| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः । कल्पाधिकारिणस्तत्र संस्थिता द्विजपुंगवाः ॥ ४४.१॥
ध्रुवात् ऊर्ध्वम् महर् लोकः कोटि-योजन-विस्तृतः । कल्प-अधिकारिणः तत्र संस्थिताः द्विज-पुंगवाः ॥ ४४।१॥
dhruvāt ūrdhvam mahar lokaḥ koṭi-yojana-vistṛtaḥ . kalpa-adhikāriṇaḥ tatra saṃsthitāḥ dvija-puṃgavāḥ .. 44.1..
जनलोको महर्लोकात् तथा कोटिद्वयातमकः । सनकाद्यास्तथा तत्र संस्थिता ब्रह्मणः सुताः ॥ ४४.२॥
जनलोकः महर् लोकात् तथा कोटि-द्वया तमकः । सनक-आद्याः तथा तत्र संस्थिताः ब्रह्मणः सुताः ॥ ४४।२॥
janalokaḥ mahar lokāt tathā koṭi-dvayā tamakaḥ . sanaka-ādyāḥ tathā tatra saṃsthitāḥ brahmaṇaḥ sutāḥ .. 44.2..
जलोकात् तपोलोकः कोटित्रयसमन्वितः । वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥ ४४.३॥
जलोकात् तपोलोकः कोटि-त्रय-समन्वितः । वैराजाः तत्र वै देवाः स्थिताः दाह-विवर्जिताः ॥ ४४।३॥
jalokāt tapolokaḥ koṭi-traya-samanvitaḥ . vairājāḥ tatra vai devāḥ sthitāḥ dāha-vivarjitāḥ .. 44.3..
प्राजापत्यात् सत्यलोकः कोटिषट्केन संयुतः । अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥ ४४.४॥
प्राजापत्यात् सत्यलोकः कोटि-षट्केन संयुतः । अ पुनर् मारकाः तत्र ब्रह्म-लोकः तु स स्मृतः ॥ ४४।४॥
prājāpatyāt satyalokaḥ koṭi-ṣaṭkena saṃyutaḥ . a punar mārakāḥ tatra brahma-lokaḥ tu sa smṛtaḥ .. 44.4..
अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ४४.५॥
अत्र लोकगुरुः ब्रह्मा विश्वात्मा विश्वतोमुखः । आस्ते स योगिभिः नित्यम् पीत्वा योग-अमृतम् परम् ॥ ४४।५॥
atra lokaguruḥ brahmā viśvātmā viśvatomukhaḥ . āste sa yogibhiḥ nityam pītvā yoga-amṛtam param .. 44.5..
विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः । योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनः ॥ ४४.६॥
विशन्ति यतयः शान्ताः नैष्ठिकाः ब्रह्मचारिणः । योगिनः तापसाः सिद्धाः जापकाः परमेष्ठिनः ॥ ४४।६॥
viśanti yatayaḥ śāntāḥ naiṣṭhikāḥ brahmacāriṇaḥ . yoginaḥ tāpasāḥ siddhāḥ jāpakāḥ parameṣṭhinaḥ .. 44.6..
द्वारं तद्योगिनामेकं गच्छतां परमं पदम् । तत्र गत्वा न शोचन्ति स विष्णुः स च शंकरः ॥ ४४.७॥
द्वारम् तत् योगिनाम् एकम् गच्छताम् परमम् पदम् । तत्र गत्वा न शोचन्ति स विष्णुः स च शंकरः ॥ ४४।७॥
dvāram tat yoginām ekam gacchatām paramam padam . tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṃkaraḥ .. 44.7..
सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् । न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ४४.८॥
सूर्य-कोटि-प्रतीकाशम् पुरम् तस्य दुरासदम् । न मे वर्णयितुम् शक्यम् ज्वाला-माला-समाकुलम् ॥ ४४।८॥
sūrya-koṭi-pratīkāśam puram tasya durāsadam . na me varṇayitum śakyam jvālā-mālā-samākulam .. 44.8..
तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे । शेते तत्र हरिः श्रीमान् योगी मायामयः परः ॥ ४४.९॥
तत्र नारायणस्य अपि भवनम् ब्रह्मणः पुरे । शेते तत्र हरिः श्रीमान् योगी माया-मयः परः ॥ ४४।९॥
tatra nārāyaṇasya api bhavanam brahmaṇaḥ pure . śete tatra hariḥ śrīmān yogī māyā-mayaḥ paraḥ .. 44.9..
स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥ ४४.१॥
स विष्णु-लोकः कथितः पुनरावृत्ति-वर्जितः । यान्ति तत्र महात्मानः ये प्रपन्नाः जनार्दनम् ॥ ४४।१॥
sa viṣṇu-lokaḥ kathitaḥ punarāvṛtti-varjitaḥ . yānti tatra mahātmānaḥ ye prapannāḥ janārdanam .. 44.1..
ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् । वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥ ४४.११॥
ऊर्ध्वम् तत् ब्रह्म-सदनात् पुरम् ज्योतिः-मयम् शुभम् । वह्निना च परिक्षिप्तम् तत्र आस्ते भगवान् भवः ॥ ४४।११॥
ūrdhvam tat brahma-sadanāt puram jyotiḥ-mayam śubham . vahninā ca parikṣiptam tatra āste bhagavān bhavaḥ .. 44.11..
देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः । योगिभिः शतसाहस्रैर्भूतै रुद्रैश्च संवृतः ॥ ४४.१२॥
देव्या सह महादेवः चिन्त्यमानः मनीषिभिः । योगिभिः शत-साहस्रैः भूतैः रुद्रैः च संवृतः ॥ ४४।१२॥
devyā saha mahādevaḥ cintyamānaḥ manīṣibhiḥ . yogibhiḥ śata-sāhasraiḥ bhūtaiḥ rudraiḥ ca saṃvṛtaḥ .. 44.12..
तत्र ते यान्ति निरता द्विजा वै ब्रह्मचारिणः । मदादेवपराः शान्तास्तापसा सत्यवादिनः ॥ ४४.१३॥
तत्र ते यान्ति निरताः द्विजाः वै ब्रह्मचारिणः । मदादेव-पराः शान्ताः सत्य-वादिनः ॥ ४४।१३॥
tatra te yānti niratāḥ dvijāḥ vai brahmacāriṇaḥ . madādeva-parāḥ śāntāḥ satya-vādinaḥ .. 44.13..
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥ ४४.१४॥
निर्ममाः निरहंकाराः काम-क्रोध-विवर्जिताः । द्रक्ष्यन्ति ब्रह्मणा युक्ताः रुद्र-लोकः स वै स्मृतः ॥ ४४।१४॥
nirmamāḥ nirahaṃkārāḥ kāma-krodha-vivarjitāḥ . drakṣyanti brahmaṇā yuktāḥ rudra-lokaḥ sa vai smṛtaḥ .. 44.14..
एते सप्त महालोकाः पृथिव्याः परिकीर्त्तितः। महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥ ४४.१५॥
एते सप्त महा-लोकाः पृथिव्याः परिकीर्त्तितः। महातल-आदयः च अधस् पातालाः सन्ति वै द्विजाः ॥ ४४।१५॥
ete sapta mahā-lokāḥ pṛthivyāḥ parikīrttitaḥ. mahātala-ādayaḥ ca adhas pātālāḥ santi vai dvijāḥ .. 44.15..
महातलं च पातालं सर्वरत्नोपशोभितः। प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥ ४४.१६॥
महातलम् च पातालम् सर्व-रत्न-उपशोभितः। प्रासादैः विविधैः शुभ्रैः देवतायतनैः युतम् ॥ ४४।१६॥
mahātalam ca pātālam sarva-ratna-upaśobhitaḥ. prāsādaiḥ vividhaiḥ śubhraiḥ devatāyatanaiḥ yutam .. 44.16..
अनन्तेन च संयुक्तं मुचुकुन्देन धीमता। नृपेण बलिना चैव पातालस्वर्गवासिना ॥ ४४.१७॥
अनन्तेन च संयुक्तम् मुचुकुन्देन धीमता। नृपेण बलिना च एव पाताल-स्वर्ग-वासिना ॥ ४४।१७॥
anantena ca saṃyuktam mucukundena dhīmatā. nṛpeṇa balinā ca eva pātāla-svarga-vāsinā .. 44.17..
शैलं रसातलं विप्राः शार्करं हि तलातलम् । पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् । सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥ ४४.१८॥
शैलम् रसातलम् विप्राः शार्करम् हि तलातलम् । पीतम् सुतलम् इति उक्तम् वितलम् विद्रुम-प्रभम् । सितम् हि वितलम् प्रोक्तम् तलम् च एव सितेतरम् ॥ ४४।१८॥
śailam rasātalam viprāḥ śārkaram hi talātalam . pītam sutalam iti uktam vitalam vidruma-prabham . sitam hi vitalam proktam talam ca eva sitetaram .. 44.18..
सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् । रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ ४४.१९॥
सुपर्णेन मुनि-श्रेष्ठाः तथा वासुकिना शुभम् । रसातलम् इति ख्यातम् तथा अन्यैः च निषेवितम् ॥ ४४।१९॥
suparṇena muni-śreṣṭhāḥ tathā vāsukinā śubham . rasātalam iti khyātam tathā anyaiḥ ca niṣevitam .. 44.19..
विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् । तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ ४४.२॥
विरोचन-हिरण्याक्ष-तक्षक-आद्यैः च सेवितम् । तलातलम् इति ख्यातम् सर्व-शोभा-समन्वितम् ॥ ४४।२॥
virocana-hiraṇyākṣa-takṣaka-ādyaiḥ ca sevitam . talātalam iti khyātam sarva-śobhā-samanvitam .. 44.2..
वैनतेयादिभिश्चैव कालनेमिपुरोगमैः । पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ ४४.२१॥
वैनतेय-आदिभिः च एव कालनेमि-पुरोगमैः । पूर्वदेवैः समाकीर्णम् सुतलम् च तथा अपरैः ॥ ४४।२१॥
vainateya-ādibhiḥ ca eva kālanemi-purogamaiḥ . pūrvadevaiḥ samākīrṇam sutalam ca tathā aparaiḥ .. 44.21..
वितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा । महान्तकाद्यैर्नागैश्च प्रह्लादेनासुरेण च ॥ ४४.२२॥
वितलम् यवन-आद्यैः च तारक-अग्नि-मुखैः तथा । महान्तक-आद्यैः नागैः च प्रह्लादेन असुरेण च ॥ ४४।२२॥
vitalam yavana-ādyaiḥ ca tāraka-agni-mukhaiḥ tathā . mahāntaka-ādyaiḥ nāgaiḥ ca prahlādena asureṇa ca .. 44.22..
वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् । महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ ४४.२३॥
वितलम् च एव विख्यातम् कम्बल-अहि-इन्द्र-सेवितम् । महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ ४४।२३॥
vitalam ca eva vikhyātam kambala-ahi-indra-sevitam . mahājambhena vīreṇa hayagrīveṇa vai tathā .. 44.23..
शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः । तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥ ४४.२४॥
शङ्कुकर्णेन संभिन्नम् तथा नमुचि-पूर्वकैः । तथा अन्यैः विवधैः नागैः तलम् च एव सु शोभनम् ॥ ४४।२४॥
śaṅkukarṇena saṃbhinnam tathā namuci-pūrvakaiḥ . tathā anyaiḥ vivadhaiḥ nāgaiḥ talam ca eva su śobhanam .. 44.24..
तेषामधस्तान्नरका मायाद्याः परिकीर्त्तिताः । पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥ ४४.२५॥
तेषाम् अधस्तात् नरकाः माया-आद्याः परिकीर्त्तिताः । पापिनः तेषु पच्यन्ते न ते वर्णयितुम् क्षमाः ॥ ४४।२५॥
teṣām adhastāt narakāḥ māyā-ādyāḥ parikīrttitāḥ . pāpinaḥ teṣu pacyante na te varṇayitum kṣamāḥ .. 44.25..
पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः । कालाग्निरुद्रो योगात्मा नारसिंहोऽपि माधवः ॥ ४४.२६॥
पातालानाम् अधस् च आस्ते शेष-आख्या वैष्णवी तनुः । कालाग्नि-रुद्रः योग-आत्मा नारसिंहः अपि माधवः ॥ ४४।२६॥
pātālānām adhas ca āste śeṣa-ākhyā vaiṣṇavī tanuḥ . kālāgni-rudraḥ yoga-ātmā nārasiṃhaḥ api mādhavaḥ .. 44.26..
योऽनन्तः पठ्यते देवो नागरूपी जनार्दनः । तदाधारमिदं सर्वं स कालाग्निं समाश्रितः ॥ ४४.२७॥
यः अनन्तः पठ्यते देवः नाग-रूपी जनार्दनः । तद्-आधारम् इदम् सर्वम् स कालाग्निम् समाश्रितः ॥ ४४।२७॥
yaḥ anantaḥ paṭhyate devaḥ nāga-rūpī janārdanaḥ . tad-ādhāram idam sarvam sa kālāgnim samāśritaḥ .. 44.27..
तमाविश्य महायोगी कालस्तद्वदनोत्थितः । विषज्वालामयोऽन्तेऽसौ जगत् संहरति स्वयम् ॥ ४४.२८॥
तम् आविश्य महा-योगी कालः तद्-वदन-उत्थितः । विष-ज्वाला-मयः अन्ते असौ जगत् संहरति स्वयम् ॥ ४४।२८॥
tam āviśya mahā-yogī kālaḥ tad-vadana-utthitaḥ . viṣa-jvālā-mayaḥ ante asau jagat saṃharati svayam .. 44.28..
सहस्त्रमायोऽप्रतिमः संहर्त्ता शंकरो भवः । तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ॥ ४४.२९॥
सहस्त्र-मायः अप्रतिमः संहर्त्ता शंकरः भवः । ॥ ४४।२९॥
sahastra-māyaḥ apratimaḥ saṃharttā śaṃkaraḥ bhavaḥ . .. 44.29..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्ष्चत्वारिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे चत्ष्चत्वारिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge catṣcatvāriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In