| |
|

This overlay will guide you through the buttons:

सूत उवाच
अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ ४१.१॥
अतस् परम् प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्य अस्य मानम् वः न शक्यम् विस्तरेण तु ॥ ४१।१॥
atas param pravakṣyāmi saṃkṣepeṇa dvijottamāḥ . trailokyasya asya mānam vaḥ na śakyam vistareṇa tu .. 41.1..
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः । जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ ४१.२॥
भूर्लोकः अथ भुवर्लोकः स्वर्लोकः अथ महः ततस् । जनः तपः च सत्यम् च लोकाः तु अण्ड-उद्भवाः मताः ॥ ४१।२॥
bhūrlokaḥ atha bhuvarlokaḥ svarlokaḥ atha mahaḥ tatas . janaḥ tapaḥ ca satyam ca lokāḥ tu aṇḍa-udbhavāḥ matāḥ .. 41.2..
सूर्याचन्द्रमसौ यावत् किरणैरेव भासतः । तावद् भूर्लोक आख्यातः पुराणे द्विजपुंगवाः ॥ ४१.३॥
सूर्याचन्द्रमसौ यावत् किरणैः एव भासतः । तावत् भूर्लोकः आख्यातः पुराणे द्विज-पुंगवाः ॥ ४१।३॥
sūryācandramasau yāvat kiraṇaiḥ eva bhāsataḥ . tāvat bhūrlokaḥ ākhyātaḥ purāṇe dvija-puṃgavāḥ .. 41.3..
यावत्प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् । भुवर्लोकोऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु ॥ ४१.४॥
यावत्-प्रमाणः भूर्लोकः विस्तरात् परिमण्डलात् । भुवर्लोकः अपि तावान् स्यात् मण्डलात् भास्करस्य तु ॥ ४१।४॥
yāvat-pramāṇaḥ bhūrlokaḥ vistarāt parimaṇḍalāt . bhuvarlokaḥ api tāvān syāt maṇḍalāt bhāskarasya tu .. 41.4..
ऊर्ध्वं यन्मण्डलं व्योम्नि ध्रुवो यावद्व्यवस्थितः । स्वर्लोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥ ४१.५॥
ऊर्ध्वम् यत् मण्डलम् व्योम्नि ध्रुवः यावत् व्यवस्थितः । स्वर् लोकः समाख्यातः तत्र वायोः तु नेमयः ॥ ४१।५॥
ūrdhvam yat maṇḍalam vyomni dhruvaḥ yāvat vyavasthitaḥ . svar lokaḥ samākhyātaḥ tatra vāyoḥ tu nemayaḥ .. 41.5..
आवहः प्रवहश्चैव तथैवानुवहः पुनः । संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥ ४१.६॥
आवहः प्रवहः च एव तथा एव अनुवहः पुनर् । संवहः विवहः च अथ तद्-ऊर्ध्वम् स्यात् परावहः ॥ ४१।६॥
āvahaḥ pravahaḥ ca eva tathā eva anuvahaḥ punar . saṃvahaḥ vivahaḥ ca atha tad-ūrdhvam syāt parāvahaḥ .. 41.6..
तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः । भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ ४१.७॥
तथा परिवहः च ऊर्ध्वम् वायोः वै सप्त नेमयः । भूमेः योजन-लक्षे तु भानोः वै मण्डलम् स्थितम् ॥ ४१।७॥
tathā parivahaḥ ca ūrdhvam vāyoḥ vai sapta nemayaḥ . bhūmeḥ yojana-lakṣe tu bhānoḥ vai maṇḍalam sthitam .. 41.7..
लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् । नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ ४१.८॥
लक्षे दिवाकरस्य अपि मण्डलम् शशिनः स्मृतम् । नक्षत्र-मण्डलम् कृत्स्नम् तत् लक्षेण प्रकाशते ॥ ४१।८॥
lakṣe divākarasya api maṇḍalam śaśinaḥ smṛtam . nakṣatra-maṇḍalam kṛtsnam tat lakṣeṇa prakāśate .. 41.8..
द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ४१.९॥
द्वे-लक्षे हि उत्तरे विप्राः बुधः नक्षत्र-मण्डलात् । तावत्-प्रमाण-भागे तु बुधस्य अपि उशनाः स्थितः ॥ ४१।९॥
dve-lakṣe hi uttare viprāḥ budhaḥ nakṣatra-maṇḍalāt . tāvat-pramāṇa-bhāge tu budhasya api uśanāḥ sthitaḥ .. 41.9..
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ ४१.१॥
अङ्गारकः अपि शुक्रस्य तद्-प्रमाणः व्यवस्थितः । लक्ष-द्वयेन भौमस्य स्थितः देवपुरोहितः ॥ ४१।१॥
aṅgārakaḥ api śukrasya tad-pramāṇaḥ vyavasthitaḥ . lakṣa-dvayena bhaumasya sthitaḥ devapurohitaḥ .. 41.1..
सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलात् । सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ ४१.११॥
सौरिः द्वि-लक्षेण गुरोः ग्रहाणाम् अथ मण्डलात् । सप्तर्षि-मण्डलम् तस्मात् लक्ष-मात्रे प्रिकाशते ॥ ४१।११॥
sauriḥ dvi-lakṣeṇa guroḥ grahāṇām atha maṇḍalāt . saptarṣi-maṇḍalam tasmāt lakṣa-mātre prikāśate .. 41.11..
ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रृवः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ ४१.१२॥
ऋषीणाम् मण्डलात् ऊर्ध्वम् लक्ष-मात्रे स्थितः ध्रृवः । मेढी-भूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुः नारायणः स्थितः ॥ ४१।१२॥
ṛṣīṇām maṇḍalāt ūrdhvam lakṣa-mātre sthitaḥ dhrṛvaḥ . meḍhī-bhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ . tatra dharmaḥ sa bhagavān viṣṇuḥ nārāyaṇaḥ sthitaḥ .. 41.12..
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ ४१.१३॥
नव-योजन-साहस्रः विष्कम्भः सवितुः स्मृतः । त्रिगुणः तस्य विस्तारः मण्डलस्य प्रमाणतः ॥ ४१।१३॥
nava-yojana-sāhasraḥ viṣkambhaḥ savituḥ smṛtaḥ . triguṇaḥ tasya vistāraḥ maṇḍalasya pramāṇataḥ .. 41.13..
द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः । तुल्यस्तयोस्तु स्वर्भानुर्भूत्वा तानुपसर्पति ॥ ४१.१४॥
द्विगुणः तस्य विस्तारात् विस्तारः शशिनः स्मृतः । तुल्यः तयोः तु स्वर्भानुः भूत्वा तान् उपसर्पति ॥ ४१।१४॥
dviguṇaḥ tasya vistārāt vistāraḥ śaśinaḥ smṛtaḥ . tulyaḥ tayoḥ tu svarbhānuḥ bhūtvā tān upasarpati .. 41.14..
उद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः । स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥ ४१.१५॥
उद्धृत्य पृथिवी-छायाम् निर्मितः मण्डल-आकृतिः । स्वर्भानोः तु वृहत् स्थानम् तृतीयम् यत् तमः-मयम् ॥ ४१।१५॥
uddhṛtya pṛthivī-chāyām nirmitaḥ maṇḍala-ākṛtiḥ . svarbhānoḥ tu vṛhat sthānam tṛtīyam yat tamaḥ-mayam .. 41.15..
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते । भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ ४१.१६॥
चन्द्रस्य षोडशः भागः भार्गवस्य विधीयते । भार्गवात् पाद-हीनः तु विज्ञेयः वै बृहस्पतिः ॥ ४१।१६॥
candrasya ṣoḍaśaḥ bhāgaḥ bhārgavasya vidhīyate . bhārgavāt pāda-hīnaḥ tu vijñeyaḥ vai bṛhaspatiḥ .. 41.16..
बृहस्पतेः पादहीनौ भौमसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ४१.१७॥
बृहस्पतेः पाद-हीनौ भौम-सौरौ उभौ स्मृतौ । विस्तारात् मण्डलात् च एव पाद-हीनः तयोः बुधः ॥ ४१।१७॥
bṛhaspateḥ pāda-hīnau bhauma-saurau ubhau smṛtau . vistārāt maṇḍalāt ca eva pāda-hīnaḥ tayoḥ budhaḥ .. 41.17..
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥ ४१.१८॥
तारा-नक्षत्र-रूपाणि वपुष्मन्ति इह यानि वै । बुधेन तानि तुल्यानि विस्तारात् मण्डलात् तथा ॥ ४१।१८॥
tārā-nakṣatra-rūpāṇi vapuṣmanti iha yāni vai . budhena tāni tulyāni vistārāt maṇḍalāt tathā .. 41.18..
तारानक्षत्ररूपाणि हीनानि तु परस्परम् । शतानि पञ्च चत्वारि त्रईणि द्वे चैव योजने ॥ ४१.१९॥
तारा-नक्षत्र-रूपाणि हीनानि तु परस्परम् । शतानि पञ्च चत्वारि त्रईणि द्वे च एव योजने ॥ ४१।१९॥
tārā-nakṣatra-rūpāṇi hīnāni tu parasparam . śatāni pañca catvāri traīṇi dve ca eva yojane .. 41.19..
पूर्वापरानुकृष्टानि तारकामण्डलानि तु । योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ४१.२॥
पूर्व-अपर-अनुकृष्टानि तारका-मण्डलानि तु । योजनानि अर्द्ध-मात्राणि तेभ्यः ह्रस्वम् न विद्यते ॥ ४१।२॥
pūrva-apara-anukṛṣṭāni tārakā-maṇḍalāni tu . yojanāni arddha-mātrāṇi tebhyaḥ hrasvam na vidyate .. 41.2..
उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ४१.२१॥
उपरिष्टात् त्रयः तेषाम् ग्रहाः ये दूर-सर्पिणः । सौरः अङ्गिराः च वक्रः च ज्ञेयाः मन्द-विचारिणः ॥ ४१।२१॥
upariṣṭāt trayaḥ teṣām grahāḥ ye dūra-sarpiṇaḥ . sauraḥ aṅgirāḥ ca vakraḥ ca jñeyāḥ manda-vicāriṇaḥ .. 41.21..
तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ४१.२२॥
तेभ्यः अधस्तात् च चत्वारः पुनर् अन्ये महाग्रहाः । सूर्यः सौमः बुधः च एव भार्गवः च एव शीघ्रगाः ॥ ४१।२२॥
tebhyaḥ adhastāt ca catvāraḥ punar anye mahāgrahāḥ . sūryaḥ saumaḥ budhaḥ ca eva bhārgavaḥ ca eva śīghragāḥ .. 41.22..
दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् । तदा पूर्वग्रहाणां वै सूर्योऽधस्तात् प्रसर्पति ॥ ४१.२३॥
दक्षिणायन-मार्ग-स्थः यदा चरति रश्मिमान् । तदा पूर्व-ग्रहाणाम् वै सूर्यः अधस्तात् प्रसर्पति ॥ ४१।२३॥
dakṣiṇāyana-mārga-sthaḥ yadā carati raśmimān . tadā pūrva-grahāṇām vai sūryaḥ adhastāt prasarpati .. 41.23..
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ४१.२४॥
विस्तीर्णम् मण्डलम् कृत्वा तस्य ऊर्ध्वम् चरते शशी । नक्षत्र-मण्डलम् कृत्स्नम् सोमात् ऊर्ध्वम् प्रसर्पति ॥ ४१।२४॥
vistīrṇam maṇḍalam kṛtvā tasya ūrdhvam carate śaśī . nakṣatra-maṇḍalam kṛtsnam somāt ūrdhvam prasarpati .. 41.24..
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ ४१.२५॥
नक्षत्रेभ्यः बुधः च ऊर्ध्वम् बुधात् ऊर्ध्वम् तु भार्गवः । वक्रः तु भार्गवात् ऊर्ध्वम् वक्रात् ऊर्ध्वम् बृहस्पतिः ॥ ४१।२५॥
nakṣatrebhyaḥ budhaḥ ca ūrdhvam budhāt ūrdhvam tu bhārgavaḥ . vakraḥ tu bhārgavāt ūrdhvam vakrāt ūrdhvam bṛhaspatiḥ .. 41.25..
तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानां ध्रृवश्चोर्ध्वं व्यवस्थितः ॥ ४१.२६॥
तस्मात् शनैश्चरः अपुयुः ऊर्ध्वम् तस्मात् सप्तर्षि-मण्डलम् । ऋषीणाम् च एव सप्तानाम् ध्रृवः च ऊर्ध्वम् व्यवस्थितः ॥ ४१।२६॥
tasmāt śanaiścaraḥ apuyuḥ ūrdhvam tasmāt saptarṣi-maṇḍalam . ṛṣīṇām ca eva saptānām dhrṛvaḥ ca ūrdhvam vyavasthitaḥ .. 41.26..
योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥ ४१.२७॥
योजनानाम् सहस्राणि भास्करस्य रथः नव । ईषा-दण्डः तथा एव स्यात् द्विगुणः द्विजसत्तमाः ॥ ४१।२७॥
yojanānām sahasrāṇi bhāskarasya rathaḥ nava . īṣā-daṇḍaḥ tathā eva syāt dviguṇaḥ dvijasattamāḥ .. 41.27..
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ४१.२८॥
सार्द्ध-कोटिः तथा सप्त नियुतानि अधिकानि तु । योजनानाम् तु तस्य अक्षः तत्र चक्रम् प्रतिष्ठितम् ॥ ४१।२८॥
sārddha-koṭiḥ tathā sapta niyutāni adhikāni tu . yojanānām tu tasya akṣaḥ tatra cakram pratiṣṭhitam .. 41.28..
त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके । संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ ४१.२९॥
त्रि-नाभिमति पञ्च-अरे षष्-नेमिनि अक्षय-आत्मके । संवत्सर-मयम् कृत्स्नम् कालचक्रम् प्रतिष्ठितम् ॥ ४१।२९॥
tri-nābhimati pañca-are ṣaṣ-nemini akṣaya-ātmake . saṃvatsara-mayam kṛtsnam kālacakram pratiṣṭhitam .. 41.29..
चत्वारिंशत् सहस्राणि द्वितीयाक्षो व्यवस्थितः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥ ४१.३॥
चत्वारिंशत् सहस्राणि द्वितीय-अक्षः व्यवस्थितः । पञ्च अन्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥ ४१।३॥
catvāriṃśat sahasrāṇi dvitīya-akṣaḥ vyavasthitaḥ . pañca anyāni tu sārddhāni syandanasya dvijottamāḥ .. 41.3..
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः । ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य तु ॥ ४१.३१॥
अक्ष-प्रमाणम् उभयोः प्रमाणम् तत् युग-अर्द्धयोः । ह्रस्वः अक्षः तद्-युग-अर्द्धेन ध्रुव-आधारः रथस्य तु ॥ ४१।३१॥
akṣa-pramāṇam ubhayoḥ pramāṇam tat yuga-arddhayoḥ . hrasvaḥ akṣaḥ tad-yuga-arddhena dhruva-ādhāraḥ rathasya tu .. 41.31..
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ ४१.३२॥
द्वितीये अक्षे तु तत् चक्रम् संस्थितम् मानस-अचले । हयाः च सप्त छन्दांसि तद्-नामानि निबोधत ॥ ४१।३२॥
dvitīye akṣe tu tat cakram saṃsthitam mānasa-acale . hayāḥ ca sapta chandāṃsi tad-nāmāni nibodhata .. 41.32..
गायत्री च बृहत्युष्णिक् जगती पङ्क्तिरेव च । अनष्टुप् त्रिष्टुबप्युक्ता श्छन्दांसि हरयो हरेः ॥ ४१.३३॥
गायत्री च बृहती उष्णिह् जगती पङ्क्तिः एव च । अनष्टुभ् त्रिष्टुभ् अपि उक्ताः श्छन्दांसि हरयः हरेः ॥ ४१।३३॥
gāyatrī ca bṛhatī uṣṇih jagatī paṅktiḥ eva ca . anaṣṭubh triṣṭubh api uktāḥ śchandāṃsi harayaḥ hareḥ .. 41.33..
मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणायां यमस्याथ वरुणस्य तु पश्चिमे ॥ ४१.३४॥
मानस-उपरि माहेन्द्री प्राच्याम् दिशि महा-पुरी । दक्षिणायाम् यमस्य अथ वरुणस्य तु पश्चिमे ॥ ४१।३४॥
mānasa-upari māhendrī prācyām diśi mahā-purī . dakṣiṇāyām yamasya atha varuṇasya tu paścime .. 41.34..
उत्तरेषु च सोमस्य तन्नामानि निबोधत । अमरावती संयमनी सुखा चैव विभावरी ॥ ४१.३५॥
उत्तरेषु च सोमस्य तद्-नामानि निबोधत । अमरावती संयमनी सुखा च एव विभावरी ॥ ४१।३५॥
uttareṣu ca somasya tad-nāmāni nibodhata . amarāvatī saṃyamanī sukhā ca eva vibhāvarī .. 41.35..
काष्ठा गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ ४१.३६॥
काष्ठाः गतः दक्षिणतस् क्षिप्त-इषुः इव सर्पति । ज्योतिषाम् चक्रम् आदाय देवदेवः प्रजापतिः ॥ ४१।३६॥
kāṣṭhāḥ gataḥ dakṣiṇatas kṣipta-iṣuḥ iva sarpati . jyotiṣām cakram ādāya devadevaḥ prajāpatiḥ .. 41.36..
दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखः॥ ४१.३७॥
दिवसस्य रविः मध्ये सर्वकालम् व्यवस्थितः । सप्त-द्वीपेषु विप्र-इन्द्राः निशा-मध्यस्य संमुखः॥ ४१।३७॥
divasasya raviḥ madhye sarvakālam vyavasthitaḥ . sapta-dvīpeṣu vipra-indrāḥ niśā-madhyasya saṃmukhaḥ.. 41.37..
उदयास्तमने चैव सर्वकालं तु संमुखे । अशेषासु दिशास्वेव तथैव विदिशासु च ॥ ४१.३८॥
उदय-अस्तमने च एव सर्वकालम् तु संमुखे । अशेषासु दिशासु एव तथा एव विदिशासु च ॥ ४१।३८॥
udaya-astamane ca eva sarvakālam tu saṃmukhe . aśeṣāsu diśāsu eva tathā eva vidiśāsu ca .. 41.38..
कुलालचक्रपर्यन्तो भ्रमत्येष यथेश्वरः । करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥ ४१.३९॥
कुलाल-चक्र-पर्यन्तः भ्रमति एष यथा ईश्वरः । करोति अहर् तथा रात्रिम् विमुञ्चन् मेदिनीम् द्विजाः ॥ ४१।३९॥
kulāla-cakra-paryantaḥ bhramati eṣa yathā īśvaraḥ . karoti ahar tathā rātrim vimuñcan medinīm dvijāḥ .. 41.39..
दिवाकरकरैरेतत् पूरितं भुवनत्रयम् । त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुंगवाः ॥ ४१.४॥
दिवाकर-करैः एतत् पूरितम् भुवनत्रयम् । त्रैलोक्यम् कथितम् सद्भिः लोकानाम् मुनि-पुंगवाः ॥ ४१।४॥
divākara-karaiḥ etat pūritam bhuvanatrayam . trailokyam kathitam sadbhiḥ lokānām muni-puṃgavāḥ .. 41.4..
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः । भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ४१.४१॥
आदित्य-मूलम् अखिलम् त्रैलोक्यम् न अत्र संशयः । भवति अस्मात् जगत् कृत्स्नम् स देव-असुर-मानुषम् ॥ ४१।४१॥
āditya-mūlam akhilam trailokyam na atra saṃśayaḥ . bhavati asmāt jagat kṛtsnam sa deva-asura-mānuṣam .. 41.41..
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् । द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ ४१.४२॥
रुद्र-इन्द्र-उपेन्द्र-चन्द्राणाम् विप्र-इन्द्राणाम् दिवौकसाम् । द्युतिः द्युतिमताम् कृत्स्नम् यत् तेजः सार्वलौकिकम् ॥ ४१।४२॥
rudra-indra-upendra-candrāṇām vipra-indrāṇām divaukasām . dyutiḥ dyutimatām kṛtsnam yat tejaḥ sārvalaukikam .. 41.42..
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ४१.४३॥
सर्वात्मा सर्व-लोक-ईशः महादेवः प्रजापतिः । सूर्यः एव त्रिलोकस्य मूलम् परम-दैवतम् ॥ ४१।४३॥
sarvātmā sarva-loka-īśaḥ mahādevaḥ prajāpatiḥ . sūryaḥ eva trilokasya mūlam parama-daivatam .. 41.43..
द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः । निर्वहन्ति वदन्त्यस्य तदंशा विष्णुमूर्तयः ॥ ४१.४४॥
द्वादश अन्ये तथा आदित्याः देवाः ते ये अधिकारिणः । निर्वहन्ति वदन्ति अस्य तद्-अंशाः विष्णु-मूर्तयः ॥ ४१।४४॥
dvādaśa anye tathā ādityāḥ devāḥ te ye adhikāriṇaḥ . nirvahanti vadanti asya tad-aṃśāḥ viṣṇu-mūrtayaḥ .. 41.44..
सर्वे नमस्यन्ति सहस्रभाहुं गन्धर्वयक्षोरगकिन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा- श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ ४१.४५॥
सर्वे नमस्यन्ति सहस्रभाहुम् गन्धर्व-यक्ष-उरग-किन्नर-आद्याः । यजन्ति यज्ञैः विविधैः द्विजेन्द्राः छन्दः-मयम् ब्रह्म-मयम् पुराणम् ॥ ४१।४५॥
sarve namasyanti sahasrabhāhum gandharva-yakṣa-uraga-kinnara-ādyāḥ . yajanti yajñaiḥ vividhaiḥ dvijendrāḥ chandaḥ-mayam brahma-mayam purāṇam .. 41.45..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकचत्वारिंशोऽध्यायः ॥ ४१॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहिता-आर्या पूर्व-विभागे एकचत्वारिंशः अध्यायः ॥ ४१॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitā-āryā pūrva-vibhāge ekacatvāriṃśaḥ adhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In