| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
श्रुत्वाऽऽश्रमविधिं कृत्स्नमृषयो। हृष्टमानसाः । नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ ४.१॥
श्रुत्वा आश्रम-विधिम् कृत्स्नम् ऋषयः। हृष्ट-मानसाः । नमस्कृत्य हृषीकेशम् पुनर्वचनम् अब्रुवन् ॥ ४।१॥
śrutvā āśrama-vidhim kṛtsnam ṛṣayaḥ. hṛṣṭa-mānasāḥ . namaskṛtya hṛṣīkeśam punarvacanam abruvan .. 4.1..
मुनय ऊचुः ।
भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् । इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥ ४.२॥
भाषितम् भवता सर्वम् चातुराश्रम्यम् उत्तमम् । इदानीम् श्रोतुम् इच्छामः यथा संभवते जगत् ॥ ४।२॥
bhāṣitam bhavatā sarvam cāturāśramyam uttamam . idānīm śrotum icchāmaḥ yathā saṃbhavate jagat .. 4.2..
कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति । नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ ४.३॥
कुतस् सर्वम् इदम् जातम् कस्मिन् च लयम् एष्यति । नियन्ता कः च सर्वेषाम् वदस्व पुरुषोत्तम ॥ ४।३॥
kutas sarvam idam jātam kasmin ca layam eṣyati . niyantā kaḥ ca sarveṣām vadasva puruṣottama .. 4.3..
श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् । प्राह गम्भीरया वाचा भूतानां प्रभवोव्ययः ॥ ४.४॥
श्रुत्वा नारायणः वाक्यम् ऋषीणाम् कूर्म-रूपधृक् । प्राह गम्भीरया वाचा भूतानाम् प्रभवः व्ययः ॥ ४।४॥
śrutvā nārāyaṇaḥ vākyam ṛṣīṇām kūrma-rūpadhṛk . prāha gambhīrayā vācā bhūtānām prabhavaḥ vyayaḥ .. 4.4..
श्रीकूर्म उवाच ।
महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ ४.५॥
महेश्वरः परः अव्यक्तः चतुर्-व्यूहः सनातनः । अनन्तः च अप्रमेयः च नियन्ता विश्वतोमुखः ॥ ४।५॥
maheśvaraḥ paraḥ avyaktaḥ catur-vyūhaḥ sanātanaḥ . anantaḥ ca aprameyaḥ ca niyantā viśvatomukhaḥ .. 4.5..
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ४.६॥
अव्यक्तम् कारणम् यत् तत् नित्यम् सत्-असत्-आत्मकम् । प्रधानम् प्रकृतिः च इति यत् आहुः तत्त्व-चिन्तकाः ॥ ४।६॥
avyaktam kāraṇam yat tat nityam sat-asat-ātmakam . pradhānam prakṛtiḥ ca iti yat āhuḥ tattva-cintakāḥ .. 4.6..
गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ ४.७॥
गन्ध-वर्ण-रसैः हीनम् शब्द-स्पर्श-विवर्जितम् । अजरम् ध्रुवम् अक्षय्यम् नित्यम् स्व-आत्मनि अवस्थितम् ॥ ४।७॥
gandha-varṇa-rasaiḥ hīnam śabda-sparśa-vivarjitam . ajaram dhruvam akṣayyam nityam sva-ātmani avasthitam .. 4.7..
जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ॥ ४.८॥
जगत्-योनिः महाभूतम् परम् ब्रह्म सनातनम् । विग्रहः सर्व-भूतानाम् आत्मना अधिष्ठितम् महत् ॥ ४।८॥
jagat-yoniḥ mahābhūtam param brahma sanātanam . vigrahaḥ sarva-bhūtānām ātmanā adhiṣṭhitam mahat .. 4.8..
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥ ४.९॥
अनादि-अन्तम् अजम् सूक्ष्मम् त्रिगुणम् प्रभव-अप्ययम् । असांप्रतम् अविज्ञेयम् ब्रह्म अग्रे समवर्त्तत ॥ ४।९॥
anādi-antam ajam sūkṣmam triguṇam prabhava-apyayam . asāṃpratam avijñeyam brahma agre samavarttata .. 4.9..
गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥ ४.१॥
गुण-साम्ये तदा तस्मिन् पुरुषे च आत्मनि स्थिते । प्राकृतः प्रलयः ज्ञेयः यावत् विश्व-समुद्भवः ॥ ४।१॥
guṇa-sāmye tadā tasmin puruṣe ca ātmani sthite . prākṛtaḥ pralayaḥ jñeyaḥ yāvat viśva-samudbhavaḥ .. 4.1..
ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता । अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ ४.११॥
ब्राह्मी रात्रिः इयम् प्रोक्ता अहर् सृष्टिः उदाहृता । अहर् न विद्यते तस्य न रात्रिः हि उपचारतः ॥ ४।११॥
brāhmī rātriḥ iyam proktā ahar sṛṣṭiḥ udāhṛtā . ahar na vidyate tasya na rātriḥ hi upacārataḥ .. 4.11..
निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् । सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ॥ ४.१२॥
निशा-अन्ते प्रतिबुद्धः असौ जगत्-आदिः अनादिमान् । सर्व-भूत-मयः अव्यक्ता दन्तर्यामी ईश्वरः परः ॥ ४।१२॥
niśā-ante pratibuddhaḥ asau jagat-ādiḥ anādimān . sarva-bhūta-mayaḥ avyaktā dantaryāmī īśvaraḥ paraḥ .. 4.12..
प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ४.१३॥
प्रकृतिम् पुरुषम् च एव प्रविश्य आशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ४।१३॥
prakṛtim puruṣam ca eva praviśya āśu maheśvaraḥ . kṣobhayāmāsa yogena pareṇa parameśvaraḥ .. 4.13..
यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ ४.१४॥
यथा मदः नर-स्त्रीणाम् यथा वा माधवः अनिलः । अनुप्रविष्टः क्षोभाय तथा असौ योग-मूर्तिमान् ॥ ४।१४॥
yathā madaḥ nara-strīṇām yathā vā mādhavaḥ anilaḥ . anupraviṣṭaḥ kṣobhāya tathā asau yoga-mūrtimān .. 4.14..
स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः । स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥ ४.१५॥
सः एव क्षोभकः विप्राः क्षोभ्यः च परमेश्वरः । स संकोच-विकासाभ्याम् प्रधान-त्वे व्यवस्थितः ॥ ४।१५॥
saḥ eva kṣobhakaḥ viprāḥ kṣobhyaḥ ca parameśvaraḥ . sa saṃkoca-vikāsābhyām pradhāna-tve vyavasthitaḥ .. 4.15..
प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥ ४.१६॥
प्रधानात् क्षोभ्यमानात् च तथा पुंसः पुरातनात् । प्रादुरासीत् महत्-बीजम् प्रधान-पुरुष-आत्मकम् ॥ ४।१६॥
pradhānāt kṣobhyamānāt ca tathā puṃsaḥ purātanāt . prādurāsīt mahat-bījam pradhāna-puruṣa-ātmakam .. 4.16..
महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः । प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥ ४.१७॥
महान् आत्मा मतिः ब्रह्मा प्रबुद्धिः ख्यातिः ईश्वरः । प्रज्ञा-धृतिः स्मृतिः संविद् एतस्मात् इति तत् स्मृतम् ॥ ४।१७॥
mahān ātmā matiḥ brahmā prabuddhiḥ khyātiḥ īśvaraḥ . prajñā-dhṛtiḥ smṛtiḥ saṃvid etasmāt iti tat smṛtam .. 4.17..
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महतः संबभूव ह ॥ ४.१८॥
वैकारिकः तैजसः च भूतादिः च एव तामसः । त्रिविधः अयम् अहंकारः महतः संबभूव ह ॥ ४।१८॥
vaikārikaḥ taijasaḥ ca bhūtādiḥ ca eva tāmasaḥ . trividhaḥ ayam ahaṃkāraḥ mahataḥ saṃbabhūva ha .. 4.18..
अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः । आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ॥ ४.१९॥
अहंकारः अबिमानः च कर्त्ता मन्ता च स स्मृतः । आत्मा च पुद्गलः जीवः गतः सर्वाः प्रवृत्तयः ॥ ४।१९॥
ahaṃkāraḥ abimānaḥ ca karttā mantā ca sa smṛtaḥ . ātmā ca pudgalaḥ jīvaḥ gataḥ sarvāḥ pravṛttayaḥ .. 4.19..
पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ ४.२॥
पञ्चभूतानि अहंकारात् तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वम् तस्य आत्मजम् जगत् ॥ ४।२॥
pañcabhūtāni ahaṃkārāt tanmātrāṇi ca jajñire . indriyāṇi tathā devāḥ sarvam tasya ātmajam jagat .. 4.2..
मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः । येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ॥ ४.२१॥
मनः तु अव्यक्त-जम् प्रोक्तम् विकारः प्रथमः स्मृतः । येन असौ जायते कर्त्ता भूत-आदीन् च अनुपश्यति ॥ ४।२१॥
manaḥ tu avyakta-jam proktam vikāraḥ prathamaḥ smṛtaḥ . yena asau jāyate karttā bhūta-ādīn ca anupaśyati .. 4.21..
वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् । तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ ४.२२॥
वैकारिकात् अहंकारात् सर्गः वैकारिकः अभवत् । तैजसानि इन्द्रियाणि स्युः देवाः वैकारिकाः दश ॥ ४।२२॥
vaikārikāt ahaṃkārāt sargaḥ vaikārikaḥ abhavat . taijasāni indriyāṇi syuḥ devāḥ vaikārikāḥ daśa .. 4.22..
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ॥ ४.२३॥
एकादशम् मनः तत्र स्व-गुणेन उभय-आत्मकम् । भूत-तन्मात्र-सर्गः अयम् भूतादेः अभवत् विजाः ॥ ४।२३॥
ekādaśam manaḥ tatra sva-guṇena ubhaya-ātmakam . bhūta-tanmātra-sargaḥ ayam bhūtādeḥ abhavat vijāḥ .. 4.23..
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ ४.२४॥
भूतादिः तु विकुर्वाणः शब्द-मात्रम् ससर्ज ह । आकाशम् सुषिरम् तस्मात् उत्पन्नम् शब्द-लक्षणम् ॥ ४।२४॥
bhūtādiḥ tu vikurvāṇaḥ śabda-mātram sasarja ha . ākāśam suṣiram tasmāt utpannam śabda-lakṣaṇam .. 4.24..
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ॥ ४.२५॥
आकाशः तु विकुर्वाणः स्पर्श-मात्रम् ससर्ज ह । वायुः उत्पद्यते तस्मात् तस्य स्पर्शः गुणम् विदुः ॥ ४।२५॥
ākāśaḥ tu vikurvāṇaḥ sparśa-mātram sasarja ha . vāyuḥ utpadyate tasmāt tasya sparśaḥ guṇam viduḥ .. 4.25..
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ४.२६॥
वायुः च अपि विकुर्वाणः रूप-मात्रम् ससर्ज ह । ज्योतिः उत्पद्यते वायोः तद्-रूप-गुणम् उच्यते ॥ ४।२६॥
vāyuḥ ca api vikurvāṇaḥ rūpa-mātram sasarja ha . jyotiḥ utpadyate vāyoḥ tad-rūpa-guṇam ucyate .. 4.26..
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥ ४.२७॥
ज्योतिः च अपि विकुर्वाणम् रस-मात्रम् ससर्ज ह । संभवन्ति ततस् अम्भांसि रस-आधाराणि तानि तु ॥ ४।२७॥
jyotiḥ ca api vikurvāṇam rasa-mātram sasarja ha . saṃbhavanti tatas ambhāṃsi rasa-ādhārāṇi tāni tu .. 4.27..
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥ ४.२८॥
आपः च अपि विकुर्वत्यः गन्ध-मात्रम् ससर्जिरे । संघातः जायते तस्मात् तस्य गन्धः गुणः मतः ॥ ४।२८॥
āpaḥ ca api vikurvatyaḥ gandha-mātram sasarjire . saṃghātaḥ jāyate tasmāt tasya gandhaḥ guṇaḥ mataḥ .. 4.28..
आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ४.२९॥
आकाशम् शब्द-मात्रम् यत् स्पर्श-मात्रम् समावृणोत् । द्विगुणः तु ततस् वायुः शब्द-स्पर्श-आत्मकः अभवत् ॥ ४।२९॥
ākāśam śabda-mātram yat sparśa-mātram samāvṛṇot . dviguṇaḥ tu tatas vāyuḥ śabda-sparśa-ātmakaḥ abhavat .. 4.29..
रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ । त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥ ४.३॥
रूपम् तथा एव आविशतः शब्द-स्पर्शौ गुणौ उभौ । त्रिगुणः स्यात् ततस् वह्निः स शब्द-स्पर्श-रूपवान् ॥ ४।३॥
rūpam tathā eva āviśataḥ śabda-sparśau guṇau ubhau . triguṇaḥ syāt tatas vahniḥ sa śabda-sparśa-rūpavān .. 4.3..
शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ४.३१॥
शब्दः स्पर्शः च रूपम् च रस-मात्रम् समाविशन् । तस्मात् चतुर्गुणाः आपः विज्ञेयाः तु रस-आत्मिकाः ॥ ४।३१॥
śabdaḥ sparśaḥ ca rūpam ca rasa-mātram samāviśan . tasmāt caturguṇāḥ āpaḥ vijñeyāḥ tu rasa-ātmikāḥ .. 4.31..
शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् । तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ ४.३२॥
शब्दः स्पर्शः च रूपम् च रसः गन्धम् समाविशन् । तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ ४।३२॥
śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandham samāviśan . tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate .. 4.32..
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥ ४.३३॥
शान्ताः घोराः च मूढाः च विशेषाः तेन ते स्मृताः । परस्पर-अनुप्रवेशात् धारयन्ति परस्परम् ॥ ४।३३॥
śāntāḥ ghorāḥ ca mūḍhāḥ ca viśeṣāḥ tena te smṛtāḥ . paraspara-anupraveśāt dhārayanti parasparam .. 4.33..
एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् । नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ ४.३४॥
एते सप्त महात्मानः हि अन्योन्यस्य समाश्रयात् । न अशक्नुवन् प्रजाः स्त्रष्टुम् अ समागम्य कृत्स्नशस् ॥ ४।३४॥
ete sapta mahātmānaḥ hi anyonyasya samāśrayāt . na aśaknuvan prajāḥ straṣṭum a samāgamya kṛtsnaśas .. 4.34..
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ ४.३५॥
पुरुष-धिष्ठित-त्वात् च अव्यक्त-अनुग्रहेण च । महाद-आदयः विशेष-अन्ताः ह्मण्डम् उत्पादयन्ति ते ॥ ४।३५॥
puruṣa-dhiṣṭhita-tvāt ca avyakta-anugraheṇa ca . mahāda-ādayaḥ viśeṣa-antāḥ hmaṇḍam utpādayanti te .. 4.35..
एककालसमुत्पन्नं जलबुद्बुदवच्च तत् । विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ॥ ४.३६॥
एक-काल-समुत्पन्नम् जल-बुद्बुद-वत् च तत् । विशेषेभ्यः अण्डम् अभवत् बृहत् तत् उदकेशयम् ॥ ४।३६॥
eka-kāla-samutpannam jala-budbuda-vat ca tat . viśeṣebhyaḥ aṇḍam abhavat bṛhat tat udakeśayam .. 4.36..
तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ४.३७॥
तस्मिन् कार्यस्य करणम् संसिद्धिः परमेष्ठिनः । प्राकृते अण्डे विवृद्धे तु क्षेत्रज्ञः ब्रह्म-संज्ञितः ॥ ४।३७॥
tasmin kāryasya karaṇam saṃsiddhiḥ parameṣṭhinaḥ . prākṛte aṇḍe vivṛddhe tu kṣetrajñaḥ brahma-saṃjñitaḥ .. 4.37..
स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥ ४.३८॥
स वै शरीरी प्रथमः स वै पुरुषः उच्यते । आदिकर्त्ता स भूतानाम् ब्रह्म अग्रे समवर्त्तत ॥ ४।३८॥
sa vai śarīrī prathamaḥ sa vai puruṣaḥ ucyate . ādikarttā sa bhūtānām brahma agre samavarttata .. 4.38..
यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् । हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ ४.३९॥
यम् आहुः पुरुषम् हंसम् प्रधानात् परतस् स्थितम् । हिरण्यगर्भम् कपिलम् छन्दः-मूर्ति सनातनम् ॥ ४।३९॥
yam āhuḥ puruṣam haṃsam pradhānāt paratas sthitam . hiraṇyagarbham kapilam chandaḥ-mūrti sanātanam .. 4.39..
मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः । गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ ४.४॥
मेरुः उल्बम् अभूत् तस्य जरायुः च अपि पर्वताः । गर्भ-उदकम् समुद्राः च तस्य आसन् परमात्मनः ॥ ४।४॥
meruḥ ulbam abhūt tasya jarāyuḥ ca api parvatāḥ . garbha-udakam samudrāḥ ca tasya āsan paramātmanaḥ .. 4.4..
तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ४.४१॥
तस्मिन् अण्डे अभवत् विश्वम् स देव-असुर-मानुषम् । चन्द्र-आदित्यौ स नक्षत्रौ स ग्रहौ सह वायुना ॥ ४।४१॥
tasmin aṇḍe abhavat viśvam sa deva-asura-mānuṣam . candra-ādityau sa nakṣatrau sa grahau saha vāyunā .. 4.41..
अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ ४.४२॥
अद्भिः दशगुणाभिः च बाह्यतस् अण्डम् समावृतम् । आपः दशगुणेन एव तेजसा बाह्यतस् वृताः ॥ ४।४२॥
adbhiḥ daśaguṇābhiḥ ca bāhyatas aṇḍam samāvṛtam . āpaḥ daśaguṇena eva tejasā bāhyatas vṛtāḥ .. 4.42..
तेजो दशगुणेनैव बाह्यतो वायुनावृतम् । आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ ४.४३॥
तेजः दशगुणेन एव बाह्यतस् वायुना आवृतम् । आकाशेन आवृतः वायुः खम् तु भूतादिना आवृतम् ॥ ४।४३॥
tejaḥ daśaguṇena eva bāhyatas vāyunā āvṛtam . ākāśena āvṛtaḥ vāyuḥ kham tu bhūtādinā āvṛtam .. 4.43..
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ ४.४४॥
भूतादिः महता तद्वत् अव्यक्तेन आवृतः महान् । एते लोकाः महात्मनः सर्व-तत्त्व-अभिमानिनः ॥ ४।४४॥
bhūtādiḥ mahatā tadvat avyaktena āvṛtaḥ mahān . ete lokāḥ mahātmanaḥ sarva-tattva-abhimāninaḥ .. 4.44..
वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः । ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ ४.४५॥
वसन्ति तत्र पुरुषाः तद्-आत्मानः व्यवस्थिताः । ईश्वराः योग-धर्माणः ये च अन्ये तत्त्व-चिन्तकाः ॥ ४।४५॥
vasanti tatra puruṣāḥ tad-ātmānaḥ vyavasthitāḥ . īśvarāḥ yoga-dharmāṇaḥ ye ca anye tattva-cintakāḥ .. 4.45..
सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः । एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ॥ ४.४६॥
सर्व-ज्ञाः शान्त-रजसः नित्यम् मुदित-मानसाः । एतैः आवरणैः अण्डम् प्राकृतैः सप्तभिः वृतम् ॥ ४।४६॥
sarva-jñāḥ śānta-rajasaḥ nityam mudita-mānasāḥ . etaiḥ āvaraṇaiḥ aṇḍam prākṛtaiḥ saptabhiḥ vṛtam .. 4.46..
एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः । एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ॥ ४.४७॥
एतावत् शक्यते वक्तुम् माया एषा गहना द्विजाः । एतत् प्राधानिकम् कार्यम् यत् मया बीजम् ईरितम् ॥ ४।४७॥
etāvat śakyate vaktum māyā eṣā gahanā dvijāḥ . etat prādhānikam kāryam yat mayā bījam īritam .. 4.47..
प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः । ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ॥ ४.४८॥
प्रजापतेः परा मूर्त्तिः इति इयम् वैदिकी श्रुतिः । ब्रह्माण्डम् एतत् सकलम् सप्तलोक-तल-अन्वितम् ॥ ४।४८॥
prajāpateḥ parā mūrttiḥ iti iyam vaidikī śrutiḥ . brahmāṇḍam etat sakalam saptaloka-tala-anvitam .. 4.48..
द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः । हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ॥ ४.४९॥
द्वितीयम् तस्य देवस्य शरीरम् परमेष्ठिनः । हिरण्यगर्भः भगवान् ब्रह्मा वै कनक-अण्ड-जः ॥ ४।४९॥
dvitīyam tasya devasya śarīram parameṣṭhinaḥ . hiraṇyagarbhaḥ bhagavān brahmā vai kanaka-aṇḍa-jaḥ .. 4.49..
तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः । रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ॥ ४.५॥
तृतीयम् भगवत्-रूपम् प्राहुः वेद-अर्थ-वेदिनः । रजः-गुण-मयम् च अन्यत् रूपम् तस्य एव धीमतः ॥ ४।५॥
tṛtīyam bhagavat-rūpam prāhuḥ veda-artha-vedinaḥ . rajaḥ-guṇa-mayam ca anyat rūpam tasya eva dhīmataḥ .. 4.5..
चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते । सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ॥ ४.५१॥
चतुर्मुखः स भगवान् जगत्-सृष्टौ प्रवर्त्तते । सृष्टम् च पाति सकलम् विश्वात्मा विश्वतोमुखः ॥ ४।५१॥
caturmukhaḥ sa bhagavān jagat-sṛṣṭau pravarttate . sṛṣṭam ca pāti sakalam viśvātmā viśvatomukhaḥ .. 4.51..
सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् । अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ॥ ४.५२॥
सत्त्वम् गुणम् उपाश्रित्य विष्णुः विश्वेश्वरः स्वयम् । अन्तकाले स्वयम् देवः सर्वात्मा परमेश्वरः ॥ ४।५२॥
sattvam guṇam upāśritya viṣṇuḥ viśveśvaraḥ svayam . antakāle svayam devaḥ sarvātmā parameśvaraḥ .. 4.52..
तमोगुणं समाश्रित्य रुद्रः संहरते जगत् । एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः । सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ॥ ४.५३॥
तमः-गुणम् समाश्रित्य रुद्रः संहरते जगत् । एकः अपि सन् महादेवः त्रिधा असौ समवस्थितः । सर्ग-रक्षा-लय-गुणैः निर्गुणः अपि निरञ्जनः । एकधा स द्विधा च एव त्रिधा च बहुधा गुणैः ॥ ४।५३॥
tamaḥ-guṇam samāśritya rudraḥ saṃharate jagat . ekaḥ api san mahādevaḥ tridhā asau samavasthitaḥ . sarga-rakṣā-laya-guṇaiḥ nirguṇaḥ api nirañjanaḥ . ekadhā sa dvidhā ca eva tridhā ca bahudhā guṇaiḥ .. 4.53..
योगेश्वरः शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ ४.५४॥
योगेश्वरः शरीराणि करोति विकरोति च । नाना आकृति-क्रिया-रूप-नामवन्ति स्व-लीलया ॥ ४।५४॥
yogeśvaraḥ śarīrāṇi karoti vikaroti ca . nānā ākṛti-kriyā-rūpa-nāmavanti sva-līlayā .. 4.54..
हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ ४.५५॥
हिताय च एव भक्तानाम् सः एव ग्रसते पुनर् । त्रिधा विभज्य च आत्मानम् त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते च एव वीक्षते च विशेषतः ॥ ४।५५॥
hitāya ca eva bhaktānām saḥ eva grasate punar . tridhā vibhajya ca ātmānam traikālye saṃpravartate . sṛjate grasate ca eva vīkṣate ca viśeṣataḥ .. 4.55..
यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः । गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥ ४.५६॥
यस्मात् सृष्ट्वा अनुगृह्णाति ग्रसते च पुनर् प्रजाः । गुण-आत्मक-त्वात् त्रैकाल्ये तस्मात् एकः सः उच्यते ॥ ४।५६॥
yasmāt sṛṣṭvā anugṛhṇāti grasate ca punar prajāḥ . guṇa-ātmaka-tvāt traikālye tasmāt ekaḥ saḥ ucyate .. 4.56..
अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥ ४.५७॥
अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदि-त्वात् आदिदेवः असौ अजात-त्वात् अजः स्मृतः ॥ ४।५७॥
agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ . ādi-tvāt ādidevaḥ asau ajāta-tvāt ajaḥ smṛtaḥ .. 4.57..
पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः । देवेषु च महादेवो महादेव इति स्मृतः ॥ ४.५८॥
पाति यस्मात् प्रजाः सर्वाः प्रजापतिः इति स्मृतः । देवेषु च महादेवः महादेवः इति स्मृतः ॥ ४।५८॥
pāti yasmāt prajāḥ sarvāḥ prajāpatiḥ iti smṛtaḥ . deveṣu ca mahādevaḥ mahādevaḥ iti smṛtaḥ .. 4.58..
बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः । वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥ ४.५९॥
बृहत्-त्वात् च स्मृतः ब्रह्मा पर-त्वात् परमेश्वरः । वशि-त्वात् अपि अवश्य-त्वात् ईश्वरः परिभाषितः ॥ ४।५९॥
bṛhat-tvāt ca smṛtaḥ brahmā para-tvāt parameśvaraḥ . vaśi-tvāt api avaśya-tvāt īśvaraḥ paribhāṣitaḥ .. 4.59..
ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः । अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥ ४.६॥
ऋषिः सर्वत्रग-त्वेन हरिः सर्व-हरः यतस् । अनुत्पादात् च पूर्व-त्वात् स्वयंभूः इति स स्मृतः ॥ ४।६॥
ṛṣiḥ sarvatraga-tvena hariḥ sarva-haraḥ yatas . anutpādāt ca pūrva-tvāt svayaṃbhūḥ iti sa smṛtaḥ .. 4.6..
नराणामयनं यस्मात् तेन नारायणः स्मृतः । हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥ ४.६१॥
नराणाम् अयनम् यस्मात् तेन नारायणः स्मृतः । हरः संसार-हरणात् विभु-त्वात् विष्णुः उच्यते ॥ ४।६१॥
narāṇām ayanam yasmāt tena nārāyaṇaḥ smṛtaḥ . haraḥ saṃsāra-haraṇāt vibhu-tvāt viṣṇuḥ ucyate .. 4.61..
भगवान् सर्वविज्ञानादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥ ४.६२॥
भगवान् सर्व-विज्ञानात् अवनादः ओम् इति स्मृतः । सर्वज्ञः सर्व-विज्ञानात् सर्वः सर्व-मयः यतस् ॥ ४।६२॥
bhagavān sarva-vijñānāt avanādaḥ om iti smṛtaḥ . sarvajñaḥ sarva-vijñānāt sarvaḥ sarva-mayaḥ yatas .. 4.62..
शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः । तारणात् सर्वदुःखानां तारकः परिगीयते ॥ ४.६३॥
शिवः स्यात् निर्मलः यस्मात् विभुः सर्व-गतः यतस् । तारणात् सर्व-दुःखानाम् तारकः परिगीयते ॥ ४।६३॥
śivaḥ syāt nirmalaḥ yasmāt vibhuḥ sarva-gataḥ yatas . tāraṇāt sarva-duḥkhānām tārakaḥ parigīyate .. 4.63..
बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् । अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥ ४.६४॥
बहुना अत्र किम् उक्तेन सर्वम् ब्रह्म-मयम् जगत् । अनेक-भेद-भिन्नः तु क्रीडते परमेश्वरः ॥ ४।६४॥
bahunā atra kim uktena sarvam brahma-mayam jagat . aneka-bheda-bhinnaḥ tu krīḍate parameśvaraḥ .. 4.64..
इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया । अबुद्धिपूर्विकां विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ ४.६५॥
इति एष प्राकृतः सर्गः संक्षेपात् कथितः मया । अ बुद्धि-पूर्विकाम् विप्राः ब्राह्मीम् सृष्टिम् निबोधत ॥ ४।६५॥
iti eṣa prākṛtaḥ sargaḥ saṃkṣepāt kathitaḥ mayā . a buddhi-pūrvikām viprāḥ brāhmīm sṛṣṭim nibodhata .. 4.65..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः॥ ४॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्वम् विभागे चतुर्थः अध्यायः॥ ४॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrvam vibhāge caturthaḥ adhyāyaḥ.. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In