| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ ३९.१॥
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ ३९।१॥
tapanasya sutā devī triṣu lokeṣu viśrutā . samāgatā mahābhāgā yamunā yatra nimnagā .. 39.1..
येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ ३९.२॥
येन एव निःसृता गङ्गा तेन एव यमुना गता । योजनानाम् सहस्रेषु कीर्तनात् पाप-नाशनी ॥ ३९।२॥
yena eva niḥsṛtā gaṅgā tena eva yamunā gatā . yojanānām sahasreṣu kīrtanāt pāpa-nāśanī .. 39.2..
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ॥ ३९.३॥
तत्र स्नात्वा च पीत्वा च यमुनायाम् युधिष्ठिर । सर्व-पाप-विनिर्मुक्तः पुनाति आसप्तमम् कुलम् ॥ ३९।३॥
tatra snātvā ca pītvā ca yamunāyām yudhiṣṭhira . sarva-pāpa-vinirmuktaḥ punāti āsaptamam kulam .. 39.3..
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् । अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे ॥ ३९.४॥
प्राणान् त्यजति यः तत्र स याति परमाम् गतिम् । अग्नितीर्थम् इति ख्यातम् यमुना-दक्षिणे तटे ॥ ३९।४॥
prāṇān tyajati yaḥ tatra sa yāti paramām gatim . agnitīrtham iti khyātam yamunā-dakṣiṇe taṭe .. 39.4..
पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् । तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३९.५॥
पश्चिमे धर्मराजस्य तीर्थम् तु अनरकम् स्मृतम् । तत्र स्नात्वा दिवम् यान्ति ये मृताः ते अपुनर्भवाः ॥ ३९।५॥
paścime dharmarājasya tīrtham tu anarakam smṛtam . tatra snātvā divam yānti ye mṛtāḥ te apunarbhavāḥ .. 39.5..
कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्प्य वै शुचिः । धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ३९.६॥
कृष्ण-पक्षे चतुर्दश्याम् स्नात्वा संतर्प्य वै शुचिः । धर्मराजम् महा-पापैः मुच्यते न अत्र संशयः ॥ ३९।६॥
kṛṣṇa-pakṣe caturdaśyām snātvā saṃtarpya vai śuciḥ . dharmarājam mahā-pāpaiḥ mucyate na atra saṃśayaḥ .. 39.6..
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः । प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ३९.७॥
दश तीर्थ-सहस्राणि त्रिंशत्-कोट्यः तथा अपराः । प्रयागे संस्थितानि स्युः एवम् आहुः मनीषिणः ॥ ३९।७॥
daśa tīrtha-sahasrāṇi triṃśat-koṭyaḥ tathā aparāḥ . prayāge saṃsthitāni syuḥ evam āhuḥ manīṣiṇaḥ .. 39.7..
तिस्त्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् । दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ३९.८॥
तिस्त्रः कोट्यः अर्ध-कोटिः च तीर्थानाम् वायुः अब्रवीत् । दिवि भूमि-अन्तरिक्षे च तत् सर्वम् जाह्नवी स्मृता ॥ ३९।८॥
tistraḥ koṭyaḥ ardha-koṭiḥ ca tīrthānām vāyuḥ abravīt . divi bhūmi-antarikṣe ca tat sarvam jāhnavī smṛtā .. 39.8..
यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ३९.९॥
यत्र गङ्गा महाभागा स देशः तत् तपः-वनम् । सिद्धिक्षेत्रम् तु तत् ज्ञेयम् गङ्गा-तीर-समाश्रितम् ॥ ३९।९॥
yatra gaṅgā mahābhāgā sa deśaḥ tat tapaḥ-vanam . siddhikṣetram tu tat jñeyam gaṅgā-tīra-samāśritam .. 39.9..
यत्र देवो महादेवो देव्या सह महेश्वरः । आस्ते वटेश्वरो नित्यं तत् तीर्थँ तत् तपोवनम् ॥ ३९.१०.॥
यत्र देवः महादेवः देव्या सह महेश्वरः । आस्ते वटेश्वरः नित्यम् तत् तीर्थम् तत् तपोवनम् ॥ ३९।१०।॥
yatra devaḥ mahādevaḥ devyā saha maheśvaraḥ . āste vaṭeśvaraḥ nityam tat tīrtham tat tapovanam .. 39.10...
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च ॥ ३९.११॥
इदम् सत्यम् द्विजातीनाम् साधूनाम् आत्मजस्य च । सुहृदाम् च जपेत् कर्णे शिष्यस्य अनुगतस्य च ॥ ३९।११॥
idam satyam dvijātīnām sādhūnām ātmajasya ca . suhṛdām ca japet karṇe śiṣyasya anugatasya ca .. 39.11..
इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ३९.१२॥
इदम् धन्यम् इदम् स्वर्ग्यम् इदम् मेध्यम् इदम् सुखम् । इदम् पुण्यम् इदम् रम्यम् पावनम् धर्म्यम् उत्तमम् ॥ ३९।१२॥
idam dhanyam idam svargyam idam medhyam idam sukham . idam puṇyam idam ramyam pāvanam dharmyam uttamam .. 39.12..
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् । अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ॥ ३९.१४॥
महा-ऋषीणाम् इदम् गुह्यम् सर्व-पाप-प्रमोचनम् । अत्र अधीत्य द्विजः अध्यायम् निर्मल-त्वम् अवाप्नुयात् ॥ ३९।१४॥
mahā-ṛṣīṇām idam guhyam sarva-pāpa-pramocanam . atra adhītya dvijaḥ adhyāyam nirmala-tvam avāpnuyāt .. 39.14..
यश्चेदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ ३९.१५॥
यः च इदम् श्रृणुयात् नित्यम् तीर्थम् पुण्यम् सदा शुचिः । जातिस्मर-त्वम् लभते नाक-पृष्ठे च मोदते ॥ ३९।१५॥
yaḥ ca idam śrṛṇuyāt nityam tīrtham puṇyam sadā śuciḥ . jātismara-tvam labhate nāka-pṛṣṭhe ca modate .. 39.15..
प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ ३९.१६॥
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्ट-अनुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्र-मतिः भव ॥ ३९।१६॥
prāpyante tāni tīrthāni sadbhiḥ śiṣṭa-anudarśibhiḥ . snāhi tīrtheṣu kauravya na ca vakra-matiḥ bhava .. 39.16..
एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः । तीर्थानि कथयामास पृथिव्यां यानि कानिचित् ॥ ३९.१७॥
एवम् उक्त्वा स भगवान् मार्कण्डेयः महा-मुनिः । तीर्थानि कथयामास पृथिव्याम् यानि कानिचिद् ॥ ३९।१७॥
evam uktvā sa bhagavān mārkaṇḍeyaḥ mahā-muniḥ . tīrthāni kathayāmāsa pṛthivyām yāni kānicid .. 39.17..
भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् । पृष्टः प्रोवाच सकलमुक्त्वाऽथ प्रययो मुनिः ॥ ३९.१८॥
भू-समुद्र-आदि-संस्थानम् प्रमाणम् ज्योतिषाम् स्थितम् । पृष्टः प्रोवाच सकलम् उक्त्वा अथ प्रययः मुनिः ॥ ३९।१८॥
bhū-samudra-ādi-saṃsthānam pramāṇam jyotiṣām sthitam . pṛṣṭaḥ provāca sakalam uktvā atha prayayaḥ muniḥ .. 39.18..
य इदं कल्यमुत्थाय श्रुणोति पठतेऽथ वा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ३९.१९॥
यः इदम् कल्यम् उत्थाय श्रुणोति पठते अथ वा । मुच्यते सर्व-पापेभ्यः रुद्र-लोकम् स गच्छति ॥ ३९।१९॥
yaḥ idam kalyam utthāya śruṇoti paṭhate atha vā . mucyate sarva-pāpebhyaḥ rudra-lokam sa gacchati .. 39.19..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पुर्व-विभागे एकोनचत्वारिंशः अध्यायः ॥ ३९॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām purva-vibhāge ekonacatvāriṃśaḥ adhyāyaḥ .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In