| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अतीतानागतानीह यानि मन्वन्तराणि तु । तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥ ५१.१॥
अतीत-अन् आगतानि इह यानि मन्वन्तराणि तु । तानि त्वम् कथय अस्माकम् व्यासान् च द्वापरे युगे ॥ ५१।१॥
atīta-an āgatāni iha yāni manvantarāṇi tu . tāni tvam kathaya asmākam vyāsān ca dvāpare yuge .. 51.1..
वेदशाखाप्रणयनं देवदेवस्य धीमतः । तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥ ५१.२॥
वेद-शाखा-प्रणयनम् देवदेवस्य धीमतः । तथा अवतारान् धर्म-अर्थम् ईशानस्य कलौ युगे ॥ ५१।२॥
veda-śākhā-praṇayanam devadevasya dhīmataḥ . tathā avatārān dharma-artham īśānasya kalau yuge .. 51.2..
कियन्तो देवदेवस्य शिष्याः कलियुगेऽपि वै । एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ॥ ५१.३॥
कियन्तः देवदेवस्य शिष्याः कलि-युगे अपि वै । एतत् सर्वम् समासेन सूत वक्तुम् इह अर्हसि ॥ ५१।३॥
kiyantaḥ devadevasya śiṣyāḥ kali-yuge api vai . etat sarvam samāsena sūta vaktum iha arhasi .. 51.3..
सूत उवाच ।
मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५१.४॥
मनुः स्वायंभुवः पूर्वम् ततस् स्वारोचिषः मनुः । उत्तमः तामसः च एव रैवतः चाक्षुषः तथा ॥ ५१।४॥
manuḥ svāyaṃbhuvaḥ pūrvam tatas svārociṣaḥ manuḥ . uttamaḥ tāmasaḥ ca eva raivataḥ cākṣuṣaḥ tathā .. 51.4..
षडेते मनवोऽतीताः सांप्रतं तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ॥ ५१.५॥
षट् एते मनवः अतीताः सांप्रतम् तु रवेः सुतः । वैवस्वतः अयम् यस्य एतत् सप्तमम् वर्त्तते अन्तरम् ॥ ५१।५॥
ṣaṭ ete manavaḥ atītāḥ sāṃpratam tu raveḥ sutaḥ . vaivasvataḥ ayam yasya etat saptamam varttate antaram .. 51.5..
स्वायंभुवं तु कथितं कल्पादावन्तरं मया । अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥ ५१.६॥
स्वायंभुवम् तु कथितम् कल्प-आदौ अन्तरम् मया । अतस् ऊर्ध्वम् निबोधध्वम् मनोः स्वारोचिषस्य तु ॥ ५१।६॥
svāyaṃbhuvam tu kathitam kalpa-ādau antaram mayā . atas ūrdhvam nibodhadhvam manoḥ svārociṣasya tu .. 51.6..
पारावताश्च तुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥ ५१.७॥
पारावताः च तुषिताः देवाः स्वारोचिषे अन्तरे । विपश्चित् नाम देवेन्द्रः बभूव असुरसूदनः ॥ ५१।७॥
pārāvatāḥ ca tuṣitāḥ devāḥ svārociṣe antare . vipaścit nāma devendraḥ babhūva asurasūdanaḥ .. 51.7..
ऊर्ज्जस्तम्भस्तथा प्राणो दान्तोऽथ वृषभस्तथा । तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयोऽभवन् ॥ ५१.८॥
ऊर्ज्जस्तम्भः तथा प्राणः दान्तः अथ वृषभः तथा । तिमिरः चार्वरीवान् च सप्त सप्तर्षयः अभवन् ॥ ५१।८॥
ūrjjastambhaḥ tathā prāṇaḥ dāntaḥ atha vṛṣabhaḥ tathā . timiraḥ cārvarīvān ca sapta saptarṣayaḥ abhavan .. 51.8..
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमेतदाख्यातमन्तरं श्रृणु चोत्तमम् ॥ ५१.९॥
चैत्र-किंपुरुष-आद्याः च सुताः स्वारोचिषस्य तु । द्वितीयम् एतत् आख्यातम् अन्तरम् श्रृणु च उत्तमम् ॥ ५१।९॥
caitra-kiṃpuruṣa-ādyāḥ ca sutāḥ svārociṣasya tu . dvitīyam etat ākhyātam antaram śrṛṇu ca uttamam .. 51.9..
तृतीयेऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः । सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥ ५१.१॥
तृतीये अपि अन्तरे विप्राः उत्तमः नाम वै मनुः । सुशान्तिः तत्र देव-इन्द्रः बभूव अमित्र-कर्षणः ॥ ५१।१॥
tṛtīye api antare viprāḥ uttamaḥ nāma vai manuḥ . suśāntiḥ tatra deva-indraḥ babhūva amitra-karṣaṇaḥ .. 51.1..
सुधामानस्तथा सत्यः शिवाश्चाथ प्रतर्दनाः । वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ५१.११॥
सुधामानः तथा सत्यः शिवाः च अथ प्रतर्दनाः । वशवर्तिनः च पञ्च एते गणाः द्वादशकाः स्मृताः ॥ ५१।११॥
sudhāmānaḥ tathā satyaḥ śivāḥ ca atha pratardanāḥ . vaśavartinaḥ ca pañca ete gaṇāḥ dvādaśakāḥ smṛtāḥ .. 51.11..
रजोर्ध्वश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सप्त सप्तर्षयोऽभवन् ॥ ५१.१२॥
रजोर्ध्वः च ऊर्ध्वबाहुः च सवनः च अनघः तथा । सुतपाः शुक्रः इति एते सप्त सप्तर्षयः अभवन् ॥ ५१।१२॥
rajordhvaḥ ca ūrdhvabāhuḥ ca savanaḥ ca anaghaḥ tathā . sutapāḥ śukraḥ iti ete sapta saptarṣayaḥ abhavan .. 51.12..
तामसस्यान्तरे देवाः सुरायासहरास्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ५१.१३॥
तामसस्य अन्तरे देवाः सुर-आयास-हराः तथा । सत्याः च सुधियः च एव सप्तविंशतिकाः गणाः ॥ ५१।१३॥
tāmasasya antare devāḥ sura-āyāsa-harāḥ tathā . satyāḥ ca sudhiyaḥ ca eva saptaviṃśatikāḥ gaṇāḥ .. 51.13..
शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः । बभूव शंकरे भक्तो महादेवार्चने रतः ॥ ५१.१४॥
शिबिः इन्द्रः तथा एव आसीत् शतयज्ञ-उपलक्षणः । बभूव शंकरे भक्तः महादेव-अर्चने रतः ॥ ५१।१४॥
śibiḥ indraḥ tathā eva āsīt śatayajña-upalakṣaṇaḥ . babhūva śaṃkare bhaktaḥ mahādeva-arcane rataḥ .. 51.14..
ज्योतिर्द्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा । पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥ ५१.१५॥
ज्योतिर्द्धर्मा पृथुः काव्यः चैत्रोग्निः वनकः तथा । पीवरः तु ऋषयः हि एते सप्त तत्र अपि च अन्तरे ॥ ५१।१५॥
jyotirddharmā pṛthuḥ kāvyaḥ caitrogniḥ vanakaḥ tathā . pīvaraḥ tu ṛṣayaḥ hi ete sapta tatra api ca antare .. 51.15..
पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः । मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥ ५१.१६॥
पञ्चमे च अपि विप्र-इन्द्राः रैवतः नाम नामतः । मनुः वसुः च तत्र इन्द्रः बभूव असुर-मर्दनः ॥ ५१।१६॥
pañcame ca api vipra-indrāḥ raivataḥ nāma nāmataḥ . manuḥ vasuḥ ca tatra indraḥ babhūva asura-mardanaḥ .. 51.16..
अमिता भूतयस्तत्र वैकुण्ठाश्च सुरोत्तमाः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ५१.१७॥
अमिताः भूतयः तत्र वैकुण्ठाः च सुर-उत्तमाः । एते देव-गणाः तत्र चतुर्दश चतुर्दश ॥ ५१।१७॥
amitāḥ bhūtayaḥ tatra vaikuṇṭhāḥ ca sura-uttamāḥ . ete deva-gaṇāḥ tatra caturdaśa caturdaśa .. 51.17..
हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥ ५१.१८॥
हिरण्यरोमा वेदश्रीः ऊर्ध्वबाहुः तथा एव च । वेदबाहुः सुधामा च पर्जन्यः च महा-मुनिः ॥ ५१।१८॥
hiraṇyaromā vedaśrīḥ ūrdhvabāhuḥ tathā eva ca . vedabāhuḥ sudhāmā ca parjanyaḥ ca mahā-muniḥ .. 51.18..
एते सप्तर्षयो विप्रास्तत्रासन् रैवतेऽन्तरे । स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ॥ ५१.१९॥
एते सप्तर्षयः विप्राः तत्र आसन् रैवते अन्तरे । स्वारोचिषः च उत्तमः च तामसः रैवतः तथा ॥ ५१।१९॥
ete saptarṣayaḥ viprāḥ tatra āsan raivate antare . svārociṣaḥ ca uttamaḥ ca tāmasaḥ raivataḥ tathā .. 51.19..
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः । षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः ॥ ५१.२॥
प्रियव्रत-अन्वयाः हि एते चत्वारः मनवः स्मृताः । षष्ठे मन्वन्तरे च आसीत् चाक्षुषः तु मनुः द्विजाः ॥ ५१।२॥
priyavrata-anvayāḥ hi ete catvāraḥ manavaḥ smṛtāḥ . ṣaṣṭhe manvantare ca āsīt cākṣuṣaḥ tu manuḥ dvijāḥ .. 51.2..
मनोजवस्तथैवेन्द्रो देवानपि निबोधतः । आद्याः प्रसूता भाव्याश्च पृथुनाश्च दिवौकसः ॥ ५१.२१॥
मनोजवः तथा एव इन्द्रः देवान् अपि निबोधतः । आद्याः प्रसूताः भाव्याः च पृथुनाः च दिवौकसः ॥ ५१।२१॥
manojavaḥ tathā eva indraḥ devān api nibodhataḥ . ādyāḥ prasūtāḥ bhāvyāḥ ca pṛthunāḥ ca divaukasaḥ .. 51.21..
महानुभावा लेख्याश्च पञ्चैते हृष्टका गणाः । सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ॥ ५१.२२॥
महा-अनुभावाः लेख्याः च पञ्च एते हृष्टकाः गणाः । सुमेधाः विरजाः च एव हविष्मान् उत्तमः मधुः ॥ ५१।२२॥
mahā-anubhāvāḥ lekhyāḥ ca pañca ete hṛṣṭakāḥ gaṇāḥ . sumedhāḥ virajāḥ ca eva haviṣmān uttamaḥ madhuḥ .. 51.22..
अतिनामा सविष्णुश्च सप्तासन्नृषयः शुभाः । विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः ॥ ५१.२३॥
अतिनामा स विष्णुः च सप्त आसन् ऋषयः शुभाः । विवस्वतः सुतः विप्राः श्राद्धदेवः महा-द्युतिः ॥ ५१।२३॥
atināmā sa viṣṇuḥ ca sapta āsan ṛṣayaḥ śubhāḥ . vivasvataḥ sutaḥ viprāḥ śrāddhadevaḥ mahā-dyutiḥ .. 51.23..
मनुः संवर्तनो विप्राः सांप्रतं सप्तमेऽन्तरे । आदित्या वसवो रुद्रा देवास्तत्र मरुद्गणाः ॥ ५१.२४॥
मनुः संवर्तनः विप्राः सांप्रतम् सप्तमे अन्तरे । आदित्याः वसवः रुद्राः देवाः तत्र मरुत्-गणाः ॥ ५१।२४॥
manuḥ saṃvartanaḥ viprāḥ sāṃpratam saptame antare . ādityāḥ vasavaḥ rudrāḥ devāḥ tatra marut-gaṇāḥ .. 51.24..
पुरंदरस्तथैवेन्द्रो बभूव परवीरहा । वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ॥ ५१.२५॥
पुरंदरः तथा एवा इन्द्रः बभूव पर-वीर-हा । वसिष्ठः कश्यपः च अत्रिः जमदग्निः च गौतमः ॥ ५१।२५॥
puraṃdaraḥ tathā evā indraḥ babhūva para-vīra-hā . vasiṣṭhaḥ kaśyapaḥ ca atriḥ jamadagniḥ ca gautamaḥ .. 51.25..
विश्वामित्रो भरद्वाजः सप्त सप्तर्षयोऽभवन् । विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ ॥ ५१.२६॥
विश्वामित्रः भरद्वाजः सप्त सप्तर्षयः अभवन् । विष्णुशक्तिः अनौपम्या सत्त्व-उद्रिक्ता स्थिता स्थितौ ॥ ५१।२६॥
viśvāmitraḥ bharadvājaḥ sapta saptarṣayaḥ abhavan . viṣṇuśaktiḥ anaupamyā sattva-udriktā sthitā sthitau .. 51.26..
तदंशभूता राजानः सर्वे च त्रिदिवौकसः । स्वायंभुवेऽन्तरे पूर्वम् प्रकृत्यां मानसः सुतः ॥ ५१.२७॥
तद्-अंश-भूताः राजानः सर्वे च त्रिदिवौकसः । स्वायंभुवे अन्तरे पूर्वम् प्रकृत्याम् मानसः सुतः ॥ ५१।२७॥
tad-aṃśa-bhūtāḥ rājānaḥ sarve ca tridivaukasaḥ . svāyaṃbhuve antare pūrvam prakṛtyām mānasaḥ sutaḥ .. 51.27..
रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः । ततः पुनरसौ देवः प्राप्ते स्वारोचिषेऽन्तरे ॥ ५१.२८॥
रुचेः प्रजापतेः यज्ञः तद्-अंशेन अभवत् द्विजाः । ततस् पुनर् असौ देवः प्राप्ते स्वारोचिषे अन्तरे ॥ ५१।२८॥
ruceḥ prajāpateḥ yajñaḥ tad-aṃśena abhavat dvijāḥ . tatas punar asau devaḥ prāpte svārociṣe antare .. 51.28..
तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः । उत्तमेऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः ॥ ५१.२९॥
तुषितायाम् समुत्पन्नः तुषितैः सह दैवतैः । उत्तमे अपि अन्तरे विष्णुः सत्यैः सह सुर-उत्तमैः ॥ ५१।२९॥
tuṣitāyām samutpannaḥ tuṣitaiḥ saha daivataiḥ . uttame api antare viṣṇuḥ satyaiḥ saha sura-uttamaiḥ .. 51.29..
सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः । तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि ॥ ५१.३॥
सत्यायाम् अभवत् सत्यः सत्य-रूपः जनार्दनः । तामसस्य अन्तरे च एव संप्राप्ते पुनर् एव हि ॥ ५१।३॥
satyāyām abhavat satyaḥ satya-rūpaḥ janārdanaḥ . tāmasasya antare ca eva saṃprāpte punar eva hi .. 51.3..
हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः । रैवतेऽप्यन्तरे चैव संभूत्यां मानसोऽभवत् ॥ ५१.३१॥
हर्यायाम् हरिभिः देवैः हरिः एव भवत् हरिः । रैवते अपि अन्तरे च एव संभूत्याम् मानसः अभवत् ॥ ५१।३१॥
haryāyām haribhiḥ devaiḥ hariḥ eva bhavat hariḥ . raivate api antare ca eva saṃbhūtyām mānasaḥ abhavat .. 51.31..
संभूतो मानसैः सार्द्धं देवैः सह महाद्युतिः । चाक्षुषेऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः ॥ ५१.३२॥
संभूतः मानसैः सार्द्धम् देवैः सह महा-द्युतिः । चाक्षुषे अपि अन्तरे च एव वैकुण्ठः पुरुषोत्तमः ॥ ५१।३२॥
saṃbhūtaḥ mānasaiḥ sārddham devaiḥ saha mahā-dyutiḥ . cākṣuṣe api antare ca eva vaikuṇṭhaḥ puruṣottamaḥ .. 51.32..
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह । मन्वन्तरेऽच संप्राप्ते तथा वैवस्वतेऽन्तरे ॥ ५१.३३॥
विकुण्ठायाम् असौ जज्ञे वैकुण्ठैः दैवतैः सह । संप्राप्ते तथा वैवस्वते अन्तरे ॥ ५१।३३॥
vikuṇṭhāyām asau jajñe vaikuṇṭhaiḥ daivataiḥ saha . saṃprāpte tathā vaivasvate antare .. 51.33..
वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह । त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना ॥ ५१.३४॥
वामनः कश्यपात् विष्णुः अदित्याम् संबभूव ह । त्रिभिः क्रमैः इमान् लोकान् जित्वा येन महात्मना ॥ ५१।३४॥
vāmanaḥ kaśyapāt viṣṇuḥ adityām saṃbabhūva ha . tribhiḥ kramaiḥ imān lokān jitvā yena mahātmanā .. 51.34..
पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम् । इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै ॥ ५१.३५॥
पुरंदराय त्रैलोक्यम् दत्तम् निहत-कण्टकम् । इति एताः तनवः तस्य सप्त मन्वन्तरेषु वै ॥ ५१।३५॥
puraṃdarāya trailokyam dattam nihata-kaṇṭakam . iti etāḥ tanavaḥ tasya sapta manvantareṣu vai .. 51.35..
सप्त चैवाभवन् विप्रा याभिः सङ्कर्षिताः प्रजाः । यस्माद् विश्वमिदं कृत्स्नं वामनेन महात्मना ॥ ५१.३६॥
सप्त च एव अभवन् विप्राः याभिः सङ्कर्षिताः प्रजाः । यस्मात् विश्वम् इदम् कृत्स्नम् वामनेन महात्मना ॥ ५१।३६॥
sapta ca eva abhavan viprāḥ yābhiḥ saṅkarṣitāḥ prajāḥ . yasmāt viśvam idam kṛtsnam vāmanena mahātmanā .. 51.36..
तस्मात् सर्वैः स्मृतो विष्णु र्विधेर्द्धातोः प्रवेशनात् । एष सर्वं सृजत्यादौ पाति हन्ति च केशवः ॥ ५१.३७॥
तस्मात् सर्वैः स्मृतः विष्णुः र् विधेः धातोः प्रवेशनात् । एष सर्वम् सृजति आदौ पाति हन्ति च केशवः ॥ ५१।३७॥
tasmāt sarvaiḥ smṛtaḥ viṣṇuḥ r vidheḥ dhātoḥ praveśanāt . eṣa sarvam sṛjati ādau pāti hanti ca keśavaḥ .. 51.37..
भूतान्तरात्मा भगवान् नारायण इति श्रुतिः । एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः ॥ ५१.३८॥
भूत-अन्तरात्मा भगवान् नारायणः इति श्रुतिः । एक-अंशेन जगत् सर्वम् व्याप्य नारायणः स्थितः ॥ ५१।३८॥
bhūta-antarātmā bhagavān nārāyaṇaḥ iti śrutiḥ . eka-aṃśena jagat sarvam vyāpya nārāyaṇaḥ sthitaḥ .. 51.38..
चतुर्द्धा संस्थितो व्यापी सगुणो निर्गुणोऽपि च । एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवाऽमला ॥ ५१.३९॥
चतुर्द्धा संस्थितः व्यापी स गुणः निर्गुणः अपि च । एका भगवतः मूर्त्तिः ज्ञान-रूपा शिवा अमला ॥ ५१।३९॥
caturddhā saṃsthitaḥ vyāpī sa guṇaḥ nirguṇaḥ api ca . ekā bhagavataḥ mūrttiḥ jñāna-rūpā śivā amalā .. 51.39..
वासुदेवाभिधाना सा गुणातीता सुनिष्कला । द्वितीया कालसंज्ञाऽन्या तामसी शिवसंज्ञिता ॥ ५१.४॥
वासुदेव-अभिधाना सा गुण-अतीता सु निष्कला । द्वितीया काल-संज्ञा अन्या तामसी शिव-संज्ञिता ॥ ५१।४॥
vāsudeva-abhidhānā sā guṇa-atītā su niṣkalā . dvitīyā kāla-saṃjñā anyā tāmasī śiva-saṃjñitā .. 51.4..
निहन्ति सकलं चान्ते वैष्णवी परमा तनुः । सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता ॥ ५१.४१॥
निहन्ति सकलम् च अन्ते वैष्णवी परमा तनुः । सत्त्व-उद्रिक्ता तथा एव अन्या प्रद्युम्न-इति च संज्ञिता ॥ ५१।४१॥
nihanti sakalam ca ante vaiṣṇavī paramā tanuḥ . sattva-udriktā tathā eva anyā pradyumna-iti ca saṃjñitā .. 51.41..
जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा । चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मेति संज्ञिता ॥ ५१.४२॥
जगत् स्थापयते सर्वम् स विष्णुः प्रकृतिः ध्रुवा । चतुर्थी वासुदेवस्य मूर्त्तिः ब्राह्मा इति संज्ञिता ॥ ५१।४२॥
jagat sthāpayate sarvam sa viṣṇuḥ prakṛtiḥ dhruvā . caturthī vāsudevasya mūrttiḥ brāhmā iti saṃjñitā .. 51.42..
राजसी चानिरुद्धस्य पुरषः सृष्टिकारिता । यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः ॥ ५१.४३॥
राजसी च अनिरुद्धस्य पुरषः सृष्टि-कारि-ता । यः स्वपिति अखिलम् भूत्वा प्रद्युम्नेन सह प्रभुः ॥ ५१।४३॥
rājasī ca aniruddhasya puraṣaḥ sṛṣṭi-kāri-tā . yaḥ svapiti akhilam bhūtvā pradyumnena saha prabhuḥ .. 51.43..
नारायणाख्यो ब्रह्माऽसौ प्रजासर्गं करोति सः । या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वरः ॥ ५१.४४॥
नारायण-आख्यः ब्रह्मा असौ प्रजा-सर्गम् करोति सः । या सा नारायण-तनुः प्रद्युम्न-आख्या मुनि-ईश्वरः ॥ ५१।४४॥
nārāyaṇa-ākhyaḥ brahmā asau prajā-sargam karoti saḥ . yā sā nārāyaṇa-tanuḥ pradyumna-ākhyā muni-īśvaraḥ .. 51.44..
तया संमोहयेद् विश्वं सदेवासुरमानुषम् । सैव सर्वजगन्मूर्तिः प्रकृतिः परिकीर्त्तिता ॥ ५१.४५॥
तया संमोहयेत् विश्वम् स देव-असुर-मानुषम् । सा एव सर्व-जगत्-मूर्तिः प्रकृतिः परिकीर्त्तिता ॥ ५१।४५॥
tayā saṃmohayet viśvam sa deva-asura-mānuṣam . sā eva sarva-jagat-mūrtiḥ prakṛtiḥ parikīrttitā .. 51.45..
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः । प्रधानं पुरुषः कालसत्त्वत्रयमनुत्तमम् ॥ ५१.४६॥
वासुदेवः हि अनन्त-आत्मा केवलः निर्गुणः हरिः । प्रधानम् पुरुषः काल-सत्त्व-त्रयम् अनुत्तमम् ॥ ५१।४६॥
vāsudevaḥ hi ananta-ātmā kevalaḥ nirguṇaḥ hariḥ . pradhānam puruṣaḥ kāla-sattva-trayam anuttamam .. 51.46..
वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते । एकं चेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ॥ ५१.४७॥
वासुदेव-आत्मकम् नित्यम् एतत् विज्ञाय मुच्यते । एकम् च इदम् चतुष्पादम् चतुर्द्धा पुनर् अच्युतः ॥ ५१।४७॥
vāsudeva-ātmakam nityam etat vijñāya mucyate . ekam ca idam catuṣpādam caturddhā punar acyutaḥ .. 51.47..
बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः । कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ॥ ५१.४८॥
बिभेद वासुदेवः असौ प्रद्युम्नः हरिः अव्ययः । कृष्णद्वैपायनः व्यासः विष्णुः नारायणः स्वयम् ॥ ५१।४८॥
bibheda vāsudevaḥ asau pradyumnaḥ hariḥ avyayaḥ . kṛṣṇadvaipāyanaḥ vyāsaḥ viṣṇuḥ nārāyaṇaḥ svayam .. 51.48..
अपान्तरतमाः पूर्वं स्वेच्छया भगवान्हरिः । अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ॥ ५१.४९॥
अपान्तरतमाः पूर्वम् स्व-इच्छया भगवान् हरिः । अनादि-अन्तम् परम् ब्रह्म न देवाः न ऋषयः विदुः ॥ ५१।४९॥
apāntaratamāḥ pūrvam sva-icchayā bhagavān hariḥ . anādi-antam param brahma na devāḥ na ṛṣayaḥ viduḥ .. 51.49..
एकोऽयं वेद भगवान् व्यासो नारायणः प्रभुः । इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुंगवाः । एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥ ५१.५॥
एकः अयम् वेद भगवान् व्यासः नारायणः प्रभुः । इति एतत् विष्णु-माहात्म्यम् उक्तम् वः मुनि-पुंगवाः । एतत् सत्यम् पुनर् सत्यम् एवम् ज्ञात्वा न मुह्यति ॥ ५१।५॥
ekaḥ ayam veda bhagavān vyāsaḥ nārāyaṇaḥ prabhuḥ . iti etat viṣṇu-māhātmyam uktam vaḥ muni-puṃgavāḥ . etat satyam punar satyam evam jñātvā na muhyati .. 51.5..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे एकपञ्चाशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ekapañcāśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In