| |
|

This overlay will guide you through the buttons:

अथ पृथिव्युद्धारः । श्रीकूर्म उवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ ६.१॥
आसीत् एकार्णवम् घोरम् अविभागम् तमः-मयम् । शान्त-वात-आदिकम् सर्वम् न प्रज्ञायत किञ्चन ॥ ६।१॥
āsīt ekārṇavam ghoram avibhāgam tamaḥ-mayam . śānta-vāta-ādikam sarvam na prajñāyata kiñcana .. 6.1..
एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे । तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ॥ ६.२॥
एकार्णवे तदा तस्मिन् नष्टे स्थावर-जङ्गमे । तदा समभवत् ब्रह्मा सहस्त्राक्षः सहस्त्रपाद् ॥ ६।२॥
ekārṇave tadā tasmin naṣṭe sthāvara-jaṅgame . tadā samabhavat brahmā sahastrākṣaḥ sahastrapād .. 6.2..
सहस्त्रशीर्षा पुरुषो रुक्मवर्णोह्यतीन्द्रियः । ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ ६.३॥
सहस्त्र-शीर्षा पुरुषः रुक्म-वर्णः हि अतीन्द्रियः । ब्रह्मा नारायण-आख्यः तु सुष्वाप सलिले तदा ॥ ६।३॥
sahastra-śīrṣā puruṣaḥ rukma-varṇaḥ hi atīndriyaḥ . brahmā nārāyaṇa-ākhyaḥ tu suṣvāpa salile tadā .. 6.3..
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाव्ययम् ॥ ६.४॥
इमम् च उदाहरन्ति अत्र श्लोकम् नारायणम् प्रति । ब्रह्म-स्वरूपिणम् देवम् जगतः प्रभव-अव्ययम् ॥ ६।४॥
imam ca udāharanti atra ślokam nārāyaṇam prati . brahma-svarūpiṇam devam jagataḥ prabhava-avyayam .. 6.4..
आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ॥ ६.५॥
आपः नाराः इति प्रोक्ताः नाम्ना पूर्वम् इति श्रुतिः । अयनम् तस्य ताः यस्मात् तेन नारायणः स्मृतः ॥ ६।५॥
āpaḥ nārāḥ iti proktāḥ nāmnā pūrvam iti śrutiḥ . ayanam tasya tāḥ yasmāt tena nārāyaṇaḥ smṛtaḥ .. 6.5..
तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६.६॥
तुल्यम् युग-सहस्त्रस्य नैशम् कालम् उपास्य सः । शर्वरी-अन्ते प्रकुरुते ब्रह्म-त्वम् सर्ग-कारणात् ॥ ६।६॥
tulyam yuga-sahastrasya naiśam kālam upāsya saḥ . śarvarī-ante prakurute brahma-tvam sarga-kāraṇāt .. 6.6..
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात् तदुद्धारं कर्त्तुकामः प्रजापतिः ॥ ६.७॥
ततस् तु सलिले तस्मिन् विज्ञाय अन्तर्गताम् महीम् । अनुमानात् तद्-उद्धारम् कर्त्तु-कामः प्रजापतिः ॥ ६।७॥
tatas tu salile tasmin vijñāya antargatām mahīm . anumānāt tad-uddhāram karttu-kāmaḥ prajāpatiḥ .. 6.7..
जलक्रीडासु रुचिरं वाराहं रुपमास्थितः । अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम् ॥ ६.८॥
जल-क्रीडासु रुचिरम् वाराहम् रुपम् आस्थितः । अधृष्यम् मनसा अपि अन्यैः वाच्-मयम् ब्रह्म-संज्ञितम् ॥ ६।८॥
jala-krīḍāsu ruciram vārāham rupam āsthitaḥ . adhṛṣyam manasā api anyaiḥ vāc-mayam brahma-saṃjñitam .. 6.8..
पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् । दंष्ट्रयाऽभ्युज्जहारैनामात्माधारो धराधरः ॥ ६.९॥
पृथिवी-उद्धरण-अर्थाय प्रविश्य च रसातलम् । दंष्ट्रया अभ्युज्जहार एनाम् आत्म-आधारः धराधरः ॥ ६।९॥
pṛthivī-uddharaṇa-arthāya praviśya ca rasātalam . daṃṣṭrayā abhyujjahāra enām ātma-ādhāraḥ dharādharaḥ .. 6.9..
दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् । अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ ६.१॥
दृष्ट्वा दंष्ट्र-अग्र-विन्यस्ताम् पृथिवीम् प्रथित-पौरुषम् । अस्तुवन् जन-लोक-स्थाः सिद्धाः ब्रह्मर्षयः हरिम् ॥ ६।१॥
dṛṣṭvā daṃṣṭra-agra-vinyastām pṛthivīm prathita-pauruṣam . astuvan jana-loka-sthāḥ siddhāḥ brahmarṣayaḥ harim .. 6.1..
ऋषय ऊचुः ।
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ६.११॥
नमः ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ६।११॥
namaḥ te devadevāya brahmaṇe parameṣṭhine . puruṣāya purāṇāya śāśvatāya jayāya ca .. 6.11..
नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ ६.१२॥
नमः स्वयंभुवे तुभ्यम् स्त्रष्ट्रे सर्व-अर्थ-वेदिने । नमः हिरण्यगर्भाय वेधसे परमात्मने ॥ ६।१२॥
namaḥ svayaṃbhuve tubhyam straṣṭre sarva-artha-vedine . namaḥ hiraṇyagarbhāya vedhase paramātmane .. 6.12..
नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ ६.१३॥
नमः ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानाम् हित-कारिणे ॥ ६।१३॥
namaḥ te vāsudevāya viṣṇave viśvayonaye . nārāyaṇāya devāya devānām hita-kāriṇe .. 6.13..
नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ ६.१४॥
नमः अस्तु ते चतुर्वक्त्रे शार्ङ्ग-चक्र-असि-धारिणे । सर्व-भूत-आत्म-भूताय कूटस्थाय नमः नमः ॥ ६।१४॥
namaḥ astu te caturvaktre śārṅga-cakra-asi-dhāriṇe . sarva-bhūta-ātma-bhūtāya kūṭasthāya namaḥ namaḥ .. 6.14..
नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ ६.१५॥
नमः वेद-रहस्याय नमः ते वेदयोनये । नमः बुद्धाय शुद्धाय नमः ते ज्ञान-रूपिणे ॥ ६।१५॥
namaḥ veda-rahasyāya namaḥ te vedayonaye . namaḥ buddhāya śuddhāya namaḥ te jñāna-rūpiṇe .. 6.15..
नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ ६.१६॥
नमः अस्तु आनन्द-रूपाय साक्षिणे जगताम् नमः । अनन्ताय अप्रमेयाय कार्याय करणाय च ॥ ६।१६॥
namaḥ astu ānanda-rūpāya sākṣiṇe jagatām namaḥ . anantāya aprameyāya kāryāya karaṇāya ca .. 6.16..
नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ ६.१७॥
नमः ते पञ्चबूताय पञ्चभूत-आत्मने नमः । नमः मूलप्रकृतये माया-रूपाय ते नमः ॥ ६।१७॥
namaḥ te pañcabūtāya pañcabhūta-ātmane namaḥ . namaḥ mūlaprakṛtaye māyā-rūpāya te namaḥ .. 6.17..
नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ ६.१८॥
नमः अस्तु ते वराहाय नमः ते मत्स्य-रूपिणे । नमः योग-अधिगम्याय नमः सकर्षणाय ते ॥ ६।१८॥
namaḥ astu te varāhāya namaḥ te matsya-rūpiṇe . namaḥ yoga-adhigamyāya namaḥ sakarṣaṇāya te .. 6.18..
नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभागिने ॥ ६.१९॥
नमः त्रिमूर्तये तुभ्यम् त्रिधाम्ने दिव्य-तेजसे । नमः सिद्धाय पूज्याय गुणत्रय-विभागिने ॥ ६।१९॥
namaḥ trimūrtaye tubhyam tridhāmne divya-tejase . namaḥ siddhāya pūjyāya guṇatraya-vibhāgine .. 6.19..
तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ॥ ६.२॥
तमः अस्तु आदित्य-वर्णाय नमः ते पद्मयोनये । नमः अमूर्त्ताय मूर्ताय माधवाय नमः नमः ॥ ६।२॥
tamaḥ astu āditya-varṇāya namaḥ te padmayonaye . namaḥ amūrttāya mūrtāya mādhavāya namaḥ namaḥ .. 6.2..
त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ॥ ६.२१॥
त्वया एव सृष्टम् अखिलम् त्वयि एव लयम् एष्यति । पालय एतत् जगत् सर्वम् त्राता त्वम् शरणम् गतिः ॥ ६।२१॥
tvayā eva sṛṣṭam akhilam tvayi eva layam eṣyati . pālaya etat jagat sarvam trātā tvam śaraṇam gatiḥ .. 6.21..
इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत् तेषां वराहवपुरीश्वरः ॥ ६.२२॥
इत्थम् स भगवान् विष्णुः सनक-आद्यैः अभिष्टुतः । प्रसादम् अकरोत् तेषाम् वराह-वपुः-ईश्वरः ॥ ६।२२॥
ittham sa bhagavān viṣṇuḥ sanaka-ādyaiḥ abhiṣṭutaḥ . prasādam akarot teṣām varāha-vapuḥ-īśvaraḥ .. 6.22..
ततः संस्थानमानीय पृथिवीं पृथिवीधरः । मुमोच रूपं मनसा धारयित्वा प्रजापतिः ॥ ६.२३॥
ततस् संस्थानम् आनीय पृथिवीम् पृथिवीधरः । मुमोच रूपम् मनसा धारयित्वा प्रजापतिः ॥ ६।२३॥
tatas saṃsthānam ānīya pṛthivīm pṛthivīdharaḥ . mumoca rūpam manasā dhārayitvā prajāpatiḥ .. 6.23..
तस्योपरि जलौघस्य महतो नौरिव स्थिता । विततत्वाच्च देहस्य न मही याति संप्लवम् ॥ ६.२४॥
तस्य उपरि जल-ओघस्य महतः नौः इव स्थिता । वितत-त्वात् च देहस्य न मही याति संप्लवम् ॥ ६।२४॥
tasya upari jala-oghasya mahataḥ nauḥ iva sthitā . vitata-tvāt ca dehasya na mahī yāti saṃplavam .. 6.24..
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् । प्राक्सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ॥ ६.२५॥
पृथिवीम् तु समीकृत्य पृथिव्याम् सः अचिनोत् गिरीन् । प्राक् सर्ग-दग्धान् अखिलान् ततस् सर्गे अदधत् मनः ॥ ६।२५॥
pṛthivīm tu samīkṛtya pṛthivyām saḥ acinot girīn . prāk sarga-dagdhān akhilān tatas sarge adadhat manaḥ .. 6.25..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः॥ ६॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे षष्ठः अध्यायः॥ ६॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ṣaṣṭhaḥ adhyāyaḥ.. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In