| |
|

This overlay will guide you through the buttons:

सूत उवच ।
चतुर्दशसहस्रणि योजनानां महापुरी । मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ ४६.१॥
चतुर्दश-सहस्रणि योजनानाम् महा-पुरी । मेरोः उपरि विख्याता देवदेवस्य वेधसः ॥ ४६।१॥
caturdaśa-sahasraṇi yojanānām mahā-purī . meroḥ upari vikhyātā devadevasya vedhasaḥ .. 46.1..
तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशंकरैः ॥ ४६.२॥
तत्र आस्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानः योगि-इन्द्रैः मुनि-इन्द्र-उपेन्द्र-शंकरैः ॥ ४६।२॥
tatra āste bhagavān brahmā viśvātmā viśvabhāvanaḥ . upāsyamānaḥ yogi-indraiḥ muni-indra-upendra-śaṃkaraiḥ .. 46.2..
तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् । सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ ४६.३॥
तत्र देवेश्वर-ईशानम् विश्वात्मानम् प्रजापतिम् । सनत्कुमारः भगवान् उपास्ते नित्यम् एव हि ॥ ४६।३॥
tatra deveśvara-īśānam viśvātmānam prajāpatim . sanatkumāraḥ bhagavān upāste nityam eva hi .. 46.3..
स सिद्धऋषिगन्धर्वैः पूज्यमानः सुरैरपि । समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ ४६.४॥
स सिद्ध-ऋषि-गन्धर्वैः पूज्यमानः सुरैः अपि । समास्ते पीत्वा तत् परम-अमृतम् ॥ ४६।४॥
sa siddha-ṛṣi-gandharvaiḥ pūjyamānaḥ suraiḥ api . samāste pītvā tat parama-amṛtam .. 46.4..
तत्र देवादिदेवस्य शंभोरमिततेजसः । दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥ ४६.५॥
तत्र देव-आदिदेवस्य शंभोः अमित-तेजसः । दीप्तम् आयतनम् शुभ्रम् पुरस्तात् ब्रह्मणः स्थितम् ॥ ४६।५॥
tatra deva-ādidevasya śaṃbhoḥ amita-tejasaḥ . dīptam āyatanam śubhram purastāt brahmaṇaḥ sthitam .. 46.5..
दिव्यकान्तिसमायुक्तं चतुर्द्धारं सुशोभनम् । महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ ४६.६॥
दिव्य-कान्ति-समायुक्तम् चतुर्-द्धारम् सु शोभनम् । महा-ऋषि-गण-संकीर्णम् ब्रह्म-विद्भिः निषेवितम् ॥ ४६।६॥
divya-kānti-samāyuktam catur-ddhāram su śobhanam . mahā-ṛṣi-gaṇa-saṃkīrṇam brahma-vidbhiḥ niṣevitam .. 46.6..
देव्या सह महादेवः शशाङ्कार्काग्निलोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ ४६.७॥
देव्या सह महादेवः शशाङ्क-अर्क-अग्नि-लोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ ४६।७॥
devyā saha mahādevaḥ śaśāṅka-arka-agni-locanaḥ . ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ .. 46.7..
तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः । पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ ४६.८॥
तत्र वेद-विदः शान्ताः मुनयः ब्रह्मचारिणः । पूजयन्ति महादेवम् तापसाः सत्य-वादिनः ॥ ४६।८॥
tatra veda-vidaḥ śāntāḥ munayaḥ brahmacāriṇaḥ . pūjayanti mahādevam tāpasāḥ satya-vādinaḥ .. 46.8..
तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् । गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ ४६.९॥
तेषाम् साक्षात् महादेवः मुनीनाम् ब्रह्म-वादिनाम् । गृह्णाति पूजाम् शिरसा पार्वत्या परमेश्वरः ॥ ४६।९॥
teṣām sākṣāt mahādevaḥ munīnām brahma-vādinām . gṛhṇāti pūjām śirasā pārvatyā parameśvaraḥ .. 46.9..
तत्रैव पर्वतवरे शक्रस्य परमा पुरी । नाम्नाऽमरावती पूर्वे सर्वशोभासमन्विता ॥ ४६.१॥
तत्र एव पर्वत-वरे शक्रस्य परमा पुरी । नाम्ना अमरावती पूर्वे सर्व-शोभा-समन्विता ॥ ४६।१॥
tatra eva parvata-vare śakrasya paramā purī . nāmnā amarāvatī pūrve sarva-śobhā-samanvitā .. 46.1..
तत्र चाप्सरसः सर्वा गन्धर्वा गीततत्पराः । उपासते सहस्राक्षं देवास्तत्र सहस्रशः ॥ ४६.११॥
तत्र च अप्सरसः सर्वाः गन्धर्वाः गीत-तत्पराः । उपासते सहस्राक्षम् देवाः तत्र सहस्रशस् ॥ ४६।११॥
tatra ca apsarasaḥ sarvāḥ gandharvāḥ gīta-tatparāḥ . upāsate sahasrākṣam devāḥ tatra sahasraśas .. 46.11..
ये धार्मिका वेदविदो यागहोमपरायणाः । तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥ ४६.१२॥
ये धार्मिकाः वेद-विदः याग-होम-परायणाः । तेषाम् तत् परमम् स्थानम् देवानाम् अपि दुर्लभम् ॥ ४६।१२॥
ye dhārmikāḥ veda-vidaḥ yāga-homa-parāyaṇāḥ . teṣām tat paramam sthānam devānām api durlabham .. 46.12..
तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः । तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ ४६.१३॥
तस्य दक्षिण-दिग्भागे वह्नेः अमित-तेजसः । तेजोवती नाम पुरी दिव्य-आश्चर्य-समन्विता ॥ ४६।१३॥
tasya dakṣiṇa-digbhāge vahneḥ amita-tejasaḥ . tejovatī nāma purī divya-āścarya-samanvitā .. 46.13..
तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा । जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ ४६.१४॥
तत्र आस्ते भगवान् वह्निः भ्राजमानः स्व-तेजसा । जपिनाम् होमिनाम् स्थानम् दानवानाम् दुरासदम् ॥ ४६।१४॥
tatra āste bhagavān vahniḥ bhrājamānaḥ sva-tejasā . japinām hominām sthānam dānavānām durāsadam .. 46.14..
दक्षिणे पर्वतवरे यमस्यापि महापुरी । नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ ४६.१५॥
दक्षिणे पर्वत-वरे यमस्य अपि महा-पुरी । नाम्ना संयमनी दिव्या सिद्ध-गन्धर्व-सेविता ॥ ४६।१५॥
dakṣiṇe parvata-vare yamasya api mahā-purī . nāmnā saṃyamanī divyā siddha-gandharva-sevitā .. 46.15..
तत्र वैवस्वतं देवं देवाद्याः पर्युपासते । स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥ ४६.१६॥
तत्र वैवस्वतम् देवम् देव-आद्याः पर्युपासते । स्थानम् तत् सत्य-संधानाम् लोके पुण्य-कृताम् नृणाम् ॥ ४६।१६॥
tatra vaivasvatam devam deva-ādyāḥ paryupāsate . sthānam tat satya-saṃdhānām loke puṇya-kṛtām nṛṇām .. 46.16..
तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ ४६.१७॥
तस्याः तु पश्चिमे भागे निरृतेः तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतस् वृता ॥ ४६।१७॥
tasyāḥ tu paścime bhāge nirṛteḥ tu mahātmanaḥ . rakṣovatī nāma purī rākṣasaiḥ sarvatas vṛtā .. 46.17..
तत्र ते निरृतिं देवं राक्षसाः पर्युपासते । गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ ४६.१८॥
तत्र ते निरृतिम् देवम् राक्षसाः पर्युपासते । गच्छन्ति ताम् धर्म-रताः ये वै तामस-वृत्तयः ॥ ४६।१८॥
tatra te nirṛtim devam rākṣasāḥ paryupāsate . gacchanti tām dharma-ratāḥ ye vai tāmasa-vṛttayaḥ .. 46.18..
पश्चिमे पर्वतवरे वरुणस्य महापुरी । नाम्ना शुद्धवती पुण्या सर्वकामर्द्धिसंयुता ॥ ४६.१९॥
पश्चिमे पर्वत-वरे वरुणस्य महा-पुरी । नाम्ना शुद्धवती पुण्या सर्व-काम-ऋद्धि-संयुता ॥ ४६।१९॥
paścime parvata-vare varuṇasya mahā-purī . nāmnā śuddhavatī puṇyā sarva-kāma-ṛddhi-saṃyutā .. 46.19..
तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः । आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः ॥ ४६.२॥
तत्र अप्सरः-गणैः सिद्धैः सेव्यमानः अमर-अधिपैः । आस्ते स वरुणः राजा तत्र गच्छन्ति ये अम्बुदाः ॥ ४६।२॥
tatra apsaraḥ-gaṇaiḥ siddhaiḥ sevyamānaḥ amara-adhipaiḥ . āste sa varuṇaḥ rājā tatra gacchanti ye ambudāḥ .. 46.2..
तस्या उत्तरदिग्भागे वायोरपि महापुरी । नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ॥ ४६.२१॥
तस्याः उत्तर-दिग्भागे वायोः अपि महा-पुरी । नाम्ना गन्धवती पुण्या तत्र आस्ते असौ प्रभञ्जनः ॥ ४६।२१॥
tasyāḥ uttara-digbhāge vāyoḥ api mahā-purī . nāmnā gandhavatī puṇyā tatra āste asau prabhañjanaḥ .. 46.21..
अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः । प्राणायामपरामर्त्यास्थानंतद्यान्ति शाश्वतम् ॥ ४६.२२॥
अप्सरः-गण-गन्धर्वैः सेव्यमानः अमर-प्रभुः । प्राणायाम-परा अमर्त्या-स्थानम् तत् यान्ति शाश्वतम् ॥ ४६।२२॥
apsaraḥ-gaṇa-gandharvaiḥ sevyamānaḥ amara-prabhuḥ . prāṇāyāma-parā amartyā-sthānam tat yānti śāśvatam .. 46.22..
तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ ४६.२३॥
तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमः विराजते ॥ ४६।२३॥
tasyāḥ pūrveṇa digbhāge somasya paramā purī . nāmnā kāntimatī śubhrā tatra somaḥ virājate .. 46.23..
तत्र ये भोगनिरता स्वधर्मं पुर्यपासते । तेषां तदुचितं स्थानं नानाभोगसमन्वितम् ॥ ४६.२४॥
तत्र ये भोग-निरता स्वधर्मम् पुरि अपासते । तेषाम् तत् उचितम् स्थानम् नाना भोग-समन्वितम् ॥ ४६।२४॥
tatra ye bhoga-niratā svadharmam puri apāsate . teṣām tat ucitam sthānam nānā bhoga-samanvitam .. 46.24..
तस्याश्च पूर्वदिग्भागे शंकरस्य महापुरी । नाम्ना यशोवती पुण्या सर्वेषां सा दुरासदा ॥ ४६.२५॥
तस्याः च पूर्व-दिग्भागे शंकरस्य महा-पुरी । नाम्ना यशोवती पुण्या सर्वेषाम् सा दुरासदा ॥ ४६।२५॥
tasyāḥ ca pūrva-digbhāge śaṃkarasya mahā-purī . nāmnā yaśovatī puṇyā sarveṣām sā durāsadā .. 46.25..
तत्रेशानस्य भवनं रुद्रेणाधिष्टितं शुभम् । घमेश्वरस्य विपुलं तत्रास्ते स गणावृतः ॥ ४६.२६॥
तत्र ईशानस्य भवनम् रुद्रेण अधिष्टितम् शुभम् । घमेश्वरस्य विपुलम् तत्र आस्ते स गण-आवृतः ॥ ४६।२६॥
tatra īśānasya bhavanam rudreṇa adhiṣṭitam śubham . ghameśvarasya vipulam tatra āste sa gaṇa-āvṛtaḥ .. 46.26..
तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः । निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ ४६.२७॥
तत्र भोग-अभिलिप्सूनाम् भक्तानाम् परमेष्ठिनः । निवासः कल्पितः पूर्वम् देवदेवेन शूलिना ॥ ४६।२७॥
tatra bhoga-abhilipsūnām bhaktānām parameṣṭhinaḥ . nivāsaḥ kalpitaḥ pūrvam devadevena śūlinā .. 46.27..
विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै ततः ॥ ४६.२८॥
विष्णु-पादात् विनिष्क्रान्ता प्लावयित्वा इन्दु-मण्डलम् । समन्तात् ब्रह्मणः पुर्याम् गङ्गा पतति वै ततस् ॥ ४६।२८॥
viṣṇu-pādāt viniṣkrāntā plāvayitvā indu-maṇḍalam . samantāt brahmaṇaḥ puryām gaṅgā patati vai tatas .. 46.28..
सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः । सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ ४६.२९॥
सा तत्र पतिता दिक्षु चतुर्धा हि अभवत् द्विजाः । सीता च अलकनन्दा च सुचक्षुः भद्र-नामिका ॥ ४६।२९॥
sā tatra patitā dikṣu caturdhā hi abhavat dvijāḥ . sītā ca alakanandā ca sucakṣuḥ bhadra-nāmikā .. 46.29..
पूर्वेण शैवाच्छैलं तु सीता यात्यन्तरिक्षगा । ततश्च पूर्ववर्षेण भद्राश्वाद्याति चार्णवम् ॥ ४६.३॥
पूर्वेण शैवात् शैलम् तु सीता याति अन्तरिक्ष-गा । ततस् च पूर्व-वर्षेण भद्राश्वात् याति च अर्णवम् ॥ ४६।३॥
pūrveṇa śaivāt śailam tu sītā yāti antarikṣa-gā . tatas ca pūrva-varṣeṇa bhadrāśvāt yāti ca arṇavam .. 46.3..
तथैवालकनन्दा च दक्षिणादेत्य भारतम् । प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ ४६.३१॥
तथा एव अलकनन्दा च दक्षिणात् एत्य भारतम् । प्रयाति सागरम् भित्त्वा सप्त-भेदाः द्विजोत्तमाः ॥ ४६।३१॥
tathā eva alakanandā ca dakṣiṇāt etya bhāratam . prayāti sāgaram bhittvā sapta-bhedāḥ dvijottamāḥ .. 46.31..
सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा । पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ ४६.३२॥
सुचक्षुः पश्चिम-गिरीन् अतीत्य सकलान् तथा । पश्चिमम् केतुमाल-आख्यम् वर्षम् गत्वा एति च अर्णवम् ॥ ४६।३२॥
sucakṣuḥ paścima-girīn atītya sakalān tathā . paścimam ketumāla-ākhyam varṣam gatvā eti ca arṇavam .. 46.32..
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ ४६.३३॥
भद्रा तथा उत्तर-गिरीन् उत्तरान् च तथा कुरून् । अतीत्य च उत्तर-अम्भोधिम् समभ्येति महा-ऋषयः ॥ ४६।३३॥
bhadrā tathā uttara-girīn uttarān ca tathā kurūn . atītya ca uttara-ambhodhim samabhyeti mahā-ṛṣayaḥ .. 46.33..
आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ४६.३४॥
आ नील-निषध-आयामौ माल्यवत्-गन्धमादनौ । तयोः मध्य-गतः मेरुः कर्णिका-आकार-संस्थितः ॥ ४६।३४॥
ā nīla-niṣadha-āyāmau mālyavat-gandhamādanau . tayoḥ madhya-gataḥ meruḥ karṇikā-ākāra-saṃsthitaḥ .. 46.34..
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ४६.३५॥
भारताः केतुमालाः च भद्राश्वाः कुरवः तथा । पत्राणि लोक-पद्मस्य मर्यादा-शैल-बाह्यतस् ॥ ४६।३५॥
bhāratāḥ ketumālāḥ ca bhadrāśvāḥ kuravaḥ tathā . patrāṇi loka-padmasya maryādā-śaila-bāhyatas .. 46.35..
जठरो देवकूटश्च मर्यादापर्वतावुभौ । दक्षिणोत्तरमायातावानीलनिषधायतौ ॥ ४६.३६॥
जठरः देवकूटः च मर्यादापर्वतौ उभौ । दक्षिण-उत्तरम् आयातौ आ नील-निषध-आयतौ ॥ ४६।३६॥
jaṭharaḥ devakūṭaḥ ca maryādāparvatau ubhau . dakṣiṇa-uttaram āyātau ā nīla-niṣadha-āyatau .. 46.36..
गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ ४६.३७॥
गन्धमादन-कैलासौ पूर्व-पश्च-आयतौ उभौ । अशीति-योजन-आयामौ अर्णव-अन्तर् व्यवस्थितौ ॥ ४६।३७॥
gandhamādana-kailāsau pūrva-paśca-āyatau ubhau . aśīti-yojana-āyāmau arṇava-antar vyavasthitau .. 46.37..
निषधः पारियात्रश्च मर्यादापर्वताविमौ । मेरोः पश्चिमदिग्भागे यथापूर्व व्यवस्थितौ ॥ ४६.३८॥
निषधः पारियात्रः च मर्यादापर्वतौ इमौ । मेरोः पश्चिम-दिग्भागे यथापूर्व व्यवस्थितौ ॥ ४६।३८॥
niṣadhaḥ pāriyātraḥ ca maryādāparvatau imau . meroḥ paścima-digbhāge yathāpūrva vyavasthitau .. 46.38..
त्रिश्रृङ्गो जारुधिस्तद्वदुत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ ४६.३९॥
त्रिश्रृङ्गः जारुधिः तद्वत् उत्तरे वर्षपर्वतौ । पूर्व-पश्च-आयतौ एतौ अर्णव-अन्तर् व्यवस्थितौ ॥ ४६।३९॥
triśrṛṅgaḥ jārudhiḥ tadvat uttare varṣaparvatau . pūrva-paśca-āyatau etau arṇava-antar vyavasthitau .. 46.39..
मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः । जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ ४६.४॥
मर्यादापर्वताः प्रोक्ताः अष्टौ इह मया द्विजाः । जठर-आद्याः स्थिताः मेरोः चतुर्-दिक्षु महा-ऋषयः ॥ ४६।४॥
maryādāparvatāḥ proktāḥ aṣṭau iha mayā dvijāḥ . jaṭhara-ādyāḥ sthitāḥ meroḥ catur-dikṣu mahā-ṛṣayaḥ .. 46.4..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे षट्चत्वारिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ṣaṭcatvāriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In