| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ श्रृणुत सुव्रताः ॥ ५३.१॥
वेदव्यास-अवताराणि द्वापरे कथितानि तु । महादेव-अवताराणि कलौ श्रृणुत सुव्रताः ॥ ५३।१॥
vedavyāsa-avatārāṇi dvāpare kathitāni tu . mahādeva-avatārāṇi kalau śrṛṇuta suvratāḥ .. 53.1..
आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद् वैवस्वतेऽन्तरे ॥ ५३.२॥
आद्ये कलि-युगे श्वेतः देवदेवः महा-द्युतिः । नाम्ना हिताय विप्राणाम् अभूत् वैवस्वते अन्तरे ॥ ५३।२॥
ādye kali-yuge śvetaḥ devadevaḥ mahā-dyutiḥ . nāmnā hitāya viprāṇām abhūt vaivasvate antare .. 53.2..
हिमवच्छिखरे रम्ये सकले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ ५३.३॥
हिमवत्-शिखरे रम्ये सकले पर्वत-उत्तमे । तस्य शिष्याः शिखा-युक्ताः वभूवुः अमित-प्रभाः ॥ ५३।३॥
himavat-śikhare ramye sakale parvata-uttame . tasya śiṣyāḥ śikhā-yuktāḥ vabhūvuḥ amita-prabhāḥ .. 53.3..
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ५३.४॥
श्वेतः श्वेतशिखः च एव श्वेतास्यः श्वेतलोहितः । चत्वारः ते महात्मानः ब्राह्मणाः वेदपारगाः ॥ ५३।४॥
śvetaḥ śvetaśikhaḥ ca eva śvetāsyaḥ śvetalohitaḥ . catvāraḥ te mahātmānaḥ brāhmaṇāḥ vedapāragāḥ .. 53.4..
सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिस्त्वथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ ५३.५॥
सुभावः दमनः च अथ सुहोत्रः कङ्कणः तथा । लोकाक्षिः तु अथ योगि-इन्द्रः जैगीषव्यः तु सप्तमे ॥ ५३।५॥
subhāvaḥ damanaḥ ca atha suhotraḥ kaṅkaṇaḥ tathā . lokākṣiḥ tu atha yogi-indraḥ jaigīṣavyaḥ tu saptame .. 53.5..
अष्टमे दधिवाहः स्यान्नवमे ऋषभः प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः पुरः स्मृतः ॥ ५३.६॥
अष्टमे दधिवाहः स्यात् नवमे ऋषभः प्रभुः । भृगुः तु दशमे प्रोक्तः तस्मात् उग्रः पुरस् स्मृतः ॥ ५३।६॥
aṣṭame dadhivāhaḥ syāt navame ṛṣabhaḥ prabhuḥ . bhṛguḥ tu daśame proktaḥ tasmāt ugraḥ puras smṛtaḥ .. 53.6..
द्वादशेऽति समाख्यातो बाली वाथ त्रयोदशे । चतुर्दशे गौतमस्तु वेदद्रर्शी ततः परम् ॥ ५३.७॥
द्वादशे अति समाख्यातः बाली वा अथ त्रयोदशे । चतुर्दशे गौतमः तु वेदद्रर्शी ततस् परम् ॥ ५३।७॥
dvādaśe ati samākhyātaḥ bālī vā atha trayodaśe . caturdaśe gautamaḥ tu vedadrarśī tatas param .. 53.7..
गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्डधृक् । जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ ५३.८॥
गोकर्णः च अभवत् तस्मात् गुहावासः शिखण्डधृक् । जटामाली अट्टहासः च दारुकः लाङ्गली क्रमात् ॥ ५३।८॥
gokarṇaḥ ca abhavat tasmāt guhāvāsaḥ śikhaṇḍadhṛk . jaṭāmālī aṭṭahāsaḥ ca dārukaḥ lāṅgalī kramāt .. 53.8..
श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नकुलीशोऽन्तिमे प्रभुः ॥ ५३.९॥
श्वेतः तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नकुलीशः अन्तिमे प्रभुः ॥ ५३।९॥
śvetaḥ tathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt . sahiṣṇuḥ somaśarmā ca nakulīśaḥ antime prabhuḥ .. 53.9..
वैवस्वतेऽन्तरे शंभोरवतारास्त्रिशूलिनः । अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः । तीर्थे कार्यावतारे स्याद् देवेशो नकुलीश्वरः ॥ ५३.१॥
वैवस्वते अन्तरे शंभोः अवताराः त्रिशूलिनः । अष्टाविंशतिः आख्याता हि अन्ते कलि-युगे प्रभोः । तीर्थे कार्य-अवतारे स्यात् देवेशः नकुली ईश्वरः ॥ ५३।१॥
vaivasvate antare śaṃbhoḥ avatārāḥ triśūlinaḥ . aṣṭāviṃśatiḥ ākhyātā hi ante kali-yuge prabhoḥ . tīrthe kārya-avatāre syāt deveśaḥ nakulī īśvaraḥ .. 53.1..
प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः । क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ ५३.११॥
प्रसन्न-मनसः दान्ताः ऐश्वरीम् भक्तिम् आश्रिताः । क्रमेण तान् प्रवक्ष्यामि योगिनः योग-वित्तमान् ॥ ५३।११॥
prasanna-manasaḥ dāntāḥ aiśvarīm bhaktim āśritāḥ . krameṇa tān pravakṣyāmi yoginaḥ yoga-vittamān .. 53.11..
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा । विकेशश्च विशोकश्च विपापश्शापनाशनः ॥ ५३.१२॥
श्वेतः श्वेतशिखः च एव श्वेतास्यः श्वेतलोहितः । दुन्दुभिः शतरूपः च ऋचीकः केतुमन्त् तथा । विकेशः च विशोकः च विपापः शापनाशनः ॥ ५३।१२॥
śvetaḥ śvetaśikhaḥ ca eva śvetāsyaḥ śvetalohitaḥ . dundubhiḥ śatarūpaḥ ca ṛcīkaḥ ketumant tathā . vikeśaḥ ca viśokaḥ ca vipāpaḥ śāpanāśanaḥ .. 53.12..
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः । सनकः सनातनश्चैव तथैवच सनन्दनः ॥ ५३.१३॥
सुमुखः दुर्मुखः च एव दुर्दमः दुरतिक्रमः । सनकः सनातनः च एव तथा एव च सनन्दनः ॥ ५३।१३॥
sumukhaḥ durmukhaḥ ca eva durdamaḥ duratikramaḥ . sanakaḥ sanātanaḥ ca eva tathā eva ca sanandanaḥ .. 53.13..
दालभ्यश्च महायोगी धर्मात्मनो महौजसः । सुधामा विरजाश्चैव शङ्खवाण्यज एव च ॥ ५३.१४॥
दालभ्यः च महा-योगी धर्म-आत्मनः महा-ओजसः । सुधामा विरजाः च एव शङ्खवाणी अजः एव च ॥ ५३।१४॥
dālabhyaḥ ca mahā-yogī dharma-ātmanaḥ mahā-ojasaḥ . sudhāmā virajāḥ ca eva śaṅkhavāṇī ajaḥ eva ca .. 53.14..
सारस्वतस्तथा मोघो घनवाहः सुवाहनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ ५३.१५॥
सारस्वतः तथा मोघः घनवाहः सुवाहनः । कपिलः च आसुरिः च एव वोढुः पञ्चशिखः मुनिः ॥ ५३।१५॥
sārasvataḥ tathā moghaḥ ghanavāhaḥ suvāhanaḥ . kapilaḥ ca āsuriḥ ca eva voḍhuḥ pañcaśikhaḥ muniḥ .. 53.15..
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनाः ॥ ५३.१६॥
पराशरः च गर्गः च भार्गवः च अङ्गिराः तथा । बलबन्धुः निरामित्रः केतुश्रृङ्गः तपोधनाः ॥ ५३।१६॥
parāśaraḥ ca gargaḥ ca bhārgavaḥ ca aṅgirāḥ tathā . balabandhuḥ nirāmitraḥ ketuśrṛṅgaḥ tapodhanāḥ .. 53.16..
लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः । सर्वज्ञः समबुद्धिश्च साध्या साध्यस्तथैव च ॥ ५३.१७॥
लम्बोदरः च लम्बः च लाम्बाक्षः लम्बकेशकः । सर्वज्ञः समबुद्धिः च साध्या साध्यः तथा एव च ॥ ५३।१७॥
lambodaraḥ ca lambaḥ ca lāmbākṣaḥ lambakeśakaḥ . sarvajñaḥ samabuddhiḥ ca sādhyā sādhyaḥ tathā eva ca .. 53.17..
शुधामा काश्यपश्चैव वसिष्ठो वारिजास्तथा । अत्रिरुग्रस्तथा चैव श्रवणोऽथ सुवैद्यकः ॥ ५३.१८॥
काश्यपः च एव वसिष्ठः वारिजाः तथा । अत्रिः उग्रः तथा च एव श्रवणः अथ सुवैद्यकः ॥ ५३।१८॥
kāśyapaḥ ca eva vasiṣṭhaḥ vārijāḥ tathā . atriḥ ugraḥ tathā ca eva śravaṇaḥ atha suvaidyakaḥ .. 53.18..
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः । कश्यपोह्युशना चैव च्यवनोऽथ बृहस्पतिः ॥ ५३.१९॥
कुणिः च कुणिबाहुः च कुशरीरः कुनेत्रकः । कश्यपः उहि उशना च एव च्यवनः अथ बृहस्पतिः ॥ ५३।१९॥
kuṇiḥ ca kuṇibāhuḥ ca kuśarīraḥ kunetrakaḥ . kaśyapaḥ uhi uśanā ca eva cyavanaḥ atha bṛhaspatiḥ .. 53.19..
उतथ्यो वामदेवश्च महाकायो महानिलिः । वाचश्रवाः सुपीकश्च श्यावाश्वः सुपथीश्वरः ॥ ५३.२॥
उतथ्यः वामदेवः च महाकायः महानिलिः । वाचश्रवाः सुपीकः च श्यावाश्वः सुपथीश्वरः ॥ ५३।२॥
utathyaḥ vāmadevaḥ ca mahākāyaḥ mahāniliḥ . vācaśravāḥ supīkaḥ ca śyāvāśvaḥ supathīśvaraḥ .. 53.2..
हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । सुमन्तुर्वर्चसो विद्वान् कबन्धः कुषिकन्धरः ॥ ५३.२१॥
हरिण्यनाभः कौशल्यः लोकाक्षिः कुथुमिः तथा । सुमन्तुः वर्चसः विद्वान् कबन्धः कुषिकन्धरः ॥ ५३।२१॥
hariṇyanābhaḥ kauśalyaḥ lokākṣiḥ kuthumiḥ tathā . sumantuḥ varcasaḥ vidvān kabandhaḥ kuṣikandharaḥ .. 53.21..
प्लक्षो दार्वायणिश्चैव केतुमान् गौतमस्तथा । भल्लाची मधुपिङ्गश्च श्वेतकेतुस्तपोधनः ॥ ५३.२२॥
प्लक्षः दार्वायणिः च एव केतुमान् गौतमः तथा । भल्लाची मधुपिङ्गः च श्वेतकेतुः तपोधनः ॥ ५३।२२॥
plakṣaḥ dārvāyaṇiḥ ca eva ketumān gautamaḥ tathā . bhallācī madhupiṅgaḥ ca śvetaketuḥ tapodhanaḥ .. 53.22..
उषिधा बृहद्रक्षश्च देवलः कविरेव च । शालहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ ५३.२३॥
उषिधा बृहद्रक्षः च देवलः कविः एव च । शालहोत्रः अग्निवेश्यः च युवनाश्वः शरद्वसुः ॥ ५३।२३॥
uṣidhā bṛhadrakṣaḥ ca devalaḥ kaviḥ eva ca . śālahotraḥ agniveśyaḥ ca yuvanāśvaḥ śaradvasuḥ .. 53.23..
छगलः कुण्डकर्णश्च कुन्तश्चैव प्रवाहकः । उलूको विद्युतश्चैव शाद्रको ह्याश्वलायनः ॥ ५३.२४॥
छगलः कुण्डकर्णः च कुन्तः च एव प्रवाहकः । उलूकः विद्युतः च एव शाद्रकः हि आश्वलायनः ॥ ५३।२४॥
chagalaḥ kuṇḍakarṇaḥ ca kuntaḥ ca eva pravāhakaḥ . ulūkaḥ vidyutaḥ ca eva śādrakaḥ hi āśvalāyanaḥ .. 53.24..
अक्षपादः कुमारश्च उलूको वत्स एव च । कुशिकश्चैव गर्गश्च मित्रको रुरुरेव च ॥ ५३.२५॥
अक्षपादः कुमारः च उलूकः वत्सः एव च । कुशिकः च एव गर्गः च मित्रकः रुरुः एव च ॥ ५३।२५॥
akṣapādaḥ kumāraḥ ca ulūkaḥ vatsaḥ eva ca . kuśikaḥ ca eva gargaḥ ca mitrakaḥ ruruḥ eva ca .. 53.25..
शिष्या एते महात्मानः सर्वोवर्त्तेषु योगिनाम् । विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ ५३.२६॥
शिष्याः एते महात्मानः योगिनाम् । विमलाः ब्रह्म-भूयिष्ठाः ज्ञान-योग-परायणाः ॥ ५३।२६॥
śiṣyāḥ ete mahātmānaḥ yoginām . vimalāḥ brahma-bhūyiṣṭhāḥ jñāna-yoga-parāyaṇāḥ .. 53.26..
कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि । योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ ५३.२७॥
कुर्वन्ति च अवताराणि ब्राह्मणानाम् हिताय हि । योग-ईश्वराणाम् आदेशात् वेद-संस्थापनाय वै ॥ ५३।२७॥
kurvanti ca avatārāṇi brāhmaṇānām hitāya hi . yoga-īśvarāṇām ādeśāt veda-saṃsthāpanāya vai .. 53.27..
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ ५३.२८॥
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । तर्पयन्ति अर्चयन्ति एतान् ब्रह्म-विद्याम् अवाप्नुयुः ॥ ५३।२८॥
ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā . tarpayanti arcayanti etān brahma-vidyām avāpnuyuḥ .. 53.28..
इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु । भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ ५३.२९॥
इदम् वैवस्वतम् प्रोक्तम् अन्तरम् विस्तरेण तु । भविष्यति च सावर्णः दक्षसावर्णः एव च ॥ ५३।२९॥
idam vaivasvatam proktam antaram vistareṇa tu . bhaviṣyati ca sāvarṇaḥ dakṣasāvarṇaḥ eva ca .. 53.29..
दशमो ब्रह्मसावर्णो धर्म एकादश स्मृतः। द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ॥ ५३.३॥
दशमः ब्रह्मसावर्णः धर्मः एकादश स्मृतः। द्वादशः रुद्रसावर्णः रोचमानः त्रयोदशः ॥ ५३।३॥
daśamaḥ brahmasāvarṇaḥ dharmaḥ ekādaśa smṛtaḥ. dvādaśaḥ rudrasāvarṇaḥ rocamānaḥ trayodaśaḥ .. 53.3..
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् । अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः॥ ५३.३१॥
भौत्यः चतुर्दशः प्रोक्तः भविष्याः मनवः क्रमात् । अयम् वः कथितः हि अंशः पूर्वः नारायण-ईरितः॥ ५३।३१॥
bhautyaḥ caturdaśaḥ proktaḥ bhaviṣyāḥ manavaḥ kramāt . ayam vaḥ kathitaḥ hi aṃśaḥ pūrvaḥ nārāyaṇa-īritaḥ.. 53.31..
भूतैर्भव्यैर्वर्त्तमानैराख्यानैरुपबृंहितः । यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान्॥ ५३.३२॥
भूतैः भव्यैः वर्त्तमानैः आख्यानैः उपबृंहितः । यः पठेत् शृणुयात् वा अपि श्रावयेत् वा द्विजोत्तमान्॥ ५३।३२॥
bhūtaiḥ bhavyaiḥ varttamānaiḥ ākhyānaiḥ upabṛṃhitaḥ . yaḥ paṭhet śṛṇuyāt vā api śrāvayet vā dvijottamān.. 53.32..
सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते । पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ॥ ५३.३३॥
सर्व-पाप-विनिर्मुक्तः ब्रह्मणा सह मोदते । पठेत् देवालये स्नात्वा नदी-तीरेषु च एव हि ॥ ५३।३३॥
sarva-pāpa-vinirmuktaḥ brahmaṇā saha modate . paṭhet devālaye snātvā nadī-tīreṣu ca eva hi .. 53.33..
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् । नमो देवादिदेवाय देवानां परमात्मने । पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ ५३.३४॥
नारायणम् नमस्कृत्य भावेन पुरुषोत्तमम् । नमः देव-आदिदेवाय देवानाम् परमात्मने । पुरुषाय पुराणाय विष्णवे कूर्म-रूपिणे ॥ ५३।३४॥
nārāyaṇam namaskṛtya bhāvena puruṣottamam . namaḥ deva-ādidevāya devānām paramātmane . puruṣāya purāṇāya viṣṇave kūrma-rūpiṇe .. 53.34..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिपञ्चाशोऽध्यायः ॥ ५३.३५॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रिपञ्चाशः अध्यायः ॥ ५३।३५॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge tripañcāśaḥ adhyāyaḥ .. 53.35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In