| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ ३५.१॥
tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca . jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ .. 35.1..
प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् । विश्वरूपं तथा तीर्थं कालतीर्थमनुत्तमम् ॥ ३५.२॥
prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham . viśvarūpaṃ tathā tīrthaṃ kālatīrthamanuttamam .. 35.2..
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । स्वर्नीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ ३५.३॥
ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param . svarnīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam .. 35.3..
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तंचर्माख्यं तीर्थमुत्तमम् ॥ ३५.४॥
prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca . jambukeśvaramityuktaṃcarmākhyaṃ tīrthamuttamam .. 35.4..
गयातीर्थं महातीर्थं तीर्थं चैव महानदी । नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ ३५.५॥
gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī . nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam .. 35.5..
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ ३५.६॥
jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam . yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham .. 35.6..
अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ ३५.७॥
agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam . nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca .. 35.7..
पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ ३५.८॥
parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam . ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham .. 35.8..
गङ्गातीर्थं तु देवेशं तथातत्तीर्थमुत्तमम् । कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ ३५.९॥
gaṅgātīrthaṃ tu deveśaṃ tathātattīrthamuttamam . kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam .. 35.9..
(यत्र लिङ्गं पुरानीयं ब्रह्मा स्नातुं यदा गतः । तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ ३५.१॥
(yatra liṅgaṃ purānīyaṃ brahmā snātuṃ yadā gataḥ . tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram .. 35.1..
ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् । मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥ ३५.११॥
tataḥ snātvā samāgatya brahmā provāca taṃ harim . mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi .. 35.11..
तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा यतः । तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति )॥ ३५.१२॥
tamāha viṣṇustvatto'pi rudre bhaktirdṛḍhā yataḥ . tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati ).. 35.12..
भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ ३५.१३॥
bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam . gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam .. 35.13..
दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः । चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ ३५.१४॥
daurvāsikaṃ vyomatīrthaṃ candratīrthaṃ dvijottamāḥ . citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram .. 35.14..
केदारंतीर्थमुख्याख्यं कालञ्जरमनुत्तमम् । सारस्वतं प्रभासं च भद्रकर्णं हरं शुभम् ॥ ३५.१५॥
kedāraṃtīrthamukhyākhyaṃ kālañjaramanuttamam . sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ haraṃ śubham .. 35.15..
लौकिकाख्यं महातीर्थं तीर्थं चैव हिमालयम् । हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ ३५.१६॥
laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva himālayam . hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam .. 35.16..
उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ ३५.१७॥
upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam . trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam .. 35.17..
कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ ३५.१८॥
kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam . śukreśvaraṃ mahāpuṇyamānandapuramuttamam .. 35.18..
एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु । न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः ॥ ३५.१९॥
evamādīni tīrthāni prādhānyāt kathitāni tu . na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijāttamāḥ .. 35.19..
तेषु सर्वेषु तीर्थेषु स्नात्वाऽभ्यर्च्य पिनाकिनम् । उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ ३५.२॥
teṣu sarveṣu tīrtheṣu snātvā'bhyarcya pinākinam . upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ .. 35.2..
तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् । जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ ३५.२१॥
tarpayitvā pitṝn devān kṛtvā piṇḍapridānakam . jagāma punarevāpi yatra viśveśvaraḥ śivaḥ .. 35.21..
स्नात्वाऽभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः । उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥ ३५.२२॥
snātvā'bhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ . uvāca śiṣyān dharmātmā svān deśān gantumarhathā .. 35.22..
ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः । वासं च तत्र नियतो वाराणस्यां चकार सः ॥ ३५.२३॥
te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ . vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ .. 35.23..
शान्तो दान्तस्त्रिषवणंस्नात्वाऽभ्यर्च्य पिनाकिनम् । भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ ३५.२४॥
śānto dāntastriṣavaṇaṃsnātvā'bhyarcya pinākinam . bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ .. 35.24..
कदाचिद् वसता तत्र व्यासेनामिततेजसा । भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ ३५.२५॥
kadācid vasatā tatra vyāsenāmitatejasā . bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ .. 35.25..
ततः क्रोधावृततनुर्नराणामिह वासिनाम् । विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ ३५.२६॥
tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām . vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate .. 35.26..
तत्क्षणात्सा महादेवी शंकरार्द्धशरीरिणी । प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ ३५.२७॥
tatkṣaṇātsā mahādevī śaṃkarārddhaśarīriṇī . prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam .. 35.27..
भो भो व्यास महाबुद्धे शप्तव्या भवता न हि । गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ ३५.२८॥
bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi . gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā .. 35.28..
उवाच च महादेवी क्रोधनस्त्वं भवान् यतः । इह क्षेत्रे न वस्तव्यं कृतघ्नोऽसि यतः सदा ॥ ३५.२९॥
uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ . iha kṣetre na vastavyaṃ kṛtaghno'si yataḥ sadā .. 35.29..
एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् । उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ ३५.३॥
evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām . uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ .. 35.3..
चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शांकरि । एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ ३५.३१॥
caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṃkari . evamastvityanujñāya devī cāntaradhīyata .. 35.31..
एवं स भगवान् व्यासो महायोगी पुरातनः । ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ ३५.३२॥
evaṃ sa bhagavān vyāso mahāyogī purātanaḥ . jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ .. 35.32..
एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३५.३३॥
evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ . tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ .. 35.33..
सूत उवाच ।
यः पठेदविमुक्तस्य माहात्म्यं श्रृणुयादपि । श्रावयेद् वा द्विजान् शान्तान् सोऽपियातिपरांगतिम् ॥ ३५.३४॥
yaḥ paṭhedavimuktasya māhātmyaṃ śrṛṇuyādapi . śrāvayed vā dvijān śāntān so'piyātiparāṃgatim .. 35.34..
श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः । नदीनां चैव तीरेषु देवतायतनेषु च ॥ ३५.३५॥
śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ . nadīnāṃ caiva tīreṣu devatāyataneṣu ca .. 35.35..
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ ३५.३६॥
snātvā samāhitamanā dambhamātsaryavarjitaḥ . japedīśaṃ namaskṛtya sa yāti paramāṃ gatim .. 35.36..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcattriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In