| |
|

This overlay will guide you through the buttons:

सूत उवाच
एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ ४३.१॥
एवम् एष महादेवः देवदेवः पितामहः । करोति नियतम् कालम् काल-आत्मा हि ऐश्वरी तनुः ॥ ४३।१॥
evam eṣa mahādevaḥ devadevaḥ pitāmahaḥ . karoti niyatam kālam kāla-ātmā hi aiśvarī tanuḥ .. 43.1..
तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ ४३.२॥
तस्य ये रश्मयः विप्राः सर्व-लोक-प्रदीपकाः । तेषाम् श्रेष्ठाः पुनर् सप्त रश्मयः ग्रह-योनयः ॥ ४३।२॥
tasya ye raśmayaḥ viprāḥ sarva-loka-pradīpakāḥ . teṣām śreṣṭhāḥ punar sapta raśmayaḥ graha-yonayaḥ .. 43.2..
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संयद्वसुरतः परः ॥ ४३.३॥
सुषुम्नः हरिकेशः च विश्वकर्मा तथा एव च । विश्वश्रवाः पुनर् च अन्यः संयद्वसुः अतस् परः ॥ ४३।३॥
suṣumnaḥ harikeśaḥ ca viśvakarmā tathā eva ca . viśvaśravāḥ punar ca anyaḥ saṃyadvasuḥ atas paraḥ .. 43.3..
अर्वावसुरिति ख्यातः स्वरकः सप्त कीर्तिताः । सुषुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥ ४३.४॥
अर्वावसुः इति ख्यातः स्वरकः सप्त कीर्तिताः । सुषुम्नः सूर्य-रश्मिः तु पुष्णाति शिशिरद्युतिम् ॥ ४३।४॥
arvāvasuḥ iti khyātaḥ svarakaḥ sapta kīrtitāḥ . suṣumnaḥ sūrya-raśmiḥ tu puṣṇāti śiśiradyutim .. 43.4..
तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिपठ्यते । हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥ ४३.५॥
तिर्यक्-ऊर्ध्व-प्रचारः असौ सुषुम्नः परिपठ्यते । हरिकेशः तु यः प्रोक्तः रश्मिः नक्षत्र-पोषकः ॥ ४३।५॥
tiryak-ūrdhva-pracāraḥ asau suṣumnaḥ paripaṭhyate . harikeśaḥ tu yaḥ proktaḥ raśmiḥ nakṣatra-poṣakaḥ .. 43.5..
विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वश्रवास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥ ४३.६॥
विश्वकर्मा तथा रश्मिः बुधम् पुष्णाति सर्वदा । विश्वश्रवाः तु यः रश्मिः शुक्रम् पुष्णाति नित्यदा ॥ ४३।६॥
viśvakarmā tathā raśmiḥ budham puṣṇāti sarvadā . viśvaśravāḥ tu yaḥ raśmiḥ śukram puṣṇāti nityadā .. 43.6..
संयद्वसुरिति ख्यातः यः पुष्णाति स लोहितम् । बृहस्पतिं सुपुष्णाति रश्मिरर्वावसुः प्रभुः ॥ ४३.७॥
संयद्वसुः इति ख्यातः यः पुष्णाति स लोहितम् । बृहस्पतिम् सु पुष्णाति रश्मिः अर्वावसुः प्रभुः ॥ ४३।७॥
saṃyadvasuḥ iti khyātaḥ yaḥ puṣṇāti sa lohitam . bṛhaspatim su puṣṇāti raśmiḥ arvāvasuḥ prabhuḥ .. 43.7..
शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा । एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः॥ ४३.८॥
शनैश्चरम् प्रपुष्णाति सप्तमः तु सुराज् तथा । एवम् सूर्य-प्रभावेन सर्वाः नक्षत्र-तारकाः॥ ४३।८॥
śanaiścaram prapuṣṇāti saptamaḥ tu surāj tathā . evam sūrya-prabhāvena sarvāḥ nakṣatra-tārakāḥ.. 43.8..
वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च । दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ॥ ४३.९॥
वर्धन्ते वर्धिताः नित्यम् नित्यम् आप्याययन्ति च । दिव्यानाम् पार्थिवानाम् च नैशानाम् च एव सर्वशस् ॥ ४३।९॥
vardhante vardhitāḥ nityam nityam āpyāyayanti ca . divyānām pārthivānām ca naiśānām ca eva sarvaśas .. 43.9..
आदानान्नित्यमादित्यस्तेजसां तमसामपि । आदत्ते स तु नाडीनां सहस्रेण समंततः॥ ४४॥
आदानात् नित्यम् आदित्यः तेजसाम् तमसाम् अपि । आदत्ते स तु नाडीनाम् सहस्रेण समंततः॥ ४४॥
ādānāt nityam ādityaḥ tejasām tamasām api . ādatte sa tu nāḍīnām sahasreṇa samaṃtataḥ.. 44..
नादेयांश्चैव सामुद्रं कौप्यंश्चैव सहस्रदृक् । स्थावरंञ्जङ्गमञ्चैव यच्च कुल्यादिकं पयः ॥ ४३.११॥
नादेयान् च एव सामुद्रम् कौप्यन् च एव सहस्रदृश् । स्थावरम् जङ्गमन् च एव यत् च कुल्या-आदिकम् पयः ॥ ४३।११॥
nādeyān ca eva sāmudram kaupyan ca eva sahasradṛś . sthāvaram jaṅgaman ca eva yat ca kulyā-ādikam payaḥ .. 43.11..
तस्य रश्मिसहस्रंन्तु शीतवर्षोष्णनिस्रवम् । तासां चतुः शता नाड्यो वर्षन्ते चित्रमूर्तयः ॥ ४३.१३॥
तस्य रश्मि-सहस्रम् तु शीत-वर्ष-उष्ण-निस्रवम् । तासाम् चतुः शताः नाड्यः वर्षन्ते चित्र-मूर्तयः ॥ ४३।१३॥
tasya raśmi-sahasram tu śīta-varṣa-uṣṇa-nisravam . tāsām catuḥ śatāḥ nāḍyaḥ varṣante citra-mūrtayaḥ .. 43.13..
चन्द्रनाश्चैव गाहाश्च केतला भूतलास्तथा । अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ ४३.१४॥
चन्द्रनाः च एव गाहाः च केतलाः भूतलाः तथा । अमृताः नामतः सर्वाः रश्मयः वृष्टि-सर्जनाः ॥ ४३।१४॥
candranāḥ ca eva gāhāḥ ca ketalāḥ bhūtalāḥ tathā . amṛtāḥ nāmataḥ sarvāḥ raśmayaḥ vṛṣṭi-sarjanāḥ .. 43.14..
हिमोद्वाताश्च ता नाड्यो रश्मय निसृताः पुनः । रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो सर्जनास्तथा । ४३.१५॥ ॥
हिम-उद्वाताः च ताः नाड्यः निसृताः पुनर् । रश्म्यः मेष्यः च पौष्यः च ह्लादिन्यः सर्जनाः तथा । ४३।१५॥ ॥
hima-udvātāḥ ca tāḥ nāḍyaḥ nisṛtāḥ punar . raśmyaḥ meṣyaḥ ca pauṣyaḥ ca hlādinyaḥ sarjanāḥ tathā . 43.15.. ..
चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः । शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा॥ ४३.१६॥
चन्द्राः ताः नामतः सर्वाः पीत-आभाः स्युः गभस्तयः । शुक्राः च ककुभः च एव गावः विश्व-भृतः तथा॥ ४३।१६॥
candrāḥ tāḥ nāmataḥ sarvāḥ pīta-ābhāḥ syuḥ gabhastayaḥ . śukrāḥ ca kakubhaḥ ca eva gāvaḥ viśva-bhṛtaḥ tathā.. 43.16..
शुक्लास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः । समं बिभर्ति ताभिः स मनुष्यपितृदेवताः ॥ ४३.१७॥
शुक्लाः ताः नामतः सर्वाः त्रिविधाः घर्म-सर्जनाः । समम् बिभर्ति ताभिः स मनुष्य-पितृ-देवताः ॥ ४३।१७॥
śuklāḥ tāḥ nāmataḥ sarvāḥ trividhāḥ gharma-sarjanāḥ . samam bibharti tābhiḥ sa manuṣya-pitṛ-devatāḥ .. 43.17..
मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ ४३.१८॥
मनुष्यान् औषधेन इह स्वधया च पितॄन् अपि । अमृतेन सुरान् सर्वान् त्रीन् त्रिभिः तर्पयति असौ ॥ ४३।१८॥
manuṣyān auṣadhena iha svadhayā ca pitṝn api . amṛtena surān sarvān trīn tribhiḥ tarpayati asau .. 43.18..
वसन्ते ग्रैष्मिके चैव षड्भिः स तपति प्रभुः। शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति । ४३.१९॥ ४३.१९॥
वसन्ते ग्रैष्मिके च एव षड्भिः स तपति प्रभुः। शरदि अपि च वर्षासु चतुर्भिः संप्रवर्षति । ४३।१९॥ ४३।१९॥
vasante graiṣmike ca eva ṣaḍbhiḥ sa tapati prabhuḥ. śaradi api ca varṣāsu caturbhiḥ saṃpravarṣati . 43.19.. 43.19..
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः । वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने ॥ ४३.२॥
हेमन्ते शिशिरे च एव हिमम् उत्सृजति त्रिभिः । वरुणः माघ-मासे तु सूर्यः पूषा तु फल्गुने ॥ ४३।२॥
hemante śiśire ca eva himam utsṛjati tribhiḥ . varuṇaḥ māgha-māse tu sūryaḥ pūṣā tu phalgune .. 43.2..
चैत्रे मासे स देवेशो धाता वैशाखतापनः । ज्येष्ठामूले पतेदिन्द्रः आषाढे तपते रविः ॥ ४३.२१॥
चैत्रे मासे स देवेशः धाता वैशाखतापनः । ज्येष्ठामूले पतेत् इन्द्रः आषाढे तपते रविः ॥ ४३।२१॥
caitre māse sa deveśaḥ dhātā vaiśākhatāpanaḥ . jyeṣṭhāmūle patet indraḥ āṣāḍhe tapate raviḥ .. 43.21..
विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः । पर्जन्योऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः ॥ ४३.२२॥
विवस्वान् श्रावणे मासि प्रौष्ठपद्याम् भगः स्मृतः । पर्जन्यः अश्वयुजि त्वष्टा कार्तिके मासि भास्करः ॥ ४३।२२॥
vivasvān śrāvaṇe māsi prauṣṭhapadyām bhagaḥ smṛtaḥ . parjanyaḥ aśvayuji tvaṣṭā kārtike māsi bhāskaraḥ .. 43.22..
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः । पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥ ४३.२३॥
मार्गशीर्षे भवेत् मित्रः पौषे विष्णुः सनातनः । पञ्च-रश्मि-सहस्राणि वरुणस्य अर्क-कर्मणि ॥ ४३।२३॥
mārgaśīrṣe bhavet mitraḥ pauṣe viṣṇuḥ sanātanaḥ . pañca-raśmi-sahasrāṇi varuṇasya arka-karmaṇi .. 43.23..
षड्भिः सहस्रैः पूषा तु देवोंशः सप्तभिस्तथा । धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः॥ ४३.२४॥
षड्भिः सहस्रैः पूषा तु देव-ओंशः सप्तभिः तथा । धाता अष्टभिः सहस्रैः तु नवभिः तु शतक्रतुः॥ ४३।२४॥
ṣaḍbhiḥ sahasraiḥ pūṣā tu deva-oṃśaḥ saptabhiḥ tathā . dhātā aṣṭabhiḥ sahasraiḥ tu navabhiḥ tu śatakratuḥ.. 43.24..
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः । सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥ ४३.२५॥
विवस्वान् दशभिः पाति पाति एकादशभिः भगः । सप्तभिः तपते मित्रः त्वष्टा च एव अष्टभिः तपेत् ॥ ४३।२५॥
vivasvān daśabhiḥ pāti pāti ekādaśabhiḥ bhagaḥ . saptabhiḥ tapate mitraḥ tvaṣṭā ca eva aṣṭabhiḥ tapet .. 43.25..
अर्यमा दशभिः पाति पर्जन्यो नवभिस्तथा। षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वसृक् ॥ ४३.२६॥
अर्यमा दशभिः पाति पर्जन्यः नवभिः तथा। षड्भिः रश्मि-सहस्रैः तु विष्णुः तपति विश्वसृज् ॥ ४३।२६॥
aryamā daśabhiḥ pāti parjanyaḥ navabhiḥ tathā. ṣaḍbhiḥ raśmi-sahasraiḥ tu viṣṇuḥ tapati viśvasṛj .. 43.26..
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः । श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ॥ ४३.२७॥
वसन्ते कपिलः सूर्यः ग्रीष्मे काञ्चन-सप्रभः । श्वेतः वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ॥ ४३।२७॥
vasante kapilaḥ sūryaḥ grīṣme kāñcana-saprabhaḥ . śvetaḥ varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ .. 43.27..
हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः । औषधीषु कलां धत्ते स्वधामपि पितृष्वथ ॥ ४३.२८॥
हेमन्ते ताम्र-वर्णः स्यात् शिशिरे लोहितः रविः । औषधीषु कलाम् धत्ते स्वधाम् अपि पितृषु अथ ॥ ४३।२८॥
hemante tāmra-varṇaḥ syāt śiśire lohitaḥ raviḥ . auṣadhīṣu kalām dhatte svadhām api pitṛṣu atha .. 43.28..
सूर्योऽमरत्वममृते त्रयं त्रिषु नियच्छति । अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः॥ ४३.२९॥
सूर्यः अमर-त्वम् अमृते त्रयम् त्रिषु नियच्छति । अन्ये च अष्टौ ग्रहाः ज्ञेयाः सूर्येण अधिष्ठिताः द्विजाः॥ ४३।२९॥
sūryaḥ amara-tvam amṛte trayam triṣu niyacchati . anye ca aṣṭau grahāḥ jñeyāḥ sūryeṇa adhiṣṭhitāḥ dvijāḥ.. 43.29..
चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः । भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥ ४१.३॥
चन्द्रमाः सोम-पुत्रः च शुक्रः च एव बृहस्पतिः । भौमः मन्दः तथा राहुः केतुमन्त् अपि च अष्टमः ॥ ४१।३॥
candramāḥ soma-putraḥ ca śukraḥ ca eva bṛhaspatiḥ . bhaumaḥ mandaḥ tathā rāhuḥ ketumant api ca aṣṭamaḥ .. 41.3..
सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥ ४३.३१॥
सर्वे ध्रुवे निबद्धाः वै ग्रहाः ते वात-रश्मिभिः । भ्राम्यमाणाः यथायोगम् भ्रमन्ति अनु दिवाकरम् ॥ ४३।३१॥
sarve dhruve nibaddhāḥ vai grahāḥ te vāta-raśmibhiḥ . bhrāmyamāṇāḥ yathāyogam bhramanti anu divākaram .. 43.31..
अलातचक्रवद् यान्ति वातचक्रेरितास्तथा । यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥ ४३.३२॥
अलात-चक्र-वत् यान्ति वात-चक्र-ईरिताः तथा । यस्मात् वहति तान् वायुः प्रवहः तेन स स्मृतः ॥ ४३।३२॥
alāta-cakra-vat yānti vāta-cakra-īritāḥ tathā . yasmāt vahati tān vāyuḥ pravahaḥ tena sa smṛtaḥ .. 43.32..
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन निशाकरः ॥ ४३.३३॥
रथः त्रि-चक्रः सोमस्य कुन्द-आभाः तस्य वाजिनः । वाम-दक्षिणतः युक्ताः दश तेन निशाकरः ॥ ४३।३३॥
rathaḥ tri-cakraḥ somasya kunda-ābhāḥ tasya vājinaḥ . vāma-dakṣiṇataḥ yuktāḥ daśa tena niśākaraḥ .. 43.33..
वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा । ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥ ४३.३४॥
वीथि-आश्रयाणि चरति नक्षत्राणि रविः यथा । ह्रास-वृद्धी च विप्र-इन्द्राः ध्रुव-आधाराणि सर्वदा ॥ ४३।३४॥
vīthi-āśrayāṇi carati nakṣatrāṇi raviḥ yathā . hrāsa-vṛddhī ca vipra-indrāḥ dhruva-ādhārāṇi sarvadā .. 43.34..
स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥ ४३.३५॥
स सोमः शुक्लपक्षे तु भास्करे परतस् स्थिते । आपूर्यते परस्य अन्ते सततम् दिवस-क्रमात् ॥ ४३।३५॥
sa somaḥ śuklapakṣe tu bhāskare paratas sthite . āpūryate parasya ante satatam divasa-kramāt .. 43.35..
क्षीणायितं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥ ४३.३६॥
सुरैः सोमम् आप्याययति नित्यदा । एकेन रश्मिना विप्राः सुषुम्न-आख्येन भास्करः ॥ ४३।३६॥
suraiḥ somam āpyāyayati nityadā . ekena raśminā viprāḥ suṣumna-ākhyena bhāskaraḥ .. 43.36..
एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥ ४३.३७॥
एषा सूर्यस्य वीर्येण सोमस्य आप्यायिता तनुः । पौर्णमास्याम् स दृश्येत संपूर्णे दिवस-क्रमात् ॥ ४३।३७॥
eṣā sūryasya vīryeṇa somasya āpyāyitā tanuḥ . paurṇamāsyām sa dṛśyeta saṃpūrṇe divasa-kramāt .. 43.37..
संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥ ४३.३७॥
संपूर्णम् अर्ध-मासेन तम् सोमम् अमृत-आत्मकम् । पिबन्ति देवताः विप्राः यतस् ते अमृत-भोजनाः ॥ ४३।३७॥
saṃpūrṇam ardha-māsena tam somam amṛta-ātmakam . pibanti devatāḥ viprāḥ yatas te amṛta-bhojanāḥ .. 43.37..
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ ४३.३८॥
ततस् पञ्चदशे भागे किंचिद् शिष्टे कला-आत्मके । अपराह्णे पितृ-गणाः जघन्यम् पर्युपासते ॥ ४३।३८॥
tatas pañcadaśe bhāge kiṃcid śiṣṭe kalā-ātmake . aparāhṇe pitṛ-gaṇāḥ jaghanyam paryupāsate .. 43.38..
पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या । सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥ ४३.३९॥
पिबन्ति द्वि-कलम् कालम् शिष्टा तस्य कला तु या । सुधा-अमृत-मयीम् पुण्याम् ताम् अन्दोः अमृत-आत्मिकाम् ॥ ४३।३९॥
pibanti dvi-kalam kālam śiṣṭā tasya kalā tu yā . sudhā-amṛta-mayīm puṇyām tām andoḥ amṛta-ātmikām .. 43.39..
निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् । मासतृप्तिमवाश्यन्ति पितरः सन्ति निर्वृताः ॥ ४३.४॥
निः सृतम् तत् अमावास्याम् गभस्तिभ्यः स्वधा अमृतम् । मास-तृप्तिम् अवाश्यन्ति पितरः सन्ति निर्वृताः ॥ ४३।४॥
niḥ sṛtam tat amāvāsyām gabhastibhyaḥ svadhā amṛtam . māsa-tṛptim avāśyanti pitaraḥ santi nirvṛtāḥ .. 43.4..
न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः ॥ ४३.४१॥
न सोमस्य विनाशः स्यात् सुधा देवैः तु पीयते । एवम् सूर्य-निमित्तः अस्य क्षयः वृद्धिः च सत्तमाः ॥ ४३।४१॥
na somasya vināśaḥ syāt sudhā devaiḥ tu pīyate . evam sūrya-nimittaḥ asya kṣayaḥ vṛddhiḥ ca sattamāḥ .. 43.41..
सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः । वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥ ४३.४२॥
सोमपुत्रस्य च अष्टाभिः वाजिभिः वायु-वेगिभिः । वारि-जैः स्यन्दनः युक्तः तेन असौ याति सर्वतस् ॥ ४३।४२॥
somaputrasya ca aṣṭābhiḥ vājibhiḥ vāyu-vegibhiḥ . vāri-jaiḥ syandanaḥ yuktaḥ tena asau yāti sarvatas .. 43.42..
शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः । अष्टभिश्चापि भौमस्य रथो हैमः सुशोभनः ॥ ४३.४३॥
शुक्रस्य भूमि-जैः अश्वैः स्यन्दनः दशभिः वृतः । अष्टभिः च अपि भौमस्य रथः हैमः सु शोभनः ॥ ४३।४३॥
śukrasya bhūmi-jaiḥ aśvaiḥ syandanaḥ daśabhiḥ vṛtaḥ . aṣṭabhiḥ ca api bhaumasya rathaḥ haimaḥ su śobhanaḥ .. 43.43..
बृहस्पतेरथोऽष्टाश्वः स्यन्दनो हेमनिर्मितः । रथो रूप्यमयोऽष्टाश्वो मन्दस्यायसनिर्मितः ॥ ४३.४४॥
बृहस्पतेः अथो अष्ट-अश्वः स्यन्दनः हेम-निर्मितः । रथः रूप्य-मयः अष्ट-अश्वः मन्दस्य आयस-निर्मितः ॥ ४३।४४॥
bṛhaspateḥ atho aṣṭa-aśvaḥ syandanaḥ hema-nirmitaḥ . rathaḥ rūpya-mayaḥ aṣṭa-aśvaḥ mandasya āyasa-nirmitaḥ .. 43.44..
स्वर्भानोर्भास्करारेश्च तथाष्टाभिर्हयैर्वृतः । एते महाग्रहाणां वै समाख्याता रथाश्च वै ॥ ४३.४५॥
स्वर्भानोः भास्कर-अरेः च तथा अष्टाभिः हयैः वृतः । एते महा-ग्रहाणाम् वै समाख्याताः रथाः च वै ॥ ४३।४५॥
svarbhānoḥ bhāskara-areḥ ca tathā aṣṭābhiḥ hayaiḥ vṛtaḥ . ete mahā-grahāṇām vai samākhyātāḥ rathāḥ ca vai .. 43.45..
सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः । भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥ ४३.४६॥
सर्वे ध्रुवे महाभागाः निबद्धाः वात-रश्मिभिः । ग्रह-ऋक्ष-तारा-धिष्ण्यानि ध्रुवे बद्धानि एशेषतः । भ्रमन्ति भ्रामयन्ति एनम् सर्वाणि अनिल-रश्मिभिः ॥ ४३।४६॥
sarve dhruve mahābhāgāḥ nibaddhāḥ vāta-raśmibhiḥ . graha-ṛkṣa-tārā-dhiṣṇyāni dhruve baddhāni eśeṣataḥ . bhramanti bhrāmayanti enam sarvāṇi anila-raśmibhiḥ .. 43.46..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रिचत्वारिंशः अध्यायः ॥ ४३॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge tricatvāriṃśaḥ adhyāyaḥ .. 43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In