| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् । इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ ३६.१॥
माहात्म्यम् अविमुक्तस्य यथावत् तत् उदीरितम् । इदानीम् तु प्रयागस्य माहात्म्यम् ब्रूहि सुव्रत ॥ ३६।१॥
māhātmyam avimuktasya yathāvat tat udīritam . idānīm tu prayāgasya māhātmyam brūhi suvrata .. 36.1..
यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै । इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥ ३६.२॥
यानि तीर्थानि तत्र एव विश्रुतानि महान्ति वै । इदानीम् कथय अस्माकम् सूत सर्व-अर्थ-विद् भवान् ॥ ३६।२॥
yāni tīrthāni tatra eva viśrutāni mahānti vai . idānīm kathaya asmākam sūta sarva-artha-vid bhavān .. 36.2..
सूत उवाच ।
श्रृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ ३६.३॥
श्रृणुध्वम् ऋषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यम् यत्र देवः पितामहः ॥ ३६।३॥
śrṛṇudhvam ṛṣayaḥ sarve vistareṇa bravīmi vaḥ . prayāgasya ca māhātmyam yatra devaḥ pitāmahaḥ .. 36.3..
मार्कण्डेयेन कथितं कौन्तेयाय महात्मने । यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥ ३६.४॥
मार्कण्डेयेन कथितम् कौन्तेयाय महात्मने । यथा युधिष्ठिराय एतत् तत् वक्ष्ये भवताम् अहम् ॥ ३६।४॥
mārkaṇḍeyena kathitam kaunteyāya mahātmane . yathā yudhiṣṭhirāya etat tat vakṣye bhavatām aham .. 36.4..
निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ ३६.५॥
निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन मुमोह स युधिष्ठिरः ॥ ३६।५॥
nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ . śokena mumoha sa yudhiṣṭhiraḥ .. 36.5..
अचिरेणाथ कालेन मार्कण्डेयो महातपाः । संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ ३६.६॥
अचिरेण अथ कालेन मार्कण्डेयः महा-तपाः । संप्राप्तः हास्तिनपुरम् राजद्वारे स तिष्ठति ॥ ३६।६॥
acireṇa atha kālena mārkaṇḍeyaḥ mahā-tapāḥ . saṃprāptaḥ hāstinapuram rājadvāre sa tiṣṭhati .. 36.6..
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ ३६.७॥
द्वारपालः अपि तम् दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयः द्रष्टुम् इच्छन् त्वाम् आस्ते द्वारि असौ मुनिः ॥ ३६।७॥
dvārapālaḥ api tam dṛṣṭvā rājñaḥ kathitavān drutam . mārkaṇḍeyaḥ draṣṭum icchan tvām āste dvāri asau muniḥ .. 36.7..
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् । द्वारमभ्यागतस्येह स्वागतं ते महामुने ॥ ३६.८॥
त्वरितः धर्मपुत्रः तु द्वारम् एत्य आह तत्परम् । द्वारम् अभ्यागतस्य इह स्वागतम् ते महा-मुने ॥ ३६।८॥
tvaritaḥ dharmaputraḥ tu dvāram etya āha tatparam . dvāram abhyāgatasya iha svāgatam te mahā-mune .. 36.8..
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ ३६.९॥
अद्य मे सफलम् जन्म अद्य मे तारितम् कुलम् । अद्य मे पितरः तुष्टाः त्वयि तुष्टे महा-मुने ॥ ३६।९॥
adya me saphalam janma adya me tāritam kulam . adya me pitaraḥ tuṣṭāḥ tvayi tuṣṭe mahā-mune .. 36.9..
सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ ३४.१॥
सिंहासनम् उपस्थाप्य पाद-शौच-अर्चन-आदिभिः । युधिष्ठिरः महात्मा इति पूजयामास तम् मुनिम् ॥ ३४।१॥
siṃhāsanam upasthāpya pāda-śauca-arcana-ādibhiḥ . yudhiṣṭhiraḥ mahātmā iti pūjayāmāsa tam munim .. 34.1..
मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाऽहमागतः ॥ ३४.११॥
मार्कण्डेयः ततस् तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थम् मुह्यसे विद्वन् सर्वम् ज्ञात्वा अहम् आगतः ॥ ३४।११॥
mārkaṇḍeyaḥ tatas tuṣṭaḥ provāca sa yudhiṣṭhiram . kimartham muhyase vidvan sarvam jñātvā aham āgataḥ .. 34.11..
ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् । कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ ३४.१२॥
ततस् युधिष्ठिरः राजा प्रणम्य आह महा-मुनिम् । कथय त्वम् समासेन येन मुच्येत किल्बिषैः ॥ ३४।१२॥
tatas yudhiṣṭhiraḥ rājā praṇamya āha mahā-munim . kathaya tvam samāsena yena mucyeta kilbiṣaiḥ .. 34.12..
निहता वहवो युद्धे पुंसो निरपराधिनः । अस्माभिः कौरवैः सार्द्धं प्रसङ्गान्मुनिपुंगव ॥ ३४.१३॥
निहताः वहवः युद्धे पुंसः निरपराधिनः । अस्माभिः कौरवैः सार्द्धम् प्रसङ्गात् मुनि-पुंगव ॥ ३४।१३॥
nihatāḥ vahavaḥ yuddhe puṃsaḥ niraparādhinaḥ . asmābhiḥ kauravaiḥ sārddham prasaṅgāt muni-puṃgava .. 34.13..
येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि । मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥ ३४.१४॥
येन हिंसा-समुद्भूतात् जन्म-अन्तर-कृतात् अपि । मुच्यते पातकात् अस्मात् तत् भवान् वक्तुम् अर्हति ॥ ३४।१४॥
yena hiṃsā-samudbhūtāt janma-antara-kṛtāt api . mucyate pātakāt asmāt tat bhavān vaktum arhati .. 34.14..
मार्कण्डेय उवाच ।
श्रृणु राजन् महाभाग यन्मां पृच्छसि भारत् । प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ ३४.१५॥
श्रृणु राजन् महाभाग यत् माम् पृच्छसि भारत् । प्रयाग-गमनम् श्रेष्ठम् नराणाम् पाप-नाशनम् ॥ ३४।१५॥
śrṛṇu rājan mahābhāga yat mām pṛcchasi bhārat . prayāga-gamanam śreṣṭham narāṇām pāpa-nāśanam .. 34.15..
तत्र देवो महादेवो रुद्रो रुद्रोवात्सीन्नरेश्वर । समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवतैः ॥ ३४.१६॥
तत्र देवः महादेवः रुद्रः रुद्रः ऊवात्सीत् नरेश्वर । समास्ते भगवान् ब्रह्मा स्वयंभूः अपि दैवतैः ॥ ३४।१६॥
tatra devaḥ mahādevaḥ rudraḥ rudraḥ ūvātsīt nareśvara . samāste bhagavān brahmā svayaṃbhūḥ api daivataiḥ .. 34.16..
युधिष्ठिर उवाच ।
भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ ३४.१७॥
भगवन् श्रोतुम् इच्छामि प्रयाग-गमने फलम् । मृतानाम् का गतिः तत्र स्नातानाम् अपि किम् फलम् ॥ ३४।१७॥
bhagavan śrotum icchāmi prayāga-gamane phalam . mṛtānām kā gatiḥ tatra snātānām api kim phalam .. 34.17..
ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् । भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥ ३४.१८॥
ये वसन्ति प्रयागे तु ब्रूहि तेषाम् तु किम् फलम् । भवता विदितम् हि एतत् तत् मे ब्रूहि नमः अस्तु ते ॥ ३४।१८॥
ye vasanti prayāge tu brūhi teṣām tu kim phalam . bhavatā viditam hi etat tat me brūhi namaḥ astu te .. 34.18..
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् । पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ ३४.१९॥
कथयिष्यामि ते वत्स या चेष्टा यत् च तद्-फलम् । पुरा महा-ऋषिभिः सम्यक् कथ्यमानम् मया श्रुतम् ॥ ३४।१९॥
kathayiṣyāmi te vatsa yā ceṣṭā yat ca tad-phalam . purā mahā-ṛṣibhiḥ samyak kathyamānam mayā śrutam .. 34.19..
एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३४.२॥
एतत् प्रजापतेः क्षेत्रम् त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवम् यान्ति ये मृताः ते अपुनर्भवाः ॥ ३४।२॥
etat prajāpateḥ kṣetram triṣu lokeṣu viśrutam . atra snātvā divam yānti ye mṛtāḥ te apunarbhavāḥ .. 34.2..
तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ ३४.२१॥
तत्र ब्रह्म-आदयः देवाः रक्षाम् कुर्वन्ति संगताः । बहूनि अन्यानि तीर्थानि सर्व-पाप-अपहानि तु ॥ ३४।२१॥
tatra brahma-ādayaḥ devāḥ rakṣām kurvanti saṃgatāḥ . bahūni anyāni tīrthāni sarva-pāpa-apahāni tu .. 34.21..
कथितुं नेह शक्नोमि बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ ३४.२२॥
कथितुम् ना इह शक्नोमि बहु-वर्ष-शतैः अपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य इह कीर्तनम् ॥ ३४।२२॥
kathitum nā iha śaknomi bahu-varṣa-śataiḥ api . saṃkṣepeṇa pravakṣyāmi prayāgasya iha kīrtanam .. 34.22..
षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ ३४.२३॥
षष्टिः धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनाम् रक्षति सदा सविता सप्त-वाहनः ॥ ३४।२३॥
ṣaṣṭiḥ dhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm . yamunām rakṣati sadā savitā sapta-vāhanaḥ .. 34.23..
प्रयागे तु विशेषेण स्वयं वसति वासवः । मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ ३४.२४॥
प्रयागे तु विशेषेण स्वयम् वसति वासवः । मण्डलम् रक्षति हरिः सर्व-देवैः च सम्मितम् ॥ ३४।२४॥
prayāge tu viśeṣeṇa svayam vasati vāsavaḥ . maṇḍalam rakṣati hariḥ sarva-devaiḥ ca sammitam .. 34.24..
न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ ३४.२५॥
न्यग्रोधम् रक्षते नित्यम् शूलपाणिः महेश्वरः । स्थानम् रक्षन्ति वै देवाः सर्व-पाप-हरम् शुभम् ॥ ३४।२५॥
nyagrodham rakṣate nityam śūlapāṇiḥ maheśvaraḥ . sthānam rakṣanti vai devāḥ sarva-pāpa-haram śubham .. 34.25..
स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ॥ ३६.२६॥
स्व-कर्मणा आवृतः लोकः ना एव गच्छति तत् पदम् । स्वल्पम् स्वल्पतरम् पापम् यदा तस्य नराधिप ॥ ३६।२६॥
sva-karmaṇā āvṛtaḥ lokaḥ nā eva gacchati tat padam . svalpam svalpataram pāpam yadā tasya narādhipa .. 36.26..
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् । दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि॥ ३६.२७॥
प्रयागम् स्मरमाणस्य सर्वम् आयाति संक्षयम् । दर्शनात् तस्य तीर्थस्य नाम संकीर्तनात् अपि॥ ३६।२७॥
prayāgam smaramāṇasya sarvam āyāti saṃkṣayam . darśanāt tasya tīrthasya nāma saṃkīrtanāt api.. 36.27..
मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते । पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी॥ ३६.२८॥
मृत्तिका-आलम्भनात् वा अपि नरः पापात् प्रमुच्यते । पञ्च कुण्डानि राज-इन्द्र येषाम् मध्ये तु जाह्नवी॥ ३६।२८॥
mṛttikā-ālambhanāt vā api naraḥ pāpāt pramucyate . pañca kuṇḍāni rāja-indra yeṣām madhye tu jāhnavī.. 36.28..
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् । योजनानां सहस्रेषु गङ्गां यः स्मरते नरः॥ ३६.२९॥
प्रयागम् विशतः पुंसः पापम् नश्यति तद्-क्षणात् । योजनानाम् सहस्रेषु गङ्गाम् यः स्मरते नरः॥ ३६।२९॥
prayāgam viśataḥ puṃsaḥ pāpam naśyati tad-kṣaṇāt . yojanānām sahasreṣu gaṅgām yaḥ smarate naraḥ.. 36.29..
अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् । कीर्त्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ॥ ३६.३॥
अपि दुष्कृत-कर्मा असौ लभते परमाम् गतिम् । कीर्त्तनात् मुच्यते पापात् दृष्ट्वा भद्राणि पश्यति ॥ ३६।३॥
api duṣkṛta-karmā asau labhate paramām gatim . kīrttanāt mucyate pāpāt dṛṣṭvā bhadrāṇi paśyati .. 36.3..
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते । व्याधितो यदि वा दीनः क्रूद्धो वाऽपि भवेन्नरः ॥ ३६.३१॥
तथा उपस्पृश्य राज-इन्द्र स्वर्ग-लोके महीयते । व्याधितः यदि वा दीनः क्रूद्धः वा अपि भवेत् नरः ॥ ३६।३१॥
tathā upaspṛśya rāja-indra svarga-loke mahīyate . vyādhitaḥ yadi vā dīnaḥ krūddhaḥ vā api bhavet naraḥ .. 36.31..
पितॄणां तारकञ्चैव सर्वपापप्रणाशनम्। यैः प्रयागे कृतो वासः उत्तीर्णो भवसागरः॥ ३६.३२॥
पितॄणाम् तारकम् च एव सर्व-पाप-प्रणाशनम्। यैः प्रयागे कृतः वासः उत्तीर्णः भव-सागरः॥ ३६।३२॥
pitṝṇām tārakam ca eva sarva-pāpa-praṇāśanam. yaiḥ prayāge kṛtaḥ vāsaḥ uttīrṇaḥ bhava-sāgaraḥ.. 36.32..
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः । ईप्सिताँल्लभते कामान्वदन्ति मुनिपुङ्गवाः॥ ३६.३३॥
गङ्गा-यमुनम् आसाद्य त्यजेत् प्राणान् प्रयत्नतः । ईप्सितान् लभते कामान् वदन्ति मुनि-पुङ्गवाः॥ ३६।३३॥
gaṅgā-yamunam āsādya tyajet prāṇān prayatnataḥ . īpsitān labhate kāmān vadanti muni-puṅgavāḥ.. 36.33..
दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः । सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ॥ ३६.३४॥
दीप्त-काञ्चन-वर्ण-आभैः विमानैः भानु-वर्णिभिः । सर्व-रत्न-मयैः दिव्यैः नाना ध्वज-समाकुलैः ॥ ३६।३४॥
dīpta-kāñcana-varṇa-ābhaiḥ vimānaiḥ bhānu-varṇibhiḥ . sarva-ratna-mayaiḥ divyaiḥ nānā dhvaja-samākulaiḥ .. 36.34..
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः । गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥ ३६.३५॥
वर-अङ्गना-समाकीर्णैः मोदते शुभ-लक्षणः । गीत-वादित्र-निर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥ ३६।३५॥
vara-aṅganā-samākīrṇaiḥ modate śubha-lakṣaṇaḥ . gīta-vāditra-nirghoṣaiḥ prasuptaḥ pratibudhyate .. 36.35..
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते । तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ॥ ३६.३६॥
यावत् न स्मरते जन्म तापत् स्वर्गे महीयते । तस्मात् स्वर्गात् परिभ्रष्टः क्षीण-कर्मा नरोत्तम ॥ ३६।३६॥
yāvat na smarate janma tāpat svarge mahīyate . tasmāt svargāt paribhraṣṭaḥ kṣīṇa-karmā narottama .. 36.36..
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले । तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ॥ ३६.३७॥
हिरण्य-रत्न-संपूर्णे समृद्धे जायते कुले । तत् एव स्मरते तीर्थम् स्मरणात् तत्र गच्छति ॥ ३६।३७॥
hiraṇya-ratna-saṃpūrṇe samṛddhe jāyate kule . tat eva smarate tīrtham smaraṇāt tatra gacchati .. 36.37..
देश वा यदि वाऽरण्ये विदेशे यदि वा गृहे । प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ॥ ३६.३८॥
वा यदि वा अरण्ये विदेशे यदि वा गृहे । प्रयागम् स्मरमाणः तु यः तु प्राणान् परित्यजेत् ॥ ३६।३८॥
vā yadi vā araṇye videśe yadi vā gṛhe . prayāgam smaramāṇaḥ tu yaḥ tu prāṇān parityajet .. 36.38..
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुंगवाः । सर्वकामफला वृक्षा मही यत्र हिरण्मयी ॥ ३६.३९॥
ब्रह्म-लोकम् अवाप्नोति वदन्ति मुनि-पुंगवाः । सर्व-काम-फलाः वृक्षाः मही यत्र हिरण्मयी ॥ ३६।३९॥
brahma-lokam avāpnoti vadanti muni-puṃgavāḥ . sarva-kāma-phalāḥ vṛkṣāḥ mahī yatra hiraṇmayī .. 36.39..
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति । स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे॥ ३६.४॥
ऋषयः मुनयः सिद्धाः तत्र लोके स गच्छति । स्त्री-सहस्र-आकुले रम्ये मन्दाकिन्याः तटे शुभे॥ ३६।४॥
ṛṣayaḥ munayaḥ siddhāḥ tatra loke sa gacchati . strī-sahasra-ākule ramye mandākinyāḥ taṭe śubhe.. 36.4..
मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्मणा । सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ॥ ३६.४१॥
मोदते मुनिभिः सार्द्धम् स्व-कृतेन इह कर्मणा । सिद्ध-चारण-गन्धर्वैः पूज्यते दिवि दैवतैः ॥ ३६।४१॥
modate munibhiḥ sārddham sva-kṛtena iha karmaṇā . siddha-cāraṇa-gandharvaiḥ pūjyate divi daivataiḥ .. 36.41..
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् । ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ॥ ३६.४२॥
ततस् स्वर्गात् परिभ्रष्टः जम्बुद्वीप-पतिः भवेत् । ततस् शुभानि कर्माणि चिन्तयानः पुनर् पुनर् ॥ ३६।४२॥
tatas svargāt paribhraṣṭaḥ jambudvīpa-patiḥ bhavet . tatas śubhāni karmāṇi cintayānaḥ punar punar .. 36.42..
गुणवान् वृत्तसंपन्नो भवतीह न संशयः । कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ ३६.४३॥
गुणवान् वृत्त-संपन्नः भवति इह न संशयः । कर्मणा मनसा वाचा सत्य-धर्म-प्रतिष्ठितः ॥ ३६।४३॥
guṇavān vṛtta-saṃpannaḥ bhavati iha na saṃśayaḥ . karmaṇā manasā vācā satya-dharma-pratiṣṭhitaḥ .. 36.43..
गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति । सुवर्णमथ मुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ ३६.४४॥
गङ्गा-यमुनयोः मध्ये यः तु ग्रामम् प्रतीच्छति । सुवर्णम् अथ मुक्ताम् वा तथा एव अन्यत् प्रतिग्रहम् ॥ ३६।४४॥
gaṅgā-yamunayoḥ madhye yaḥ tu grāmam pratīcchati . suvarṇam atha muktām vā tathā eva anyat pratigraham .. 36.44..
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥ ३६.४५॥
स्व-कार्ये पितृ-कार्ये वा देवता-अभ्यर्चने अपि वा । निष्फलम् तस्य तत् तीर्थम् यावत् तत् फलम् अश्नुते ॥ ३६।४५॥
sva-kārye pitṛ-kārye vā devatā-abhyarcane api vā . niṣphalam tasya tat tīrtham yāvat tat phalam aśnute .. 36.45..
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ ३६.४६॥
अतस् तीर्थे न गृह्णीयात् पुण्येषु आयतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तः द्विजः भवेत् ॥ ३६।४६॥
atas tīrthe na gṛhṇīyāt puṇyeṣu āyataneṣu ca . nimitteṣu ca sarveṣu apramattaḥ dvijaḥ bhavet .. 36.46..
कपिलां पाटलां धेनुं यस्तु कृष्णां प्रयच्छति । स्वर्णश्रृङ्गीं रौप्यखुरां चैलकर्णीं पयस्विनीम् ॥ ३६.४७॥
कपिलाम् पाटलाम् धेनुम् यः तु कृष्णाम् प्रयच्छति । स्वर्ण-श्रृङ्गीम् रौप्य-खुराम् चैल-कर्णीम् पयस्विनीम् ॥ ३६।४७॥
kapilām pāṭalām dhenum yaḥ tu kṛṣṇām prayacchati . svarṇa-śrṛṅgīm raupya-khurām caila-karṇīm payasvinīm .. 36.47..
तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम । तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ॥ ३६.४८॥
तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम । तावत् वर्ष-सहस्त्राणि रुद्र-लोके महीयते ॥ ३६।४८॥
tasya yāvanti lomāni santi gātreṣu sattama . tāvat varṣa-sahastrāṇi rudra-loke mahīyate .. 36.48..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे षट्त्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ṣaṭtriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In