| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
उषित्वा तत्र भगवान् कपर्दीशान्तिके पुनः । ययौ द्रष्टुं मध्यमेशं बहुवर्षगणान् प्रभुः ॥ ३४.१॥
उषित्वा तत्र भगवान् कपर्दीश-अन्तिके पुनर् । ययौ द्रष्टुम् मध्यमेशम् बहु-वर्ष-गणान् प्रभुः ॥ ३४।१॥
uṣitvā tatra bhagavān kapardīśa-antike punar . yayau draṣṭum madhyameśam bahu-varṣa-gaṇān prabhuḥ .. 34.1..
तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् । नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ॥ ३४.१॥
तत्र मन्दाकिनीम् पुण्याम् ऋषि-सङ्ग-निषेविताम् । नदीम् विमल-पानीयाम् दृष्ट्वा हृष्टः अभवत् मुनिः ॥ ३४।१॥
tatra mandākinīm puṇyām ṛṣi-saṅga-niṣevitām . nadīm vimala-pānīyām dṛṣṭvā hṛṣṭaḥ abhavat muniḥ .. 34.1..
स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥ ३४.२॥
स ताम् अन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भाव-पूत-आत्मा स्नानम् स्नान-विधान-विद् ॥ ३४।२॥
sa tām anvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ . cakāra bhāva-pūta-ātmā snānam snāna-vidhāna-vid .. 34.2..
संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा । पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥ ३४.३॥
संतर्प्य विधिवत् देवान् ऋषीन् पितृ-गणान् तथा । पूजयामास लोकादिम् पुष्पैः नानाविधैः भवम् ॥ ३४।३॥
saṃtarpya vidhivat devān ṛṣīn pitṛ-gaṇān tathā . pūjayāmāsa lokādim puṣpaiḥ nānāvidhaiḥ bhavam .. 34.3..
प्रविश्य शिष्यप्रवरैः सार्द्धं सत्यवतीसुतः । मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥ ३४.४॥
प्रविश्य शिष्य-प्रवरैः सार्द्धम् सत्यवती-सुतः । मध्यमेश्वरम् ईशानम् अर्चयामास शूलिनम् ॥ ३४।४॥
praviśya śiṣya-pravaraiḥ sārddham satyavatī-sutaḥ . madhyameśvaram īśānam arcayāmāsa śūlinam .. 34.4..
ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥ ३४.५॥
ततस् पाशुपताः शान्ताः भस्म-उद्धूलित-विग्रहाः । द्रष्टुम् समागताः रुद्रम् मध्यमेश्वरम् ईश्वरम् ॥ ३४।५॥
tatas pāśupatāḥ śāntāḥ bhasma-uddhūlita-vigrahāḥ . draṣṭum samāgatāḥ rudram madhyameśvaram īśvaram .. 34.5..
ओंकारासक्तमनसो वेदाध्ययनतत्पराः । जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥ ३४.६॥
ओंकार-आसक्त-मनसः वेद-अध्ययन-तत्पराः । जटिलाः मुण्डिताः च अपि शुक्ल-यज्ञ-उपवीतिनः ॥ ३४।६॥
oṃkāra-āsakta-manasaḥ veda-adhyayana-tatparāḥ . jaṭilāḥ muṇḍitāḥ ca api śukla-yajña-upavītinaḥ .. 34.6..
कौपीनवसनाः केचिदपरे चाप्यवाससः । ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥ ३४.७॥
कौपीन-वसनाः केचिद् अपरे च अपि अवाससः । ब्रह्मचर्य-रताः शान्ताः वेदान्त-ज्ञान-तत्पराः ॥ ३४।७॥
kaupīna-vasanāḥ kecid apare ca api avāsasaḥ . brahmacarya-ratāḥ śāntāḥ vedānta-jñāna-tatparāḥ .. 34.7..
दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् । पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥ ३४.८॥
दृष्ट्वा द्वैपायनम् विप्राः शिष्यैः परिवृतम् मुनिम् । पूजयित्वा यथान्यायम् इदम् वचनम् अब्रुवन् ॥ ३४।८॥
dṛṣṭvā dvaipāyanam viprāḥ śiṣyaiḥ parivṛtam munim . pūjayitvā yathānyāyam idam vacanam abruvan .. 34.8..
को भवान् कुत आयातः सह शिष्यैर्महामुने । प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥ ३४.९॥
कः भवान् कुतस् आयातः सह शिष्यैः महा-मुने । प्रोचुः पैल-आदयः शिष्याः तान् ऋषीन् ब्रह्म-भावितान् ॥ ३४।९॥
kaḥ bhavān kutas āyātaḥ saha śiṣyaiḥ mahā-mune . procuḥ paila-ādayaḥ śiṣyāḥ tān ṛṣīn brahma-bhāvitān .. 34.9..
अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः । व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ॥ ३४.१॥
अयम् सत्यवती-सूनुः कृष्णद्वैपायनः मुनिः । व्यासः स्वयम् हृषीकेशः येन वेदाः पृथक् कृताः ॥ ३४।१॥
ayam satyavatī-sūnuḥ kṛṣṇadvaipāyanaḥ muniḥ . vyāsaḥ svayam hṛṣīkeśaḥ yena vedāḥ pṛthak kṛtāḥ .. 34.1..
यस्य देवो महादेवः साक्षद्देव पिनाकधृक् । अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ॥ ३४.११॥
यस्य देवः महादेवः साक्षत् देव पिनाकधृक् । अंशांशेन अभवत् पुत्रः नाम्ना शुकः इति प्रभुः ॥ ३४।११॥
yasya devaḥ mahādevaḥ sākṣat deva pinākadhṛk . aṃśāṃśena abhavat putraḥ nāmnā śukaḥ iti prabhuḥ .. 34.11..
यो स साक्षान्महादेवं सर्वभावेन शंकरम् । प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥ ३४.१२॥
स साक्षात् महादेवम् सर्व-भावेन शंकरम् । प्रपन्नः परया भक्त्या यस्य तत् ज्ञानम् ऐश्वरम् ॥ ३४।१२॥
sa sākṣāt mahādevam sarva-bhāvena śaṃkaram . prapannaḥ parayā bhaktyā yasya tat jñānam aiśvaram .. 34.12..
ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः । नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥ ३४.१३॥
ततस् पाशुपताः सर्वे हृष्ट-सर्व-तनूरुहाः । नेमुः अव्यग्र-मनसः प्रोचुः सत्यवती-सुतम् ॥ ३४।१३॥
tatas pāśupatāḥ sarve hṛṣṭa-sarva-tanūruhāḥ . nemuḥ avyagra-manasaḥ procuḥ satyavatī-sutam .. 34.13..
भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः । प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ॥ ३४.१४॥
भगवन् भवता ज्ञातम् विज्ञानम् परमेष्ठिनः । प्रिसादात् देवदेवस्य यत् तत् माहेश्वरम् परम् ॥ ३४।१४॥
bhagavan bhavatā jñātam vijñānam parameṣṭhinaḥ . prisādāt devadevasya yat tat māheśvaram param .. 34.14..
तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् । क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥ ३४.१५॥
तत् वद अस्माकम् अव्यक्तम् रहस्यम् गुह्यम् उत्तमम् । क्षिप्रम् पश्येम तम् देवम् श्रुत्वा भगवतः मुखात् ॥ ३४।१५॥
tat vada asmākam avyaktam rahasyam guhyam uttamam . kṣipram paśyema tam devam śrutvā bhagavataḥ mukhāt .. 34.15..
विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्तदा । प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥ ३४.१६॥
विसर्जयित्वा तान् शिष्यान् सुमन्तु-प्रमुखान् तदा । प्रोवाच तत् परम् ज्ञानम् योगिभ्यः योग-वित्तमः ॥ ३४।१६॥
visarjayitvā tān śiṣyān sumantu-pramukhān tadā . provāca tat param jñānam yogibhyaḥ yoga-vittamaḥ .. 34.16..
तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् । लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥ ३४.१७॥
तद्-क्षणात् एव विमलम् संभूतम् ज्योतिः उत्तमम् । लीनाः तत्र एव ते विप्राः क्षणात् अन्तरधीयत ॥ ३४।१७॥
tad-kṣaṇāt eva vimalam saṃbhūtam jyotiḥ uttamam . līnāḥ tatra eva te viprāḥ kṣaṇāt antaradhīyata .. 34.17..
ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥ ३४.१८॥
ततस् शिष्यान् समाहूय भगवान् ब्रह्म-वित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यम् पैल-पूर्वकान् ॥ ३४।१८॥
tatas śiṣyān samāhūya bhagavān brahma-vittamaḥ . provāca madhyameśasya māhātmyam paila-pūrvakān .. 34.18..
अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः । रमते भगवान् नित्यं रुद्रैश्च परिवारितः ॥ ३४.१९॥
अस्मिन् स्थाने स्वयम् देवः देव्या सह महेश्वरः । रमते भगवान् नित्यम् रुद्रैः च परिवारितः ॥ ३४।१९॥
asmin sthāne svayam devaḥ devyā saha maheśvaraḥ . ramate bhagavān nityam rudraiḥ ca parivāritaḥ .. 34.19..
अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥ ३४.२॥
अत्र पूर्वम् हृषीकेशः विश्वात्मा देवकी-सुतः । उवास वत्सरम् कृष्णः सदा पाशुपतैः वृतः ॥ ३४।२॥
atra pūrvam hṛṣīkeśaḥ viśvātmā devakī-sutaḥ . uvāsa vatsaram kṛṣṇaḥ sadā pāśupataiḥ vṛtaḥ .. 34.2..
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ ३४.२१॥
। आराधयन् हरिः शंभुम् कृत्वा पाशुपतम् व्रतम् ॥ ३४।२१॥
. ārādhayan hariḥ śaṃbhum kṛtvā pāśupatam vratam .. 34.21..
तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ ३४.२२॥
तस्य ते बहवः शिष्याः ब्रह्मचर्य-परायणाः । लब्ध्वा तद्-वचनात् ज्ञानम् दृष्टवन्तः महेश्वरम् ॥ ३४।२२॥
tasya te bahavaḥ śiṣyāḥ brahmacarya-parāyaṇāḥ . labdhvā tad-vacanāt jñānam dṛṣṭavantaḥ maheśvaram .. 34.22..
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः । ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् ॥ ३४.२३॥
तस्य देवः महादेवः प्रत्यक्षम् नीललोहितः । ददौ कृष्णस्य भगवान् वर-दः वरम् उत्तमम् ॥ ३४।२३॥
tasya devaḥ mahādevaḥ pratyakṣam nīlalohitaḥ . dadau kṛṣṇasya bhagavān vara-daḥ varam uttamam .. 34.23..
येऽर्चयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥ ३४.२४॥
ये अर्चयिष्यन्ति गोविन्दम् मद्-भक्ताः विधि-पूर्वकम् । तेषाम् तत् ऐश्वरम् ज्ञानम् उत्पत्स्यति जगत्-मय ॥ ३४।२४॥
ye arcayiṣyanti govindam mad-bhaktāḥ vidhi-pūrvakam . teṣām tat aiśvaram jñānam utpatsyati jagat-maya .. 34.24..
नमस्कार्योऽर्चितव्यश्च ध्यातव्यो मत्परैर्जनैः । भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ॥ ३४.२५॥
नमस्कार्यः अर्चितव्यः च ध्यातव्यः मद्-परैः जनैः । भविष्यसि न संदेहः मद्-प्रसादात् द्विजातिभिः ॥ ३४।२५॥
namaskāryaḥ arcitavyaḥ ca dhyātavyaḥ mad-paraiḥ janaiḥ . bhaviṣyasi na saṃdehaḥ mad-prasādāt dvijātibhiḥ .. 34.25..
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ ३४.२६॥
ये अत्र द्रक्ष्यन्ति देवेशम् स्नात्वा रुद्रम् पिनाकिनम् । ब्रह्महत्या-आदिकम् पापम् तेषाम् आशु विनश्यति ॥ ३४।२६॥
ye atra drakṣyanti deveśam snātvā rudram pinākinam . brahmahatyā-ādikam pāpam teṣām āśu vinaśyati .. 34.26..
प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि । ते यान्ति परमं स्थानं नात्र कार्या विचारणा ॥ ३४.२७॥
प्राणान् त्यजन्ति ये मर्त्याः पाप-कर्म-रताः अपि । ते यान्ति परमम् स्थानम् न अत्र कार्या विचारणा ॥ ३४।२७॥
prāṇān tyajanti ye martyāḥ pāpa-karma-ratāḥ api . te yānti paramam sthānam na atra kāryā vicāraṇā .. 34.27..
धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्चयन्ति महादेवं मध्यमेश्वरमुत्तमम् ॥ ३४.२८॥
धन्याः तु खलु ते विप्राः मन्दाकिन्याम् कृत-उदकाः । अर्चयन्ति महादेवम् मध्यमेश्वरम् उत्तमम् ॥ ३४।२८॥
dhanyāḥ tu khalu te viprāḥ mandākinyām kṛta-udakāḥ . arcayanti mahādevam madhyameśvaram uttamam .. 34.28..
स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह । एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥ ३४.२९॥
स्नानम् दानम् तपः श्राद्धम् पिण्ड-निर्वपणम् तु इह । एकैकशस् कृतम् विप्राः पुनाति आसप्तमम् कुलम् ॥ ३४।२९॥
snānam dānam tapaḥ śrāddham piṇḍa-nirvapaṇam tu iha . ekaikaśas kṛtam viprāḥ punāti āsaptamam kulam .. 34.29..
संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ॥ ३४.३॥
संनिहत्याम् उपस्पृश्य राहु-ग्रस्ते दिवाकरे । यत् फलम् लभते मर्त्यः तस्मात् दशगुणम् तु इह ॥ ३४।३॥
saṃnihatyām upaspṛśya rāhu-graste divākare . yat phalam labhate martyaḥ tasmāt daśaguṇam tu iha .. 34.3..
एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥ ३४.३१॥
एवम् उक्त्वा महा-योगी मध्यमेश-अन्ति के प्रभुः । उवास सु चिरम् कालम् पूजयन् वै महेश्वरम् ॥ ३४।३१॥
evam uktvā mahā-yogī madhyameśa-anti ke prabhuḥ . uvāsa su ciram kālam pūjayan vai maheśvaram .. 34.31..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे चतुस्त्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge catustriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In