| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
केतुमाले नराः कालाः सर्वे पनसभोजनाः । स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥ ४७.१॥
केतुमाले नराः कालाः सर्वे पनस-भोजनाः । स्त्रियः च उत्पल-पत्र-आभाः जीवन्ति च वर्ष-अयुतम् ॥ ४७।१॥
ketumāle narāḥ kālāḥ sarve panasa-bhojanāḥ . striyaḥ ca utpala-patra-ābhāḥ jīvanti ca varṣa-ayutam .. 47.1..
भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः । दश वर्षसहस्राणि जीवन्ते आम्रभोजनाः ॥ ४७.२॥
भद्राश्वे पुरुषाः शुक्लाः स्त्रियः चन्द्र-अंशु-सन्निभाः । दश वर्ष-सहस्राणि जीवन्ते आम्र-भोजनाः ॥ ४७।२॥
bhadrāśve puruṣāḥ śuklāḥ striyaḥ candra-aṃśu-sannibhāḥ . daśa varṣa-sahasrāṇi jīvante āmra-bhojanāḥ .. 47.2..
रम्यके पुरुषा नार्यो रमन्ति रजतप्रभाः । दशवर्षसहस्राणि शतानि दश पञ्च च॥ ४७.३॥
रम्यके पुरुषाः नार्यः रमन्ति रजत-प्रभाः । दश-वर्ष-सहस्राणि शतानि दश पञ्च च॥ ४७।३॥
ramyake puruṣāḥ nāryaḥ ramanti rajata-prabhāḥ . daśa-varṣa-sahasrāṇi śatāni daśa pañca ca.. 47.3..
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः । हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः ॥ ४७.४॥
जीवन्ति च एव सत्त्व-स्थाः न्यग्रोध-फल-भोजनाः । हिरण्मये हिरण्य-आभाः सर्वे च लकुच-अशनाः ॥ ४७।४॥
jīvanti ca eva sattva-sthāḥ nyagrodha-phala-bhojanāḥ . hiraṇmaye hiraṇya-ābhāḥ sarve ca lakuca-aśanāḥ .. 47.4..
एकादशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥ ४७.५॥
एकादश-सहस्त्राणि शतानि दश पञ्च च । जीवन्ति पुरुषाः नार्यः देव-लोक-स्थिताः इव ॥ ४७।५॥
ekādaśa-sahastrāṇi śatāni daśa pañca ca . jīvanti puruṣāḥ nāryaḥ deva-loka-sthitāḥ iva .. 47.5..
त्रयोदशसहस्राणि शतानि दश पञ्च च । जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ ४७.६॥
त्रयोदश-सहस्राणि शतानि दश पञ्च च । जीवन्ति कुरु-वर्षे तु श्याम-अङ्गाः क्षीर-भोजनाः ॥ ४७।६॥
trayodaśa-sahasrāṇi śatāni daśa pañca ca . jīvanti kuru-varṣe tu śyāma-aṅgāḥ kṣīra-bhojanāḥ .. 47.6..
सर्वे मिथुनजाताश्च नित्यं सुखनिषेविताः । चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ ४७.७॥
सर्वे मिथुन-जाताः च नित्यम् सुख-निषेविताः । चन्द्रद्वीपे महादेवम् यजन्ति सततम् शिवम् ॥ ४७।७॥
sarve mithuna-jātāḥ ca nityam sukha-niṣevitāḥ . candradvīpe mahādevam yajanti satatam śivam .. 47.7..
तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः । दशवर्षहस्राणि जीवन्ति प्लक्षभोजनाः ॥ ४७.८॥
तथा किंपुरुषे विप्राः मानवाः हेम-सन्निभाः । दश-वर्ष-हस्राणि जीवन्ति प्लक्ष-भोजनाः ॥ ४७।८॥
tathā kiṃpuruṣe viprāḥ mānavāḥ hema-sannibhāḥ . daśa-varṣa-hasrāṇi jīvanti plakṣa-bhojanāḥ .. 47.8..
यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् । ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥ ४७.९॥
यजन्ति सततम् देवम् चतुर्-मूर्ति चतुर्मुखम् । ध्याने मनः समाधाय स आदरम् भक्ति-संयुताः ॥ ४७।९॥
yajanti satatam devam catur-mūrti caturmukham . dhyāne manaḥ samādhāya sa ādaram bhakti-saṃyutāḥ .. 47.9..
तथा च हरिवर्षे तु महारजतसन्निभाः । दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥ ४७.१॥
तथा च हरिवर्षे तु महारजत-सन्निभाः । दश-वर्ष-सहस्राणि जीवन्ति इक्षु-रस-आशिनः ॥ ४७।१॥
tathā ca harivarṣe tu mahārajata-sannibhāḥ . daśa-varṣa-sahasrāṇi jīvanti ikṣu-rasa-āśinaḥ .. 47.1..
तत्र नारायणं देवं विश्वयोनिं सनातनम् । उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ ४७.११॥
तत्र नारायणम् देवम् विश्वयोनिम् सनातनम् । उपासते सदा विष्णुम् मानवाः विष्णु-भाविताः ॥ ४७।११॥
tatra nārāyaṇam devam viśvayonim sanātanam . upāsate sadā viṣṇum mānavāḥ viṣṇu-bhāvitāḥ .. 47.11..
तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकसन्निभम् । विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ ४७.१२॥
तत्र चन्द्र-प्रभम् शुभ्रम् शुद्ध-स्फटिक-सन्निभम् । विमानम् वासुदेवस्य पारिजात-वन-आश्रितम् ॥ ४७।१२॥
tatra candra-prabham śubhram śuddha-sphaṭika-sannibham . vimānam vāsudevasya pārijāta-vana-āśritam .. 47.12..
चतुर्द्धारमनोपम्यं चतुस्तोरणसंयुतम् । प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥ ४७.१३॥
चतुर्-द्धारम् अनोपम्यम् चतुर्-तोरण-संयुतम् । प्राकारैः दशभिः युक्तम् दुराधर्षम् सु दुर्गमम् ॥ ४७।१३॥
catur-ddhāram anopamyam catur-toraṇa-saṃyutam . prākāraiḥ daśabhiḥ yuktam durādharṣam su durgamam .. 47.13..
स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् । स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलंकृतम् ॥ ४७.१४॥
स्फाटिकैः मण्डपैः युक्तम् देव-राज-गृह-उपमम् । स्वर्ण-स्तम्भ-सहस्त्रैः च सर्वतस् समलंकृतम् ॥ ४७।१४॥
sphāṭikaiḥ maṇḍapaiḥ yuktam deva-rāja-gṛha-upamam . svarṇa-stambha-sahastraiḥ ca sarvatas samalaṃkṛtam .. 47.14..
हेमसोपानसंयुक्तं नानारत्नोपशोभितम् । दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥ ४७.१५॥
हेम-सोपान-संयुक्तम् नाना रत्न-उपशोभितम् । दिव्य-सिंहासन-उपेतम् सर्व-शोभा-समन्वितम् ॥ ४७।१५॥
hema-sopāna-saṃyuktam nānā ratna-upaśobhitam . divya-siṃhāsana-upetam sarva-śobhā-samanvitam .. 47.15..
सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् । नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥ ४७.१६॥
सरोभिः स्वादु-पानीयैः नदीभिः च उपशोभितम् । नारायण-परैः शुद्धैः वेद-अध्ययन-तत्परैः ॥ ४७।१६॥
sarobhiḥ svādu-pānīyaiḥ nadībhiḥ ca upaśobhitam . nārāyaṇa-paraiḥ śuddhaiḥ veda-adhyayana-tatparaiḥ .. 47.16..
योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् । स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ ४७.१७॥
योगिभिः च समाकीर्णम् ध्यायद्भिः पुरुषम् हरिम् । स्तुवद्भिः सततम् मन्त्रैः नमस्यद्भिः च माधवम् ॥ ४७।१७॥
yogibhiḥ ca samākīrṇam dhyāyadbhiḥ puruṣam harim . stuvadbhiḥ satatam mantraiḥ namasyadbhiḥ ca mādhavam .. 47.17..
तत्र देवादिदेवस्य विष्णोरमिततेजसः । राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥ ४७.१८॥
तत्र देव-आदिदेवस्य विष्णोः अमित-तेजसः । राजानः सर्वकालम् तु महिमानम् प्रकुर्वते ॥ ४७।१८॥
tatra deva-ādidevasya viṣṇoḥ amita-tejasaḥ . rājānaḥ sarvakālam tu mahimānam prakurvate .. 47.18..
गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः । स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ ४७.१९॥
गायन्ति च एव नृत्यन्ति विलासिन्यः मनोरमाः । स्त्रियः यौवन-शालिन्यः सदा मण्डन-तत्पराः ॥ ४७।१९॥
gāyanti ca eva nṛtyanti vilāsinyaḥ manoramāḥ . striyaḥ yauvana-śālinyaḥ sadā maṇḍana-tatparāḥ .. 47.19..
इलावृते पद्मवर्णा जम्बूरसफालशिनः । त्रयोदशसहस्राणि वर्षाणां वै स्थिरायुषः ॥ ४७.२॥
इलावृते पद्म-वर्णाः । त्रयोदश-सहस्राणि वर्षाणाम् वै स्थिर-आयुषः ॥ ४७।२॥
ilāvṛte padma-varṇāḥ . trayodaśa-sahasrāṇi varṣāṇām vai sthira-āyuṣaḥ .. 47.2..
भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्त्तिताः । नानादेवार्च्चने युक्ता नानाकर्माणि कुर्वते ॥ ४७.२१॥
भारते तु स्त्रियः पुंसः नाना वर्णाः प्रकीर्त्तिताः । नाना देव-अर्च्चने युक्ताः नाना कर्माणि कुर्वते ॥ ४७।२१॥
bhārate tu striyaḥ puṃsaḥ nānā varṇāḥ prakīrttitāḥ . nānā deva-arccane yuktāḥ nānā karmāṇi kurvate .. 47.21..
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः । नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ॥ ४७.२२॥
परम-आयुः स्मृतम् तेषाम् शतम् वर्षाणि सुव्रताः । नव-योजन-साहस्रम् वर्षम् एतत् प्रकीर्त्तितम् ॥ ४७।२२॥
parama-āyuḥ smṛtam teṣām śatam varṣāṇi suvratāḥ . nava-yojana-sāhasram varṣam etat prakīrttitam .. 47.22..
कर्मभूमिरियं विप्रा नराणामधिकारिणाम् । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ ४७.२३॥
कर्म-भूमिः इयम् विप्राः नराणाम् अधिकारिणाम् । महेन्द्रः मलयः सह्यः शुक्तिमान् ऋक्ष-पर्वतः ॥ ४७।२३॥
karma-bhūmiḥ iyam viprāḥ narāṇām adhikāriṇām . mahendraḥ malayaḥ sahyaḥ śuktimān ṛkṣa-parvataḥ .. 47.23..
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः । इन्द्रद्वीपः कसेरुक्मान् ताम्रवर्णो गभस्तिमान् ॥ ४७.२४॥
विन्ध्यः च पारियात्रः च सप्त अत्र कुलपर्वताः । ॥ ४७।२४॥
vindhyaḥ ca pāriyātraḥ ca sapta atra kulaparvatāḥ . .. 47.24..
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः॥ ४७.२५॥
नागद्वीपः तथा सौम्यः गन्धर्वः तु अथ वारुणः । अयम् तु नवमः तेषाम् द्वीपः सागर-संवृतः॥ ४७।२५॥
nāgadvīpaḥ tathā saumyaḥ gandharvaḥ tu atha vāruṇaḥ . ayam tu navamaḥ teṣām dvīpaḥ sāgara-saṃvṛtaḥ.. 47.25..
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः । पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा ॥ ४७.२६॥
योजनानाम् सहस्रम् तु द्वीपः अयम् दक्षिण-उत्तरः । पूर्वे किराताः तस्य अन्ते पशिचमे यवनाः तथा ॥ ४७।२६॥
yojanānām sahasram tu dvīpaḥ ayam dakṣiṇa-uttaraḥ . pūrve kirātāḥ tasya ante paśicame yavanāḥ tathā .. 47.26..
ब्राह्मणाः क्षत्रिया वैश्याः मध्ये शूद्रास्तथैव च । इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः ॥ ४७.२७॥
ब्राह्मणाः क्षत्रियाः वैश्याः मध्ये शूद्राः तथा एव च । इज्या-युद्ध-वणिज्याभिः वर्तयन्ति अत्र मानवाः ॥ ४७।२७॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ madhye śūdrāḥ tathā eva ca . ijyā-yuddha-vaṇijyābhiḥ vartayanti atra mānavāḥ .. 47.27..
स्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः । शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा॥ ४७.२८॥
स्रवन्ते पावनाः नद्यः पर्वतेभ्यः विनिः सृताः । शतद्रुः चन्द्रभागा च सरयूः यमुना तथा॥ ४७।२८॥
sravante pāvanāḥ nadyaḥ parvatebhyaḥ viniḥ sṛtāḥ . śatadruḥ candrabhāgā ca sarayūḥ yamunā tathā.. 47.28..
इरावती वितस्ता च विपाशा देविका कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ४७.२९॥
इरावती वितस्ता च विपाशा देविका कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ४७।२९॥
irāvatī vitastā ca vipāśā devikā kuhūḥ . gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī .. 47.29..
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः । वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा ॥ ४७.३॥
कौशिकी लोहिता च एव हिमवत्पादनिः सृताः । ॥ ४७।३॥
kauśikī lohitā ca eva himavatpādaniḥ sṛtāḥ . .. 47.3..
वर्णाशा वन्दना चैव सचर्मण्यवती सुरा । विदिशा वेत्रवत्यापि पारियात्राश्रयाः स्मृताः ॥ ४७.३१॥
वर्णाशा वन्दना च एव स चर्मण्यवती सुरा । विदिशा वेत्रवत्या अपि पारियात्र-आश्रयाः स्मृताः ॥ ४७।३१॥
varṇāśā vandanā ca eva sa carmaṇyavatī surā . vidiśā vetravatyā api pāriyātra-āśrayāḥ smṛtāḥ .. 47.31..
नर्मदा सुरसा शोण दशार्णा च महानदी । मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ ४७.३२॥
नर्मदा सुरसा शोण दशार्णा च महा-नदी । मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ ४७।३२॥
narmadā surasā śoṇa daśārṇā ca mahā-nadī . mandākinī citrakūṭā tāmasī ca piśācikā .. 47.32..
चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी । ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥ ४७.३३॥
चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी । ऋक्ष-वत् पाद-जाः नद्यः सर्व-पाप-हराः नृणाम् ॥ ४७।३३॥
citrotpalā vipāśā ca mañjulā vāluvāhinī . ṛkṣa-vat pāda-jāḥ nadyaḥ sarva-pāpa-harāḥ nṛṇām .. 47.33..
तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी । वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥ ४७.३४॥
तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महा-नदी । वेण्या वैतरणी च एव बलाका च कुमुद्वती ॥ ४७।३४॥
tāpī payoṣṇī nirvindhyā śīghrodā ca mahā-nadī . veṇyā vaitaraṇī ca eva balākā ca kumudvatī .. 47.34..
तथा चैव महागैरी दुर्गा चान्तः शिला तथा । विन्ध्यपादप्रसूतास्तु सद्यः पुण्यजलाः शुभाः ॥ ४७.३५॥
तथा च एव महागैरी दुर्गा च अन्तर् शिला तथा । विन्ध्य-पाद-प्रसूताः तु सद्यस् पुण्य-जलाः शुभाः ॥ ४७।३५॥
tathā ca eva mahāgairī durgā ca antar śilā tathā . vindhya-pāda-prasūtāḥ tu sadyas puṇya-jalāḥ śubhāḥ .. 47.35..
गोदावरी भीमरथी कृष्णा वेणा च वश्यता । तुङ्गभद्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ॥ ४७.३६॥
च । तुङ्गभद्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ॥ ४७।३६॥
ca . tuṅgabhadrā suprayogā kāverī ca dvijottamāḥ .. 47.36..
दक्षिणापथनद्यस्तु सह्यपादाद्विनिः सृताः । ऋतुमाला ताम्रपर्णी पुष्पवत्युत्पलावती॥ ४७.३७॥
दक्षिणापथ-नद्यः तु सह्य-पादात् विनिः सृताः । ऋतुमाला ताम्रपर्णी पुष्पवती उत्पलावती॥ ४७।३७॥
dakṣiṇāpatha-nadyaḥ tu sahya-pādāt viniḥ sṛtāḥ . ṛtumālā tāmraparṇī puṣpavatī utpalāvatī.. 47.37..
मलयान्निःसृता नद्यः सर्वाः शीतजलाः स्मृताः । ऋषिकुल्या त्रिसामा च गन्दमादनगामिनी॥ ४७.३८॥
मलयात् निःसृताः नद्यः सर्वाः शीत-जलाः स्मृताः । ऋषिकुल्या त्रिसामा च गन्दमादन-गामिनी॥ ४७।३८॥
malayāt niḥsṛtāḥ nadyaḥ sarvāḥ śīta-jalāḥ smṛtāḥ . ṛṣikulyā trisāmā ca gandamādana-gāminī.. 47.38..
रूपा पालासिनी चैव ऋषिका वंशधारिणी । शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ॥ ४७.३९॥
रूपा पालासिनी च एव ऋषिका वंशधारिणी । शुक्तिमत्-पाद-संजाताः सर्व-पाप-हराः नृणाम् ॥ ४७।३९॥
rūpā pālāsinī ca eva ṛṣikā vaṃśadhāriṇī . śuktimat-pāda-saṃjātāḥ sarva-pāpa-harāḥ nṛṇām .. 47.39..
आसां नद्युपनद्यश्च शतशो द्विजपुंगवाः । सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥ ४७.४॥
आसाम् नदी-उपनद्यः च शतशस् द्विज-पुंगवाः । सर्व-पाप-हराः पुण्याः स्नान-दान-आदि-कर्मसु ॥ ४७।४॥
āsām nadī-upanadyaḥ ca śataśas dvija-puṃgavāḥ . sarva-pāpa-harāḥ puṇyāḥ snāna-dāna-ādi-karmasu .. 47.4..
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ ४७.४१॥
तासु इमे कुरु-पाञ्चालाः मध्यदेश-आदयः जनाः । पूर्व-देश-आदिकाः च एव कामरूप-निवासिनः ॥ ४७।४१॥
tāsu ime kuru-pāñcālāḥ madhyadeśa-ādayaḥ janāḥ . pūrva-deśa-ādikāḥ ca eva kāmarūpa-nivāsinaḥ .. 47.41..
पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः । तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ॥ ४७.४२॥
पुण्ड्राः कलिङ्ग-अमगधाः दाक्षिणात्याः च कृत्स्नशस् । तथा अपरान्ताः सौराष्ट्राः शूद्र-आभीराः तथा अर्बुदाः ॥ ४७।४२॥
puṇḍrāḥ kaliṅga-amagadhāḥ dākṣiṇātyāḥ ca kṛtsnaśas . tathā aparāntāḥ saurāṣṭrāḥ śūdra-ābhīrāḥ tathā arbudāḥ .. 47.42..
मालका मालपाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणा माल्याः बाल्यनिवासिनः ॥ ४७.४३॥
मालकाः मालपाः च एव पारियात्र-निवासिनः । सौवीराः सैन्धवाः हूणाः माल्याः बाल्यनिवासिनः ॥ ४७।४३॥
mālakāḥ mālapāḥ ca eva pāriyātra-nivāsinaḥ . sauvīrāḥ saindhavāḥ hūṇāḥ mālyāḥ bālyanivāsinaḥ .. 47.43..
माद्रा रामास्तथैवान्ध्राः पारसीकास्तथैव च । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ ४७.४४॥
माद्राः रामाः तथा एव आन्ध्राः पारसीकाः तथा एव च । आसाम् पिबन्ति सलिलम् वसन्ति सरिताम् सदा ॥ ४७।४४॥
mādrāḥ rāmāḥ tathā eva āndhrāḥ pārasīkāḥ tathā eva ca . āsām pibanti salilam vasanti saritām sadā .. 47.44..
चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ ४७.४५॥
चत्वारि भारते वर्षे युगानि कवयः अब्रुवन् । कृतम् त्रेता द्वापरम् च कलिः च अन्यत्र न क्वचिद् ॥ ४७।४५॥
catvāri bhārate varṣe yugāni kavayaḥ abruvan . kṛtam tretā dvāparam ca kaliḥ ca anyatra na kvacid .. 47.45..
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः । न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥ ४७.४६॥
यानि किंपुरुष-आद्यानि वर्षाणि अष्टौ महा-ऋषयः । न तेषु शोकः न आयासः न उद्वेगः क्षुध्-भयम् न च ॥ ४७।४६॥
yāni kiṃpuruṣa-ādyāni varṣāṇi aṣṭau mahā-ṛṣayaḥ . na teṣu śokaḥ na āyāsaḥ na udvegaḥ kṣudh-bhayam na ca .. 47.46..
स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः । रमन्ते विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥ ४७.४७॥
स्वस्थाः प्रजाः निरातङ्काः सर्व-दुः-ख-विवर्जिताः । रमन्ते विविधैः भावैः सर्वाः च स्थिर-यौवनाः ॥ ४७।४७॥
svasthāḥ prajāḥ nirātaṅkāḥ sarva-duḥ-kha-vivarjitāḥ . ramante vividhaiḥ bhāvaiḥ sarvāḥ ca sthira-yauvanāḥ .. 47.47..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे सप्तचत्वारिंशः अध्यायः ॥ ४७॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge saptacatvāriṃśaḥ adhyāyaḥ .. 47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In