| |
|

This overlay will guide you through the buttons:

सूत उवाच
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ४२.१॥
स रथः अधिष्ठितः देवैः आदित्यैः वसुभिः तथा । गन्धर्वैः अप्सरोभिः च ॥ ४२।१॥
sa rathaḥ adhiṣṭhitaḥ devaiḥ ādityaiḥ vasubhiḥ tathā . gandharvaiḥ apsarobhiḥ ca .. 42.1..
धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ४२.२॥
धाता अर्यमा च मित्रः च वरुणः शक्रः एव च । विवस्वान् अथ पूषा च पर्जन्यः च अंशुः एव च ॥ ४२।२॥
dhātā aryamā ca mitraḥ ca varuṇaḥ śakraḥ eva ca . vivasvān atha pūṣā ca parjanyaḥ ca aṃśuḥ eva ca .. 42.2..
भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः । आप्याययति वै भानुः वसन्तादिषु वै क्रमात् ॥ ४२.३॥
भगः त्वष्टा च विष्णुः च द्वादशा एते दिवाकराः । आप्याययति वै भानुः वसन्त-आदिषु वै क्रमात् ॥ ४२।३॥
bhagaḥ tvaṣṭā ca viṣṇuḥ ca dvādaśā ete divākarāḥ . āpyāyayati vai bhānuḥ vasanta-ādiṣu vai kramāt .. 42.3..
पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ४२.४॥
पुलस्त्यः पुलहः च अत्रिः वसिष्ठः च अङ्गिराः भृगुः । भरद्वाजः गौतमः च कश्यपः क्रतुः एव च ॥ ४२।४॥
pulastyaḥ pulahaḥ ca atriḥ vasiṣṭhaḥ ca aṅgirāḥ bhṛguḥ . bharadvājaḥ gautamaḥ ca kaśyapaḥ kratuḥ eva ca .. 42.4..
जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ ४२.५॥
जमदग्निः कौशिकः च मुनयः ब्रह्म-वादिनः । स्तुवन्ति देवम् विविधैः छन्दोभिः ते यथाक्रमम् ॥ ४२।५॥
jamadagniḥ kauśikaḥ ca munayaḥ brahma-vādinaḥ . stuvanti devam vividhaiḥ chandobhiḥ te yathākramam .. 42.5..
रथकृच्च रथौजाश्च रथचित्रः सुबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ४२.६॥
रथकृत् च रथौजाः च रथचित्रः सुबाहुकः । रथस्वनः अथ वरुणः सुषेणः सेनजित् तथा ॥ ४२।६॥
rathakṛt ca rathaujāḥ ca rathacitraḥ subāhukaḥ . rathasvanaḥ atha varuṇaḥ suṣeṇaḥ senajit tathā .. 42.6..
तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा। ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥ ४२.७॥
तार्क्ष्यः च अरिष्टनेमिः च रथजित् सत्यजित् तथा। ग्रामण्यः देवदेवस्य कुर्वते अभीषु-संग्रहम् ॥ ४२।७॥
tārkṣyaḥ ca ariṣṭanemiḥ ca rathajit satyajit tathā. grāmaṇyaḥ devadevasya kurvate abhīṣu-saṃgraham .. 42.7..
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ॥ ४२.८॥
अथ हेतिः प्रहेतिः च पौरुषेयः वधः तथा । सर्पः व्याघ्रः तथा अपः च वातः विद्युत् दिवाकरः ॥ ४२।८॥
atha hetiḥ prahetiḥ ca pauruṣeyaḥ vadhaḥ tathā . sarpaḥ vyāghraḥ tathā apaḥ ca vātaḥ vidyut divākaraḥ .. 42.8..
ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव१च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ ४२.९॥
ब्रह्म-उपेतः च विप्र-इन्द्राः यज्ञ-उपेतः तथा एव च । राक्षस-प्रवराः हि एते प्रयान्ति पुरतस् क्रमात् ॥ ४२।९॥
brahma-upetaḥ ca vipra-indrāḥ yajña-upetaḥ tathā eva ca . rākṣasa-pravarāḥ hi ete prayānti puratas kramāt .. 42.9..
वासुकिः कङ्कनीरश्च तक्षकः सर्पपुंगवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ ४२.१॥
वासुकिः कङ्कनीरः च तक्षकः सर्प-पुंगवः । एलापत्रः शङ्खपालः तथा ऐरावत-संज्ञितः ॥ ४२।१॥
vāsukiḥ kaṅkanīraḥ ca takṣakaḥ sarpa-puṃgavaḥ . elāpatraḥ śaṅkhapālaḥ tathā airāvata-saṃjñitaḥ .. 42.1..
धनंजयो महापद्मस्तथा कर्कोटको द्विजाः । कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ ४२.११॥
धनंजयः महापद्मः तथा कर्कोटकः द्विजाः । कम्बल-अश्वतरः च एव वहन्ति एनम् यथाक्रमम् ॥ ४२।११॥
dhanaṃjayaḥ mahāpadmaḥ tathā karkoṭakaḥ dvijāḥ . kambala-aśvataraḥ ca eva vahanti enam yathākramam .. 42.11..
तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा । उग्रसेनोऽथ सुरूचिरर्वावसुरथापरः ॥ ४२.१२॥
तुम्बुरुः नारदः हाहाः हूहूः विश्वावसुः तथा । उग्रसेनः अथ सुरूचिः अर्वौ असुः रथ-अपरः ॥ ४२।१२॥
tumburuḥ nāradaḥ hāhāḥ hūhūḥ viśvāvasuḥ tathā . ugrasenaḥ atha surūciḥ arvau asuḥ ratha-aparaḥ .. 42.12..
चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ॥ ४२.१३॥
चित्रसेनः तथा ऊर्णायुः धृतराष्ट्रः द्विजोत्तमाः । सूर्यवर्चाः द्वादश एते गन्धर्वाः गायताम् वराः ॥ ४२।१३॥
citrasenaḥ tathā ūrṇāyuḥ dhṛtarāṣṭraḥ dvijottamāḥ . sūryavarcāḥ dvādaśa ete gandharvāḥ gāyatām varāḥ .. 42.13..
गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् । ऋतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ॥ ४२.१४॥
गायन्ति विविधैः गानैः भानुम् षड्ज-आदिभिः क्रमात् । ऋतुस्थला अप्सरोवर्या तथा अन्या पुञ्जिकस्थला ॥ ४२।१४॥
gāyanti vividhaiḥ gānaiḥ bhānum ṣaḍja-ādibhiḥ kramāt . ṛtusthalā apsarovaryā tathā anyā puñjikasthalā .. 42.14..
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः । अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ॥ ४२.१५॥
मेनका सहजन्यी च प्रम्लोचा च द्विजोत्तमाः । अनुम्लोचा घृतीची च विश्वाची च उर्वशी तथा ॥ ४२।१५॥
menakā sahajanyī ca pramlocā ca dvijottamāḥ . anumlocā ghṛtīcī ca viśvācī ca urvaśī tathā .. 42.15..
अन्या च पूर्वचित्तिः स्याद्रम्भा चैव तिलोत्तमा । ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात्॥ ४२.१६॥
अन्या च पूर्वचित्तिः स्यात् रम्भा च एव तिलोत्तमा । ताण्डवैः विविधैः एनम् वसन्त-आदिषु वै क्रमात्॥ ४२।१६॥
anyā ca pūrvacittiḥ syāt rambhā ca eva tilottamā . tāṇḍavaiḥ vividhaiḥ enam vasanta-ādiṣu vai kramāt.. 42.16..
तोषयन्ति महादेवं भानुमात्मानमव्ययम् । एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥ ४२.१७॥
तोषयन्ति महादेवम् भानुम् आत्मानम् अव्ययम् । एवम् देवाः वसन्ति अर्के द्वौ द्वौ मासौ क्रमेण तु ॥ ४२।१७॥
toṣayanti mahādevam bhānum ātmānam avyayam . evam devāḥ vasanti arke dvau dvau māsau krameṇa tu .. 42.17..
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् । ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्॥ ४२.१८॥
सूर्यम् आप्याययन्ति एते तेजसा तेजसाम् निधिम् । ग्रथितैः स्वैः वचोभिः तु स्तुवन्ति मुनयः रविम्॥ ४२।१८॥
sūryam āpyāyayanti ete tejasā tejasām nidhim . grathitaiḥ svaiḥ vacobhiḥ tu stuvanti munayaḥ ravim.. 42.18..
गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते । ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥ ४२.१९॥
गन्धर्व-अप्सरसः च एनम् नृत्य-गेयैः उपासते । कुर्वते अभीषु-संग्रहम् ॥ ४२।१९॥
gandharva-apsarasaḥ ca enam nṛtya-geyaiḥ upāsate . kurvate abhīṣu-saṃgraham .. 42.19..
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च । वालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम्॥ ४२.२॥
सर्पाः वहन्ति देवेशम् यातुधानाः प्रयान्ति च । वालखिल्याः नयन्त्यः तम् परिवार्य उदयात् रविम्॥ ४२।२॥
sarpāḥ vahanti deveśam yātudhānāḥ prayānti ca . vālakhilyāḥ nayantyaḥ tam parivārya udayāt ravim.. 42.2..
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्त्तिताः ॥ ४२.२१॥
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानाम् अशुभम् कर्म व्यपोहन्ति इह कीर्त्तिताः ॥ ४२।२१॥
ete tapanti varṣanti bhānti vānti sṛjanti ca . bhūtānām aśubham karma vyapohanti iha kīrttitāḥ .. 42.21..
एते सहैव सूर्येण भ्रमन्ति दिवि भानुगाः । विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ ४२.२२॥
एते सह एव सूर्येण भ्रमन्ति दिवि भानु-गाः । विमाने च स्थितः नित्यम् काम-गे वात-रंहसि ॥ ४२।२२॥
ete saha eva sūryeṇa bhramanti divi bhānu-gāḥ . vimāne ca sthitaḥ nityam kāma-ge vāta-raṃhasi .. 42.22..
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपयन्तीह भूतानि सर्वाणीहायुगक्रमात्॥ ४२.२३॥
वर्षन्तः च तपन्तः च ह्लादयन्तः च वै प्रजाः । गोपयन्ति इह भूतानि सर्वाणि इह अ युग-क्रमात्॥ ४२।२३॥
varṣantaḥ ca tapantaḥ ca hlādayantaḥ ca vai prajāḥ . gopayanti iha bhūtāni sarvāṇi iha a yuga-kramāt.. 42.23..
एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ ४२.२४॥
एतेषाम् एव देवानाम् यथावीर्यम् यथा तपः । यथायोगम् यथासत्त्वम् सः एष तपति प्रभुः ॥ ४२।२४॥
eteṣām eva devānām yathāvīryam yathā tapaḥ . yathāyogam yathāsattvam saḥ eṣa tapati prabhuḥ .. 42.24..
अहोरात्रव्यवस्थानकारणं स प्रजापतिः । पितृदेवमनुष्यादीन् स सदाप्याययद्रविः ॥ ४२.२५॥
अहर्-रात्र-व्यवस्थान-कारणम् स प्रजापतिः । पितृ-देव-मनुष्य-आदीन् स सदा आप्याययत् रविः ॥ ४२।२५॥
ahar-rātra-vyavasthāna-kāraṇam sa prajāpatiḥ . pitṛ-deva-manuṣya-ādīn sa sadā āpyāyayat raviḥ .. 42.25..
तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः । भासते वेदविदुषां नीलग्रीवः सनातनः ॥ ४२.२६॥
तत्र देवः महादेवः भास्वान् साक्षात् महेश्वरः । भासते वेद-विदुषाम् नीलग्रीवः सनातनः ॥ ४२।२६॥
tatra devaḥ mahādevaḥ bhāsvān sākṣāt maheśvaraḥ . bhāsate veda-viduṣām nīlagrīvaḥ sanātanaḥ .. 42.26..
स एष देवो भगवान् परमेष्ठी प्रजापतिः । स्थानं तद् विदुरादित्ये वेदज्ञा वेदविग्रहाः ॥ ४२.२७॥
सः एष देवः भगवान् परमेष्ठी प्रजापतिः । स्थानम् तत् विदुः आदित्ये वेद-ज्ञाः वेद-विग्रहाः ॥ ४२।२७॥
saḥ eṣa devaḥ bhagavān parameṣṭhī prajāpatiḥ . sthānam tat viduḥ āditye veda-jñāḥ veda-vigrahāḥ .. 42.27..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाचत्वारिंशोऽध्यायः ॥ ४२॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे द्वाचत्वारिंशः अध्यायः ॥ ४२॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge dvācatvāriṃśaḥ adhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In