| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच
एवमुक्तास्तु मुनयो नैमिषीया महामतिम् । पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥ ४०.१॥
एवम् उक्ताः तु मुनयः नैमिषीयाः महामतिम् । पप्रच्छुः उत्तरम् सूतम् पृथिवी-आदि-विनिर्णयम् ॥ ४०।१॥
evam uktāḥ tu munayaḥ naimiṣīyāḥ mahāmatim . papracchuḥ uttaram sūtam pṛthivī-ādi-vinirṇayam .. 40.1..
ऋषय ऊचुः
कथितो भवता सूत सर्गः स्वयंभुवः शुभः । इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥ ४०.२॥
कथितः भवता सूत सर्गः स्वयंभुवः शुभः । इदानीम् श्रोतुम् इच्छामः त्रिलोकस्य अस्य मण्डलम् ॥ ४०।२॥
kathitaḥ bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ . idānīm śrotum icchāmaḥ trilokasya asya maṇḍalam .. 40.2..
यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥ ४०.३॥
यावन्तः सागराः द्वीपाः तथा वर्षाणि पर्वताः । वनानि सरितः सूर्य-ग्रहाणाम् स्थितिः एव च ॥ ४०।३॥
yāvantaḥ sāgarāḥ dvīpāḥ tathā varṣāṇi parvatāḥ . vanāni saritaḥ sūrya-grahāṇām sthitiḥ eva ca .. 40.3..
यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् । नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥ ४०.४॥
यद्-आधारम् इदम् कृत्स्नम् येषाम् पृथ्वी पुरा तु इयम् । नृपाणाम् तत् समासेन सूत वक्तुम् इह अर्हसि ॥ ४०।४॥
yad-ādhāram idam kṛtsnam yeṣām pṛthvī purā tu iyam . nṛpāṇām tat samāsena sūta vaktum iha arhasi .. 40.4..
सूत उवाच
वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे । नमस्कृत्याप्रमेयाय यदुक्तं तेन धीमता ॥ ४०.५॥
वक्ष्ये देव-आदिदेवाय विष्णवे प्रभविष्णवे । नमस्कृत्य अप्रमेयाय यत् उक्तम् तेन धीमता ॥ ४०।५॥
vakṣye deva-ādidevāya viṣṇave prabhaviṣṇave . namaskṛtya aprameyāya yat uktam tena dhīmatā .. 40.5..
स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः । पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥ ४०.६॥
स्वायंभुवस्य तु मनोः प्राक् उक्तः यः प्रियव्रतः । पुत्रः तस्य अभवन् पुत्राः प्रजापति-समाः दश ॥ ४०।६॥
svāyaṃbhuvasya tu manoḥ prāk uktaḥ yaḥ priyavrataḥ . putraḥ tasya abhavan putrāḥ prajāpati-samāḥ daśa .. 40.6..
अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा । मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥ ४०.७॥
अग्नीध्रः च अग्निबाहुः च वपुष्मान् द्युतिमान् तथा । मेधाः मेधातिथिः हव्यः सवनः पुत्रः एव च ॥ ४०।७॥
agnīdhraḥ ca agnibāhuḥ ca vapuṣmān dyutimān tathā . medhāḥ medhātithiḥ havyaḥ savanaḥ putraḥ eva ca .. 40.7..
ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः । धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥ ४०.८॥
ज्योतिष्मान् दशमः तेषाम् महा-बल-पराक्रमः । धार्मिकः दान-निरतः सर्व-भूत-अनुकम्पकः ॥ ४०।८॥
jyotiṣmān daśamaḥ teṣām mahā-bala-parākramaḥ . dhārmikaḥ dāna-nirataḥ sarva-bhūta-anukampakaḥ .. 40.8..
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥ ४०.९॥
मेध-अग्निबाहु-पुत्राः तु त्रयः योग-परायणाः । जातिस्मराः महाभागाः न राज्ये दधिरे मतिम् ॥ ४०।९॥
medha-agnibāhu-putrāḥ tu trayaḥ yoga-parāyaṇāḥ . jātismarāḥ mahābhāgāḥ na rājye dadhire matim .. 40.9..
प्रियव्रतोऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् । जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥ ४०.१॥
प्रियव्रतः अभ्यषिञ्चत् वै सप्त-द्वीपेषु सप्त तान् । जम्बुद्वीप-ईश्वरम् पुत्रम् अग्नीध्रम् अकरोत् नृपः ॥ ४०।१॥
priyavrataḥ abhyaṣiñcat vai sapta-dvīpeṣu sapta tān . jambudvīpa-īśvaram putram agnīdhram akarot nṛpaḥ .. 40.1..
प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः । शाल्मलीशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥ ४०.११॥
प्लक्ष्द्वीप-ईश्वरः च एव तेन मेधातिथिः कृतः । शाल्मलीशम् वपुष्मन्तम् नरेन्द्रम् अभिषिक्तवान् ॥ ४०।११॥
plakṣdvīpa-īśvaraḥ ca eva tena medhātithiḥ kṛtaḥ . śālmalīśam vapuṣmantam narendram abhiṣiktavān .. 40.11..
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः । द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥ ४०.१२॥
ज्योतिष्मन्तम् कुशद्वीपे राजानम् कृतवान् प्रभुः । द्युतिमन्तम् च राजानम् क्रौञ्चद्वीपे समादिशत् ॥ ४०।१२॥
jyotiṣmantam kuśadvīpe rājānam kṛtavān prabhuḥ . dyutimantam ca rājānam krauñcadvīpe samādiśat .. 40.12..
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः । पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥ ४०.१३॥
शाकद्वीप-ईश्वरम् च अपि हव्यम् चक्रे प्रियव्रतः । पुष्कर-अधिपतिम् चक्रे सवनम् च प्रजापतिः ॥ ४०।१३॥
śākadvīpa-īśvaram ca api havyam cakre priyavrataḥ . puṣkara-adhipatim cakre savanam ca prajāpatiḥ .. 40.13..
पुष्करेश्वरतश्चापि महावीतः सुतोऽभवत् । धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ ४०.१४॥
पुष्करेश्वरतः च अपि महावीतः सुतः अभवत् । धातिकिः च एव द्वौ एतौ पुत्रौ पुत्रवताम् वरौ ॥ ४०।१४॥
puṣkareśvarataḥ ca api mahāvītaḥ sutaḥ abhavat . dhātikiḥ ca eva dvau etau putrau putravatām varau .. 40.14..
महावीतं स्मृतं वर्षं तस्य स्यात्तु महात्मनः । नाम्ना वैधातकेश्चापि धातकीखण्डमुच्यते ॥ ४०.१५॥
महावीतम् स्मृतम् वर्षम् तस्य स्यात् तु महात्मनः । नाम्ना वैधातकेः च अपि धातकीखण्डम् उच्यते ॥ ४०।१५॥
mahāvītam smṛtam varṣam tasya syāt tu mahātmanaḥ . nāmnā vaidhātakeḥ ca api dhātakīkhaṇḍam ucyate .. 40.15..
शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः । जलदश्च कुमारश्च सुकुमारो मणीचकः ॥ ४०.१६॥
शाकद्वीप-ईश्वरस्य अथ हव्यस्य अपि अभवन् सुताः । जलदः च कुमारः च सुकुमारः मणीचकः ॥ ४०।१६॥
śākadvīpa-īśvarasya atha havyasya api abhavan sutāḥ . jaladaḥ ca kumāraḥ ca sukumāraḥ maṇīcakaḥ .. 40.16..
कुशोत्तरोऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः । जलदं जलदस्याथ वर्षं प्रथममुच्यते॥ ४०.१७॥
कुशोत्तरः अथ मोदाकिः सप्तमः स्यात् महाद्रुमः । जलदम् जलदस्य अथ वर्षम् प्रथमम् उच्यते॥ ४०।१७॥
kuśottaraḥ atha modākiḥ saptamaḥ syāt mahādrumaḥ . jaladam jaladasya atha varṣam prathamam ucyate.. 40.17..
कुमारस्य तु कौमारं तृतीयं सुकुमारकम् । मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् ॥ ४०.१८॥
कुमारस्य तु कौमारम् तृतीयम् सुकुमारकम् । मणीचकम् चतुर्थम् तु पञ्चमम् कुसुमोत्तरम् ॥ ४०।१८॥
kumārasya tu kaumāram tṛtīyam sukumārakam . maṇīcakam caturtham tu pañcamam kusumottaram .. 40.18..
मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् । क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतोऽभवन् ॥ ४०.१९॥
मोदाकम् षष्ठम् इति उक्तम् सप्तमम् तु महाद्रुमम् । क्रौञ्च-द्वीप-ईश्वरस्य अपि सुताः द्युतिमतः अभवन् ॥ ४०।१९॥
modākam ṣaṣṭham iti uktam saptamam tu mahādrumam . krauñca-dvīpa-īśvarasya api sutāḥ dyutimataḥ abhavan .. 40.19..
कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः । उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः ॥ ४०.२॥
कुशलः प्रथमः तेषाम् द्वितीयः तु मनोहरः । उष्णः तृतीयः संप्रोक्तः चतुर्थः प्रवरः स्मृतः ॥ ४०।२॥
kuśalaḥ prathamaḥ teṣām dvitīyaḥ tu manoharaḥ . uṣṇaḥ tṛtīyaḥ saṃproktaḥ caturthaḥ pravaraḥ smṛtaḥ .. 40.2..
अन्धकारो मुनिश्चैव दुन्दुभिश्चेति सप्तमः । तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ ४०.२१॥
अन्धकारः मुनिः च एव दुन्दुभिः च इति सप्तमः । तेषाम् स्व-नामभिः देशाः क्रौञ्चद्वीप-आश्रयाः शुभाः ॥ ४०।२१॥
andhakāraḥ muniḥ ca eva dundubhiḥ ca iti saptamaḥ . teṣām sva-nāmabhiḥ deśāḥ krauñcadvīpa-āśrayāḥ śubhāḥ .. 40.21..
ज्योतिष्मतः कुशद्वीपे सप्तैवासन् महौजसः । उद्भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः ॥ ४०.२२॥
ज्योतिष्मतः कुशद्वीपे सप्त एव आसन् महा-ओजसः । उद्भेदः वेणुमन्त् च एव अश्वरथः लम्बनः धृतिः ॥ ४०।२२॥
jyotiṣmataḥ kuśadvīpe sapta eva āsan mahā-ojasaḥ . udbhedaḥ veṇumant ca eva aśvarathaḥ lambanaḥ dhṛtiḥ .. 40.22..
षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः । स्वनामचिह्निता यत्र तथा वर्षाणि सुव्रताः ॥ ४०.२३॥
षष्ठः प्रभाकारः च अपि सप्तमः कपिलः स्मृतः । स्व-नाम-चिह्निताः यत्र तथा वर्षाणि सुव्रताः ॥ ४०।२३॥
ṣaṣṭhaḥ prabhākāraḥ ca api saptamaḥ kapilaḥ smṛtaḥ . sva-nāma-cihnitāḥ yatra tathā varṣāṇi suvratāḥ .. 40.23..
ज्ञेयानि च तथान्येषु द्वीपेष्वेवं न यो मतः । शाल्मलिद्वीपनाथस्य सुताश्चासन् वपुष्मतः ॥ ४०.२४॥
ज्ञेयानि च तथा अन्येषु द्वीपेषु एवम् न यः मतः । शाल्मलि-द्वीप-नाथस्य सुताः च आसन् वपुष्मतः ॥ ४०।२४॥
jñeyāni ca tathā anyeṣu dvīpeṣu evam na yaḥ mataḥ . śālmali-dvīpa-nāthasya sutāḥ ca āsan vapuṣmataḥ .. 40.24..
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥ ४०.२५॥
श्वेतः च हरितः च एव जीमूतः रोहितः तथा । वैद्युतौ मानसः च एव सप्तमः सुप्रभः मतः ॥ ४०।२५॥
śvetaḥ ca haritaḥ ca eva jīmūtaḥ rohitaḥ tathā . vaidyutau mānasaḥ ca eva saptamaḥ suprabhaḥ mataḥ .. 40.25..
प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः । ज्येष्ठः शान्तमयस्तेषां शिशिरस्तु सुखोदयः॥ ४०.२६॥
प्लक्षद्वीप-ईश्वरस्य अपि सप्त मेधातिथेः सुताः । ज्येष्ठः शान्तमयः तेषाम् शिशिरः तु सुखोदयः॥ ४०।२६॥
plakṣadvīpa-īśvarasya api sapta medhātitheḥ sutāḥ . jyeṣṭhaḥ śāntamayaḥ teṣām śiśiraḥ tu sukhodayaḥ.. 40.26..
आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा । प्लक्षद्वीपादिषु ज्ञेयाः शाकद्वीपान्तिकेषु च ॥ ४०.२७॥
आनन्दः च शिवः च एव क्षेमकः च ध्रुवः तथा । प्लक्षद्वीप-आदिषु ज्ञेयाः शाकद्वीप-अन्तिकेषु च ॥ ४०।२७॥
ānandaḥ ca śivaḥ ca eva kṣemakaḥ ca dhruvaḥ tathā . plakṣadvīpa-ādiṣu jñeyāḥ śākadvīpa-antikeṣu ca .. 40.27..
वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः । जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः ॥ ४०.२८॥
वर्ण-आश्रम-विभागेन स्वधर्मः मुक्तये द्विजाः । जम्बुद्वीप-ईश्वरस्य अपि पुत्राः तु आसन् महा-बलाः ॥ ४०।२८॥
varṇa-āśrama-vibhāgena svadharmaḥ muktaye dvijāḥ . jambudvīpa-īśvarasya api putrāḥ tu āsan mahā-balāḥ .. 40.28..
अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत । नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ॥ ४०.२९॥
अग्नीध्रस्य द्विजश्रेष्ठाः तद्-नामानि निबोधत । नाभिः किंपुरुषः च एव तथा हरिः इलावृतः ॥ ४०।२९॥
agnīdhrasya dvijaśreṣṭhāḥ tad-nāmāni nibodhata . nābhiḥ kiṃpuruṣaḥ ca eva tathā hariḥ ilāvṛtaḥ .. 40.29..
रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमालकः । जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः ॥ ४०.३॥
रम्यः हिरण्वान् च कुरुः भद्राश्वः केतुमालकः । जम्बुद्वीप-ईश्वरः राजा स च अग्नीध्रः महामतिः ॥ ४०।३॥
ramyaḥ hiraṇvān ca kuruḥ bhadrāśvaḥ ketumālakaḥ . jambudvīpa-īśvaraḥ rājā sa ca agnīdhraḥ mahāmatiḥ .. 40.3..
विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः । नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पिता ॥ ४०.३१॥
विभज्य नवधा तेभ्यः यथान्यायम् ददौ पुनर् । नाभेः तु दक्षिणम् वर्षम् हिमाह्वम् प्रददौ पिता ॥ ४०।३१॥
vibhajya navadhā tebhyaḥ yathānyāyam dadau punar . nābheḥ tu dakṣiṇam varṣam himāhvam pradadau pitā .. 40.31..
हेमकूटं ततो वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरये दत्तवान् पिता ॥ ४०.३२॥
हेमकूटम् ततस् वर्षम् ददौ किंपुरुषाय सः । तृतीयम् नैषधम् वर्षम् हरये दत्तवान् पिता ॥ ४०।३२॥
hemakūṭam tatas varṣam dadau kiṃpuruṣāya saḥ . tṛtīyam naiṣadham varṣam haraye dattavān pitā .. 40.32..
इलावृताय प्रददौ मेरुमध्यमिलावृतम् । नीलाचलाश्रृतं वर्षं रम्याय प्रददौ पिता ॥ ४०.३३॥
इलावृताय प्रददौ मेरु-मध्यम् इलावृतम् । नील-अचल-आश्रृतम् वर्षम् रम्याय प्रददौ पिता ॥ ४०।३३॥
ilāvṛtāya pradadau meru-madhyam ilāvṛtam . nīla-acala-āśrṛtam varṣam ramyāya pradadau pitā .. 40.33..
श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते । यदुत्तरं श्रृङ्गवतो वर्षं तत् कुरुवे ददौ ॥ ४०.३४॥
श्वेतम् यत् उत्तरम् वर्षम् पित्रा दत्तम् हिरण्वते । यत् उत्तरम् श्रृङ्गवतः वर्षम् तत् कुरुवे ददौ ॥ ४०।३४॥
śvetam yat uttaram varṣam pitrā dattam hiraṇvate . yat uttaram śrṛṅgavataḥ varṣam tat kuruve dadau .. 40.34..
मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् । गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ ४०.३५॥
मेरोः पूर्वेण यत् वर्षम् भद्राश्वाय न्यवेदयत् । गन्धमादन-वर्षम् तु केतुमालाय दत्तवान् ॥ ४०।३५॥
meroḥ pūrveṇa yat varṣam bhadrāśvāya nyavedayat . gandhamādana-varṣam tu ketumālāya dattavān .. 40.35..
वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः । संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥ ४०.३६॥
वर्षेषु एतेषु तान् पुत्रान् अभिषिच्य नराधिपः । संसार-कष्ट-ताम् ज्ञात्वा तपः तेपे वनम् गतः ॥ ४०।३६॥
varṣeṣu eteṣu tān putrān abhiṣicya narādhipaḥ . saṃsāra-kaṣṭa-tām jñātvā tapaḥ tepe vanam gataḥ .. 40.36..
हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः । तस्यर्षभोऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ॥ ४०.३७॥
हिमाह्वयम् तु यस्य एतत् नाभेः आसीत् महात्मनः । तस्य ऋषभः अभवत् पुत्रः मरुदेव्याम् महा-द्युतिः ॥ ४०।३७॥
himāhvayam tu yasya etat nābheḥ āsīt mahātmanaḥ . tasya ṛṣabhaḥ abhavat putraḥ marudevyām mahā-dyutiḥ .. 40.37..
ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः॥ ४०.३८॥
ऋषभात् भरतः जज्ञे वीरः पुत्र-शत-अग्रजः । सः अभिषिच्य ऋषभः पुत्रम् भरतम् पृथिवीपतिः॥ ४०।३८॥
ṛṣabhāt bharataḥ jajñe vīraḥ putra-śata-agrajaḥ . saḥ abhiṣicya ṛṣabhaḥ putram bharatam pṛthivīpatiḥ.. 40.38..
वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि । तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः॥ ४०.३९॥
वानप्रस्थ-आश्रमम् गत्वा तपः तेपे यथाविधि । तपसा कर्षितः अत्यर्थम् कृशः धमनि-सन्ततः॥ ४०।३९॥
vānaprastha-āśramam gatvā tapaḥ tepe yathāvidhi . tapasā karṣitaḥ atyartham kṛśaḥ dhamani-santataḥ.. 40.39..
ज्ञानयोगरतो भूत्वा महापाशुपतोऽभवत् । सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः॥ ४०.४॥
ज्ञान-योग-रतः भूत्वा महापाशुपतः अभवत् । सुमतिः भरतस्य अभूत् पुत्रः परम-धार्मिकः॥ ४०।४॥
jñāna-yoga-rataḥ bhūtvā mahāpāśupataḥ abhavat . sumatiḥ bharatasya abhūt putraḥ parama-dhārmikaḥ.. 40.4..
सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो महाद्युतिः । परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः॥ ४०.४१॥
सुमतेः तैजसः तस्मात् इन्द्रिद्युम्नः महा-द्युतिः । परमेष्ठी सुतः तस्मात् प्रतीहारः तद्-अन्वयः॥ ४०।४१॥
sumateḥ taijasaḥ tasmāt indridyumnaḥ mahā-dyutiḥ . parameṣṭhī sutaḥ tasmāt pratīhāraḥ tad-anvayaḥ.. 40.41..
प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथोद्गीथः प्रस्तावस्तत्सुतोऽभवत् ॥ ४०.४२॥
प्रतिहर्त्ता इति विख्यातः उत्पन्नः तस्य च आत्मजः । भवः तस्मात् अथ उद्गीथः प्रस्तावः तद्-सुतः अभवत् ॥ ४०।४२॥
pratiharttā iti vikhyātaḥ utpannaḥ tasya ca ātmajaḥ . bhavaḥ tasmāt atha udgīthaḥ prastāvaḥ tad-sutaḥ abhavat .. 40.42..
पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः स्मृतः । नरो गयस्य तनयस्तस्य पुत्रो विराडभूत्॥ ४०.४३॥
पृथुः ततस् ततस् नक्तः नक्तस्य अपि गयः स्मृतः । नरः गयस्य तनयः तस्य पुत्रः विराज् अभूत्॥ ४०।४३॥
pṛthuḥ tatas tatas naktaḥ naktasya api gayaḥ smṛtaḥ . naraḥ gayasya tanayaḥ tasya putraḥ virāj abhūt.. 40.43..
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत । धीमतोऽपि ततश्चाभूद् शौचनस्तत्सुतोऽभवत्॥ ४०.४४॥
तस्य पुत्रः महा-वीर्यः धीमान् तस्मात् अजायत । धीमतः अपि ततस् च अभूत् शौचनः तद्-सुतः अभवत्॥ ४०।४४॥
tasya putraḥ mahā-vīryaḥ dhīmān tasmāt ajāyata . dhīmataḥ api tatas ca abhūt śaucanaḥ tad-sutaḥ abhavat.. 40.44..
त्वष्टा त्वष्टुश्च विरजो रजस्तस्मादभूत् सुतः । शतजिद् रथजित्तस्य जज्ञे पुत्रशतं द्विजाः ॥ ४०.४५॥
त्वष्टा त्वष्टुः च विरजः रजः तस्मात् अभूत् सुतः । शतजित् रथजित् तस्य जज्ञे पुत्र-शतम् द्विजाः ॥ ४०।४५॥
tvaṣṭā tvaṣṭuḥ ca virajaḥ rajaḥ tasmāt abhūt sutaḥ . śatajit rathajit tasya jajñe putra-śatam dvijāḥ .. 40.45..
तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः । आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम्॥ ४०.४६॥
तेषाम् प्रधानः बलवान् विश्वज्योतिः इति स्मृतः । आराध्य देवम् ब्रह्माणम् क्षेमकम् नाम पार्थिवम्॥ ४०।४६॥
teṣām pradhānaḥ balavān viśvajyotiḥ iti smṛtaḥ . ārādhya devam brahmāṇam kṣemakam nāma pārthivam.. 40.46..
असूत पुत्रं धर्मज्ञं महाबाहुमरिंदमम् । एते पुरस्ताद् राजानो महासत्त्वा महौजसः ॥ ४०.४७॥
असूत पुत्रम् धर्म-ज्ञम् महा-बाहुम् अरिंदमम् । एते पुरस्तात् राजानः महा-सत्त्वाः महा-ओजसः ॥ ४०।४७॥
asūta putram dharma-jñam mahā-bāhum ariṃdamam . ete purastāt rājānaḥ mahā-sattvāḥ mahā-ojasaḥ .. 40.47..
एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥ ४०.४८॥
एषाम् वंश-प्रसूतैः च भुक्ता इयम् पृथिवी पुरा ॥ ४०।४८॥
eṣām vaṃśa-prasūtaiḥ ca bhuktā iyam pṛthivī purā .. 40.48..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिंशोऽध्यायः ॥ ४०॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे चत्वारिंशः अध्यायः ॥ ४०॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge catvāriṃśaḥ adhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In