| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ ३७.१॥
कथयिष्यामि ते वत्स तीर्थ-यात्रा-विधि-क्रमम् । आर्षेण तु विधानेन यथा दृष्टम् यथा श्रुतम् ॥ ३७।१॥
kathayiṣyāmi te vatsa tīrtha-yātrā-vidhi-kramam . ārṣeṇa tu vidhānena yathā dṛṣṭam yathā śrutam .. 37.1..
प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् । बलीवर्दं समारूढः श्रृणु तस्यापि यत्फलम् ॥ ३७.२॥
प्रयाग-तीर्थ-यात्रा-अर्थी यः प्रयाति नरः क्वचिद् । बलीवर्दम् समारूढः श्रृणु तस्य अपि यत् फलम् ॥ ३७।२॥
prayāga-tīrtha-yātrā-arthī yaḥ prayāti naraḥ kvacid . balīvardam samārūḍhaḥ śrṛṇu tasya api yat phalam .. 37.2..
नरके वसते घोरे समाः कल्पशतायुतम् । ततो निवर्त्तते घोरो गवां क्रोधो हि दारुणः ॥ ३७.३॥
नरके वसते घोरे समाः कल्प-शत-अयुतम् । ततस् निवर्त्तते घोरः गवाम् क्रोधः हि दारुणः ॥ ३७।३॥
narake vasate ghore samāḥ kalpa-śata-ayutam . tatas nivarttate ghoraḥ gavām krodhaḥ hi dāruṇaḥ .. 37.3..
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः । यस्तु पुत्रांस्तथा बालान् अन्नहीनान्प्रमुञ्चति ॥ ३७.४॥
सलिलम् च न गृह्णन्ति पितरः तस्य देहिनः । यः तु पुत्रान् तथा बालान् अन्न-हीनान् प्रमुञ्चति ॥ ३७।४॥
salilam ca na gṛhṇanti pitaraḥ tasya dehinaḥ . yaḥ tu putrān tathā bālān anna-hīnān pramuñcati .. 37.4..
यथात्मानं तथा सर्वान् दानं विप्रेषु दापयेत् । ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ॥ ३७.५॥
यथा आत्मानम् तथा सर्वान् दानम् विप्रेषु दापयेत् । ऐश्वर्यात् लोभ-मोहात् वा गच्छेत् यानेन यः नरः ॥ ३७।५॥
yathā ātmānam tathā sarvān dānam vipreṣu dāpayet . aiśvaryāt lobha-mohāt vā gacchet yānena yaḥ naraḥ .. 37.5..
निष्फलं तस्य तत् तीर्थं तस्माद्यानं विवर्जयेत् । गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ३७.६॥
निष्फलम् तस्य तत् तीर्थम् तस्मात् यानम् विवर्जयेत् । गङ्गा-यमुनयोः मध्ये यः तु कन्याम् प्रयच्छति ॥ ३७।६॥
niṣphalam tasya tat tīrtham tasmāt yānam vivarjayet . gaṅgā-yamunayoḥ madhye yaḥ tu kanyām prayacchati .. 37.6..
आर्षेण तु विधानेन यथा विभवविस्तरम् । न स पश्यति तं घोरं नरकं तेन कर्मणा ॥ ३७.७॥
आर्षेण तु विधानेन यथा विभव-विस्तरम् । न स पश्यति तम् घोरम् नरकम् तेन कर्मणा ॥ ३७।७॥
ārṣeṇa tu vidhānena yathā vibhava-vistaram . na sa paśyati tam ghoram narakam tena karmaṇā .. 37.7..
उत्तरान् स कुरून् गत्वा मोदते कालमव्ययम् । वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ॥ ३७.८॥
उत्तरान् स कुरून् गत्वा मोदते कालम् अव्ययम् । वट-मूलम् समाश्रित्य यः तु प्राणान् परित्यजेत् ॥ ३७।८॥
uttarān sa kurūn gatvā modate kālam avyayam . vaṭa-mūlam samāśritya yaḥ tu prāṇān parityajet .. 37.8..
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति । तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ३७.९॥
सर्व-लोकान् अतिक्रम्य रुद्र-लोकम् स गच्छति । तत्र ब्रह्म-आदयः देवाः दिशः च स दिगीश्वराः ॥ ३७।९॥
sarva-lokān atikramya rudra-lokam sa gacchati . tatra brahma-ādayaḥ devāḥ diśaḥ ca sa digīśvarāḥ .. 37.9..
लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः । सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे॥ ३८॥
लोकपालाः च सिद्धाः च पितरः लोक-संमताः । सनत्कुमार-प्रमुखाः तथा ब्रह्मर्षयः अपरे॥ ३८॥
lokapālāḥ ca siddhāḥ ca pitaraḥ loka-saṃmatāḥ . sanatkumāra-pramukhāḥ tathā brahmarṣayaḥ apare.. 38..
नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ ३७.११॥
नागाः सुपार्णाः सिद्धाः च तथा नित्यम् समासते । हरिः च भगवान् आस्ते प्रजापति-पुरस्कृतः ॥ ३७।११॥
nāgāḥ supārṇāḥ siddhāḥ ca tathā nityam samāsate . hariḥ ca bhagavān āste prajāpati-puraskṛtaḥ .. 37.11..
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ ३७.१२॥
गङ्गा-यमुनयोः मध्ये पृथिव्याः जघनम् स्मृतम् । प्रयागम् राज-शार्दूल त्रिषु लोकेषु विश्रुतम् ॥ ३७।१२॥
gaṅgā-yamunayoḥ madhye pṛthivyāḥ jaghanam smṛtam . prayāgam rāja-śārdūla triṣu lokeṣu viśrutam .. 37.12..
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः । तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ ३७.१३॥
तत्र अभिषेकम् यः कुर्यात् संगमे शंसित-व्रतः । तुल्यम् राजसूय-अश्वमेधयोः ॥ ३७।१३॥
tatra abhiṣekam yaḥ kuryāt saṃgame śaṃsita-vrataḥ . tulyam rājasūya-aśvamedhayoḥ .. 37.13..
न मातृवचनात् तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ ३७.१४॥
न मातृ-वचनात् तात न लोक-वचनात् अपि । मतिः उत्क्रमणीया ते प्रयाग-गामनम् प्रति ॥ ३७।१४॥
na mātṛ-vacanāt tāta na loka-vacanāt api . matiḥ utkramaṇīyā te prayāga-gāmanam prati .. 37.14..
दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापराः । तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ ३७.१५॥
दश तीर्थ सहस्राणि षष्टि-कोट्यः तथा अपराः । तेषाम् सान्निध्यम् अत्र एव तीर्थानाम् कुरु-नन्दन ॥ ३७।१५॥
daśa tīrtha sahasrāṇi ṣaṣṭi-koṭyaḥ tathā aparāḥ . teṣām sānnidhyam atra eva tīrthānām kuru-nandana .. 37.15..
या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ ३७.१६॥
या गतिः योग-युक्तस्य सत्त्व-स्थस्य मनीषिणः । सा गतिः त्यजतः प्राणान् गङ्गा-यमुना-संगमे ॥ ३७।१६॥
yā gatiḥ yoga-yuktasya sattva-sthasya manīṣiṇaḥ . sā gatiḥ tyajataḥ prāṇān gaṅgā-yamunā-saṃgame .. 37.16..
न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ ३७.१७॥
न ते जीवन्ति लोके अस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागम् न संप्राप्ताः त्रिषु लोकेषु विश्रुतम् ॥ ३७।१७॥
na te jīvanti loke asmin yatra tatra yudhiṣṭhira . ye prayāgam na saṃprāptāḥ triṣu lokeṣu viśrutam .. 37.17..
एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ ३७.१८॥
एवम् दृष्ट्वा तु तत् तीर्थम् प्रयागम् परमम् पदम् । मुच्यते सर्व-पापेभ्यः शशाङ्कः इव राहुणा ॥ ३७।१८॥
evam dṛṣṭvā tu tat tīrtham prayāgam paramam padam . mucyate sarva-pāpebhyaḥ śaśāṅkaḥ iva rāhuṇā .. 37.18..
प्रयागे गङ्गा-यमुनयोः सङ्गमः.कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ ३७.१९॥
प्रयागे गङ्गा-यमुनयोः सङ्गमः।कम्बल-अश्वतरौ नागौ यमुना-दक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्व-पातकैः ॥ ३७।१९॥
prayāge gaṅgā-yamunayoḥ saṅgamaḥ.kambala-aśvatarau nāgau yamunā-dakṣiṇe taṭe . tatra snātvā ca pītvā ca mucyate sarva-pātakaiḥ .. 37.19..
तत्र गत्वा नरः स्थानं महादेवस्य धीमतः । आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥ ३७.२॥
तत्र गत्वा नरः स्थानम् महादेवस्य धीमतः । आत्मानम् तारयेत् पूर्वम् दश अतीतान् दश अपरान् ॥ ३७।२॥
tatra gatvā naraḥ sthānam mahādevasya dhīmataḥ . ātmānam tārayet pūrvam daśa atītān daśa aparān .. 37.2..
कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥ ३७.२१॥
कृत्वा अभिषेकम् तु नरः सः अश्वमेध-फलम् लभेत् । स्वर्ग-लोकम् अवाप्नोति यावत् आहूत-संप्लवम् ॥ ३७।२१॥
kṛtvā abhiṣekam tu naraḥ saḥ aśvamedha-phalam labhet . svarga-lokam avāpnoti yāvat āhūta-saṃplavam .. 37.21..
पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्येख्यातिमान् नृप । अवटः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ ३७.२२॥
पूर्व-पार्श्वे तु गङ्गायाः त्रैलोक्य-ईख्यातिमान् नृप । अवटः सर्व-सामुद्रः प्रतिष्ठानम् च विश्रुतम् ॥ ३७।२२॥
pūrva-pārśve tu gaṅgāyāḥ trailokya-īkhyātimān nṛpa . avaṭaḥ sarva-sāmudraḥ pratiṣṭhānam ca viśrutam .. 37.22..
ब्रह्मचारी जितक्रोधस्त्र्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३७.२३॥
ब्रह्मचारी जित-क्रोधः त्रि-रात्रम् यदि तिष्ठति । सर्व-पाप-विशुद्ध-आत्मा सः अश्वमेध-फलम् लभेत् ॥ ३७।२३॥
brahmacārī jita-krodhaḥ tri-rātram yadi tiṣṭhati . sarva-pāpa-viśuddha-ātmā saḥ aśvamedha-phalam labhet .. 37.23..
उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.२४॥
उत्तरेण प्रतिष्ठानम् भागीरथ्याः तु सव्यतस् । हंसप्रपतनम् नाम तीर्थम् त्रैलोक्य-विश्रुतम् ॥ ३७।२४॥
uttareṇa pratiṣṭhānam bhāgīrathyāḥ tu savyatas . haṃsaprapatanam nāma tīrtham trailokya-viśrutam .. 37.24..
अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते । यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥ ३७.२५॥
अश्वमेध-फलम् तत्र स्मृत-मात्रात् तु जायते । यावत् चन्द्रः च सूर्यः च तावत् स्वर्गे महीयते ॥ ३७।२५॥
aśvamedha-phalam tatra smṛta-mātrāt tu jāyate . yāvat candraḥ ca sūryaḥ ca tāvat svarge mahīyate .. 37.25..
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । परित्यजतियः प्राणान् श्रृणु तस्यापि यत् फलम् ॥ ३७.२६॥
उर्वशी-पुलिने रम्ये विपुले हंस-पाण्डुरे । परित्यजति यः प्राणान् श्रृणु तस्य अपि यत् फलम् ॥ ३७।२६॥
urvaśī-puline ramye vipule haṃsa-pāṇḍure . parityajati yaḥ prāṇān śrṛṇu tasya api yat phalam .. 37.26..
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आस्ते स पितृभिः सार्द्धं स्वर्गलोके नराधिप ॥ ३७.२७॥
षष्टि-वर्ष-सहस्राणि षष्टि-वर्ष-शतानि च । आस्ते स पितृभिः सार्द्धम् स्वर्ग-लोके नराधिप ॥ ३७।२७॥
ṣaṣṭi-varṣa-sahasrāṇi ṣaṣṭi-varṣa-śatāni ca . āste sa pitṛbhiḥ sārddham svarga-loke narādhipa .. 37.27..
अथ संध्यावटे रम्ये ब्रह्मचारी समाहितः । नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ ३७.२८॥
अथ संध्या-वटे रम्ये ब्रह्मचारी समाहितः । नरः शुचिः उपासीत ब्रह्म-लोकम् अवाप्नुयात् ॥ ३७।२८॥
atha saṃdhyā-vaṭe ramye brahmacārī samāhitaḥ . naraḥ śuciḥ upāsīta brahma-lokam avāpnuyāt .. 37.28..
कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ३७.२९॥
कोटितीर्थम् समाश्रित्य यः तु प्राणान् परित्यजेत् । कोटि-वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ ३७।२९॥
koṭitīrtham samāśritya yaḥ tu prāṇān parityajet . koṭi-varṣa-sahasrāṇi svarga-loke mahīyate .. 37.29..
यत्र गङ्गा महाभागा बहुतीर्थतपोवना । सिद्धंक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ ३७.३॥
यत्र गङ्गा महाभागा बहु-तीर्थ-तपः-वना । सिद्धंक्षेत्रम् हि तत् ज्ञेयम् न अत्र कार्या विचारणा ॥ ३७।३॥
yatra gaṅgā mahābhāgā bahu-tīrtha-tapaḥ-vanā . siddhaṃkṣetram hi tat jñeyam na atra kāryā vicāraṇā .. 37.3..
क्षितौ तारयते मर्त्त्यान् नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथा स्मृता ॥ ३७.३१॥
क्षितौ तारयते मर्त्त्यान् नागान् तारयते अपि अधस् । दिवि तारयते देवान् तेन त्रिपथा स्मृता ॥ ३७।३१॥
kṣitau tārayate marttyān nāgān tārayate api adhas . divi tārayate devān tena tripathā smṛtā .. 37.31..
यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु । तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ ३७.३२॥
यावत् अस्थीनि गङ्गायाम् तिष्ठन्ति पुरुषस्य तु । तावत् वर्ष-सहस्त्राणि स्वर्ग-लोके महीयते ॥ ३७।३२॥
yāvat asthīni gaṅgāyām tiṣṭhanti puruṣasya tu . tāvat varṣa-sahastrāṇi svarga-loke mahīyate .. 37.32..
तीर्थानां परमं तीर्थं नदीनां परमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ३७.३३॥
तीर्थानाम् परमम् तीर्थम् नदीनाम् परमा नदी । मोक्ष-दा सर्व-भूतानाम् महापातकिनाम् अपि ॥ ३७।३३॥
tīrthānām paramam tīrtham nadīnām paramā nadī . mokṣa-dā sarva-bhūtānām mahāpātakinām api .. 37.33..
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ ३७.३४॥
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागर-संगमे ॥ ३७।३४॥
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā . gaṅgādvāre prayāge ca gaṅgāsāgara-saṃgame .. 37.34..
सर्वेषामेव भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ३७.३५॥
सर्वेषाम् एव भूतानाम् पाप-उपहत-चेतसाम् । गतिम् अन्वेषमाणानाम् न अस्ति गङ्गा-समा गतिः ॥ ३७।३५॥
sarveṣām eva bhūtānām pāpa-upahata-cetasām . gatim anveṣamāṇānām na asti gaṅgā-samā gatiḥ .. 37.35..
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥ ३७.३६॥
पवित्राणाम् पवित्रम् च मङ्गलानाम् च मङ्गलम् । माहेश्वरात् परिभ्रष्टा सर्व-पाप-हरा शुभा ॥ ३७।३६॥
pavitrāṇām pavitram ca maṅgalānām ca maṅgalam . māheśvarāt paribhraṣṭā sarva-pāpa-harā śubhā .. 37.36..
कृते तु नैमिषं तीर्थं त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ ३७.३७॥
कृते तु नैमिषम् तीर्थम् त्रेतायाम् पुष्करम् परम् । द्वापरे तु कुरुक्षेत्रम् कलौ गङ्गाम् विशिष्यते ॥ ३७।३७॥
kṛte tu naimiṣam tīrtham tretāyām puṣkaram param . dvāpare tu kurukṣetram kalau gaṅgām viśiṣyate .. 37.37..
गङ्गामेव निषेवन्ते प्रयागे तु विशेषतः । नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥ ३७.३८॥
गङ्गाम् एव निषेवन्ते प्रयागे तु विशेषतः । न अन्यत् कलि-युग-उद्भूतम् मलम् हन्तुम् सु दुष्करम् ॥ ३७।३८॥
gaṅgām eva niṣevante prayāge tu viśeṣataḥ . na anyat kali-yuga-udbhūtam malam hantum su duṣkaram .. 37.38..
अकामो वा सकामो वा गङ्गायां यो विपद्यते । स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ ३७.३९॥
अकामः वा स कामः वा गङ्गायाम् यः विपद्यते । स मृतः जायते स्वर्गे नरकम् च न पश्यति ॥ ३७।३९॥
akāmaḥ vā sa kāmaḥ vā gaṅgāyām yaḥ vipadyate . sa mṛtaḥ jāyate svarge narakam ca na paśyati .. 37.39..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तत्रिंशोऽध्यायः ॥ ३७॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे सप्तत्रिंशः अध्यायः ॥ ३७॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge saptatriṃśaḥ adhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In