृत्यन्ति दिव्य-अप्सरसः अभिरामाः । मुञ्चन्ति वृष्टिम् कुसुम-अम्बु-मिश्राम् गन्धर्व-विद्याधर-किंनर-आद्याः ॥ ३३।३३॥
stuvanti siddhāḥ divi deva-saṅghāḥ nṛtyanti divya-apsarasaḥ abhirāmāḥ . muñcanti vṛṣṭim kusuma-ambu-miśrām gandharva-vidyādhara-kiṃnara-ādyāḥ .. 33.33..
संस्तूयमानोऽथ मुनीन्द्रसङ्घै- रवाप्य बोधं भगवात्प्रसादात् । समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ ३३.३४॥
संस्तूयमानः अथ मुनि-इन्द्र-सङ्घैः अवाप्य बोधम् भगवात् प्रसादात् । समाविशत् मण्डलम् एतत् अग्र्यम् त्रयी-मयम् यत्र विभाति रुद्रः ॥ ३३।३४॥
saṃstūyamānaḥ atha muni-indra-saṅghaiḥ avāpya bodham bhagavāt prasādāt . samāviśat maṇḍalam etat agryam trayī-mayam yatra vibhāti rudraḥ .. 33.34..
दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिन्त्य रुद्रं कविमेवमग्र्यं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ ३३.३५॥
दृष्ट्वा विमुक्तम् स पिशाच-भूतम् मुनिः प्रहृष्टः मनसा महेशम् । विचिन्त्य रुद्रम् कविम् एवम् अग्र्यम् प्रणम्य तुष्टाव कपर्दिनम् तम् ॥ ३३।३५॥
dṛṣṭvā vimuktam sa piśāca-bhūtam muniḥ prahṛṣṭaḥ manasā maheśam . vicintya rudram kavim evam agryam praṇamya tuṣṭāva kapardinam tam .. 33.35..
शङ्‌कुकर्ण उवाच ।
कपर्दिनं त्वां परतः परस्ताद् गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितार- मादित्यमग्निं कपिलाधिरूढम् ॥ ३३.३६॥
कपर्दिनम् त्वाम् परतस् परस्तात् गोप्तारम् एकम् पुरुषम् पुराणम् । व्रजामि योगेश्वरम् ईशितारम् आदित्यम् अग्निम् कपिला-अधिरूढम् ॥ ३३।३६॥
kapardinam tvām paratas parastāt goptāram ekam puruṣam purāṇam . vrajāmi yogeśvaram īśitāram ādityam agnim kapilā-adhirūḍham .. 33.36..
त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिविस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ ३३.३७॥
त्वाम् ब्रह्मपारम् हृदि सन्निविष्टम् हिरण्मयम् योगिनम् आदिमन्तम् । व्रजामि रुद्रम् शरणम् दिवि-स्थम् महा-मुनिम् ब्रह्म-मयम् पवित्रम् ॥ ३३।३७॥
tvām brahmapāram hṛdi sanniviṣṭam hiraṇmayam yoginam ādimantam . vrajāmi rudram śaraṇam divi-stham mahā-munim brahma-mayam pavitram .. 33.37..
सहस्रपादाक्षिशिरोऽभियुक्तं सहस्रबाहुं तमसः परस्तात् । त्वां ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३३.३८॥
सहस्र-पाद-अक्षि-शिरः-अभियुक्तम् सहस्र-बाहुम् तमसः परस्तात् । त्वाम् ब्रह्मपारम् प्रणमामि शंभुम् हिरण्यगर्भ-अधिपतिम् त्रिनेत्रम् ॥ ३३।३८॥
sahasra-pāda-akṣi-śiraḥ-abhiyuktam sahasra-bāhum tamasaḥ parastāt . tvām brahmapāram praṇamāmi śaṃbhum hiraṇyagarbha-adhipatim trinetram .. 33.38..
यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ३३.३९॥
यतस् प्रसूतिः जगतः विनाशः येन आवृतम् सर्वम् इदम् शिवेन । तम् ब्रह्मपारम् भगवन्तम् ईशम् प्रणम्य नित्यम् शरणम् प्रपद्ये ॥ ३३।३९॥
yatas prasūtiḥ jagataḥ vināśaḥ yena āvṛtam sarvam idam śivena . tam brahmapāram bhagavantam īśam praṇamya nityam śaraṇam prapadye .. 33.39..
अलिङ्गमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमैकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ ३३.४॥
अलिङ्गम् आलोक-विहीन-रूपम् स्वयंप्रभुम् चित्पतिम् ऐकरुद्रम् । तम् ब्रह्मपारम् परमेश्वरम् त्वाम् नमस्करिष्ये न यतस् अन्यत् अस्ति ॥ ३३।४॥
aliṅgam āloka-vihīna-rūpam svayaṃprabhum citpatim aikarudram . tam brahmapāram parameśvaram tvām namaskariṣye na yatas anyat asti .. 33.4..
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः । पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ ३३.४१॥
यम् योगिनः त्यक्त-स बीज-योगाः लब्ध्वा समाधिम् परम-आत्म-भूताः । पश्यन्ति देवम् प्रणतः अस्मि नित्यम् तम् ब्रह्मपारम् भवतः स्व-रूपम् ॥ ३३।४१॥
yam yoginaḥ tyakta-sa bīja-yogāḥ labdhvā samādhim parama-ātma-bhūtāḥ . paśyanti devam praṇataḥ asmi nityam tam brahmapāram bhavataḥ sva-rūpam .. 33.41..
न यत्र नामानिविशेषतृप्ति- र्न संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ ३३.४२॥
न यत्र न संदृशे तिष्ठति यत् स्व-रूपम् । तम् ब्रह्मपारम् प्रणतः अस्मि नित्यम् स्वयंभुवम् त्वाम् शरणम् प्रपद्ये ॥ ३३।४२॥
na yatra na saṃdṛśe tiṣṭhati yat sva-rūpam . tam brahmapāram praṇataḥ asmi nityam svayaṃbhuvam tvām śaraṇam prapadye .. 33.42..
यद् वेदवेदाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं तद्ब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ ३३.४३॥
यत् वेद-वेद-अभिरताः विदेहम् स ब्रह्म-विज्ञानम् अभेदम् एकम् । पश्यन्ति अनेकम् भवतः स्व-रूपम् तत् ब्रह्मपारम् प्रणतः अस्मि नित्यम् ॥ ३३।४३॥
yat veda-veda-abhiratāḥ videham sa brahma-vijñānam abhedam ekam . paśyanti anekam bhavataḥ sva-rūpam tat brahmapāram praṇataḥ asmi nityam .. 33.43..
यतः प्रधानं पुरुषः पुराणो विवर्त्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ३३.४४॥
यतस् प्रधानम् पुरुषः पुराणः विवर्त्तते यम् प्रणमन्ति देवाः । नमामि तम् ज्योतिषि संनिविष्टम् कालम् बृहन्तम् भवतः स्व-रूपम् ॥ ३३।४४॥
yatas pradhānam puruṣaḥ purāṇaḥ vivarttate yam praṇamanti devāḥ . namāmi tam jyotiṣi saṃniviṣṭam kālam bṛhantam bhavataḥ sva-rūpam .. 33.44..
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ ३३.४५॥
व्रजामि नित्यम् शरणम् गुहेशम् स्थाणुम् प्रपद्ये गिरिशम् पुराणम् । शिवम् प्रपद्ये हरम् इन्दुमौलिम् पिनाकिनम् त्वाम् शरणम् व्रजामि ॥ ३३।४५॥
vrajāmi nityam śaraṇam guheśam sthāṇum prapadye giriśam purāṇam . śivam prapadye haram indumaulim pinākinam tvām śaraṇam vrajāmi .. 33.45..
स्तुत्वैवं शङ्कुकर्णोऽसौ भगवन्तं कपर्दिनम् । पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ ३३.४६॥
स्तुत्वा एवम् शङ्कुकर्णः असौ भगवन्तम् कपर्दिनम् । पपात दण्ड-वत् भूमौ प्रोच्चरन् प्रणवम् परम् ॥ ३३।४६॥
stutvā evam śaṅkukarṇaḥ asau bhagavantam kapardinam . papāta daṇḍa-vat bhūmau proccaran praṇavam param .. 33.46..
तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् । ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ ३३.४७॥
तद्-क्षणात् परमम् लिङ्गम् प्रादुर्भूतम् शिव-आत्मकम् । ज्ञानम् आनन्दम् अद्वैतम् कोटि-कालाग्नि-सन्निभम् ॥ ३३।४७॥
tad-kṣaṇāt paramam liṅgam prādurbhūtam śiva-ātmakam . jñānam ānandam advaitam koṭi-kālāgni-sannibham .. 33.47..
शङ्कुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । निनिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ ३३.४८॥
शङ्कुकर्णः अथ मुक्त-आत्मा तद्-आत्मा सर्वगः अमलः । निनिल्ये विमले लिङ्गे तत् भुतम् इव अभवत् ॥ ३३।४८॥
śaṅkukarṇaḥ atha mukta-ātmā tad-ātmā sarvagaḥ amalaḥ . ninilye vimale liṅge tat bhutam iva abhavat .. 33.48..
एतद् रहस्यमाख्यातं माहात्म्यं च कपर्दिनः । न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ३३.४९॥
एतत् रहस्यम् आख्यातम् माहात्म्यम् च कपर्दिनः । न कश्चिद् वेत्ति तमसा विद्वान् अपि अत्र मुह्यति ॥ ३३।४९॥
etat rahasyam ākhyātam māhātmyam ca kapardinaḥ . na kaścid vetti tamasā vidvān api atra muhyati .. 33.49..
य इमां श्रृणुयान्नित्यं कथां पापप्रणाशिनीम् । भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ३३.५॥
यः इमाम् श्रृणुयात् नित्यम् कथाम् पाप-प्रणाशिनीम् । भक्तः पाप-विशुद्ध-आत्मा रुद्र-सामीप्यम् आप्नुयात् ॥ ३३।५॥
yaḥ imām śrṛṇuyāt nityam kathām pāpa-praṇāśinīm . bhaktaḥ pāpa-viśuddha-ātmā rudra-sāmīpyam āpnuyāt .. 33.5..
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ ३३.५१॥
पठेत् च सततम् शुद्धः ब्रह्मपारम् महा-स्तवम् । प्रातर् मध्याह्न-समये स योगम् प्राप्नुयात् परम् ॥ ३३।५१॥
paṭhet ca satatam śuddhaḥ brahmapāram mahā-stavam . prātar madhyāhna-samaye sa yogam prāpnuyāt param .. 33.51..
इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् । द्रक्ष्यामः सततं देवं पूजयामोऽथ शूलिनम् ॥ ३३.५२॥
इह एव नित्यम् वत्स्यामः देवदेवम् कपर्दिनम् । द्रक्ष्यामः सततम् देवम् पूजयामः अथ शूलिनम् ॥ ३३।५२॥
iha eva nityam vatsyāmaḥ devadevam kapardinam . drakṣyāmaḥ satatam devam pūjayāmaḥ atha śūlinam .. 33.52..
इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः । उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ ३३.५३॥
इति उक्त्वा भगवान् व्यासः शिष्यैः सह महा-मुनिः । उवास तत्र युक्त-आत्मा पूजयन् वै कपर्दिनम् ॥ ३३।५३॥
iti uktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahā-muniḥ . uvāsa tatra yukta-ātmā pūjayan vai kapardinam .. 33.53..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रयस्त्रिंशोध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रयस्त्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge trayastriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In