| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ ३५.१॥
ततस् सर्वाणि गुह्यानि तीर्थानि आयतनानि च । जगाम भगवान् व्यासः जैमिनि-प्रमुखैः वृतः ॥ ३५।१॥
tatas sarvāṇi guhyāni tīrthāni āyatanāni ca . jagāma bhagavān vyāsaḥ jaimini-pramukhaiḥ vṛtaḥ .. 35.1..
प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् । विश्वरूपं तथा तीर्थं कालतीर्थमनुत्तमम् ॥ ३५.२॥
प्रयागम् परमम् तीर्थम् प्रयागात् अधिकम् शुभम् । विश्वरूपम् तथा तीर्थम् कालतीर्थम् अनुत्तमम् ॥ ३५।२॥
prayāgam paramam tīrtham prayāgāt adhikam śubham . viśvarūpam tathā tīrtham kālatīrtham anuttamam .. 35.2..
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । स्वर्नीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ ३५.३॥
आकाशाख्यम् महा-तीर्थम् तीर्थम् च एव आर्षभम् परम् । स्वर्नीलम् च महा-तीर्थम् गौरीतीर्थम् अनुत्तमम् ॥ ३५।३॥
ākāśākhyam mahā-tīrtham tīrtham ca eva ārṣabham param . svarnīlam ca mahā-tīrtham gaurītīrtham anuttamam .. 35.3..
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तंचर्माख्यं तीर्थमुत्तमम् ॥ ३५.४॥
प्राजापत्यम् तथा तीर्थम् स्वर्गद्वारम् तथा एव च । जम्बुकेश्वरम् इति उक्तम् चर्म-आख्यम् तीर्थम् उत्तमम् ॥ ३५।४॥
prājāpatyam tathā tīrtham svargadvāram tathā eva ca . jambukeśvaram iti uktam carma-ākhyam tīrtham uttamam .. 35.4..
गयातीर्थं महातीर्थं तीर्थं चैव महानदी । नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ ३५.५॥
गया-तीर्थम् महा-तीर्थम् तीर्थम् च एव महानदी । नारायणम् परम् तीर्थम् वायुतीर्थम् अनुत्तमम् ॥ ३५।५॥
gayā-tīrtham mahā-tīrtham tīrtham ca eva mahānadī . nārāyaṇam param tīrtham vāyutīrtham anuttamam .. 35.5..
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ ३५.६॥
ज्ञानतीर्थम् परम् गुह्यम् वाराहम् तीर्थम् उत्तमम् । यमतीर्थम् महा-पुण्यम् तीर्थम् संवर्तकम् शुभम् ॥ ३५।६॥
jñānatīrtham param guhyam vārāham tīrtham uttamam . yamatīrtham mahā-puṇyam tīrtham saṃvartakam śubham .. 35.6..
अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ ३५.७॥
अग्नितीर्थम् द्विजश्रेष्ठाः कलशेश्वरम् उत्तमम् । नागतीर्थम् सोमतीर्थम् सूर्यतीर्थम् तथा एव च ॥ ३५।७॥
agnitīrtham dvijaśreṣṭhāḥ kalaśeśvaram uttamam . nāgatīrtham somatīrtham sūryatīrtham tathā eva ca .. 35.7..
पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ ३५.८॥
पर्वत-आख्यम् महा-गुह्यम् मणिकर्णम् अनुत्तमम् । घटोत्कचम् तीर्थ-वरम् श्रीतीर्थम् च पितामहम् ॥ ३५।८॥
parvata-ākhyam mahā-guhyam maṇikarṇam anuttamam . ghaṭotkacam tīrtha-varam śrītīrtham ca pitāmaham .. 35.8..
गङ्गातीर्थं तु देवेशं तथातत्तीर्थमुत्तमम् । कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ ३५.९॥
गङ्गातीर्थम् तु देवेशम् तथा तत् तीर्थम् उत्तमम् । कापिलम् च एव सोमेशम् ब्रह्मतीर्थम् अनुत्तमम् ॥ ३५।९॥
gaṅgātīrtham tu deveśam tathā tat tīrtham uttamam . kāpilam ca eva someśam brahmatīrtham anuttamam .. 35.9..
(यत्र लिङ्गं पुरानीयं ब्रह्मा स्नातुं यदा गतः । तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ ३५.१॥
(यत्र लिङ्गम् पुरा आनीयम् ब्रह्मा स्नातुम् यदा गतः । तदानीम् स्थापयामास विष्णुः तत् लिङ्गम् ऐश्वरम् ॥ ३५।१॥
(yatra liṅgam purā ānīyam brahmā snātum yadā gataḥ . tadānīm sthāpayāmāsa viṣṇuḥ tat liṅgam aiśvaram .. 35.1..
ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् । मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥ ३५.११॥
ततस् स्नात्वा समागत्य ब्रह्मा प्रोवाच तम् हरिम् । मया आनीतम् इदम् लिङ्गम् कस्मात् स्थापितवान् असि ॥ ३५।११॥
tatas snātvā samāgatya brahmā provāca tam harim . mayā ānītam idam liṅgam kasmāt sthāpitavān asi .. 35.11..
तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा यतः । तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति )॥ ३५.१२॥
तम् आह विष्णुः त्वत्तः अपि रुद्रे भक्तिः दृढा यतस् । तस्मात् प्रतिष्ठितम् लिङ्गम् नाम्ना तव भविष्यति॥ ३५।१२॥
tam āha viṣṇuḥ tvattaḥ api rudre bhaktiḥ dṛḍhā yatas . tasmāt pratiṣṭhitam liṅgam nāmnā tava bhaviṣyati.. 35.12..
भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ ३५.१३॥
भूतेश्वरम् तथा तीर्थम् तीर्थम् धर्म-समुद्भवम् । गन्धर्वतीर्थम् परमम् वाह्नेयम् तीर्थम् उत्तमम् ॥ ३५।१३॥
bhūteśvaram tathā tīrtham tīrtham dharma-samudbhavam . gandharvatīrtham paramam vāhneyam tīrtham uttamam .. 35.13..
दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः । चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ ३५.१४॥
दौर्वासिकम् व्योमतीर्थम् चन्द्रतीर्थम् द्विजोत्तमाः । चित्राङ्गदेश्वरम् पुण्यम् पुण्यम् विद्याधरेश्वरम् ॥ ३५।१४॥
daurvāsikam vyomatīrtham candratīrtham dvijottamāḥ . citrāṅgadeśvaram puṇyam puṇyam vidyādhareśvaram .. 35.14..
केदारंतीर्थमुख्याख्यं कालञ्जरमनुत्तमम् । सारस्वतं प्रभासं च भद्रकर्णं हरं शुभम् ॥ ३५.१५॥
केदारम् तीर्थ-मुख्य-आख्यम् कालञ्जरम् अनुत्तमम् । सारस्वतम् प्रभासम् च भद्रकर्णम् हरम् शुभम् ॥ ३५।१५॥
kedāram tīrtha-mukhya-ākhyam kālañjaram anuttamam . sārasvatam prabhāsam ca bhadrakarṇam haram śubham .. 35.15..
लौकिकाख्यं महातीर्थं तीर्थं चैव हिमालयम् । हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ ३५.१६॥
लौकिक-आख्यम् महा-तीर्थम् तीर्थम् च एव हिमालयम् । हिरण्यगर्भम् गोप्रेक्ष्यम् तीर्थम् च एव वृषध्वजम् ॥ ३५।१६॥
laukika-ākhyam mahā-tīrtham tīrtham ca eva himālayam . hiraṇyagarbham goprekṣyam tīrtham ca eva vṛṣadhvajam .. 35.16..
उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ ३५.१७॥
उपशान्तम् शिवम् च एव व्याघ्रेश्वरम् अनुत्तमम् । त्रिलोचनम् महा-तीर्थम् लोलार्कम् च उत्तर-आह्वयम् ॥ ३५।१७॥
upaśāntam śivam ca eva vyāghreśvaram anuttamam . trilocanam mahā-tīrtham lolārkam ca uttara-āhvayam .. 35.17..
कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ ३५.१८॥
कपालमोचनम् तीर्थम् ब्रह्महत्या-विनाशनम् । शुक्रेश्वरम् महा-पुण्यम् आनन्दपुरम् उत्तमम् ॥ ३५।१८॥
kapālamocanam tīrtham brahmahatyā-vināśanam . śukreśvaram mahā-puṇyam ānandapuram uttamam .. 35.18..
एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु । न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः ॥ ३५.१९॥
एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु । न शक्यम् विस्तरात् वक्तुम् तीर्थ-संख्याः द्विजात्तमाः ॥ ३५।१९॥
evamādīni tīrthāni prādhānyāt kathitāni tu . na śakyam vistarāt vaktum tīrtha-saṃkhyāḥ dvijāttamāḥ .. 35.19..
तेषु सर्वेषु तीर्थेषु स्नात्वाऽभ्यर्च्य पिनाकिनम् । उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ ३५.२॥
तेषु सर्वेषु तीर्थेषु स्नात्वा अभ्यर्च्य पिनाकिनम् । उपोष्य तत्र तत्र असौ पाराशर्यः महा-मुनिः ॥ ३५।२॥
teṣu sarveṣu tīrtheṣu snātvā abhyarcya pinākinam . upoṣya tatra tatra asau pārāśaryaḥ mahā-muniḥ .. 35.2..
तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् । जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ ३५.२१॥
तर्पयित्वा पितॄन् देवान् कृत्वा पिण्ड-प्रिदानकम् । जगाम पुनर् एव अपि यत्र विश्वेश्वरः शिवः ॥ ३५।२१॥
tarpayitvā pitṝn devān kṛtvā piṇḍa-pridānakam . jagāma punar eva api yatra viśveśvaraḥ śivaḥ .. 35.21..
स्नात्वाऽभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः । उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥ ३५.२२॥
स्नात्वा अभ्यर्च्य परम् लिङ्गम् शिष्यैः सह महा-मुनिः । उवाच शिष्यान् धर्म-आत्मा स्वान् देशान् गन्तुम् अर्हथा ॥ ३५।२२॥
snātvā abhyarcya param liṅgam śiṣyaiḥ saha mahā-muniḥ . uvāca śiṣyān dharma-ātmā svān deśān gantum arhathā .. 35.22..
ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः । वासं च तत्र नियतो वाराणस्यां चकार सः ॥ ३५.२३॥
ते प्रणम्य महात्मानम् जग्मुः पैल-आदयः द्विजाः । वासम् च तत्र नियतः वाराणस्याम् चकार सः ॥ ३५।२३॥
te praṇamya mahātmānam jagmuḥ paila-ādayaḥ dvijāḥ . vāsam ca tatra niyataḥ vārāṇasyām cakāra saḥ .. 35.23..
शान्तो दान्तस्त्रिषवणंस्नात्वाऽभ्यर्च्य पिनाकिनम् । भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ ३५.२४॥
शान्तः दान्तः त्रिषवणम् स्नात्वा अभ्यर्च्य पिनाकिनम् । भैक्ष-आहारः विशुद्ध-आत्मा ब्रह्मचर्य-परायणः ॥ ३५।२४॥
śāntaḥ dāntaḥ triṣavaṇam snātvā abhyarcya pinākinam . bhaikṣa-āhāraḥ viśuddha-ātmā brahmacarya-parāyaṇaḥ .. 35.24..
कदाचिद् वसता तत्र व्यासेनामिततेजसा । भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ ३५.२५॥
कदाचिद् वसता तत्र व्यासेन अमित-तेजसा । भ्रममाणेन भिक्षा तु ना एव लब्धा द्विजोत्तमाः ॥ ३५।२५॥
kadācid vasatā tatra vyāsena amita-tejasā . bhramamāṇena bhikṣā tu nā eva labdhā dvijottamāḥ .. 35.25..
ततः क्रोधावृततनुर्नराणामिह वासिनाम् । विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ ३५.२६॥
ततस् क्रोध-आवृत-तनुः नराणाम् इह वासिनाम् । विघ्नम् सृजामि सर्वेषाम् येन सिद्धिः विहीयते ॥ ३५।२६॥
tatas krodha-āvṛta-tanuḥ narāṇām iha vāsinām . vighnam sṛjāmi sarveṣām yena siddhiḥ vihīyate .. 35.26..
तत्क्षणात्सा महादेवी शंकरार्द्धशरीरिणी । प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ ३५.२७॥
तद्-क्षणात् सा महादेवी शंकर-अर्द्ध-शरीरिणी । प्रादुरासीत् स्वयम् प्रीत्या वेषम् कृत्वा तु मानुषम् ॥ ३५।२७॥
tad-kṣaṇāt sā mahādevī śaṃkara-arddha-śarīriṇī . prādurāsīt svayam prītyā veṣam kṛtvā tu mānuṣam .. 35.27..
भो भो व्यास महाबुद्धे शप्तव्या भवता न हि । गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ ३५.२८॥
भो भो व्यास महाबुद्धे शप्तव्याः भवता न हि । गृहाण भिक्षाम् मत्तः त्वम् उक्त्वा एवम् प्रददौ शिवा ॥ ३५।२८॥
bho bho vyāsa mahābuddhe śaptavyāḥ bhavatā na hi . gṛhāṇa bhikṣām mattaḥ tvam uktvā evam pradadau śivā .. 35.28..
उवाच च महादेवी क्रोधनस्त्वं भवान् यतः । इह क्षेत्रे न वस्तव्यं कृतघ्नोऽसि यतः सदा ॥ ३५.२९॥
उवाच च महादेवी क्रोधनः त्वम् भवान् यतस् । इह क्षेत्रे न वस्तव्यम् कृतघ्नः असि यतस् सदा ॥ ३५।२९॥
uvāca ca mahādevī krodhanaḥ tvam bhavān yatas . iha kṣetre na vastavyam kṛtaghnaḥ asi yatas sadā .. 35.29..
एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् । उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ ३५.३॥
एवम् उक्तः स भगवान् ध्यानात् ज्ञात्वा पराम् शिवाम् । उवाच प्रणतः भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ ३५।३॥
evam uktaḥ sa bhagavān dhyānāt jñātvā parām śivām . uvāca praṇataḥ bhūtvā stutvā ca pravaraiḥ stavaiḥ .. 35.3..
चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शांकरि । एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ ३५.३१॥
चतुर्दश्याम् अथ अष्टम्याम् प्रवेशम् देहि शांकरि । एवम् अस्तु इति अनुज्ञाय देवी च अन्तरधीयत ॥ ३५।३१॥
caturdaśyām atha aṣṭamyām praveśam dehi śāṃkari . evam astu iti anujñāya devī ca antaradhīyata .. 35.31..
एवं स भगवान् व्यासो महायोगी पुरातनः । ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ ३५.३२॥
एवम् स भगवान् व्यासः महा-योगी पुरातनः । ज्ञात्वा क्षेत्र-गुणान् सर्वान् स्थितः तस्य अथ पार्श्वतस् ॥ ३५।३२॥
evam sa bhagavān vyāsaḥ mahā-yogī purātanaḥ . jñātvā kṣetra-guṇān sarvān sthitaḥ tasya atha pārśvatas .. 35.32..
एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३५.३३॥
एवम् व्यासम् स्थितम् ज्ञात्वा क्षेत्रम् सेवन्ति पण्डिताः । तस्मात् सर्व-प्रयत्नेन वाराणस्याम् वसेत् नरः ॥ ३५।३३॥
evam vyāsam sthitam jñātvā kṣetram sevanti paṇḍitāḥ . tasmāt sarva-prayatnena vārāṇasyām vaset naraḥ .. 35.33..
सूत उवाच ।
यः पठेदविमुक्तस्य माहात्म्यं श्रृणुयादपि । श्रावयेद् वा द्विजान् शान्तान् सोऽपियातिपरांगतिम् ॥ ३५.३४॥
यः पठेत् अविमुक्तस्य माहात्म्यम् श्रृणुयात् अपि । श्रावयेत् वा द्विजान् शान्तान् सः अपि याति पराम् गतिम् ॥ ३५।३४॥
yaḥ paṭhet avimuktasya māhātmyam śrṛṇuyāt api . śrāvayet vā dvijān śāntān saḥ api yāti parām gatim .. 35.34..
श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः । नदीनां चैव तीरेषु देवतायतनेषु च ॥ ३५.३५॥
श्राद्धे वा दैविके कार्ये रात्रौ अहनि वा द्विजाः । नदीनाम् च एव तीरेषु देवतायतनेषु च ॥ ३५।३५॥
śrāddhe vā daivike kārye rātrau ahani vā dvijāḥ . nadīnām ca eva tīreṣu devatāyataneṣu ca .. 35.35..
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ ३५.३६॥
स्नात्वा समाहित-मनाः दम्भ-मात्सर्य-वर्जितः । जपेत् ईशम् नमस्कृत्य स याति परमाम् गतिम् ॥ ३५।३६॥
snātvā samāhita-manāḥ dambha-mātsarya-varjitaḥ . japet īśam namaskṛtya sa yāti paramām gatim .. 35.36..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्त्रिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे पञ्चत्त्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge pañcattriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In