| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ ३८.१॥
षष्टिः तीर्थ-सहस्राणि षष्टिः तीर्थ-शतानि च । माघ-मासे गमिष्यन्ति गङ्गा-यमुना-संगमम् ॥ ३८।१॥
ṣaṣṭiḥ tīrtha-sahasrāṇi ṣaṣṭiḥ tīrtha-śatāni ca . māgha-māse gamiṣyanti gaṅgā-yamunā-saṃgamam .. 38.1..
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् । प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥ ३८.२॥
गवाम् शत-सहस्रस्य सम्यक् दत्तस्य यत् फलम् । प्रयागे माघ-मासे तु त्रि-अहम् स्नातस्य तत् फलम् ॥ ३८।२॥
gavām śata-sahasrasya samyak dattasya yat phalam . prayāge māgha-māse tu tri-aham snātasya tat phalam .. 38.2..
गङ्गायमुनयोर्मध्ये काष्टाग्निं यस्तु साधयेत् । अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ ३८.३॥
गङ्गा-यमुनयोः मध्ये काष्ट-अग्निम् यः तु साधयेत् । अहीन-अङ्गः अपि अरोगः च पञ्च-इन्द्रिय-समन्वितः ॥ ३८।३॥
gaṅgā-yamunayoḥ madhye kāṣṭa-agnim yaḥ tu sādhayet . ahīna-aṅgaḥ api arogaḥ ca pañca-indriya-samanvitaḥ .. 38.3..
यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः । तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.४॥
यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः । तावत् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ ३८।४॥
yāvanti romakūpāṇi tasya gātreṣu mānavaḥ . tāvat varṣa-sahasrāṇi svarga-loke mahīyate .. 38.4..
ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । भुक्त्वा स विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.५॥
ततस् स्वर्गात् परिभ्रष्टः जम्बूद्वीप-पतिः भवेत् । भुक्त्वा स विपुलान् भोगान् तत् तीर्थम् भजते पुनर् ॥ ३८।५॥
tatas svargāt paribhraṣṭaḥ jambūdvīpa-patiḥ bhavet . bhuktvā sa vipulān bhogān tat tīrtham bhajate punar .. 38.5..
जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते । राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ ३८.६॥
जल-प्रवेशम् यः कुर्यात् संगमे लोक-विश्रुते । राहु-ग्रस्तः यथा सोमः विमुक्तः सर्व-पातकैः ॥ ३८।६॥
jala-praveśam yaḥ kuryāt saṃgame loka-viśrute . rāhu-grastaḥ yathā somaḥ vimuktaḥ sarva-pātakaiḥ .. 38.6..
सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥ ३८.७॥
सोम-लोकम् अवाप्नोति सोमेन सह मोदते । षष्टिम् वर्ष-सहस्राणि षष्टिम् वर्ष-शतानि च ॥ ३८।७॥
soma-lokam avāpnoti somena saha modate . ṣaṣṭim varṣa-sahasrāṇi ṣaṣṭim varṣa-śatāni ca .. 38.7..
स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः । ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ ३८.८॥
स्वर् गतः शक्र-लोके असौ मुनि-गन्धर्व-सेवितः । ततस् भ्रष्टः तु राज-इन्द्र समृद्धे जायते कुले ॥ ३८।८॥
svar gataḥ śakra-loke asau muni-gandharva-sevitaḥ . tatas bhraṣṭaḥ tu rāja-indra samṛddhe jāyate kule .. 38.8..
अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः । शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.९॥
अधस् सिराः तु अयः-धाराम् उर्ध्व-पादः पिबेत् नरः । शतम् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ ३८।९॥
adhas sirāḥ tu ayaḥ-dhārām urdhva-pādaḥ pibet naraḥ . śatam varṣa-sahasrāṇi svarga-loke mahīyate .. 38.9..
तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.१॥
तस्मात् भ्रष्टः तु राज-इन्द्र अग्निहोत्री भवेत् नरः । भुक्त्वा तु विपुलान् भोगान् तत् तीर्थम् भजते पुनर् ॥ ३८।१॥
tasmāt bhraṣṭaḥ tu rāja-indra agnihotrī bhavet naraḥ . bhuktvā tu vipulān bhogān tat tīrtham bhajate punar .. 38.1..
यः स्वदेहं विकर्त्तेद् वा शकुनिभ्यः प्रयच्छति ॥ ३८.११॥
यः स्व-देहम् विकर्त्तेत् वा शकुनिभ्यः प्रयच्छति ॥ ३८।११॥
yaḥ sva-deham vikarttet vā śakunibhyaḥ prayacchati .. 38.11..
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत्फलम् । शतं वर्षसहस्त्राणि सोमलोके महीयते ॥ ३८.१२॥
विहगैः उपभुक्तस्य श्रृणु तस्य अपि यत् फलम् । शतम् वर्ष-सहस्त्राणि सोम-लोके महीयते ॥ ३८।१२॥
vihagaiḥ upabhuktasya śrṛṇu tasya api yat phalam . śatam varṣa-sahastrāṇi soma-loke mahīyate .. 38.12..
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः । गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान्॥ ३८.१३॥
ततस् तस्मात् परिभ्रष्टः राजा भवति धार्मिकः । गुणवान् रूप-संपन्नः विद्वान् सु प्रिय-वाक्यवान्॥ ३८।१३॥
tatas tasmāt paribhraṣṭaḥ rājā bhavati dhārmikaḥ . guṇavān rūpa-saṃpannaḥ vidvān su priya-vākyavān.. 38.13..
भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः । उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ॥ ३८.१४॥
भुक्त्वा तु विपुलान् भोगान् तत-तीर्थम् भजते पुनर् । उत्तरे यमुना-तीरे प्रयागस्य तु दक्षिणे ॥ ३८।१४॥
bhuktvā tu vipulān bhogān tata-tīrtham bhajate punar . uttare yamunā-tīre prayāgasya tu dakṣiṇe .. 38.14..
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्। एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ॥ ३८.१५॥
ऋणप्रमोचनम् नाम तीर्थम् तु परमम् स्मृतम्। एक-रात्र-उषितः स्नात्वा ऋणैः तत्र प्रमुच्यते ॥ ३८।१५॥
ṛṇapramocanam nāma tīrtham tu paramam smṛtam. eka-rātra-uṣitaḥ snātvā ṛṇaiḥ tatra pramucyate .. 38.15..
सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत्॥ ३८.१६॥
सूर्य-लोकम् अवाप्नोति अनृणः च सदा भवेत्॥ ३८।१६॥
sūrya-lokam avāpnoti anṛṇaḥ ca sadā bhavet.. 38.16..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्त्रिंशोऽध्यायः ॥ ३८.१७॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे अष्ट्त्रिंशः अध्यायः ॥ ३८।१७॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge aṣṭtriṃśaḥ adhyāyaḥ .. 38.17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In