| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः । क्षीरार्णवं समाश्रित्य द्वीपं पुष्करसंज्ञितम्॥ ५०.१॥
शाकद्वीपस्य विस्तारात् द्विगुणेन व्यवस्थितः । क्षीरार्णवम् समाश्रित्य द्वीपम् पुष्कर-संज्ञितम्॥ ५०।१॥
śākadvīpasya vistārāt dviguṇena vyavasthitaḥ . kṣīrārṇavam samāśritya dvīpam puṣkara-saṃjñitam.. 50.1..
एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः । योजनानां सहस्राणि सार्द्धं पञ्चाशदुच्छ्रितः॥ ५०.२॥
एकः एव अत्र विप्र-इन्द्राः पर्वतः मानस-उत्तरः । योजनानाम् सहस्राणि सार्द्धम् पञ्चाशत्-उच्छ्रितः॥ ५०।२॥
ekaḥ eva atra vipra-indrāḥ parvataḥ mānasa-uttaraḥ . yojanānām sahasrāṇi sārddham pañcāśat-ucchritaḥ.. 50.2..
तावदेव च विस्तीर्णः सर्वतः पारिमण्डलः । स एव द्वीपश्चार्द्धेन मानसोत्तरसंज्ञितः ॥ ५०.३॥
तावत् एव च विस्तीर्णः सर्वतस् पारिमण्डलः । सः एव द्वीपः च अर्द्धेन मानसोत्तर-संज्ञितः ॥ ५०।३॥
tāvat eva ca vistīrṇaḥ sarvatas pārimaṇḍalaḥ . saḥ eva dvīpaḥ ca arddhena mānasottara-saṃjñitaḥ .. 50.3..
एक एव महाभागः संनिवेशाद् द्विधा कृतः । तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥ ५०.४॥
एकः एव महाभागः संनिवेशात् द्विधा कृतः । तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥ ५०।४॥
ekaḥ eva mahābhāgaḥ saṃniveśāt dvidhā kṛtaḥ . tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau .. 50.4..
अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥ ५०.५॥
अपरौ मानसस्य अथ पर्वतस्य अनु मण्डलौ । महावीतम् स्मृतम् वर्षम् धातकीखण्डम् एव च ॥ ५०।५॥
aparau mānasasya atha parvatasya anu maṇḍalau . mahāvītam smṛtam varṣam dhātakīkhaṇḍam eva ca .. 50.5..
स्वादूदकेनोदधिना पुष्करः परिवारितः । तस्मिन् द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥ ५०.६॥
स्वादु-उदकेन उदधिना पुष्करः परिवारितः । तस्मिन् द्वीपे महा-वृक्षः न्यग्रोधः अमर-पूजितः ॥ ५०।६॥
svādu-udakena udadhinā puṣkaraḥ parivāritaḥ . tasmin dvīpe mahā-vṛkṣaḥ nyagrodhaḥ amara-pūjitaḥ .. 50.6..
तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलः शिवनारायणालयः ॥ ५०.७॥
तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्र एव मुनि-शार्दूलः शिव-नारायण-आलयः ॥ ५०।७॥
tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ . tatra eva muni-śārdūlaḥ śiva-nārāyaṇa-ālayaḥ .. 50.7..
वसत्यत्र महादेवो हरोर्द्धं हरिरव्ययः । संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥ ५०.८॥
वसति अत्र महादेवः हर-ऊर्द्धम् हरिः अव्ययः । संपूज्यमानः ब्रह्म-आद्यैः कुमार-आद्यैः च योगिभिः ॥ ५०।८॥
vasati atra mahādevaḥ hara-ūrddham hariḥ avyayaḥ . saṃpūjyamānaḥ brahma-ādyaiḥ kumāra-ādyaiḥ ca yogibhiḥ .. 50.8..
गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः । स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा शतशत्विषः ॥ ५०.९॥
गन्धर्वैः किन्नरैः यक्षैः ईश्वरः कृष्ण-पिङ्गलः । स्वस्थाः तत्र प्रजाः सर्वाः ब्रह्मणा शतश-त्विषः ॥ ५०।९॥
gandharvaiḥ kinnaraiḥ yakṣaiḥ īśvaraḥ kṛṣṇa-piṅgalaḥ . svasthāḥ tatra prajāḥ sarvāḥ brahmaṇā śataśa-tviṣaḥ .. 50.9..
निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः । सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ॥ ५०.१॥
निरामयाः विशोकाः च राग-द्वेष-विवर्जिताः । सत्य-अनृते न तत्र आस्ताम् न उत्तम-अधम-मध्यमाः ॥ ५०।१॥
nirāmayāḥ viśokāḥ ca rāga-dveṣa-vivarjitāḥ . satya-anṛte na tatra āstām na uttama-adhama-madhyamāḥ .. 50.1..
न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः । परेण पुष्करेणाथ समावृत्य स्थितो महान् ॥ ५०.११॥
न वर्ण-आश्रम-धर्माः च न नद्यः न च पर्वताः । परेण पुष्करेण अथ समावृत्य स्थितः महान् ॥ ५०।११॥
na varṇa-āśrama-dharmāḥ ca na nadyaḥ na ca parvatāḥ . pareṇa puṣkareṇa atha samāvṛtya sthitaḥ mahān .. 50.11..
स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः । परेण तस्य महती दृश्यते लोकसंस्थितिः ॥ ५०.१२॥
स्वादु-उदक-समुद्रः तु समन्तात् द्विजसत्तमाः । परेण तस्य महती दृश्यते लोक-संस्थितिः ॥ ५०।१२॥
svādu-udaka-samudraḥ tu samantāt dvijasattamāḥ . pareṇa tasya mahatī dṛśyate loka-saṃsthitiḥ .. 50.12..
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा । तस्याः परेण शैलस्तु मर्यादा भानुमण्डलः ॥ ५०.१३॥
काञ्चनी द्विगुणा भूमिः सर्वा च एव शिला-उपमा । तस्याः परेण शैलः तु मर्यादा भानु-मण्डलः ॥ ५०।१३॥
kāñcanī dviguṇā bhūmiḥ sarvā ca eva śilā-upamā . tasyāḥ pareṇa śailaḥ tu maryādā bhānu-maṇḍalaḥ .. 50.13..
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते । योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥ ५०.१४॥
प्रकाशः च अप्रकाशः च लोकालोकः सः उच्यते । योजनानाम् सहस्राणि दश तस्य उच्छ्रयः स्मृतः ॥ ५०।१४॥
prakāśaḥ ca aprakāśaḥ ca lokālokaḥ saḥ ucyate . yojanānām sahasrāṇi daśa tasya ucchrayaḥ smṛtaḥ .. 50.14..
तावानेव च विस्तारो लोकालोको महागिरेः । समावृत्य तु तं शैलं सर्वतो वै समस्थितम् ॥ ५०.१५॥
तावान् एव च विस्तारः लोकालोकः महा-गिरेः । समावृत्य तु तम् शैलम् सर्वतस् वै समस्थितम् ॥ ५०।१५॥
tāvān eva ca vistāraḥ lokālokaḥ mahā-gireḥ . samāvṛtya tu tam śailam sarvatas vai samasthitam .. 50.15..
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । एतै सप्त महालोकाः पातालाः सप्तकीर्त्तिता॥ ५०.१६॥
तमः च अण्ड-कटाहेन समन्तात् परिवेष्टितम् । एतैः सप्त महा-लोकाः पातालाः सप्त-कीर्त्तिता॥ ५०।१६॥
tamaḥ ca aṇḍa-kaṭāhena samantāt pariveṣṭitam . etaiḥ sapta mahā-lokāḥ pātālāḥ sapta-kīrttitā.. 50.16..
ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः । अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः॥ ५०.१७॥
ब्रह्माण्डस्य एष विस्तारः संक्षेपेण मया उदितः । अण्डानाम् ईदृशानाम् तु कोट्यः ज्ञेयाः सहस्रशस्॥ ५०।१७॥
brahmāṇḍasya eṣa vistāraḥ saṃkṣepeṇa mayā uditaḥ . aṇḍānām īdṛśānām tu koṭyaḥ jñeyāḥ sahasraśas.. 50.17..
सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः । अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥ ५०.१८॥
सर्वग-त्वात् प्रधानस्य कारणस्य अव्यय-आत्मनः । अण्डेषु एतेषु सर्वेषु भुवनानि चतुर्दश ॥ ५०।१८॥
sarvaga-tvāt pradhānasya kāraṇasya avyaya-ātmanaḥ . aṇḍeṣu eteṣu sarveṣu bhuvanāni caturdaśa .. 50.18..
तत्र तत्र चतुर्वक्रा रुद्रा नारायणादयः । दशोत्तरमथैकैकमण्डावरणसप्तकम् ॥ ५०.१९॥
तत्र तत्र चतुर्-वक्राः रुद्राः नारायण-आदयः । दश-उत्तरम् अथ एकैकम् अण्ड-आवरण-सप्तकम् ॥ ५०।१९॥
tatra tatra catur-vakrāḥ rudrāḥ nārāyaṇa-ādayaḥ . daśa-uttaram atha ekaikam aṇḍa-āvaraṇa-saptakam .. 50.19..
समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः । अनन्तमेकमव्यक्तनादिनिधनं महत् ॥ ५०.२॥
समन्तात् संस्थितम् विप्राः यत्र यान्ति मनीषिणः । अनन्तम् एकम् अव्यक्त-नादि-निधनम् महत् ॥ ५०।२॥
samantāt saṃsthitam viprāḥ yatra yānti manīṣiṇaḥ . anantam ekam avyakta-nādi-nidhanam mahat .. 50.2..
अतीत्य वर्त्तते सर्वं जगत् प्रकृतिरक्षरम् । अनन्तत्वमनन्तस्य यतः संख्या न विद्यते ॥ ५०.२१॥
अतीत्य वर्त्तते सर्वम् जगत् प्रकृतिः अक्षरम् । अनन्त-त्वम् अनन्तस्य यतस् संख्या न विद्यते ॥ ५०।२१॥
atītya varttate sarvam jagat prakṛtiḥ akṣaram . ananta-tvam anantasya yatas saṃkhyā na vidyate .. 50.21..
तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् । अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥ ५०.२२॥
तत् अव्यक्तम् इति ज्ञेयम् तत् ब्रह्म परमम् पदम् । अनन्तः एष सर्वत्र सर्व-स्थानेषु पठ्यते ॥ ५०।२२॥
tat avyaktam iti jñeyam tat brahma paramam padam . anantaḥ eṣa sarvatra sarva-sthāneṣu paṭhyate .. 50.22..
तस्य पूर्वं मयाऽप्युक्तं यत्तन्माहात्म्यमव्ययम् । गतः स एष सर्वत्र सर्वस्थानेषु पूज्यते ॥ ५०.२३॥
तस्य पूर्वम् मया अपि उक्तम् यत् तत् माहात्म्यम् अव्ययम् । गतः सः एष सर्वत्र सर्व-स्थानेषु पूज्यते ॥ ५०।२३॥
tasya pūrvam mayā api uktam yat tat māhātmyam avyayam . gataḥ saḥ eṣa sarvatra sarva-sthāneṣu pūjyate .. 50.23..
भूमौ रसातले चैव आकाशे पवनेऽनले । अणवेषु च सर्वेषु दिवि चैव न सशयः ॥ ५०.२४॥
भूमौ रसातले च एव आकाशे पवने अनले । अणवेषु च सर्वेषु दिवि च एव न सशयः ॥ ५०।२४॥
bhūmau rasātale ca eva ākāśe pavane anale . aṇaveṣu ca sarveṣu divi ca eva na saśayaḥ .. 50.24..
तथा तमसि सत्त्वे च एष एव महाद्युतिः । अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ॥ ५०.२५॥
तथा तमसि सत्त्वे च एषः एव महा-द्युतिः । अनेकधा विभक्त-अङ्गः क्रीडते पुरुषोत्तमः ॥ ५०।२५॥
tathā tamasi sattve ca eṣaḥ eva mahā-dyutiḥ . anekadhā vibhakta-aṅgaḥ krīḍate puruṣottamaḥ .. 50.25..
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥ ५०.२६॥
महेश्वरः परः अव्यक्तात् अण्डम् अव्यक्त-संभवम् । अण्डात् ब्रह्मा समुत्पन्नः तेन सृष्टम् इदम् जगत् ॥ ५०।२६॥
maheśvaraḥ paraḥ avyaktāt aṇḍam avyakta-saṃbhavam . aṇḍāt brahmā samutpannaḥ tena sṛṣṭam idam jagat .. 50.26..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे पञ्चाशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge pañcāśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In