| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ ३७.१॥
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam . ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam .. 37.1..
प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् । बलीवर्दं समारूढः श्रृणु तस्यापि यत्फलम् ॥ ३७.२॥
prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit . balīvardaṃ samārūḍhaḥ śrṛṇu tasyāpi yatphalam .. 37.2..
नरके वसते घोरे समाः कल्पशतायुतम् । ततो निवर्त्तते घोरो गवां क्रोधो हि दारुणः ॥ ३७.३॥
narake vasate ghore samāḥ kalpaśatāyutam . tato nivarttate ghoro gavāṃ krodho hi dāruṇaḥ .. 37.3..
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः । यस्तु पुत्रांस्तथा बालान् अन्नहीनान्प्रमुञ्चति ॥ ३७.४॥
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ . yastu putrāṃstathā bālān annahīnānpramuñcati .. 37.4..
यथात्मानं तथा सर्वान् दानं विप्रेषु दापयेत् । ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ॥ ३७.५॥
yathātmānaṃ tathā sarvān dānaṃ vipreṣu dāpayet . aiśvaryāllobhamohād vā gacched yānena yo naraḥ .. 37.5..
निष्फलं तस्य तत् तीर्थं तस्माद्यानं विवर्जयेत् । गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ३७.६॥
niṣphalaṃ tasya tat tīrthaṃ tasmādyānaṃ vivarjayet . gaṅgāyamunayormadhye yastu kanyāṃ prayacchati .. 37.6..
आर्षेण तु विधानेन यथा विभवविस्तरम् । न स पश्यति तं घोरं नरकं तेन कर्मणा ॥ ३७.७॥
ārṣeṇa tu vidhānena yathā vibhavavistaram . na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā .. 37.7..
उत्तरान् स कुरून् गत्वा मोदते कालमव्ययम् । वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ॥ ३७.८॥
uttarān sa kurūn gatvā modate kālamavyayam . vaṭamūlaṃ samāśritya yastu prāṇān parityajet .. 37.8..
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति । तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ३७.९॥
sarvalokānatikramya rudralokaṃ sa gacchati . tatra brahmādayo devā diśaśca sadigīśvarāḥ .. 37.9..
लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः । सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे॥ ३८॥
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ . sanatkumārapramukhāstathā brahmarṣayo'pare.. 38..
नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ ३७.११॥
nāgāḥ supārṇāḥ siddhāśca tathā nityaṃ samāsate . hariśca bhagavānāste prajāpatipuraskṛtaḥ .. 37.11..
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ ३७.१२॥
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam . prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam .. 37.12..
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः । तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ ३७.१३॥
tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ . tulyaṃ phalavāpnoti rājasūyāśvamedhayoḥ .. 37.13..
न मातृवचनात् तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ ३७.१४॥
na mātṛvacanāt tāta na lokavacanādapi . matirutkramaṇīyā te prayāgagāmanaṃ prati .. 37.14..
दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापराः । तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ ३७.१५॥
daśa tīrtha sahasrāṇi ṣaṣṭikoṭyastathāparāḥ . teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana .. 37.15..
या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ ३७.१६॥
yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ . sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame .. 37.16..
न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ ३७.१७॥
na te jīvanti loke'smin yatra tatra yudhiṣṭhira . ye prayāgaṃ na saṃprāptāstriṣu lokeṣu viśrutam .. 37.17..
एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ ३७.१८॥
evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam . mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā .. 37.18..
प्रयागे गङ्गा-यमुनयोः सङ्गमः.कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ ३७.१९॥
prayāge gaṅgā-yamunayoḥ saṅgamaḥ.kambalāśvatarau nāgau yamunādakṣiṇe taṭe . tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ .. 37.19..
तत्र गत्वा नरः स्थानं महादेवस्य धीमतः । आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥ ३७.२॥
tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ . ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān .. 37.2..
कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥ ३७.२१॥
kṛtvā'bhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet . svargalokamavāpnoti yāvadāhūtasaṃplavam .. 37.21..
पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्येख्यातिमान् नृप । अवटः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ ३७.२२॥
pūrvapārśve tu gaṅgāyāstrailokyekhyātimān nṛpa . avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam .. 37.22..
ब्रह्मचारी जितक्रोधस्त्र्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३७.२३॥
brahmacārī jitakrodhastrrirātraṃ yadi tiṣṭhati . sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet .. 37.23..
उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.२४॥
uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ . haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam .. 37.24..
अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते । यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥ ३७.२५॥
aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate . yāvaccandraśca sūryaśca tāvat svarge mahīyate .. 37.25..
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । परित्यजतियः प्राणान् श्रृणु तस्यापि यत् फलम् ॥ ३७.२६॥
urvaśīpuline ramye vipule haṃsapāṇḍure . parityajatiyaḥ prāṇān śrṛṇu tasyāpi yat phalam .. 37.26..
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आस्ते स पितृभिः सार्द्धं स्वर्गलोके नराधिप ॥ ३७.२७॥
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca . āste sa pitṛbhiḥ sārddhaṃ svargaloke narādhipa .. 37.27..
अथ संध्यावटे रम्ये ब्रह्मचारी समाहितः । नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ ३७.२८॥
atha saṃdhyāvaṭe ramye brahmacārī samāhitaḥ . naraḥ śucirupāsīta brahmalokamavāpnuyāt .. 37.28..
कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ३७.२९॥
koṭitīrthaṃ samāśritya yastu prāṇān parityajet . koṭivarṣasahasrāṇi svargaloke mahīyate .. 37.29..
यत्र गङ्गा महाभागा बहुतीर्थतपोवना । सिद्धंक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ ३७.३॥
yatra gaṅgā mahābhāgā bahutīrthatapovanā . siddhaṃkṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā .. 37.3..
क्षितौ तारयते मर्त्त्यान् नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथा स्मृता ॥ ३७.३१॥
kṣitau tārayate marttyān nāgāṃstārayate'pyadhaḥ . divi tārayate devāṃstena tripathā smṛtā .. 37.31..
यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु । तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ ३७.३२॥
yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu . tāvad varṣasahastrāṇi svargaloke mahīyate .. 37.32..
तीर्थानां परमं तीर्थं नदीनां परमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ३७.३३॥
tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī . mokṣadā sarvabhūtānāṃ mahāpātakināmapi .. 37.33..
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ ३७.३४॥
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā . gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame .. 37.34..
सर्वेषामेव भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ३७.३५॥
sarveṣāmeva bhūtānāṃ pāpopahatacetasām . gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ .. 37.35..
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥ ३७.३६॥
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam . māheśvarāt paribhraṣṭā sarvapāpaharā śubhā .. 37.36..
कृते तु नैमिषं तीर्थं त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ ३७.३७॥
kṛte tu naimiṣaṃ tīrthaṃ tretāyāṃ puṣkaraṃ param . dvāpare tu kurukṣetraṃ kalau gaṅgāṃ viśiṣyate .. 37.37..
गङ्गामेव निषेवन्ते प्रयागे तु विशेषतः । नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥ ३७.३८॥
gaṅgāmeva niṣevante prayāge tu viśeṣataḥ . nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkaram .. 37.38..
अकामो वा सकामो वा गङ्गायां यो विपद्यते । स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ ३७.३९॥
akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate . sa mṛto jāyate svarge narakaṃ ca na paśyati .. 37.39..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तत्रिंशोऽध्यायः ॥ ३७॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo'dhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In