| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ॥ ४९.१॥
जम्बूद्वीपस्य विस्तारात् द्विगुणेन समन्ततः । संवेष्टयित्वा क्षीरोदम् प्लक्षद्वीपः व्यवस्थितः ॥ ४९।१॥
jambūdvīpasya vistārāt dviguṇena samantataḥ . saṃveṣṭayitvā kṣīrodam plakṣadvīpaḥ vyavasthitaḥ .. 49.1..
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः । सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ ४९.२॥
प्लक्षद्वीपे च विप्र-इन्द्राः सप्त आसन् कुलपर्वताः । सिद्ध-अयुताः सु पर्वाणः सिद्ध-सङ्घ-निषेविताः ॥ ४९।२॥
plakṣadvīpe ca vipra-indrāḥ sapta āsan kulaparvatāḥ . siddha-ayutāḥ su parvāṇaḥ siddha-saṅgha-niṣevitāḥ .. 49.2..
गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते । नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ॥ ४९.३॥
गोमेदः प्रथमः तेषाम् द्वितीयः चन्द्रः उच्यते । दुन्दुभिः च एव सोमस्य ऋषभः तथा ॥ ४९।३॥
gomedaḥ prathamaḥ teṣām dvitīyaḥ candraḥ ucyate . dundubhiḥ ca eva somasya ṛṣabhaḥ tathā .. 49.3..
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः । तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः॥ ४९.४॥
वैभ्राजः सप्तमः प्रोक्तः ब्रह्मणः अत्यन्त-वल्लभः । तत्र देव-ऋषि-गन्धर्वैः सिद्धैः च भगवान् अजः॥ ४९।४॥
vaibhrājaḥ saptamaḥ proktaḥ brahmaṇaḥ atyanta-vallabhaḥ . tatra deva-ṛṣi-gandharvaiḥ siddhaiḥ ca bhagavān ajaḥ.. 49.4..
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् । तेषु पुण्या जनपदा आधयो व्याधयो न च ॥ ४९.५॥
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृज् । तेषु पुण्याः जनपदाः आधयः व्याधयः न च ॥ ४९।५॥
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛj . teṣu puṇyāḥ janapadāḥ ādhayaḥ vyādhayaḥ na ca .. 49.5..
न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन । तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः॥ ४९.६॥
न तत्र पाप-कर्त्तारः पुरुषाः वा कथञ्चन । तेषाम् नद्यः च सप्त एव वर्षाणाम् तु समुद्र-गाः॥ ४९।६॥
na tatra pāpa-karttāraḥ puruṣāḥ vā kathañcana . teṣām nadyaḥ ca sapta eva varṣāṇām tu samudra-gāḥ.. 49.6..
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते । अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ॥ ४९.७॥
तासु ब्रह्मर्षयः नित्यम् । अनुतप्ता शिखे च एव विपापा त्रिदिवा कृता ॥ ४९।७॥
tāsu brahmarṣayaḥ nityam . anutaptā śikhe ca eva vipāpā tridivā kṛtā .. 49.7..
अमृता सुकृता चैव नामतः परिकीर्त्तिताः । क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि॥ ४९.८॥
अमृता सुकृता च एव नामतः परिकीर्त्तिताः । क्षुद्र-नद्यः तु असंख्याताः सरांसि सु बहूनि अपि॥ ४९।८॥
amṛtā sukṛtā ca eva nāmataḥ parikīrttitāḥ . kṣudra-nadyaḥ tu asaṃkhyātāḥ sarāṃsi su bahūni api.. 49.8..
न चैतेषु युगावस्था पुरुषा वै चिरायुषः । आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ॥ ४९.९॥
न च एतेषु युग-अवस्था पुरुषाः वै चिर-आयुषः । आर्यकाः कुरराः च एव विदशाः भाविनः तथा ॥ ४९।९॥
na ca eteṣu yuga-avasthā puruṣāḥ vai cira-āyuṣaḥ . āryakāḥ kurarāḥ ca eva vidaśāḥ bhāvinaḥ tathā .. 49.9..
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः॥ ४९.१॥
ब्रह्म-क्षत्रिय-विश्-शूद्राः तस्मिन् द्वीपे प्रकीर्त्तिताः । इज्यते भगवान् सोमः वर्णैः तत्र निवासिभिः॥ ४९।१॥
brahma-kṣatriya-viś-śūdrāḥ tasmin dvīpe prakīrttitāḥ . ijyate bhagavān somaḥ varṇaiḥ tatra nivāsibhiḥ.. 49.1..
तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः । सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ॥ ४९.११॥
तेषाम् च सोम-सायुज्यम् सारूप्यम् मुनि-पुंगवाः । सर्वे धर्म-पराः नित्यम् नित्यम् मुदित-मानसाः ॥ ४९।११॥
teṣām ca soma-sāyujyam sārūpyam muni-puṃgavāḥ . sarve dharma-parāḥ nityam nityam mudita-mānasāḥ .. 49.11..
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः । प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ॥ ४९.१२॥
पञ्च-वर्ष-सहस्राणि जीवन्ति च निरामयाः । प्लक्षद्वीप-प्रमाणम् तु द्विगुणेन समन्ततः ॥ ४९।१२॥
pañca-varṣa-sahasrāṇi jīvanti ca nirāmayāḥ . plakṣadvīpa-pramāṇam tu dviguṇena samantataḥ .. 49.12..
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः । सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ॥ ४९.१३॥
संवेष्ट्य इक्षु-रस-अम्भोधिम् शाल्मलिः संव्यवस्थितः । सप्त वर्षाणि तत्र अपि सप्त एव कुलपर्वताः ॥ ४९।१३॥
saṃveṣṭya ikṣu-rasa-ambhodhim śālmaliḥ saṃvyavasthitaḥ . sapta varṣāṇi tatra api sapta eva kulaparvatāḥ .. 49.13..
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः । कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ॥ ४९.१४॥
ऋजु-आयताः सु पर्वाणः सप्त नद्यः च सुव्रताः । कुमुदः च उन्नदः च एव तृतीयः च बलाहकः ॥ ४९।१४॥
ṛju-āyatāḥ su parvāṇaḥ sapta nadyaḥ ca suvratāḥ . kumudaḥ ca unnadaḥ ca eva tṛtīyaḥ ca balāhakaḥ .. 49.14..
द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः । योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ ४९.१५॥
द्रोणः कंसः तु महिषः ककुद्वान् सप्त पर्वताः । योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ ४९।१५॥
droṇaḥ kaṃsaḥ tu mahiṣaḥ kakudvān sapta parvatāḥ . yonī toyā vitṛṣṇā ca candrā śuklā vimocanī .. 49.15..
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् । न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ॥ ४९.१६॥
निवृत्तिः च एति ताः नद्यः स्मृता पाप-हराः नृणाम् । न तेषु विद्यते लोभः क्रोधः वा द्विजसत्तमाः ॥ ४९।१६॥
nivṛttiḥ ca eti tāḥ nadyaḥ smṛtā pāpa-harāḥ nṛṇām . na teṣu vidyate lobhaḥ krodhaḥ vā dvijasattamāḥ .. 49.16..
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः । यजन्ति सततं तत्र वर्णा वायुं सनातनम् ॥ ४९.१७॥
न च एव अस्ति युग-अवस्था जनाः जीवन्ति अनामयाः । यजन्ति सततम् तत्र वर्णाः वायुम् सनातनम् ॥ ४९।१७॥
na ca eva asti yuga-avasthā janāḥ jīvanti anāmayāḥ . yajanti satatam tatra varṇāḥ vāyum sanātanam .. 49.17..
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता । कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ॥ ४९.१८॥
तेषाम् तस्य अथ सायुज्यम् सारूप्यम् च सलोकता । कपिलाः ब्राह्मणाः प्रोक्ताः राजानः च अरुणाः तथा ॥ ४९।१८॥
teṣām tasya atha sāyujyam sārūpyam ca salokatā . kapilāḥ brāhmaṇāḥ proktāḥ rājānaḥ ca aruṇāḥ tathā .. 49.18..
पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ ४९.१९॥
पीताः वैश्याः स्मृताः कृष्णाः द्वीपे अस्मिन् वृषलाः द्विजाः । शाल्मलस्य तु विस्तारात् द्विगुणेन समन्ततः ॥ ४९।१९॥
pītāḥ vaiśyāḥ smṛtāḥ kṛṣṇāḥ dvīpe asmin vṛṣalāḥ dvijāḥ . śālmalasya tu vistārāt dviguṇena samantataḥ .. 49.19..
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः । विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ॥ ४९.२॥
संवेष्ट्य तु सुरा-उद-अब्धिम् कुशद्वीपः व्यवस्थितः । विद्रुमः च एव हेमः च द्युतिमान् पुष्पवान् तथा ॥ ४९।२॥
saṃveṣṭya tu surā-uda-abdhim kuśadvīpaḥ vyavasthitaḥ . vidrumaḥ ca eva hemaḥ ca dyutimān puṣpavān tathā .. 49.2..
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः । धुतपापा शिवा चैव पवित्रा संमिता तथा ॥ ४९.२१॥
कुशेशयः हरिः च अथ मन्दरः सप्त पर्वताः । धुतपापा शिवा च एव पवित्रा संमिता तथा ॥ ४९।२१॥
kuśeśayaḥ hariḥ ca atha mandaraḥ sapta parvatāḥ . dhutapāpā śivā ca eva pavitrā saṃmitā tathā .. 49.21..
विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः । अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः॥ ४९.२२॥
विद्युत्-अन्ता मही च इति नद्यः तत्र जल-आवहाः । अन्याः च शतशस् विप्राः नद्यः मणि-जलाः शुभाः॥ ४९।२२॥
vidyut-antā mahī ca iti nadyaḥ tatra jala-āvahāḥ . anyāḥ ca śataśas viprāḥ nadyaḥ maṇi-jalāḥ śubhāḥ.. 49.22..
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते । ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा॥ ४९.२३॥
तासु ब्रह्माणम् ईशानम् देव-आद्याः पर्युपासते । ब्राह्मणाः विप्राः क्षत्रियाः शुष्मिणः तथा॥ ४९।२३॥
tāsu brahmāṇam īśānam deva-ādyāḥ paryupāsate . brāhmaṇāḥ viprāḥ kṣatriyāḥ śuṣmiṇaḥ tathā.. 49.23..
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः । सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ॥ ४९.२४॥
वैश्याः स्नेहाः तु मन्देहाः शूद्राः तत्र प्रकीर्त्तिताः । सर्वे विज्ञान-संपन्नाः मैत्र-आदि-गुण-संयुताः ॥ ४९।२४॥
vaiśyāḥ snehāḥ tu mandehāḥ śūdrāḥ tatra prakīrttitāḥ . sarve vijñāna-saṃpannāḥ maitra-ādi-guṇa-saṃyutāḥ .. 49.24..
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः । यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ॥ ४९.२५॥
यथा उक्त-कारिणः सर्वे सर्वे भूत-हिते रताः । यजन्ति विविधैः यज्ञैः ब्रह्माणम् परमेष्ठिनम् ॥ ४९।२५॥
yathā ukta-kāriṇaḥ sarve sarve bhūta-hite ratāḥ . yajanti vividhaiḥ yajñaiḥ brahmāṇam parameṣṭhinam .. 49.25..
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता । कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः॥ ४९.२६॥
तेषाम् च ब्रह्म-सायुज्यम् सारूप्यम् च सलोकता । कुशद्वीपस्य विस्तारात् द्विगुणेन समन्ततः॥ ४९।२६॥
teṣām ca brahma-sāyujyam sārūpyam ca salokatā . kuśadvīpasya vistārāt dviguṇena samantataḥ.. 49.26..
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् । क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः॥ ४९.२७॥
क्रौञ्चद्वीपः ततस् विप्राः वेष्टयित्वा घृत-उदधिम् । क्रौञ्चः वामनकः च एव तृतीयः च आधिकारिकः॥ ४९।२७॥
krauñcadvīpaḥ tatas viprāḥ veṣṭayitvā ghṛta-udadhim . krauñcaḥ vāmanakaḥ ca eva tṛtīyaḥ ca ādhikārikaḥ.. 49.27..
देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च । नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ ४९.२८॥
देवाब्दः च विवेदः च पुण्डरीकः तथा एव च । नाम्ना च सप्तमः प्रोक्तः पर्वतः दुन्दुभिस्वनः ॥ ४९।२८॥
devābdaḥ ca vivedaḥ ca puṇḍarīkaḥ tathā eva ca . nāmnā ca saptamaḥ proktaḥ parvataḥ dundubhisvanaḥ .. 49.28..
गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा । कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ ४९.२९॥
गौरी च एव संध्या रात्रिः मनोजवा । नद्यः प्राधान्यतः स्मृताः ॥ ४९।२९॥
gaurī ca eva saṃdhyā rātriḥ manojavā . nadyaḥ prādhānyataḥ smṛtāḥ .. 49.29..
पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ ४९.३॥
पुष्कराः पुष्कलाः धन्याः तिष्याः वर्णा क्रमेण वै । ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च एव द्विजोत्तमाः ॥ ४९।३॥
puṣkarāḥ puṣkalāḥ dhanyāḥ tiṣyāḥ varṇā krameṇa vai . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca eva dvijottamāḥ .. 49.3..
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ॥ ४९.३१॥
अर्चयन्ति महादेवम् यज्ञ-दान-समाधिभिः । व्रत-उपवासैः विविधैः होमैः स्वाध्याय-तर्पणैः ॥ ४९।३१॥
arcayanti mahādevam yajña-dāna-samādhibhiḥ . vrata-upavāsaiḥ vividhaiḥ homaiḥ svādhyāya-tarpaṇaiḥ .. 49.31..
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् । सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ४९.३२॥
तेषाम् वै रुद्र-सायुज्यम् सारूप्यम् च अति दुर्लभम् । सलोकता च सामीप्यम् जायते तद्-प्रसादतः ॥ ४९।३२॥
teṣām vai rudra-sāyujyam sārūpyam ca ati durlabham . salokatā ca sāmīpyam jāyate tad-prasādataḥ .. 49.32..
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ४९.३३॥
क्रौञ्चद्वीपस्य विस्तारात् द्विगुणेन समन्ततः । शाकद्वीपः स्थितः विप्राः आवेष्ट्य दधि-सागरम् ॥ ४९।३३॥
krauñcadvīpasya vistārāt dviguṇena samantataḥ . śākadvīpaḥ sthitaḥ viprāḥ āveṣṭya dadhi-sāgaram .. 49.33..
उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ४९.३४॥
उदयः रैवतः च एव श्यामाकः अस्तगिरिः तथा । आम्बिकेयः तथा रम्यः केशरी च इति पर्वताः ॥ ४९।३४॥
udayaḥ raivataḥ ca eva śyāmākaḥ astagiriḥ tathā . āmbikeyaḥ tathā ramyaḥ keśarī ca iti parvatāḥ .. 49.34..
सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ४९.३५॥
सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका च एव गभस्तिः च इति निम्नगाः ॥ ४९।३५॥
sukumārī kumārī ca nalinī reṇukā tathā . ikṣukā dhenukā ca eva gabhastiḥ ca iti nimnagāḥ .. 49.35..
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः । अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ॥ ४९.३६॥
आसाम् पिबन्तः सलिलम् जीवन्ते तत्र मानवाः । अनामयाः च अशोकाः च राग-द्वेष-विवर्जिताः ॥ ४९।३६॥
āsām pibantaḥ salilam jīvante tatra mānavāḥ . anāmayāḥ ca aśokāḥ ca rāga-dveṣa-vivarjitāḥ .. 49.36..
मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ४९.३७॥
मृगाः च मगधाः च एव मानवाः मन्दगाः तथा । ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च अत्र क्रमेण तु ॥ ४९।३७॥
mṛgāḥ ca magadhāḥ ca eva mānavāḥ mandagāḥ tathā . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca atra krameṇa tu .. 49.37..
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् । व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ४९.३८॥
यजन्ति सततम् देवम् सर्व-लोक-एक-साक्षिणम् । व्रत-उपवासैः विविधैः देवदेवम् दिवाकरम् ॥ ४९।३८॥
yajanti satatam devam sarva-loka-eka-sākṣiṇam . vrata-upavāsaiḥ vividhaiḥ devadevam divākaram .. 49.38..
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता । सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ४९.३९॥
तेषाम् सूर्येण सायुज्यम् सामीप्यम् च सरूप-ता । सलोकता च विप्र-इन्द्राः जायते तद्-प्रसादतः ॥ ४९।३९॥
teṣām sūryeṇa sāyujyam sāmīpyam ca sarūpa-tā . salokatā ca vipra-indrāḥ jāyate tad-prasādataḥ .. 49.39..
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ४९.४॥
शाकद्वीपम् समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपः च तद्-मध्ये नारायण-परायणाः ॥ ४९।४॥
śākadvīpam samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ . śvetadvīpaḥ ca tad-madhye nārāyaṇa-parāyaṇāḥ .. 49.4..
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४९.४१॥
तत्र पुण्याः जनपदाः नाना आश्चर्य-समन्विताः । श्वेताः तत्र नराः नित्यम् जायन्ते विष्णु-तत्पराः ॥ ४९।४१॥
tatra puṇyāḥ janapadāḥ nānā āścarya-samanvitāḥ . śvetāḥ tatra narāḥ nityam jāyante viṣṇu-tatparāḥ .. 49.41..
नाधयो व्याधयस्तत्र जरामृत्युभयं न च । क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४९.४२॥
न आधयः व्याधयः तत्र जरा-मृत्यु-भयम् न च । क्रोध-लोभ-विनिर्मुक्ताः माया-मात्सर्य-वर्जिताः ॥ ४९।४२॥
na ādhayaḥ vyādhayaḥ tatra jarā-mṛtyu-bhayam na ca . krodha-lobha-vinirmuktāḥ māyā-mātsarya-varjitāḥ .. 49.42..
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः । नारायणपराः सर्वे नारायणपरायणाः ॥ ४९.४३॥
नित्य-पुष्टाः निरातङ्काः नित्य-आनन्दाः च भोगिनः । नारायण-पराः सर्वे नारायण-परायणाः ॥ ४९।४३॥
nitya-puṣṭāḥ nirātaṅkāḥ nitya-ānandāḥ ca bhoginaḥ . nārāyaṇa-parāḥ sarve nārāyaṇa-parāyaṇāḥ .. 49.43..
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः । केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ॥ ४९.४४॥
केचिद् ध्यान-पराः नित्यम् योगिनः संयत-इन्द्रियाः । केचिद् जपन्ति तप्यन्ति केचिद् विज्ञानिनः अपरे ॥ ४९।४४॥
kecid dhyāna-parāḥ nityam yoginaḥ saṃyata-indriyāḥ . kecid japanti tapyanti kecid vijñāninaḥ apare .. 49.44..
अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः । ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ॥ ४९.४५॥
अन्ये निर्बीज-योगेन ब्रह्म-भावेन भाविताः । ध्यायन्ति तत् परम् ब्रह्म वासुदेवम् परम् पदम् ॥ ४९।४५॥
anye nirbīja-yogena brahma-bhāvena bhāvitāḥ . dhyāyanti tat param brahma vāsudevam param padam .. 49.45..
एकान्तिनो निरालम्बा महाभागवताः परे । पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४९.४६॥
एकान्तिनः निरालम्बाः महा-भागवताः परे । पश्यन्ति परमम् ब्रह्म विष्णव-आख्यम् तमसः परम् ॥ ४९।४६॥
ekāntinaḥ nirālambāḥ mahā-bhāgavatāḥ pare . paśyanti paramam brahma viṣṇava-ākhyam tamasaḥ param .. 49.46..
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः । सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४९.४७॥
सर्वे चतुर्भुज-आकाराः शङ्ख-चक्र-गदा-धराः । सु पीत-वाससः सर्वे श्रीवत्स-अङ्कित-वक्षसः ॥ ४९।४७॥
sarve caturbhuja-ākārāḥ śaṅkha-cakra-gadā-dharāḥ . su pīta-vāsasaḥ sarve śrīvatsa-aṅkita-vakṣasaḥ .. 49.47..
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः । सुयोगोद्भूतिकरणा महागरुडवाहनाः ॥ ४९.४८॥
अन्ये महेश्वर-पराः त्रिपुण्ड्र-अङ्कित-मस्तकाः । सुयोग-उद्भूति-करणाः महा-गरुड-वाहनाः ॥ ४९।४८॥
anye maheśvara-parāḥ tripuṇḍra-aṅkita-mastakāḥ . suyoga-udbhūti-karaṇāḥ mahā-garuḍa-vāhanāḥ .. 49.48..
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः । वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४९.४९॥
सर्व-शक्ति-समायुक्ताः नित्य-आनन्दाः च निर्मलाः । वसन्ति तत्र पुरुषाः विष्णोः अन्तर-चारिणः ॥ ४९।४९॥
sarva-śakti-samāyuktāḥ nitya-ānandāḥ ca nirmalāḥ . vasanti tatra puruṣāḥ viṣṇoḥ antara-cāriṇaḥ .. 49.49..
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९.५॥
तत्र नारायणस्य अन्यत् दुर्गमम् दुरतिक्रमम् । नारायणम् नाम पुरम् व्यास-आद्यैः उपशोभितम् ॥ ४९।५॥
tatra nārāyaṇasya anyat durgamam duratikramam . nārāyaṇam nāma puram vyāsa-ādyaiḥ upaśobhitam .. 49.5..
हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् । प्रभासहस्रकलिलं दुराधर्षं सुशोभनम्॥ ४९.५१॥
हेम-प्राकार-संसुक्तम् स्फाटिकैः मण्डपैः युतम् । प्रभा-सहस्र-कलिलम् दुराधर्षम् सु शोभनम्॥ ४९।५१॥
hema-prākāra-saṃsuktam sphāṭikaiḥ maṇḍapaiḥ yutam . prabhā-sahasra-kalilam durādharṣam su śobhanam.. 49.51..
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् । हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ॥ ४९.५२॥
हर्म्य-प्राकार-संयुक्तम् अट्टालक-समाकुलम् । हेम-गोपुर-साहस्त्रैः नाना रत्न-उपशोभितैः ॥ ४९।५२॥
harmya-prākāra-saṃyuktam aṭṭālaka-samākulam . hema-gopura-sāhastraiḥ nānā ratna-upaśobhitaiḥ .. 49.52..
शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् । नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ॥ ४९.५३॥
शुभ्र-आस्तरण-संयुक्तैः विचित्रैः समलंकृतम् । नन्दनैः विविध-आकारैः शोभितम् ॥ ४९।५३॥
śubhra-āstaraṇa-saṃyuktaiḥ vicitraiḥ samalaṃkṛtam . nandanaiḥ vividha-ākāraiḥ śobhitam .. 49.53..
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् । पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ॥ ४९.५४॥
सरोभिः सर्वतस् युक्तम् वीणा-वेणु-निनादितम् । पताकाभिः विचित्राभिः अनेकाभिः च शोभितम् ॥ ४९।५४॥
sarobhiḥ sarvatas yuktam vīṇā-veṇu-nināditam . patākābhiḥ vicitrābhiḥ anekābhiḥ ca śobhitam .. 49.54..
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः । नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ॥ ४९.५५॥
वीथीभिः सर्वतस् युक्तम् सोपानैः रत्न-भूषितैः । नारी-शत-सहस्र-आढ्यम् ॥ ४९।५५॥
vīthībhiḥ sarvatas yuktam sopānaiḥ ratna-bhūṣitaiḥ . nārī-śata-sahasra-āḍhyam .. 49.55..
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ४९.५६॥
हंस-कारण्डव-आकीर्णम् चक्रवाक-उपशोभितम् । चतुर्-द्वारम् अनौपम्यम् अगम्यम् देव-विद्विषाम् ॥ ४९।५६॥
haṃsa-kāraṇḍava-ākīrṇam cakravāka-upaśobhitam . catur-dvāram anaupamyam agamyam deva-vidviṣām .. 49.56..
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् । नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ४९.५७॥
तत्र तत्र अप्सरः सङ्धैः नृत्यद्भिः उपशोभितम् । नाना गीत-विधान-ज्ञैः देवानाम् अपि दुर्लभैः ॥ ४९।५७॥
tatra tatra apsaraḥ saṅdhaiḥ nṛtyadbhiḥ upaśobhitam . nānā gīta-vidhāna-jñaiḥ devānām api durlabhaiḥ .. 49.57..
नानाविलाससंपन्नैः कामुकैरतिकोमलैः । प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ४९.५८॥
नाना विलास-संपन्नैः कामुकैः अति कोमलैः । प्रभूत-चन्द्र-वदनैः नूपुर-आराव-संयुतैः ॥ ४९।५८॥
nānā vilāsa-saṃpannaiḥ kāmukaiḥ ati komalaiḥ . prabhūta-candra-vadanaiḥ nūpura-ārāva-saṃyutaiḥ .. 49.58..
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः । अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ॥ ४९.५९॥
ईषत् स्मितैः सु बिम्ब-उष्ठैः बाल-मुग्ध-मृग-ईक्षणैः । अशेष-विभव-उपेतैः भूषितैः तनु-मध्य विभूषितैः ॥ ४९।५९॥
īṣat smitaiḥ su bimba-uṣṭhaiḥ bāla-mugdha-mṛga-īkṣaṇaiḥ . aśeṣa-vibhava-upetaiḥ bhūṣitaiḥ tanu-madhya vibhūṣitaiḥ .. 49.59..
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः । संलापालापकुशलैर्दिव्याभरणभूषितैः ॥ ४९.६॥
सु राजहंस-चलनैः सु वेषैः मधुर-स्वनैः । संलाप-आलाप-कुशलैः दिव्य-आभरण-भूषितैः ॥ ४९।६॥
su rājahaṃsa-calanaiḥ su veṣaiḥ madhura-svanaiḥ . saṃlāpa-ālāpa-kuśalaiḥ divya-ābharaṇa-bhūṣitaiḥ .. 49.6..
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः । नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ४९.६१॥
स्तन-भार-विनम्रैः च मद-घूर्णित-लोचनैः । नाना वर्ण-विचित्र-अङ्गैः नाना भोग-रति-प्रियैः ॥ ४९।६१॥
stana-bhāra-vinamraiḥ ca mada-ghūrṇita-locanaiḥ . nānā varṇa-vicitra-aṅgaiḥ nānā bhoga-rati-priyaiḥ .. 49.61..
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् । असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ४९.६२॥
प्रफुल्ल-कुसुम-उद्यानैः इतस् च इतस् च शोभितम् । असंख्येय-गुणम् शुद्धम् आगम्यम् त्रिदशैः अपि ॥ ४९।६२॥
praphulla-kusuma-udyānaiḥ itas ca itas ca śobhitam . asaṃkhyeya-guṇam śuddham āgamyam tridaśaiḥ api .. 49.62..
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः । तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ॥ ४९.६३॥
श्रीमत् पवित्रम् देवस्य श्रीपतेः अमित-ओजसः । तस्य मध्ये अति तेजस्कम् उद्यत्-प्राकार-तोरणम् ॥ ४९।६३॥
śrīmat pavitram devasya śrīpateḥ amita-ojasaḥ . tasya madhye ati tejaskam udyat-prākāra-toraṇam .. 49.63..
स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् । तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः॥ ४९.६४॥
स्थानम् तत् वैष्णवम् दिव्यम् योगिनाम् सिद्धि-दायकम् । तद्-मध्ये भगवान् एकः पुण्डरीक-दल-द्युतिः॥ ४९।६४॥
sthānam tat vaiṣṇavam divyam yoginām siddhi-dāyakam . tad-madhye bhagavān ekaḥ puṇḍarīka-dala-dyutiḥ.. 49.64..
शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः । विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः॥ ४९.६५॥
शेते अशेष-जगत्-सूतिः शेष-अहि-शयने हरिः । विचिन्त्यमानः योगि-इन्द्रैः सनन्दन-पुरोगमैः॥ ४९।६५॥
śete aśeṣa-jagat-sūtiḥ śeṣa-ahi-śayane hariḥ . vicintyamānaḥ yogi-indraiḥ sanandana-purogamaiḥ.. 49.65..
स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः । सुपीतवसनोऽनन्तो महामायो महाभुजः ॥ ४९.६६॥
स्व-आत्म-आनन्द-अमृतम् पीत्वा पुरस्तात् तमसः परस् । सु पीत-वसनः अनन्तः महामायः महा-भुजः ॥ ४९।६६॥
sva-ātma-ānanda-amṛtam pītvā purastāt tamasaḥ paras . su pīta-vasanaḥ anantaḥ mahāmāyaḥ mahā-bhujaḥ .. 49.66..
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः । सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ॥ ४९.६७॥
क्षीरोद-कन्यया नित्यम् गृहीत-चरण-द्वयः । सा च देवी जगत्-वन्द्या पाद-मूले हरिप्रिया ॥ ४९।६७॥
kṣīroda-kanyayā nityam gṛhīta-caraṇa-dvayaḥ . sā ca devī jagat-vandyā pāda-mūle haripriyā .. 49.67..
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् । न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः॥ ४९.६८॥
समास्ते तद्-मनाः नित्यम् पीत्वा नारायण-अमृतम् । न तत्र अधार्मिकाः यान्ति न च देव-अन्तर-आश्रयाः॥ ४९।६८॥
samāste tad-manāḥ nityam pītvā nārāyaṇa-amṛtam . na tatra adhārmikāḥ yānti na ca deva-antara-āśrayāḥ.. 49.68..
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् । न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे॥ ४९.६९॥
वैकुण्ठम् नाम तत् स्थानम् त्रिदशैः अपि वन्दितम् । न मे अत्र भवति प्रज्ञा कृत्स्न-शास्त्र-निरूपणे॥ ४९।६९॥
vaikuṇṭham nāma tat sthānam tridaśaiḥ api vanditam . na me atra bhavati prajñā kṛtsna-śāstra-nirūpaṇe.. 49.69..
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् । स एव परमं ब्रह्म वासुदेवः सनातनः ॥ ४९.७॥
एतावत् शक्यते वक्तुम् नारायण-पुरम् हि तत् । सः एव परमम् ब्रह्म वासुदेवः सनातनः ॥ ४९।७॥
etāvat śakyate vaktum nārāyaṇa-puram hi tat . saḥ eva paramam brahma vāsudevaḥ sanātanaḥ .. 49.7..
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ४९.७१॥
शेते नारायणः श्रीमान् मायया मोहयन् जगत् ॥ ४९।७१॥
śete nārāyaṇaḥ śrīmān māyayā mohayan jagat .. 49.71..
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् । तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ४९.७२॥
नारायणात् इदम् जातम् तस्मिन् एव व्यवस्थितम् । तम् एव अभ्येति कल्प-अन्ते सः एव परमा गतिः ॥ ४९।७२॥
nārāyaṇāt idam jātam tasmin eva vyavasthitam . tam eva abhyeti kalpa-ante saḥ eva paramā gatiḥ .. 49.72..
इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साह्स्त्र्याम् संहितायाम् पूर्व-विभागे अष्टचत्वारिंशत्तमः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhstryām saṃhitāyām pūrva-vibhāge aṣṭacatvāriṃśattamaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In