| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
हेमकूटगिरेः श्रृङ्गे महाकूटैः सुशोभनम् । स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥ ४८.१॥
हेमकूट-गिरेः श्रृङ्गे महा-कूटैः सु शोभनम् । स्फाटिकम् देवदेवस्य विमानम् परमेष्ठिनः ॥ ४८।१॥
hemakūṭa-gireḥ śrṛṅge mahā-kūṭaiḥ su śobhanam . sphāṭikam devadevasya vimānam parameṣṭhinaḥ .. 48.1..
तत्र देवादिदेवस्य भूतेशस्य त्रिशूलिनः । देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥ ४८.२॥
तत्र देव-आदिदेवस्य भूतेशस्य त्रिशूलिनः । देवाः सिद्ध-गणाः यक्षाः पूजाम् नित्यम् प्रकुर्वते ॥ ४८।२॥
tatra deva-ādidevasya bhūteśasya triśūlinaḥ . devāḥ siddha-gaṇāḥ yakṣāḥ pūjām nityam prakurvate .. 48.2..
स देवो गिरिशः सार्द्धं महादेव्या महेश्वरः । भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥ ४८.३॥
स देवः गिरिशः सार्द्धम् महादेव्या महेश्वरः । भूतैः परिवृतः नित्यम् भाति तत्र पिनाकधृक् ॥ ४८।३॥
sa devaḥ giriśaḥ sārddham mahādevyā maheśvaraḥ . bhūtaiḥ parivṛtaḥ nityam bhāti tatra pinākadhṛk .. 48.3..
विभक्तचारुशिखरः कैलासो यत्र पर्वतः । निवासः कोटियक्षाणां कुबेरस्य च धीमतः ॥ ४८.४॥
विभक्त-चारु-शिखरः कैलासः यत्र पर्वतः । निवासः कोटि-यक्षाणाम् कुबेरस्य च धीमतः ॥ ४८।४॥
vibhakta-cāru-śikharaḥ kailāsaḥ yatra parvataḥ . nivāsaḥ koṭi-yakṣāṇām kuberasya ca dhīmataḥ .. 48.4..
तत्रापि देवदेवस्य भवस्यायतनं महत् । मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका ॥ ४८.५॥
तत्र अपि देवदेवस्य भवस्य आयतनम् महत् । मन्दाकिनी तत्र दिव्या रम्या सु विमल-उदका ॥ ४८।५॥
tatra api devadevasya bhavasya āyatanam mahat . mandākinī tatra divyā ramyā su vimala-udakā .. 48.5..
नदी नानाविधैः पद्मैरनेकैः समलंकृता । देवदानवगन्धर्वयक्षराक्षसकिन्नरैः॥ ४८.६॥
नदी नानाविधैः पद्मैः अनेकैः समलंकृता । देव-दानव-गन्धर्व-यक्ष-राक्षस-किन्नरैः॥ ४८।६॥
nadī nānāvidhaiḥ padmaiḥ anekaiḥ samalaṃkṛtā . deva-dānava-gandharva-yakṣa-rākṣasa-kinnaraiḥ.. 48.6..
उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा । अन्याश्च नद्यः शतशः स्वर्णपद्मैरलंकृताः ॥ ४८.७॥
उपस्पृष्ट-जला नित्यम् सु पुण्या सु मनोरमा । अन्याः च नद्यः शतशस् स्वर्ण-पद्मैः अलंकृताः ॥ ४८।७॥
upaspṛṣṭa-jalā nityam su puṇyā su manoramā . anyāḥ ca nadyaḥ śataśas svarṇa-padmaiḥ alaṃkṛtāḥ .. 48.7..
तासां कूले तु देवस्य स्थानानि परमेष्ठिनः । देवर्षिगणजुष्टानि तथा नारायणस्य तु॥ ४८.८॥
तासाम् कूले तु देवस्य स्थानानि परमेष्ठिनः । देव-ऋषि-गण-जुष्टानि तथा नारायणस्य तु॥ ४८।८॥
tāsām kūle tu devasya sthānāni parameṣṭhinaḥ . deva-ṛṣi-gaṇa-juṣṭāni tathā nārāyaṇasya tu.. 48.8..
सितान्तशिखरे चापि पारिजातवनं शुभम् । तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम्॥ ४८.९॥
सितान्त-शिखरे च अपि पारिजात-वनम् शुभम् । तत्र शक्रस्य विपुलम् भवनम् रत्न-मण्डितम्॥ ४८।९॥
sitānta-śikhare ca api pārijāta-vanam śubham . tatra śakrasya vipulam bhavanam ratna-maṇḍitam.. 48.9..
स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् । तत्राथ देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ॥ ४९॥
स्फाटिक-स्तम्भ-संयुक्तम् हेम-गोपुर-संयुतम् । तत्र अथ देवदेवस्य विष्णोः विश्वात्मनः प्रभोः ॥ ४९॥
sphāṭika-stambha-saṃyuktam hema-gopura-saṃyutam . tatra atha devadevasya viṣṇoḥ viśvātmanaḥ prabhoḥ .. 49..
सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् । तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः॥ ४८.११॥
सु पुण्यम् भवनम् रम्यम् सर्व-रत्न-उपशोभितम् । तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः॥ ४८।११॥
su puṇyam bhavanam ramyam sarva-ratna-upaśobhitam . tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ.. 48.11..
आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः । तथा च वसुधारे तु वसूनां रत्नमण्डितम् ॥ ४७.८८॥
आस्ते सर्व-अमर-श्रेष्ठः पूज्यमानः सनातनः । तथा च वसुधारे तु वसूनाम् रत्न-मण्डितम् ॥ ४७।८८॥
āste sarva-amara-śreṣṭhaḥ pūjyamānaḥ sanātanaḥ . tathā ca vasudhāre tu vasūnām ratna-maṇḍitam .. 47.88..
स्थानानामुत्तमं पुण्यं दुराधर्षं सुरद्विषाम् । रत्नधारे गिरिवरे सप्तरर्षीणां महात्मनाम् ॥ ४७.४८५॥
स्थानानाम् उत्तमम् पुण्यम् दुराधर्षम् सुरद्विषाम् । रत्नधारे गिरि-वरे सप्तरर्षीणाम् महात्मनाम् ॥ ४७।४८५॥
sthānānām uttamam puṇyam durādharṣam suradviṣām . ratnadhāre giri-vare saptararṣīṇām mahātmanām .. 47.485..
सप्ताश्रमाणि पुण्यानि सिद्धावासैर्युतानि च । तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम्॥ ४८.१४॥
सप्त-आश्रमाणि पुण्यानि सिद्ध-आवासैः युतानि च । तत्र हैमम् चतुर्-द्वारम् वज्र-नील-आदि-मण्डितम्॥ ४८।१४॥
sapta-āśramāṇi puṇyāni siddha-āvāsaiḥ yutāni ca . tatra haimam catur-dvāram vajra-nīla-ādi-maṇḍitam.. 48.14..
सुपुण्यं सुमहत् स्थानं ब्रह्मणोऽव्यक्तजन्मनः । तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयोऽपरे ॥ ४८.१५॥
सु पुण्यम् सु महत् स्थानम् ब्रह्मणः अव्यक्त-जन्मनः । तत्र देवर्षयः विप्राः सिद्धाः ब्रह्मर्षयः अपरे ॥ ४८।१५॥
su puṇyam su mahat sthānam brahmaṇaḥ avyakta-janmanaḥ . tatra devarṣayaḥ viprāḥ siddhāḥ brahmarṣayaḥ apare .. 48.15..
उपासते सदा देवं पितामहमजं परम् । स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः ॥ ४८.१६॥
उपासते सदा देवम् पितामहम् अजम् परम् । स तैः संपूजितः नित्यम् देव्या सह चतुर्मुखः ॥ ४८।१६॥
upāsate sadā devam pitāmaham ajam param . sa taiḥ saṃpūjitaḥ nityam devyā saha caturmukhaḥ .. 48.16..
आस्ते हिताय लोकानां शान्तानां परमा गतिः । तस्यैकश्रृङ्गशिखरे महापद्मैरलङ्कृते॥ ४८.१७॥
आस्ते हिताय लोकानाम् शान्तानाम् परमा गतिः । तस्य एक-श्रृङ्ग-शिखरे महा-पद्मैः अलङ्कृते॥ ४८।१७॥
āste hitāya lokānām śāntānām paramā gatiḥ . tasya eka-śrṛṅga-śikhare mahā-padmaiḥ alaṅkṛte.. 48.17..
स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः । जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् ॥ ४८.१८॥
सु अच्छ-अमृत-जलम् पुण्यम् सु गन्धम् सु महत् सरः । जैगीषव्य-आश्रमम् तत्र योगि-इन्द्रैः उपशोभितम् ॥ ४८।१८॥
su accha-amṛta-jalam puṇyam su gandham su mahat saraḥ . jaigīṣavya-āśramam tatra yogi-indraiḥ upaśobhitam .. 48.18..
तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः । प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥ ४८.१९॥
तत्र असौ भगवान् नित्यम् आस्ते शिष्यैः समावृतः । प्रशान्त-दोषैः अक्षुद्रैः ब्रह्म-विद्भिः महात्मभिः ॥ ४८।१९॥
tatra asau bhagavān nityam āste śiṣyaiḥ samāvṛtaḥ . praśānta-doṣaiḥ akṣudraiḥ brahma-vidbhiḥ mahātmabhiḥ .. 48.19..
शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च । सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥ ४८.२॥
शङ्खः मनोहरः च एव कौशिकः कृष्णः एव च । सुमनाः वेदनादः च शिष्याः तस्य प्रधानतः ॥ ४८।२॥
śaṅkhaḥ manoharaḥ ca eva kauśikaḥ kṛṣṇaḥ eva ca . sumanāḥ vedanādaḥ ca śiṣyāḥ tasya pradhānataḥ .. 48.2..
सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥ ४८.२१॥
सर्वे योग-रताः शान्ताः भस्म-उद्धूलित-विग्रहाः । उपासते महा-वीर्याः ब्रह्म-विद्या-परायणाः ॥ ४८।२१॥
sarve yoga-ratāḥ śāntāḥ bhasma-uddhūlita-vigrahāḥ . upāsate mahā-vīryāḥ brahma-vidyā-parāyaṇāḥ .. 48.21..
तेषामनुग्रहार्थाय यतीनां शान्तचेतसाम् । सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥ ४८.२२॥
तेषाम् अनुग्रह-अर्थाय यतीनाम् शान्त-चेतसाम् । सान्निध्यम् कुरुते भूयस् देव्या सह महेश्वरः ॥ ४८।२२॥
teṣām anugraha-arthāya yatīnām śānta-cetasām . sānnidhyam kurute bhūyas devyā saha maheśvaraḥ .. 48.22..
अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे । मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥ ४८.२३॥
अन्यानि च आश्रमाणि स्युः तस्मिन् गिरि-वर-उत्तमे । मुनीनाम् युक्त-मनसाम् सरांसि सरितः तथा ॥ ४८।२३॥
anyāni ca āśramāṇi syuḥ tasmin giri-vara-uttame . munīnām yukta-manasām sarāṃsi saritaḥ tathā .. 48.23..
तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः । ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥ ४८.२४॥
तेषु योग-रताः विप्राः जापकाः संयत-इन्द्रियाः । ब्रह्मणि आसक्त-मनसः रमन्ते ज्ञान-तत्पराः ॥ ४८।२४॥
teṣu yoga-ratāḥ viprāḥ jāpakāḥ saṃyata-indriyāḥ . brahmaṇi āsakta-manasaḥ ramante jñāna-tatparāḥ .. 48.24..
आत्मन्यात्मानमाधाय शिखान्तान्तरसंस्थितम् । धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥ ४८.२५॥
आत्मनि आत्मानम् आधाय शिखा-अन्त-अन्तर-संस्थितम् । धायायन्ति देवम् ईशानम् येन सर्वम् इदम् ततम् ॥ ४८।२५॥
ātmani ātmānam ādhāya śikhā-anta-antara-saṃsthitam . dhāyāyanti devam īśānam yena sarvam idam tatam .. 48.25..
सुमेघे वासवस्थानं सहस्रादित्यसंनिभम् । तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥ ४८.२६॥
सुमेघे वासव-स्थानम् सहस्र-आदित्य-संनिभम् । तत्र आस्ते भगवान् इन्द्रः शच्या सह सुरेश्वरः ॥ ४८।२६॥
sumeghe vāsava-sthānam sahasra-āditya-saṃnibham . tatra āste bhagavān indraḥ śacyā saha sureśvaraḥ .. 48.26..
गजशैले तु दुर्गाया भवनं मणितोरणम् । आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥ ४८.२७॥
गजशैले तु दुर्गायाः भवनम् मणि-तोरणम् । आस्ते भगवती दुर्गा तत्र साक्षात् महेश्वरी ॥ ४८।२७॥
gajaśaile tu durgāyāḥ bhavanam maṇi-toraṇam . āste bhagavatī durgā tatra sākṣāt maheśvarī .. 48.27..
उपास्यमाना विविधैः शक्तिभेदैरितस्ततः । पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥ ४८.२८॥
उपास्यमानाः विविधैः शक्ति-भेदैः इतस् ततस् । पीत्वा योग-अमृतम् लब्ध्वा साक्षात् आनन्दम् ऐश्वरम् ॥ ४८।२८॥
upāsyamānāḥ vividhaiḥ śakti-bhedaiḥ itas tatas . pītvā yoga-amṛtam labdhvā sākṣāt ānandam aiśvaram .. 48.28..
सुनीलस्य गिरेः श्रृङ्गे नानाधातुसमुज्ज्वले । राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥ ४८.२९॥
सुनीलस्य गिरेः श्रृङ्गे नाना धातु-समुज्ज्वले । राक्षसानाम् पुराणि स्युः सरांसि शतशस् द्विजाः ॥ ४८।२९॥
sunīlasya gireḥ śrṛṅge nānā dhātu-samujjvale . rākṣasānām purāṇi syuḥ sarāṃsi śataśas dvijāḥ .. 48.29..
तथा पुरशतं विप्राः शतश्रृङ्गे महाचले । स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥ ४८.३॥
तथा पुर-शतम् विप्राः शतश्रृङ्गे महा-अचले । स्फाटिक-स्तम्भ-संयुक्तम् यक्षाणाम् अमित-ओजसाम् ॥ ४८।३॥
tathā pura-śatam viprāḥ śataśrṛṅge mahā-acale . sphāṭika-stambha-saṃyuktam yakṣāṇām amita-ojasām .. 48.3..
श्वेतोदरगिरेः श्रृङ्गे सुपर्णस्य महात्मनः । प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥ ४८.३१॥
श्वेतोदर-गिरेः श्रृङ्गे सुपर्णस्य महात्मनः । प्राकार-गोपुर-उपेतम् मणि-तोरण-मण्डितम् ॥ ४८।३१॥
śvetodara-gireḥ śrṛṅge suparṇasya mahātmanaḥ . prākāra-gopura-upetam maṇi-toraṇa-maṇḍitam .. 48.31..
स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः । ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ॥ ४८.३२॥
स तत्र गरुडः श्रीमान् साक्षात् विष्णुः इव अपरः । ध्यात्वा आस्ते तत् परम् ज्योतिः आत्मानम् विष्णुम् अव्ययम् ॥ ४८।३२॥
sa tatra garuḍaḥ śrīmān sākṣāt viṣṇuḥ iva aparaḥ . dhyātvā āste tat param jyotiḥ ātmānam viṣṇum avyayam .. 48.32..
अन्यच्च भवनं पुण्यं श्रीश्रृङ्गे मुनिपुंगवाः । श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ॥ ४८.३३॥
अन्यत् च भवनम् पुण्यम् श्रीश्रृङ्गे मुनि-पुंगवाः । श्री-देव्याः सर्व-रत्न-आढ्यम् हैमम् सु मणि-तोरणम् ॥ ४८।३३॥
anyat ca bhavanam puṇyam śrīśrṛṅge muni-puṃgavāḥ . śrī-devyāḥ sarva-ratna-āḍhyam haimam su maṇi-toraṇam .. 48.33..
तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा । अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ॥ ४८.३४॥
तत्र सा परमा शक्तिः विष्णोः अति मनोरमा । अनन्त-विभवा लक्ष्मीः जगत्-संमोहन-उत्सुका ॥ ४८।३४॥
tatra sā paramā śaktiḥ viṣṇoḥ ati manoramā . ananta-vibhavā lakṣmīḥ jagat-saṃmohana-utsukā .. 48.34..
अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता । विचिन्त्या जगतो योनिः स्वशक्तिकिरणोज्ज्वला ॥ ४८.३५॥
अध्यास्ते देव-गन्धर्व-सिद्ध-चारण-वन्दिता । विचिन्त्या जगतः योनिः स्व-शक्ति-किरण-उज्ज्वला ॥ ४८।३५॥
adhyāste deva-gandharva-siddha-cāraṇa-vanditā . vicintyā jagataḥ yoniḥ sva-śakti-kiraṇa-ujjvalā .. 48.35..
तत्रैव देवदेवस्य विष्णोरायतनं महत् । सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥ ४८.३६॥
तत्र एव देवदेवस्य विष्णोः आयतनम् महत् । सरांसि तत्र चत्वारि विचित्र-कमल-आश्रया ॥ ४८।३६॥
tatra eva devadevasya viṣṇoḥ āyatanam mahat . sarāṃsi tatra catvāri vicitra-kamala-āśrayā .. 48.36..
तथा सहस्रशिखरे विद्याधरपुराष्टकम् । रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥ ४८.३७॥
तथा सहस्रशिखरे विद्याधर-पुर-अष्टकम् । रत्न-सोपान-संयुक्तम् सरोभिः च उपशोभितम् ॥ ४८।३७॥
tathā sahasraśikhare vidyādhara-pura-aṣṭakam . ratna-sopāna-saṃyuktam sarobhiḥ ca upaśobhitam .. 48.37..
नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः । कर्णिकारवनं द्विव्यं तत्रास्ते शंकरोऽम्बया ॥ ४८.३८॥
नद्यः विमल-पानीयाः चित्र-नीलोत्पल-आकराः । कर्णिकारवनम् तत्र आस्ते शंकरः अम्बया ॥ ४८।३८॥
nadyaḥ vimala-pānīyāḥ citra-nīlotpala-ākarāḥ . karṇikāravanam tatra āste śaṃkaraḥ ambayā .. 48.38..
परिपात्रे महाशैले महालक्ष्म्याः पुरं शुभम् । रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥ ४८.३९॥
परिपात्रे महा-शैले महा-लक्ष्म्याः पुरम् शुभम् । रम्य-प्रासाद-संयुक्तम् घण्टा-चामर-भूषितम् ॥ ४८।३९॥
paripātre mahā-śaile mahā-lakṣmyāḥ puram śubham . ramya-prāsāda-saṃyuktam ghaṇṭā-cāmara-bhūṣitam .. 48.39..
नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् । मृदङ्गपणवोद्घुष्टं वीणावेणुनिनादितम् ॥ ४८.४॥
नृत्यद्भिः अप्सरः सङ्घैः इतस् च इतस् च शोभितम् । मृदङ्ग-पणव-उद्घुष्टम् वीणा-वेणु-निनादितम् ॥ ४८।४॥
nṛtyadbhiḥ apsaraḥ saṅghaiḥ itas ca itas ca śobhitam . mṛdaṅga-paṇava-udghuṣṭam vīṇā-veṇu-nināditam .. 48.4..
गन्धर्वकिन्नराकीर्णं संवृतं सिद्धपुंगवैः । भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ॥ ४८.४१॥
गन्धर्व-किन्नर-आकीर्णम् संवृतम् सिद्ध-पुंगवैः । भास्वत्-भित्ति-समाकीर्णम् महा-प्रासाद-संकुलम् ॥ ४८।४१॥
gandharva-kinnara-ākīrṇam saṃvṛtam siddha-puṃgavaiḥ . bhāsvat-bhitti-samākīrṇam mahā-prāsāda-saṃkulam .. 48.41..
गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् । तत्र सा वसते देवी नित्यं योगपरायणा ॥ ४८.४२॥
गणेश्वर-अङ्गना-जुष्टम् धार्मिकाणाम् सु दर्शनम् । तत्र सा वसते देवी नित्यम् योग-परायणा ॥ ४८।४२॥
gaṇeśvara-aṅganā-juṣṭam dhārmikāṇām su darśanam . tatra sā vasate devī nityam yoga-parāyaṇā .. 48.42..
महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी । त्रिनेत्रा सर्वशक्त्यौघा संवृता सदसन्मया ॥ ४८.४३॥
। त्रिनेत्रा सर्व-शक्त्या ओघा संवृता सत्-असत्-मया ॥ ४८।४३॥
. trinetrā sarva-śaktyā oghā saṃvṛtā sat-asat-mayā .. 48.43..
पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः । सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् ॥ ४८.४४॥
पश्यन्ति तत्र मुनयः सिद्धाः ये ब्रह्म-वादिनः । सुपार्श्वस्य उत्तरे भागे सरस्वत्याः पुर-उत्तमम् ॥ ४८।४४॥
paśyanti tatra munayaḥ siddhāḥ ye brahma-vādinaḥ . supārśvasya uttare bhāge sarasvatyāḥ pura-uttamam .. 48.44..
सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः । पाण्डुरस्य गिरेः श्रृङ्गे विचित्रद्रुमसंकुले ॥ ४८.४५॥
सरांसि सिद्ध-जुष्टानि देव-भोग्यानि सत्तमाः । पाण्डुरस्य गिरेः श्रृङ्गे विचित्र-द्रुम-संकुले ॥ ४८।४५॥
sarāṃsi siddha-juṣṭāni deva-bhogyāni sattamāḥ . pāṇḍurasya gireḥ śrṛṅge vicitra-druma-saṃkule .. 48.45..
गन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् । तेषु नित्यं मदोत्सिक्ता नरानार्यस्तथैव च ॥ ४८.४६॥
गन्धर्वाणाम् पुर-शतम् दिव्य-स्त्रीभिः समावृतम् । तेषु नित्यम् मद-उत्सिक्ताः नर-अनार्यः तथा एव च ॥ ४८।४६॥
gandharvāṇām pura-śatam divya-strībhiḥ samāvṛtam . teṣu nityam mada-utsiktāḥ nara-anāryaḥ tathā eva ca .. 48.46..
क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः । अञ्जनस्य गिरेः श्रृङ्गे नारीणां पुरमुत्तमम् ॥ ४८.४७॥
क्रीडन्ति मुदिताः नित्यम् विलासैः भोग-तत्पराः । अञ्जनस्य गिरेः श्रृङ्गे नारीणाम् पुरम् उत्तमम् ॥ ४८।४७॥
krīḍanti muditāḥ nityam vilāsaiḥ bhoga-tatparāḥ . añjanasya gireḥ śrṛṅge nārīṇām puram uttamam .. 48.47..
वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः । चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा ॥ ४८.४८॥
वसन्ति तत्र अप्सरसः रम्भा-आद्याः रति-लालसाः । चित्रसेन-आदयः यत्र समायान्ति अर्थिनः सदा ॥ ४८।४८॥
vasanti tatra apsarasaḥ rambhā-ādyāḥ rati-lālasāḥ . citrasena-ādayaḥ yatra samāyānti arthinaḥ sadā .. 48.48..
सा पुरी सर्वरत्नाढ्या नैकप्रस्रवणैर्युता । अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः॥ ४८.४९॥
सा पुरी सर्व-रत्न-आढ्या न एक-प्रस्रवणैः युता । अनेकानि पुराणि स्युः कौमुदे च अपि सुव्रताः॥ ४८।४९॥
sā purī sarva-ratna-āḍhyā na eka-prasravaṇaiḥ yutā . anekāni purāṇi syuḥ kaumude ca api suvratāḥ.. 48.49..
रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् । तेषु रुद्रा महायोगा महेशान्तरचारिणः ॥ ४८.५॥
रुद्राणाम् शान्त-रजसाम् ईश्वर-अर्पित-चेतसाम् । तेषु रुद्राः महा-योगाः महेश-अन्तर-चारिणः ॥ ४८।५॥
rudrāṇām śānta-rajasām īśvara-arpita-cetasām . teṣu rudrāḥ mahā-yogāḥ maheśa-antara-cāriṇaḥ .. 48.5..
समासते पुरं ज्योतिरारूढाः स्थानमुत्तमम्। पिञ्जरस्य गिरेः श्रृङ्गे गणेशानां पुरत्रयम्॥ ४८.५१॥
समासते पुरम् ज्योतिः आरूढाः स्थानम् उत्तमम्। पिञ्जरस्य गिरेः श्रृङ्गे गणेशानाम् पुर-त्रयम्॥ ४८।५१॥
samāsate puram jyotiḥ ārūḍhāḥ sthānam uttamam. piñjarasya gireḥ śrṛṅge gaṇeśānām pura-trayam.. 48.51..
नन्दीश्वरस्य कपिला तत्रास्ते समहामतिः । तथा च जारुधेः श्रृङ्गे देवदेवस्य धीमतः ॥ ४८.५२॥
नन्दीश्वरस्य कपिला तत्र आस्ते स महामतिः । तथा च जारुधेः श्रृङ्गे देवदेवस्य धीमतः ॥ ४८।५२॥
nandīśvarasya kapilā tatra āste sa mahāmatiḥ . tathā ca jārudheḥ śrṛṅge devadevasya dhīmataḥ .. 48.52..
दीप्तमायतनं पुण्यं भास्करस्यामितौजसः । तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् ॥ ४८.५३॥
दीप्तम् आयतनम् पुण्यम् भास्करस्य अमित-ओजसः । तस्य एव उत्तर-दिग्भागे चन्द्र-स्थानम् अनुत्तमम् ॥ ४८।५३॥
dīptam āyatanam puṇyam bhāskarasya amita-ojasaḥ . tasya eva uttara-digbhāge candra-sthānam anuttamam .. 48.53..
रमते तत्र रम्योऽसौ भगवान् शीतदीधितिः । अन्यच्च भवनं दिव्यं हंसशैले महर्षयः॥ ४८.५४॥
रमते तत्र रम्यः असौ भगवान् शीतदीधितिः । अन्यत् च भवनम् दिव्यम् हंस-शैले महा-ऋषयः॥ ४८।५४॥
ramate tatra ramyaḥ asau bhagavān śītadīdhitiḥ . anyat ca bhavanam divyam haṃsa-śaile mahā-ṛṣayaḥ.. 48.54..
सहस्रयोजनायामं सुवर्णमणितोरणम् । तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः ॥ ४८.५५॥
सहस्र-योजन-आयामम् सुवर्ण-मणि-तोरणम् । तत्र आस्ते भगवान् ब्रह्मा सिद्ध-सङ्घैः अभिष्टुतः ॥ ४८।५५॥
sahasra-yojana-āyāmam suvarṇa-maṇi-toraṇam . tatra āste bhagavān brahmā siddha-saṅghaiḥ abhiṣṭutaḥ .. 48.55..
सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः । तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् ॥ ४८.५६॥
सावित्र्या सह विश्वात्मा वासुदेव-आदिभिः युतः । तस्य दक्षिण-दिग्भागे सिद्धानाम् पुरम् उत्तमम् ॥ ४८।५६॥
sāvitryā saha viśvātmā vāsudeva-ādibhiḥ yutaḥ . tasya dakṣiṇa-digbhāge siddhānām puram uttamam .. 48.56..
सनन्दनादयो यत्र वसन्ति मुनिपुंगवाः । पञ्चशैलस्य शिखरे दानवानां पुरत्रयम्॥ ४८.५७॥
सनन्दन-आदयः यत्र वसन्ति मुनि-पुंगवाः । पञ्चशैलस्य शिखरे दानवानाम् पुर-त्रयम्॥ ४८।५७॥
sanandana-ādayaḥ yatra vasanti muni-puṃgavāḥ . pañcaśailasya śikhare dānavānām pura-trayam.. 48.57..
नातिदूरेण तस्माच्च दैत्याचार्यस्य धीमतः । सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् ॥ ४८.५८॥
न अति दूरेण तस्मात् च दैत्य-आचार्यस्य धीमतः । सुगन्ध-शैल-शिखरे सरिद्भिः उपशोभितम् ॥ ४८।५८॥
na ati dūreṇa tasmāt ca daitya-ācāryasya dhīmataḥ . sugandha-śaila-śikhare saridbhiḥ upaśobhitam .. 48.58..
कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः । तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते ॥ ४८.५९॥
कर्दमस्य आश्रमम् पुण्यम् तत्र आस्ते भगवान् ऋषिः । तस्य एव पूर्व-दिग्भागे किञ्चिद् वै दक्षिण-आश्रिते ॥ ४८।५९॥
kardamasya āśramam puṇyam tatra āste bhagavān ṛṣiḥ . tasya eva pūrva-digbhāge kiñcid vai dakṣiṇa-āśrite .. 48.59..
सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः । सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः ॥ ४८.६॥
सनत्कुमारः भगवान् तत्र आस्ते ब्रह्म-वित्तमः । सर्वेषु एतेषु शैलेषु तत अन्येषु मुनि-ईश्वराः ॥ ४८।६॥
sanatkumāraḥ bhagavān tatra āste brahma-vittamaḥ . sarveṣu eteṣu śaileṣu tata anyeṣu muni-īśvarāḥ .. 48.6..
सरांसि विमला नद्यो देवानामालयानि च । सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ॥ ४८.६१॥
सरांसि विमलाः नद्यः देवानाम् आलयानि च । सिद्ध-लिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ॥ ४८।६१॥
sarāṃsi vimalāḥ nadyaḥ devānām ālayāni ca . siddha-liṅgāni puṇyāni munibhiḥ sthāpitāni tu .. 48.61..
वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्यते । एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः । न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ॥ ४८.६२॥
वन्यानि आश्रम-वर्याणि संख्यातुम् ना एव शक्यते । एष संक्षेपतः प्रोक्तः जम्बूद्वीपस्य विस्तरः । न शक्यम् विस्तरात् वक्तुम् मया वर्ष-शतैः अपि ॥ ४८।६२॥
vanyāni āśrama-varyāṇi saṃkhyātum nā eva śakyate . eṣa saṃkṣepataḥ proktaḥ jambūdvīpasya vistaraḥ . na śakyam vistarāt vaktum mayā varṣa-śataiḥ api .. 48.62..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्चत्वारिशोऽध्यायः ॥ ४८॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे अष्ट्चत्वारिशः अध्यायः ॥ ४८॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge aṣṭcatvāriśaḥ adhyāyaḥ .. 48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In