| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
अस्मिन् मन्वन्तरे पूर्वं वर्त्तमाने महान् विभुः । द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥ ५२.१॥
अस्मिन् मन्वन्तरे पूर्वम् वर्त्तमाने महान् विभुः । द्वापरे प्रथमे व्यासः मनुः स्वायंभुवः मतः ॥ ५२।१॥
asmin manvantare pūrvam varttamāne mahān vibhuḥ . dvāpare prathame vyāsaḥ manuḥ svāyaṃbhuvaḥ mataḥ .. 52.1..
बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ ५२.२॥
बिभेद बहुधा वेदम् नियोगात् ब्रह्मणः प्रभोः । द्वितीये द्वापरे च एव वेदव्यासः प्रजापतिः ॥ ५२।२॥
bibheda bahudhā vedam niyogāt brahmaṇaḥ prabhoḥ . dvitīye dvāpare ca eva vedavyāsaḥ prajāpatiḥ .. 52.2..
तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ॥ ५२.३॥
तृतीये च उशनाः व्यासः चतुर्थे स्यात् बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ॥ ५२।३॥
tṛtīye ca uśanāḥ vyāsaḥ caturthe syāt bṛhaspatiḥ . savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrttitaḥ .. 52.3..
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ५२.४॥
सप्तमे च तथा एव इन्द्रः वसिष्ठः च अष्टमे मतः । सारस्वतः च नवमे त्रिधामा दशमे स्मृतः ॥ ५२।४॥
saptame ca tathā eva indraḥ vasiṣṭhaḥ ca aṣṭame mataḥ . sārasvataḥ ca navame tridhāmā daśame smṛtaḥ .. 52.4..
एकादशे तु ऋषभः सुतेजा द्वादशे स्मृतः । त्रयोदशे तथा धर्मः सुचक्षुस्तु चतुर्दशे ॥ ५२.५॥
एकादशे तु ऋषभः सुतेजाः द्वादशे स्मृतः । त्रयोदशे तथा धर्मः सुचक्षुः तु चतुर्दशे ॥ ५२।५॥
ekādaśe tu ṛṣabhaḥ sutejāḥ dvādaśe smṛtaḥ . trayodaśe tathā dharmaḥ sucakṣuḥ tu caturdaśe .. 52.5..
त्रय्यारुणिर्वै पञ्चदशे षोडशे तु धनंजयः । कृतंजयः सप्तदशे ह्यष्टादशे ऋतंजयः ॥ ५२.६॥
त्रय्यारुणिः वै पञ्चदशे षोडशे तु धनंजयः । कृतंजयः सप्तदशे हि अष्टादशे ऋतंजयः ॥ ५२।६॥
trayyāruṇiḥ vai pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ . kṛtaṃjayaḥ saptadaśe hi aṣṭādaśe ṛtaṃjayaḥ .. 52.6..
ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः । वाचश्रवाश्चैकविंशेस्तस्माच्छुष्मायणः परः ॥ ५२.७॥
ततस् व्यासः भरद्वाजः तस्मात् ऊर्ध्वम् तु गौतमः । वाचश्रवाः च एकविंशेः तस्मात् शुष्मायणः परः ॥ ५२।७॥
tatas vyāsaḥ bharadvājaḥ tasmāt ūrdhvam tu gautamaḥ . vācaśravāḥ ca ekaviṃśeḥ tasmāt śuṣmāyaṇaḥ paraḥ .. 52.7..
तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः । पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः॥ ५२.८॥
तृणबिन्दुः त्रयोविंशे वाल्मीकिः तद्-परः स्मृतः । पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः॥ ५२।८॥
tṛṇabinduḥ trayoviṃśe vālmīkiḥ tad-paraḥ smṛtaḥ . pañcaviśe tathā prāpte yasmin vai dvāpare dvijāḥ.. 52.8..
सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः । अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः । पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् । स एव सर्ववेदानां पुराणानां प्रदर्शकः । ५२.९॥ ५२.९॥
सप्तविंशे तथा व्यासः जातूकर्णः महा-मुनिः । अष्टाविंशे पुनर् प्राप्ते हि अस्मिन् वै द्वापरे द्विजाः । पराशर-सुतः व्यासः कृष्णद्वैपायनः अभवत् । सः एव सर्व-वेदानाम् पुराणानाम् प्रदर्शकः । ५२।९॥ ५२।९॥
saptaviṃśe tathā vyāsaḥ jātūkarṇaḥ mahā-muniḥ . aṣṭāviṃśe punar prāpte hi asmin vai dvāpare dvijāḥ . parāśara-sutaḥ vyāsaḥ kṛṣṇadvaipāyanaḥ abhavat . saḥ eva sarva-vedānām purāṇānām pradarśakaḥ . 52.9.. 52.9..
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः । आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम्॥ ५२.१॥
पाराशर्यः महा-योगी कृष्णद्वैपायनः हरिः । आराध्य देवम् ईशानम् दृष्ट्वा स अम्बम् त्रिलोचनम्॥ ५२।१॥
pārāśaryaḥ mahā-yogī kṛṣṇadvaipāyanaḥ hariḥ . ārādhya devam īśānam dṛṣṭvā sa ambam trilocanam.. 52.1..
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ५२.११॥
तद्-प्रसादात् असौ व्यासम् वेदानाम् अकरोत् प्रभुः ॥ ५२।११॥
tad-prasādāt asau vyāsam vedānām akarot prabhuḥ .. 52.11..
अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् । जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ॥ ५२.१२॥
अथ शिष्यान् प्रिजग्राह चतुरः वेदपारगान् । जैमिनिम् च सुमन्तुम् च वैशम्पायनम् एव च ॥ ५२।१२॥
atha śiṣyān prijagrāha caturaḥ vedapāragān . jaiminim ca sumantum ca vaiśampāyanam eva ca .. 52.12..
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः । ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ॥ ५२.१३॥
पैलम् तेषाम् चतुर्थम् च पञ्चमम् माम् महा-मुनिः । ऋग्वेद-श्रावकम् पैलम् जग्राह स महा-मुनिः ॥ ५२।१३॥
pailam teṣām caturtham ca pañcamam mām mahā-muniḥ . ṛgveda-śrāvakam pailam jagrāha sa mahā-muniḥ .. 52.13..
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च । जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ॥ ५२.१४॥
यजुर्वेद-प्रवक्तारम् वैशम्पायनम् एव च । जैमिनिम् सामवेदस्य श्रावकम् सः उन्वपद्यत ॥ ५२।१४॥
yajurveda-pravaktāram vaiśampāyanam eva ca . jaiminim sāmavedasya śrāvakam saḥ unvapadyata .. 52.14..
तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ ५२.१५॥
तथा एव अथर्ववेदस्य सुमन्तुम् ऋषि-सत्तमम् । इतिहास-पुराणानि प्रवक्तुम् माम् अयोजयत् ॥ ५२।१५॥
tathā eva atharvavedasya sumantum ṛṣi-sattamam . itihāsa-purāṇāni pravaktum mām ayojayat .. 52.15..
एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूद् तस्मिंस्तेन यज्ञमथाकरोत् ॥ ५२.१६॥
एकः आसीत् यजुर्वेदः तम् चतुर्द्धा व्यकल्पयत् । चातुर्होत्रम् अभूत् तस्मिन् तेन यज्ञम् अथ अकरोत् ॥ ५२।१६॥
ekaḥ āsīt yajurvedaḥ tam caturddhā vyakalpayat . cāturhotram abhūt tasmin tena yajñam atha akarot .. 52.16..
आध्वर्यवं यजुर्भिः स्यादृग्निहोत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ५२.१७॥
आध्वर्यवम् यजुर्भिः स्यात् ऋग्निहोत्रम् द्विजोत्तमाः । औद्गात्रम् सामभिः चक्रे ब्रह्मत्वम् च अपि अथर्वभिः ॥ ५२।१७॥
ādhvaryavam yajurbhiḥ syāt ṛgnihotram dvijottamāḥ . audgātram sāmabhiḥ cakre brahmatvam ca api atharvabhiḥ .. 52.17..
ततः सत्रेच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ ५२.१८॥
ततस् सत्रेचः उद्धृत्य ऋग्वेदम् कृतवान् प्रभुः । यजूंषि च यजुर्वेदम् सामवेदम् च सामभिः ॥ ५२।१८॥
tatas satrecaḥ uddhṛtya ṛgvedam kṛtavān prabhuḥ . yajūṃṣi ca yajurvedam sāmavedam ca sāmabhiḥ .. 52.18..
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ ५२.१९॥
एकविंशति-भेदेन ऋग्वेदम् कृतवान् पुरा । शाखानाम् तु शतेन एव यजुर्वेदम् अथ अकरोत् ॥ ५२।१९॥
ekaviṃśati-bhedena ṛgvedam kṛtavān purā . śākhānām tu śatena eva yajurvedam atha akarot .. 52.19..
सामवेदं सहस्रेण शाखानां प्रबिभेद सः । अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ ५२.२॥
सामवेदम् सहस्रेण शाखानाम् प्रबिभेद सः । अथर्वाणम् अथो वेदम् बिभेद नवकेन तु ॥ ५२।२॥
sāmavedam sahasreṇa śākhānām prabibheda saḥ . atharvāṇam atho vedam bibheda navakena tu .. 52.2..
भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ॥ ५२.२१॥
भेदैः अष्टादशैः व्यासः पुराणम् कृतवान् प्रभुः । सः अयम् एकः चतुष्पादः वेदः पूर्वम् पुरातनः ॥ ५२।२१॥
bhedaiḥ aṣṭādaśaiḥ vyāsaḥ purāṇam kṛtavān prabhuḥ . saḥ ayam ekaḥ catuṣpādaḥ vedaḥ pūrvam purātanaḥ .. 52.21..
ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः । वेदविद्यो ऽथ भगवान् वासुदेवः सनातनः ॥ ५२.२२॥
ओङ्कारः ब्रह्मणः जातः सर्व-दोष-विशोधनः । वेद-विद्यः अथ भगवान् वासुदेवः सनातनः ॥ ५२।२२॥
oṅkāraḥ brahmaṇaḥ jātaḥ sarva-doṣa-viśodhanaḥ . veda-vidyaḥ atha bhagavān vāsudevaḥ sanātanaḥ .. 52.22..
स गीयते परो वेदे यो वेदैनं स वेदवित् । एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ ५२.२३॥
स गीयते परः वेदे यः वेद एनम् स वेद-विद् । एतत् परतरम् ब्रह्म ज्योतिः आनन्दम् उत्तमम् ॥ ५२।२३॥
sa gīyate paraḥ vede yaḥ veda enam sa veda-vid . etat parataram brahma jyotiḥ ānandam uttamam .. 52.23..
वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् । वेदविद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ ५२.२४॥
वेद-वाक्य-उदितम् तत्त्वम् वासुदेवः परम् पदम् । वेद-विद्यम् इमम् वेत्ति वेदम् वेद-परः मुनिः ॥ ५२।२४॥
veda-vākya-uditam tattvam vāsudevaḥ param padam . veda-vidyam imam vetti vedam veda-paraḥ muniḥ .. 52.24..
अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स वेदवेद्यो भगवान् वेदमूर्त्तिर्महेश्वरः॥ ५२.२५॥
अ वेदम् परमम् वेत्ति वेद-निष्ठः सदा ईश्वरः । स वेद-वेद्यः भगवान् वेदमूर्त्तिः महेश्वरः॥ ५२।२५॥
a vedam paramam vetti veda-niṣṭhaḥ sadā īśvaraḥ . sa veda-vedyaḥ bhagavān vedamūrttiḥ maheśvaraḥ.. 52.25..
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते । इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदं च विजानाति पाराशर्यो महामुनिः ॥ ५२.२६॥
सः एव वेदः वेद्यः च तम् एव आश्रित्य मुच्यते । वेद्यम् ओङ्कारम् वेदम् अव्ययम् । अ वेदम् च विजानाति पाराशर्यः महा-मुनिः ॥ ५२।२६॥
saḥ eva vedaḥ vedyaḥ ca tam eva āśritya mucyate . vedyam oṅkāram vedam avyayam . a vedam ca vijānāti pārāśaryaḥ mahā-muniḥ .. 52.26..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वापञ्चाशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे द्वापञ्चाशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge dvāpañcāśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In