| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् । अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ ४५.१॥
एतत् ब्रह्माण्डम् आख्यातम् चतुर्दशविधम् महत् । अतस् परम् प्रवक्ष्यामि भूर्लोकस्य अस्य निर्णयम् ॥ ४५।१॥
etat brahmāṇḍam ākhyātam caturdaśavidham mahat . atas param pravakṣyāmi bhūrlokasya asya nirṇayam .. 45.1..
जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ ४५.२॥
जम्बुद्वीपः प्रधानः अयम् प्लक्षः शाल्मलिः एव च । कुशः क्रौञ्चः च शाकः च पुष्करः च एव सप्तमः ॥ ४५।२॥
jambudvīpaḥ pradhānaḥ ayam plakṣaḥ śālmaliḥ eva ca . kuśaḥ krauñcaḥ ca śākaḥ ca puṣkaraḥ ca eva saptamaḥ .. 45.2..
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥ ४५.३॥
एते सप्त महा-द्वीपाः समुद्रैः सप्तभिः वृताः । द्वीपात् द्वीपः महान् उक्तः सागरात् अपि सागरः ॥ ४५।३॥
ete sapta mahā-dvīpāḥ samudraiḥ saptabhiḥ vṛtāḥ . dvīpāt dvīpaḥ mahān uktaḥ sāgarāt api sāgaraḥ .. 45.3..
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ ४५.४॥
क्षारोद-इक्षुरसोदः च सुरोदः च घृत-उदकः । दध्योदः क्षीरसलिलः स्वादूदः च इति सागराः ॥ ४५।४॥
kṣāroda-ikṣurasodaḥ ca surodaḥ ca ghṛta-udakaḥ . dadhyodaḥ kṣīrasalilaḥ svādūdaḥ ca iti sāgarāḥ .. 45.4..
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ ४५.५॥
पञ्चाशत्-कोटि-विस्तीर्णा स समुद्रा धरा स्मृता । द्वीपैः च सप्तभिः युक्ताः योजनानाम् समासतस् ॥ ४५।५॥
pañcāśat-koṭi-vistīrṇā sa samudrā dharā smṛtā . dvīpaiḥ ca saptabhiḥ yuktāḥ yojanānām samāsatas .. 45.5..
जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः । तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ ४५.६॥
जम्बूद्वीपः समस्तानाम् द्वीपानाम् मध्यतस् शुभः । तस्य मध्ये महा-मेरुः विश्रुतः कनक-प्रभः ॥ ४५।६॥
jambūdvīpaḥ samastānām dvīpānām madhyatas śubhaḥ . tasya madhye mahā-meruḥ viśrutaḥ kanaka-prabhaḥ .. 45.6..
चतुरशीतिसाहस्रो योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ४५.७॥
चतुरशीति-साहस्रः योजनैः तस्य च उच्छ्रयः । प्रविष्टः षोडश अधस्तात् द्वात्रिंशत् मूर्ध्नि विस्तृतः ॥ ४५।७॥
caturaśīti-sāhasraḥ yojanaiḥ tasya ca ucchrayaḥ . praviṣṭaḥ ṣoḍaśa adhastāt dvātriṃśat mūrdhni vistṛtaḥ .. 45.7..
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ॥ ४५.८॥
मूले षोडश-साहस्रः विस्तारः तस्य सर्वतस् । भू-पद्मस्य अस्य शैलः असौ कर्णिका-त्वेन संस्थितः ॥ ४५।८॥
mūle ṣoḍaśa-sāhasraḥ vistāraḥ tasya sarvatas . bhū-padmasya asya śailaḥ asau karṇikā-tvena saṃsthitaḥ .. 45.8..
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृङ्गी च उत्तरे वर्षपर्वताः ॥ ४५.९॥
हिमवान् हेमकूटः च निषधः च अस्य दक्षिणे । नीलः श्वेतः च श्रृङ्गी च उत्तरे वर्षपर्वताः ॥ ४५।९॥
himavān hemakūṭaḥ ca niṣadhaḥ ca asya dakṣiṇe . nīlaḥ śvetaḥ ca śrṛṅgī ca uttare varṣaparvatāḥ .. 45.9..
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ ४५.१॥
लक्ष-प्रमाणौ द्वौ मध्ये दश-हीनाः तथा परे । सहस्र-द्वितय-उच्छ्रायाः तावत्-विस्तारिणः च ते ॥ ४५।१॥
lakṣa-pramāṇau dvau madhye daśa-hīnāḥ tathā pare . sahasra-dvitaya-ucchrāyāḥ tāvat-vistāriṇaḥ ca te .. 45.1..
भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ ४५.११॥
भारतम् दक्षिणम् वर्षम् ततस् किंपुरुषम् स्मृतम् । हरिवर्षम् तथा एव अन्यत् मेरोः दक्षिणतस् द्विजाः ॥ ४५।११॥
bhāratam dakṣiṇam varṣam tatas kiṃpuruṣam smṛtam . harivarṣam tathā eva anyat meroḥ dakṣiṇatas dvijāḥ .. 45.11..
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तरे कुरवश्चैव यथैते भारतास्तथा ॥ ४५.१२॥
रम्यकम् च उत्तरम् वर्षम् तस्य एव अनु हिरण्मयम् । उत्तरे कुरवः च एव यथा एते भारताः तथा ॥ ४५।१२॥
ramyakam ca uttaram varṣam tasya eva anu hiraṇmayam . uttare kuravaḥ ca eva yathā ete bhāratāḥ tathā .. 45.12..
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ ४५.१३॥
नव-साहस्रम् एकैकम् एतेषाम् द्विजसत्तमाः । इलावृतम् च तद्-मध्ये तद्-मध्ये मेरुः उच्छ्रितः ॥ ४५।१३॥
nava-sāhasram ekaikam eteṣām dvijasattamāḥ . ilāvṛtam ca tad-madhye tad-madhye meruḥ ucchritaḥ .. 45.13..
मेरोश्चतुर्द्धशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ॥ ४५.१४॥
मेरोः चतुर्द्धशम् तत्र नव-साहस्र-विस्तृतम् । इलावृतम् महाभागाः चत्वारः तत्र पर्वताः ॥ ४५।१४॥
meroḥ caturddhaśam tatra nava-sāhasra-vistṛtam . ilāvṛtam mahābhāgāḥ catvāraḥ tatra parvatāḥ .. 45.14..
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ ४५.१५॥
विष्कम्भाः रचिताः मेरोः योजन-अयुतम् उच्छ्रिताः । पूर्वेण मन्दरः नाम दक्षिणे गन्धमादनः ॥ ४५।१५॥
viṣkambhāḥ racitāḥ meroḥ yojana-ayutam ucchritāḥ . pūrveṇa mandaraḥ nāma dakṣiṇe gandhamādanaḥ .. 45.15..
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरः स्मृतः । कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ॥ ४५.१६॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वः च उत्तरः स्मृतः । कदम्बः तेषु जम्बुः च पिप्पलः वटः एव च ॥ ४५।१६॥
vipulaḥ paścime pārśve supārśvaḥ ca uttaraḥ smṛtaḥ . kadambaḥ teṣu jambuḥ ca pippalaḥ vaṭaḥ eva ca .. 45.16..
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः । महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ॥ ४५.१७॥
जम्बूद्वीपस्य सा जम्बूः नाम-हेतुः महा-ऋषयः । महा-गज-प्रमाणानि जम्ब्वाः तस्याः फलानि च ॥ ४५।१७॥
jambūdvīpasya sā jambūḥ nāma-hetuḥ mahā-ṛṣayaḥ . mahā-gaja-pramāṇāni jambvāḥ tasyāḥ phalāni ca .. 45.17..
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः । रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ॥ ४५.१८॥
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतस् । रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ॥ ४५।१८॥
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvatas . rasena tasyāḥ prakhyātā tatra jambūnadī girau.. 45.18..
सरित् प्रवर्त्तते चापि पीयते तत्र वासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ॥ ४५.१९॥
सरित् प्रवर्त्तते च अपि पीयते तत्र वासिभिः । न स्वेदः न च दौर्गन्ध्यम् न जरा न इन्द्रिय-क्षयः ॥ ४५।१९॥
sarit pravarttate ca api pīyate tatra vāsibhiḥ . na svedaḥ na ca daurgandhyam na jarā na indriya-kṣayaḥ .. 45.19..
तत्पानात् सुस्थमनसां नराणां तत्र जायते । तत्तीरमृद्रसं प्राप्य वायुना सुविशोषितम् ॥ ४५.२॥
तद्-पानात् सुस्थ-मनसाम् नराणाम् तत्र जायते । तद्-तीर-मृद्-रसम् प्राप्य वायुना सु विशोषितम् ॥ ४५।२॥
tad-pānāt sustha-manasām narāṇām tatra jāyate . tad-tīra-mṛd-rasam prāpya vāyunā su viśoṣitam .. 45.2..
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् । भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे॥ ४५.२१॥
जाम्बूनद-आख्यम् भवति सुवर्णम् सिद्ध-भूषणम् । भद्राश्वः पूर्वतस् मेरोः केतुमालः च पश्चिमे॥ ४५।२१॥
jāmbūnada-ākhyam bhavati suvarṇam siddha-bhūṣaṇam . bhadrāśvaḥ pūrvatas meroḥ ketumālaḥ ca paścime.. 45.21..
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् । वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम् ॥ ४५.२२॥
वर्षे द्वे तु मुनि-श्रेष्ठाः तयोः मध्ये इलावृतम् । वनम् चैत्ररथम् पूर्वम् दक्षिणे गन्धमादनम् ॥ ४५।२२॥
varṣe dve tu muni-śreṣṭhāḥ tayoḥ madhye ilāvṛtam . vanam caitraratham pūrvam dakṣiṇe gandhamādanam .. 45.22..
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् । अरुणोदं महाभद्रमसितोदं च मानसम् ॥ ४५.२३॥
वैभ्राजम् पश्चिमे विद्यात् उत्तरे सवितुः वनम् । अरुणोदम् महाभद्रम् असितोदम् च मानसम् ॥ ४५।२३॥
vaibhrājam paścime vidyāt uttare savituḥ vanam . aruṇodam mahābhadram asitodam ca mānasam .. 45.23..
सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा । सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ॥ ४५.२४॥
सरांसि एतानि चत्वारि देव-योग्यानि सर्वदा । सितान्तः च कुमुद्वान् च कुरुरी माल्यवान् तथा ॥ ४५।२४॥
sarāṃsi etāni catvāri deva-yogyāni sarvadā . sitāntaḥ ca kumudvān ca kururī mālyavān tathā .. 45.24..
वैकङ्को मणिशैलश्च वृक्षवांश्चाचलोत्तमाः । महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा ॥ ४५.२५॥
वैकङ्कः मणिशैलः च वृक्षवान् च अचल-उत्तमाः । महानीलः अथ रुचकः सबिन्दुः मन्दरः तथा ॥ ४५।२५॥
vaikaṅkaḥ maṇiśailaḥ ca vṛkṣavān ca acala-uttamāḥ . mahānīlaḥ atha rucakaḥ sabinduḥ mandaraḥ tathā .. 45.25..
वेणुमांश्चैव मेघश्च निषधो देवपर्वतः । इत्येते देवरचिताः सिद्धावासाः प्रकीर्त्तिताः ॥ ४५.२६॥
वेणुमान् च एव मेघः च निषधः देव-पर्वतः । इति एते देव-रचिताः सिद्ध-आवासाः प्रकीर्त्तिताः ॥ ४५।२६॥
veṇumān ca eva meghaḥ ca niṣadhaḥ deva-parvataḥ . iti ete deva-racitāḥ siddha-āvāsāḥ prakīrttitāḥ .. 45.26..
अरुणोदस्य सरसः पूर्वतः केसराचलः । त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ ४५.२७॥
अरुणोदस्य सरसः पूर्वतस् केसर-अचलः । त्रिकूट-शिखरः च एव पतङ्गः रुचकः तथा ॥ ४५।२७॥
aruṇodasya sarasaḥ pūrvatas kesara-acalaḥ . trikūṭa-śikharaḥ ca eva pataṅgaḥ rucakaḥ tathā .. 45.27..
निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः । समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ ४५.२८॥
निषधः वसुधारः च कलिङ्गः त्रिशिखः शुभः । समूलः वसुधारः च कुरवः च एव सानुमान् ॥ ४५।२८॥
niṣadhaḥ vasudhāraḥ ca kaliṅgaḥ triśikhaḥ śubhaḥ . samūlaḥ vasudhāraḥ ca kuravaḥ ca eva sānumān .. 45.28..
ताम्रातश्च विशालश्च कुमुदो वेणुपर्वतः । एकश्रृङ्गो महाशैलो गजशैलः पिशाचकः ॥ ४५.२९॥
ताम्रातः च विशालः च कुमुदः वेणुपर्वतः । ॥ ४५।२९॥
tāmrātaḥ ca viśālaḥ ca kumudaḥ veṇuparvataḥ . .. 45.29..
पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः । इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ ४५.३॥
पञ्चशैलः अथ कैलासः हिमवान् च अचल-उत्तमः । इति एते देव-चरिताः उत्कटाः पर्वत-उत्तमाः ॥ ४५।३॥
pañcaśailaḥ atha kailāsaḥ himavān ca acala-uttamaḥ . iti ete deva-caritāḥ utkaṭāḥ parvata-uttamāḥ .. 45.3..
महाभद्रस्य सरसो दक्षिणे केसराचलः । शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ ४५.३१॥
महाभद्रस्य सरसः दक्षिणे केसराचलः । शिखिवासः च वैदूर्यः कपिलः गन्धमादनः ॥ ४५।३१॥
mahābhadrasya sarasaḥ dakṣiṇe kesarācalaḥ . śikhivāsaḥ ca vaidūryaḥ kapilaḥ gandhamādanaḥ .. 45.31..
जारुधिश्च सुगन्धिश्च श्रीश्रृङ्गश्चाचलोत्तमः । सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ ४५.३२॥
जारुधिः च सुगन्धिः च श्रीश्रृङ्गः च अचल-उत्तमः । सुपार्श्वः च सुपक्षः च कङ्कः कपिलः एव च ॥ ४५।३२॥
jārudhiḥ ca sugandhiḥ ca śrīśrṛṅgaḥ ca acala-uttamaḥ . supārśvaḥ ca supakṣaḥ ca kaṅkaḥ kapilaḥ eva ca .. 45.32..
पिञ्जरो भद्रशैलश्च सुसशश्च महाबलः । अञ्जनो मधुमांस्तद्वत् चित्रश्रृड्गो महालयः ॥ ४५.३३॥
पिञ्जरः भद्रशैलः च सुसशः च महा-बलः । अञ्जनः मधुमान् तद्वत् चित्र-श्रृड्गः महा-लयः ॥ ४५।३३॥
piñjaraḥ bhadraśailaḥ ca susaśaḥ ca mahā-balaḥ . añjanaḥ madhumān tadvat citra-śrṛḍgaḥ mahā-layaḥ .. 45.33..
सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च । पारिजातो महाशैलस्तथैव कपिलोदर ॥ ४५.३४॥
सहस्रशिखरः च एव पाण्डुरः कृष्णः एव च । पारिजातः महा-शैलः तथा एव कपिल-उदर ॥ ४५।३४॥
sahasraśikharaḥ ca eva pāṇḍuraḥ kṛṣṇaḥ eva ca . pārijātaḥ mahā-śailaḥ tathā eva kapila-udara .. 45.34..
सुषेणः पुण्डरीकश्च महामेघस्तथैव च । एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ ४५.३५॥
सुषेणः पुण्डरीकः च महामेघः तथा एव च । एते पर्वत-राजानः सिद्ध-गन्धर्व-सेविताः ॥ ४५।३५॥
suṣeṇaḥ puṇḍarīkaḥ ca mahāmeghaḥ tathā eva ca . ete parvata-rājānaḥ siddha-gandharva-sevitāḥ .. 45.35..
असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटोऽथ वृषभो हंसो नागस्तथैव च॥ ४५.३६॥
असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटः अथ वृषभः हंसः नागः तथा एव च॥ ४५।३६॥
asitodasya sarasaḥ paścime kesarācalaḥ . śaṅkhakūṭaḥ atha vṛṣabhaḥ haṃsaḥ nāgaḥ tathā eva ca.. 45.36..
कालाञ्जनः शुक्रशैलो नीलः कमल एव च । पारिजातो महाशैल शैलः कनक एव च॥ ४५.३७॥
कालाञ्जनः शुक्रशैलः नीलः कमलः एव च । पारिजातः महा-शैल शैलः कनकः एव च॥ ४५।३७॥
kālāñjanaḥ śukraśailaḥ nīlaḥ kamalaḥ eva ca . pārijātaḥ mahā-śaila śailaḥ kanakaḥ eva ca.. 45.37..
पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा । मयूरः कपिलश्चैव महाकपिल एव च ॥ ४५.३८॥
पुष्पकः च सुमेघः च वाराहः विरजाः तथा । मयूरः कपिलः च एव महाकपिलः एव च ॥ ४५।३८॥
puṣpakaḥ ca sumeghaḥ ca vārāhaḥ virajāḥ tathā . mayūraḥ kapilaḥ ca eva mahākapilaḥ eva ca .. 45.38..
इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः । सरसो मानसस्येह उत्तरे केसराचलाः ॥ ४५.३९॥
इति एते देव-गन्धर्व-सिद्ध-सङ्घ-निषेविताः । सरसः मानसस्य इह उत्तरे केसर-अचलाः ॥ ४५।३९॥
iti ete deva-gandharva-siddha-saṅgha-niṣevitāḥ . sarasaḥ mānasasya iha uttare kesara-acalāḥ .. 45.39..
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ ४५.४॥
एतेषाम् शैल-मुख्यानाम् अन्तरेषु यथाक्रमम् । सन्ति च एव अन्तर-द्रोण्यः सरांसि च वनानि च ॥ ४५।४॥
eteṣām śaila-mukhyānām antareṣu yathākramam . santi ca eva antara-droṇyaḥ sarāṃsi ca vanāni ca .. 45.4..
वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः । प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ ४५.४१॥
वसन्ति तत्र मुनयः सिद्धाः च ब्रह्म-भाविताः । प्रसन्नाः शान्त-रजसः सर्व-दुः-ख-विवर्जिताः ॥ ४५।४१॥
vasanti tatra munayaḥ siddhāḥ ca brahma-bhāvitāḥ . prasannāḥ śānta-rajasaḥ sarva-duḥ-kha-vivarjitāḥ .. 45.41..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां सहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् सहितायाम् पूर्व-विभागे पञ्चचत्वारिंशः अध्यायः ॥ ४५॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām sahitāyām pūrva-vibhāge pañcacatvāriṃśaḥ adhyāyaḥ .. 45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In