| |
|

This overlay will guide you through the buttons:

अथ काल संख्याविवरणम् । श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ ५.१॥
स्वयंभुवः विवृत्तस्य काल-संख्याः द्विजोत्तमाः । न शक्यते समाख्यातुम् बहु-वर्षैः अपि स्वयम् ॥ ५।१॥
svayaṃbhuvaḥ vivṛttasya kāla-saṃkhyāḥ dvijottamāḥ . na śakyate samākhyātum bahu-varṣaiḥ api svayam .. 5.1..
कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ ५.२॥
काल-संख्या समासेन परार्द्ध-द्वय-कल्पिता । सः एव स्यात् परः कालः तद्-अन्ते प्रतिसृज्यते ॥ ५।२॥
kāla-saṃkhyā samāsena parārddha-dvaya-kalpitā . saḥ eva syāt paraḥ kālaḥ tad-ante pratisṛjyate .. 5.2..
निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ॥ ५.३॥
निजेन तस्य मानेन चातुर्वर्ष-शतम् स्मृतम् । तत् परार्द्धम् तद्-अर्द्धम् वा परार्द्धम् अभिदीयते ॥ ५।३॥
nijena tasya mānena cāturvarṣa-śatam smṛtam . tat parārddham tad-arddham vā parārddham abhidīyate .. 5.3..
काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ॥ ५.४॥
काष्ठा पञ्चदश ख्याताः निमेषाः द्विजसत्तमाः । काष्ठाः त्रिंशत् कला त्रिंशत् कलाः मौहूर्त्तिकी गतिः ॥ ५।४॥
kāṣṭhā pañcadaśa khyātāḥ nimeṣāḥ dvijasattamāḥ . kāṣṭhāḥ triṃśat kalā triṃśat kalāḥ mauhūrttikī gatiḥ .. 5.4..
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ५.५॥
तावत्-संख्यैः अहोरात्रम् मुहूर्त्तैः मानुषम् स्मृतम् । अहोरात्राणि तावन्ति मासः पक्ष-द्वय-आत्मकः ॥ ५।५॥
tāvat-saṃkhyaiḥ ahorātram muhūrttaiḥ mānuṣam smṛtam . ahorātrāṇi tāvanti māsaḥ pakṣa-dvaya-ātmakaḥ .. 5.5..
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ५.६॥
तैः षड्भिः अयनम् वर्षम् द्वे अयने दक्षिण-उत्तरे । अयनम् दक्षिणम् रात्रिः देवानाम् उत्तरम् दिनम् ॥ ५।६॥
taiḥ ṣaḍbhiḥ ayanam varṣam dve ayane dakṣiṇa-uttare . ayanam dakṣiṇam rātriḥ devānām uttaram dinam .. 5.6..
दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ ५.७॥
दिव्यैः वर्ष-सहस्त्रैः तु कृत-त्रेता-आदि-संज्ञितम् । चतुर्युगम् द्वादशभिः तद्-विभागम् निबोधत ॥ ५।७॥
divyaiḥ varṣa-sahastraiḥ tu kṛta-tretā-ādi-saṃjñitam . caturyugam dvādaśabhiḥ tad-vibhāgam nibodhata .. 5.7..
चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ ५.८॥
चत्वारि आहुः सहस्त्राणि वर्षाणाम् तत् कृतम् युगम् । तस्य तावच्छती सन्ध्या सन्ध्या-अंशः च कृतस्य तु ॥ ५।८॥
catvāri āhuḥ sahastrāṇi varṣāṇām tat kṛtam yugam . tasya tāvacchatī sandhyā sandhyā-aṃśaḥ ca kṛtasya tu .. 5.8..
त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्शतं तस्मात् कृसन्ध्यांशकै विना ॥ ५.९॥
त्रिशती द्विशती सन्ध्या तथा च एकशती क्रमात् । अंशकम् षट्शतम् तस्मात् विना ॥ ५।९॥
triśatī dviśatī sandhyā tathā ca ekaśatī kramāt . aṃśakam ṣaṭśatam tasmāt vinā .. 5.9..
त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ॥ ५.१॥
त्रि-द्वि-एक-साहस्त्र-मितः विना सन्ध्यांशकेन तु । त्रेता-द्वापर-तिष्याणाम् काल-ज्ञाने प्रकीर्त्तितम् ॥ ५।१॥
tri-dvi-eka-sāhastra-mitaḥ vinā sandhyāṃśakena tu . tretā-dvāpara-tiṣyāṇām kāla-jñāne prakīrttitam .. 5.1..
एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ ५.११॥
एतत् द्वादश-साहस्त्रम् स अधिकम् परिकल्पितम् । तद्-एकसप्तति-गुणम् मनोः अन्तरम् उच्यते ॥ ५।११॥
etat dvādaśa-sāhastram sa adhikam parikalpitam . tad-ekasaptati-guṇam manoḥ antaram ucyate .. 5.11..
ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ ५.१२॥
ब्रह्मणः दिवसे विप्राः मनवः स्युः चतुर्द्दश । स्वायंभुव-आदयः सर्वे ततस् सावर्णिक-आदयः ॥ ५।१२॥
brahmaṇaḥ divase viprāḥ manavaḥ syuḥ caturddaśa . svāyaṃbhuva-ādayaḥ sarve tatas sāvarṇika-ādayaḥ .. 5.12..
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ ५.१३॥
तैः इयम् पृथिवी सर्वा सप्तद्वीपा स पर्वता । पूर्णम् युग-सहस्त्रम् वै परिपाल्याः नरेश्वरैः ॥ ५।१३॥
taiḥ iyam pṛthivī sarvā saptadvīpā sa parvatā . pūrṇam yuga-sahastram vai paripālyāḥ nareśvaraiḥ .. 5.13..
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ॥ ५.१४॥
मन्वन्तरेण च एकेन सर्वाणि एव अन्तराणि वै । व्याख्यातानि न संदेहः कल्पि कल्पे न च एव हि ॥ ५।१४॥
manvantareṇa ca ekena sarvāṇi eva antarāṇi vai . vyākhyātāni na saṃdehaḥ kalpi kalpe na ca eva hi .. 5.14..
ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ ५.१५॥
ब्राह्मम् एकम् अहर् कल्पः तावती रात्रिः इष्यते । चतुर्-युग-सहस्त्रम् तु कल्पम् आहुः मनीषिणः ॥ ५।१५॥
brāhmam ekam ahar kalpaḥ tāvatī rātriḥ iṣyate . catur-yuga-sahastram tu kalpam āhuḥ manīṣiṇaḥ .. 5.15..
त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ॥ ५.१६॥
त्रीणि कल्प-शतानि स्युः तथा षष्टिः द्विजोत्तमाः । ब्रह्मणः कथितम् वर्षम् परार्द्धम् तत् शतम् विदुः ॥ ५।१६॥
trīṇi kalpa-śatāni syuḥ tathā ṣaṣṭiḥ dvijottamāḥ . brahmaṇaḥ kathitam varṣam parārddham tat śatam viduḥ .. 5.16..
तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ ५.१७॥
तस्य अन्ते सर्व-सत्त्वानाम् स हेतौ प्रकृतौ लयः । तेन अयम् प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ ५।१७॥
tasya ante sarva-sattvānām sa hetau prakṛtau layaḥ . tena ayam procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ .. 5.17..
ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ ५.१८॥
ब्रह्म-नारायण-ईशानाम् त्रयाणाम् प्रकृतौ लयः । प्रोच्यते काल-योगेन पुनर् एव च संभवः ॥ ५।१८॥
brahma-nārāyaṇa-īśānām trayāṇām prakṛtau layaḥ . procyate kāla-yogena punar eva ca saṃbhavaḥ .. 5.18..
एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ ५.१९॥
एवम् ब्रह्मा च भूतानि वासुदेवः अपि शंकरः । कालेन एव तु सृज्यन्ते सः एव ग्रसते पुनर् ॥ ५।१९॥
evam brahmā ca bhūtāni vāsudevaḥ api śaṃkaraḥ . kālena eva tu sṛjyante saḥ eva grasate punar .. 5.19..
अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः । सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ॥ ५.२॥
अनादिः एष भगवान् कालः अनन्तः अजरः अमरः । सर्वग-त्वात् स्वतन्त्र-त्वात् सर्व-आत्म-त्वात् महेश्वरः ॥ ५।२॥
anādiḥ eṣa bhagavān kālaḥ anantaḥ ajaraḥ amaraḥ . sarvaga-tvāt svatantra-tvāt sarva-ātma-tvāt maheśvaraḥ .. 5.2..
ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ ५.२१॥
ब्रह्माणः बहवः रुद्राः हि अन्ये नारायण-आदयः । एकः हि भगवान् ईशः कालः कविः इति श्रुति ॥ ५।२१॥
brahmāṇaḥ bahavaḥ rudrāḥ hi anye nārāyaṇa-ādayaḥ . ekaḥ hi bhagavān īśaḥ kālaḥ kaviḥ iti śruti .. 5.21..
एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः । सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ॥ ५.२२॥
एकम् अत्र व्यतीतम् तु परार्द्धम् ब्रह्मणः द्विजाः । सांप्रतम् वर्त्तते तु अर्द्धम् तस्य कल्पः अयम् अग्रतस् ॥ ५।२२॥
ekam atra vyatītam tu parārddham brahmaṇaḥ dvijāḥ . sāṃpratam varttate tu arddham tasya kalpaḥ ayam agratas .. 5.22..
योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ ५.२३॥
यः अतीतः सः अन्तिमः कल्पः पाद्मः इति उच्यते बुधैः । वाराहः वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ ५।२३॥
yaḥ atītaḥ saḥ antimaḥ kalpaḥ pādmaḥ iti ucyate budhaiḥ . vārāhaḥ varttate kalpaḥ tasya vakṣyāmi vistaram .. 5.23..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः॥ ५॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे पञ्चमः अध्यायः॥ ५॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge pañcamaḥ adhyāyaḥ.. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In