| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच ।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ ७.१॥
सृष्टिम् चिन्तयतः तस्य कल्प-आदिषु यथा पुरा । अ बुद्धि-पूर्वकः सर्गः प्रादुर्भूतः तमः-मयः ॥ ७।१॥
sṛṣṭim cintayataḥ tasya kalpa-ādiṣu yathā purā . a buddhi-pūrvakaḥ sargaḥ prādurbhūtaḥ tamaḥ-mayaḥ .. 7.1..
तमोमोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ ७.२॥
तमोमोहः महामोहः तामिस्त्रः च अन्ध-संज्ञितः । अविद्या पञ्च-पर्वा एषा प्रादुर्भूता महात्मनः ॥ ७।२॥
tamomohaḥ mahāmohaḥ tāmistraḥ ca andha-saṃjñitaḥ . avidyā pañca-parvā eṣā prādurbhūtā mahātmanaḥ .. 7.2..
पञ्चधावस्थितः सर्गो ध्यायतः सोऽभिमानिनः । संवृतस्तमसा चैव बीजकुम्भवदावृतः ॥ ७.३॥
पञ्चधा अवस्थितः सर्गः ध्यायतः सः अभिमानिनः । संवृतः तमसा च एव बीज-कुम्भ-वत् आवृतः ॥ ७।३॥
pañcadhā avasthitaḥ sargaḥ dhyāyataḥ saḥ abhimāninaḥ . saṃvṛtaḥ tamasā ca eva bīja-kumbha-vat āvṛtaḥ .. 7.3..
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंग एव च । मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ ७.४॥
बहिस् अन्तर् च अप्रकाशः स्तब्धः निःसंगः एव च । मुक्याः नगाः इति प्रोक्ताः मुख्य-सर्गः तु स स्मृतः ॥ ७।४॥
bahis antar ca aprakāśaḥ stabdhaḥ niḥsaṃgaḥ eva ca . mukyāḥ nagāḥ iti proktāḥ mukhya-sargaḥ tu sa smṛtaḥ .. 7.4..
तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं प्रभुः । तस्याभिध्यायतः सर्गंस्तिर्यक्स्रोतोऽभ्यवर्तत ॥ ७.५॥
तम् दृष्ट्वा असाधकम् सर्गम् अमन्यत् अपरम् प्रभुः । तस्य अभिध्यायतः सर्गन् तिर्यक्स्रोतः अभ्यवर्तत ॥ ७।५॥
tam dṛṣṭvā asādhakam sargam amanyat aparam prabhuḥ . tasya abhidhyāyataḥ sargan tiryaksrotaḥ abhyavartata .. 7.5..
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्रोतः ततः स्मृतः । पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ ७.६॥
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्रोतः ततस् स्मृतः । पशु-आदयः ते विख्याताः उत्पथ-ग्राहिणः द्विजाः ॥ ७।६॥
yasmāt tiryak pravṛttaḥ sa tiryaksrotaḥ tatas smṛtaḥ . paśu-ādayaḥ te vikhyātāḥ utpatha-grāhiṇaḥ dvijāḥ .. 7.6..
तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह । ऊर्ध्वस्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ ७.७॥
तम् अपि असाधकम् ज्ञात्वा सर्गम् अन्यम् ससर्ज ह । ऊर्ध्वस्रोतः इति प्रोक्तः देव-सर्गः तु सात्त्विकः ॥ ७।७॥
tam api asādhakam jñātvā sargam anyam sasarja ha . ūrdhvasrotaḥ iti proktaḥ deva-sargaḥ tu sāttvikaḥ .. 7.7..
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः । प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः ॥ ७.८॥
ते सुख-प्रीति-बहुलाः बहिस् अन्तर् तु अनावृताः । प्रकाशाः बहिस् अन्तर् च स्वभावात् देव-संज्ञिताः ॥ ७।८॥
te sukha-prīti-bahulāḥ bahis antar tu anāvṛtāḥ . prakāśāḥ bahis antar ca svabhāvāt deva-saṃjñitāḥ .. 7.8..
ततोऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा । प्रादुरासीत् तदाऽव्यक्तादर्वाक्स्रोतस्तु साधकः ॥ ७.९॥
ततस् अबिधाय आयतः तस्य सत्य-अभिध्यायिनः तदा । प्रादुरासीत् तदा अव्यक्तात् अर्वाक्स्रोतः तु साधकः ॥ ७।९॥
tatas abidhāya āyataḥ tasya satya-abhidhyāyinaḥ tadā . prādurāsīt tadā avyaktāt arvāksrotaḥ tu sādhakaḥ .. 7.9..
तत्र प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । दुःखोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ ७.१॥
तत्र प्रकाश-बहुलाः तम-उद्रिक्ताः रजः-अधिकाः । दुःख-उत्कटाः सत्त्व-युताः मनुष्याः परिकीर्तिता ॥ ७।१॥
tatra prakāśa-bahulāḥ tama-udriktāḥ rajaḥ-adhikāḥ . duḥkha-utkaṭāḥ sattva-yutāḥ manuṣyāḥ parikīrtitā .. 7.1..
तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः । तस्याभिध्यायतः सर्गं सर्गो भूतादिकोऽभवत् ॥ ७.११॥
तम् दृष्ट्वा च अपरम् सर्गम् अमन्यत् भगवान् अजः । तस्य अभिध्यायतः सर्गम् सर्गः भूत-आदिकः अभवत् ॥ ७।११॥
tam dṛṣṭvā ca aparam sargam amanyat bhagavān ajaḥ . tasya abhidhyāyataḥ sargam sargaḥ bhūta-ādikaḥ abhavat .. 7.11..
त परिग्राहिणः सर्वे संविभागरताः पुनः। स्वादिनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥ ७.१२॥
ते परिग्राहिणः सर्वे संविभाग-रताः पुनर्। स्वादि-नाः च अपि अशीलाः च भूत-आद्याः परिकीर्तिताः ॥ ७।१२॥
te parigrāhiṇaḥ sarve saṃvibhāga-ratāḥ punar. svādi-nāḥ ca api aśīlāḥ ca bhūta-ādyāḥ parikīrtitāḥ .. 7.12..
इत्येते पञ्च कथिताः सर्गा वै द्विजपुंगवाः । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः॥ ७.१३॥
इति एते पञ्च कथिताः सर्गाः वै द्विज-पुंगवाः । प्रथमः महतः सर्गः विज्ञेयः ब्रह्मणः तु सः॥ ७।१३॥
iti ete pañca kathitāḥ sargāḥ vai dvija-puṃgavāḥ . prathamaḥ mahataḥ sargaḥ vijñeyaḥ brahmaṇaḥ tu saḥ.. 7.13..
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः । वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः॥ ७.१४॥
तन्मात्राणाम् द्वितीयः तु भूत-सर्गः हि स स्मृतः । वैकारिकः तृतीयः तु सर्गः ऐन्द्रियकः स्मृतः॥ ७।१४॥
tanmātrāṇām dvitīyaḥ tu bhūta-sargaḥ hi sa smṛtaḥ . vaikārikaḥ tṛtīyaḥ tu sargaḥ aindriyakaḥ smṛtaḥ.. 7.14..
इत्येष प्राकृतः सर्गः संभूतोऽबुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१५॥
इति एष प्राकृतः सर्गः संभूतः अ बुद्धि-पूर्वकः । मुख्य-सर्गः चतुर्थः तु मुख्याः वै स्थावराः स्मृताः॥ ७।१५॥
iti eṣa prākṛtaḥ sargaḥ saṃbhūtaḥ a buddhi-pūrvakaḥ . mukhya-sargaḥ caturthaḥ tu mukhyāḥ vai sthāvarāḥ smṛtāḥ.. 7.15..
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः । तथोर्ध्स्रोतसां षष्ठो देवसर्गस्तु स स्मृतः॥ ७.१६॥
तिर्यक्स्रोतः तु यः प्रोक्तः तिर्यग्योन्यः स पञ्चमः । तथा ऊर्ध्स्रोतसाम् षष्ठः देव-सर्गः तु स स्मृतः॥ ७।१६॥
tiryaksrotaḥ tu yaḥ proktaḥ tiryagyonyaḥ sa pañcamaḥ . tathā ūrdhsrotasām ṣaṣṭhaḥ deva-sargaḥ tu sa smṛtaḥ.. 7.16..
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषु । अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः॥ ७.१७॥
ततस् अर्वाक्स्रोतसाम् सर्गः सप्तमः स तु मानुषु । अष्टमः भौतिकः सर्गः भूत-आदीनाम् प्रकीर्तितः॥ ७।१७॥
tatas arvāksrotasām sargaḥ saptamaḥ sa tu mānuṣu . aṣṭamaḥ bhautikaḥ sargaḥ bhūta-ādīnām prakīrtitaḥ.. 7.17..
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे । प्राकृतास्तु त्रयः पूर्वे सर्गास्ते बुद्धिपूर्वकाः॥ ७.१८॥
नवमः च एव कौमारः प्राकृताः वैकृताः तु इमे । प्राकृताः तु त्रयः पूर्वे सर्गाः ते बुद्धि-पूर्वकाः॥ ७।१८॥
navamaḥ ca eva kaumāraḥ prākṛtāḥ vaikṛtāḥ tu ime . prākṛtāḥ tu trayaḥ pūrve sargāḥ te buddhi-pūrvakāḥ.. 7.18..
बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्या मुनिपुंगवाः । अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ७.१९॥
बुद्धि-पूर्वम् प्रवर्त्तन्ते मुख्य-आद्याः मुनि-पुंगवाः । अग्रे ससर्ज वै ब्रह्मा मानसान् आत्मनः समान् ॥ ७।१९॥
buddhi-pūrvam pravarttante mukhya-ādyāḥ muni-puṃgavāḥ . agre sasarja vai brahmā mānasān ātmanaḥ samān .. 7.19..
सनकं सनातनं चैव तथैव च सनन्दनम् । ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ ७.२॥
सनकम् सनातनम् च एव तथा एव च सनन्दनम् । ऋभुम् सनात्कुमारम् च पूर्वम् एव प्रजापतिः ॥ ७।२॥
sanakam sanātanam ca eva tathā eva ca sanandanam . ṛbhum sanātkumāram ca pūrvam eva prajāpatiḥ .. 7.2..
पञ्चैते योगिनो विप्राः परं वैराग्यमाश्रिताः । ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ ७.२१॥
पञ्च एते योगिनः विप्राः परम् वैराग्यम् आश्रिताः । ईश्वर-आसक्त-मनसः न सृष्टौ दधिरे मतिम् ॥ ७।२१॥
pañca ete yoginaḥ viprāḥ param vairāgyam āśritāḥ . īśvara-āsakta-manasaḥ na sṛṣṭau dadhire matim .. 7.21..
तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः । मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ ७.२२॥
तेषु एवम् निरपेक्षेषु लोक-सृष्टौ प्रजापतिः । मुमोह मायया सद्यस् मायिनः परमेष्ठिनः ॥ ७।२२॥
teṣu evam nirapekṣeṣu loka-sṛṣṭau prajāpatiḥ . mumoha māyayā sadyas māyinaḥ parameṣṭhinaḥ .. 7.22..
तं बोधयामास सुतं जगन्मायो महामुनिः । नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ ७.२३॥
तम् बोधयामास सुतम् जगत्-मायः महा-मुनिः । ॥ ७।२३॥
tam bodhayāmāsa sutam jagat-māyaḥ mahā-muniḥ . .. 7.23..
बोधितस्तेन विश्वात्मा तताप परमं तपः । स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥ ७.२४॥
बोधितः तेन विश्वात्मा तताप परमम् तपः । स तप्यमानः भगवान् न किञ्चिद् प्रतिपद्यत ॥ ७।२४॥
bodhitaḥ tena viśvātmā tatāpa paramam tapaḥ . sa tapyamānaḥ bhagavān na kiñcid pratipadyata .. 7.24..
ततो दीर्घेण कालेन दुखात् क्रोधोऽभ्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.२५॥
ततस् दीर्घेण कालेन दुखात् क्रोधः अभ्यजायत । क्रोध-आविष्टस्य नेत्राभ्याम् प्रापतन् अश्रु-बिन्दवः ॥ ७।२५॥
tatas dīrgheṇa kālena dukhāt krodhaḥ abhyajāyata . krodha-āviṣṭasya netrābhyām prāpatan aśru-bindavaḥ .. 7.25..
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्टिनः । समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ ७.२६॥
भ्रुकुटी-कुटिलात् तस्य ललाटात् परमेष्टिनः । समुत्पन्नः महादेवः शरण्यः नीललोहितः ॥ ७।२६॥
bhrukuṭī-kuṭilāt tasya lalāṭāt parameṣṭinaḥ . samutpannaḥ mahādevaḥ śaraṇyaḥ nīlalohitaḥ .. 7.26..
स एव भगवानीशस्तेजोराशिः सनातनः । यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ ७.२७॥
सः एव भगवान् ईशः तेजः-राशिः सनातनः । यम् प्रपश्यन्ति विद्वांसः स्व-आत्म-स्थम् परमेश्वरम् ॥ ७।२७॥
saḥ eva bhagavān īśaḥ tejaḥ-rāśiḥ sanātanaḥ . yam prapaśyanti vidvāṃsaḥ sva-ātma-stham parameśvaram .. 7.27..
ओंकारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः । तमाह भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ ७.२८॥
ओंकारम् समनुस्मृत्य प्रणम्य च कृताञ्जलिः । तम् आह भगवान् ब्रह्मा सृज इमाः विविधाः प्रजाः ॥ ७।२८॥
oṃkāram samanusmṛtya praṇamya ca kṛtāñjaliḥ . tam āha bhagavān brahmā sṛja imāḥ vividhāḥ prajāḥ .. 7.28..
निशम्य भगवान् वाक्यं शंकरो धर्मवाहनः । स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः । कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥ ७.२९॥
निशम्य भगवान् वाक्यम् शंकरः धर्मवाहनः । स्व-आत्मना रुद्रान् ससर्ज मनसा शिवः । कपर्दिनः निरातङ्कान् त्रिनेत्रान् नील-लोहितान् ॥ ७।२९॥
niśamya bhagavān vākyam śaṃkaraḥ dharmavāhanaḥ . sva-ātmanā rudrān sasarja manasā śivaḥ . kapardinaḥ nirātaṅkān trinetrān nīla-lohitān .. 7.29..
तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः । सृजेति सोऽब्रवीदीशो नाहं मृत्युजरान्विताः ॥ ७.३॥
तम् प्राह भगवान् ब्रह्मा जन्म-मृत्यु-युताः प्रजाः । सृज इति सः अब्रवीत् ईशः न अहम् मृत्यु-जरा-अन्विताः ॥ ७।३॥
tam prāha bhagavān brahmā janma-mṛtyu-yutāḥ prajāḥ . sṛja iti saḥ abravīt īśaḥ na aham mṛtyu-jarā-anvitāḥ .. 7.3..
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः । निवार्य स तदा रुद्रं ससर्ज कमलोद्भवः ॥ ७.३१॥
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वम् अशुभाः प्रजाः । निवार्य स तदा रुद्रम् ससर्ज कमलोद्भवः ॥ ७।३१॥
prajāḥ strakṣye jagannātha sṛja tvam aśubhāḥ prajāḥ . nivārya sa tadā rudram sasarja kamalodbhavaḥ .. 7.31..
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत । अपोऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा॥ ७.३२॥
स्थान-अभिमानिनः सर्वान् गदतः तान् निबोधत । अपः अग्निः अन्तरिक्षम् च द्यौः वायुः पृथिवी तथा॥ ७।३२॥
sthāna-abhimāninaḥ sarvān gadataḥ tān nibodhata . apaḥ agniḥ antarikṣam ca dyauḥ vāyuḥ pṛthivī tathā.. 7.32..
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च । लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ॥ ७.३३॥
नद्यः समुद्राः शैलाः च वृक्षाः वीरुधः एव च । लवाः काष्ठाः कलाः च एव मुहूर्ताः दिवसाः क्षपाः ॥ ७।३३॥
nadyaḥ samudrāḥ śailāḥ ca vṛkṣāḥ vīrudhaḥ eva ca . lavāḥ kāṣṭhāḥ kalāḥ ca eva muhūrtāḥ divasāḥ kṣapāḥ .. 7.33..
अर्द्धमासाश्च मासाश्च अयनाब्दयुगादयः । स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः॥ ७.३४॥
अर्द्ध-मासाः च मासाः च अयन-अब्द-युग-आदयः । स्थान-अबिमानिनः सृष्ट्वा साधकान् असृजत् पुनर्॥ ७।३४॥
arddha-māsāḥ ca māsāḥ ca ayana-abda-yuga-ādayaḥ . sthāna-abimāninaḥ sṛṣṭvā sādhakān asṛjat punar.. 7.34..
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ॥ ७.३५॥
मरीचि-भृगु-अङ्गिरसः पुलस्त्यम् पुलहम् क्रतुम् । दक्षम् अत्रिम् वसिष्ठम् च धर्मम् संकल्पम् एव च ॥ ७।३५॥
marīci-bhṛgu-aṅgirasaḥ pulastyam pulaham kratum . dakṣam atrim vasiṣṭham ca dharmam saṃkalpam eva ca .. 7.35..
प्राणाद् ब्रह्माऽसृजद् दक्षं चक्षुषश्च मरीचिनम् । शिरसोऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥ ७.३६॥
प्राणात् ब्रह्मा असृजत् दक्षम् चक्षुषः च मरीचिनम् । शिरसः अङ्गिरसम् देवः हृदयात् भृगुम् एव च ॥ ७।३६॥
prāṇāt brahmā asṛjat dakṣam cakṣuṣaḥ ca marīcinam . śirasaḥ aṅgirasam devaḥ hṛdayāt bhṛgum eva ca .. 7.36..
नेत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः । संकल्पं चैव संकल्पात् सर्वलोकपितामहः ॥ ७.३७॥
नेत्राभ्याम् अत्रि-नामानम् धर्मम् च व्यवसायतः । संकल्पम् च एव संकल्पात् सर्व-लोक-पितामहः ॥ ७।३७॥
netrābhyām atri-nāmānam dharmam ca vyavasāyataḥ . saṃkalpam ca eva saṃkalpāt sarva-loka-pitāmahaḥ .. 7.37..
पुलस्त्यं च तथोदानाद् व्यानाच्च पुलहं मुनिम् । अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ ७.३८॥
पुलस्त्यम् च तथा उदानात् व्यानात् च पुलहम् मुनिम् । अपानात् क्रतुम् अव्यग्रम् समानात् च वसिष्ठकम् ॥ ७।३८॥
pulastyam ca tathā udānāt vyānāt ca pulaham munim . apānāt kratum avyagram samānāt ca vasiṣṭhakam .. 7.38..
इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः । आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्त्तितः ॥ ७.३९॥
इति एते ब्रह्मणा सृष्टाः साधकाः गृहमेधिनः । आस्थाय मानवम् रूपम् धर्मः तैः संप्रवर्त्तितः ॥ ७।३९॥
iti ete brahmaṇā sṛṣṭāḥ sādhakāḥ gṛhamedhinaḥ . āsthāya mānavam rūpam dharmaḥ taiḥ saṃpravarttitaḥ .. 7.39..
ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् । सिसृक्षुर्भगवानेतान् स्वमात्मानमयूयुजत् ॥ ७.४॥
ततस् देव-असुर-पितृन् मनुष्यान् च चतुष्टयम् । सिसृक्षुः भगवान् एतान् स्वम् आत्मानम् अयूयुजत् ॥ ७।४॥
tatas deva-asura-pitṛn manuṣyān ca catuṣṭayam . sisṛkṣuḥ bhagavān etān svam ātmānam ayūyujat .. 7.4..
युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत् प्रजापतेः । ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥ ७.४१॥
युक्त-आत्मनः तमः-मात्रा हि उद्रिक्ता अभूत् प्रजापतेः । ततस् अस्य जघनात् पूर्वम् असुराः जज्ञिरे सुताः ॥ ७।४१॥
yukta-ātmanaḥ tamaḥ-mātrā hi udriktā abhūt prajāpateḥ . tatas asya jaghanāt pūrvam asurāḥ jajñire sutāḥ .. 7.41..
उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः । सा चोत्सृष्ट्रा तनुस्तेन सद्यो रात्रिरजायत ॥ ७.४२॥
उत्ससर्ज असुरान् सृष्ट्वा ताम् तनुम् पुरुषोत्तमः । सा च उत्सृष्ट्रा तनुः तेन सद्यस् रात्रिः अजायत ॥ ७।४२॥
utsasarja asurān sṛṣṭvā tām tanum puruṣottamaḥ . sā ca utsṛṣṭrā tanuḥ tena sadyas rātriḥ ajāyata .. 7.42..
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ।सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ॥ ७.४३॥
सा तमः-बहुलाः यस्मात् प्रजाः तस्याम् स्वपन्ति अतस् ।देवः तनुम् अन्याम् अगृह्णत ॥ ७।४३॥
sā tamaḥ-bahulāḥ yasmāt prajāḥ tasyām svapanti atas .devaḥ tanum anyām agṛhṇata .. 7.43..
ततोऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ।त्यक्ता साऽपि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ॥ ७.४४॥
ततस् अस्य मुखतः देवाः दीव्यतः संप्रजज्ञिरे ।त्यक्ता सा अपि तनुः तेन सत्त्व-प्रायम् अभूत् दिनम् ॥ ७।४४॥
tatas asya mukhataḥ devāḥ dīvyataḥ saṃprajajñire .tyaktā sā api tanuḥ tena sattva-prāyam abhūt dinam .. 7.44..
तस्मादहो धर्मयुक्ता देवताः समुपासते ।सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ॥ ७.४५॥
तस्मात् अहर् धर्म-युक्ताः देवताः समुपासते ।सत्त्व-मात्र-आत्मिकाम् एव ततस् अन्याम् जगृहे तनुम् ॥ ७।४५॥
tasmāt ahar dharma-yuktāḥ devatāḥ samupāsate .sattva-mātra-ātmikām eva tatas anyām jagṛhe tanum .. 7.45..
पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ।उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ॥ ७.४६॥
पितृ-वत् मन्यमानस्य पितरः संप्रजज्ञिरे ।उत्ससर्ज पितृन् सृष्ट्वा ततस् ताम् अपि विश्वसृज् ॥ ७।४६॥
pitṛ-vat manyamānasya pitaraḥ saṃprajajñire .utsasarja pitṛn sṛṣṭvā tatas tām api viśvasṛj .. 7.46..
साऽपविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ।तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ॥ ७,४७॥
सा अपविद्धा तनुः तेन सद्यस् सन्ध्या व्यजायत ।तस्मात् अहर् देवतानाम् रात्रिः स्यात् देव-विद्विषाम् ॥ ७,४७॥
sā apaviddhā tanuḥ tena sadyas sandhyā vyajāyata .tasmāt ahar devatānām rātriḥ syāt deva-vidviṣām .. 7,47..
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ।तस्माद् देवासुराः सर्वे मुनयो मानवास्तथा ॥ ७.४८॥
तयोः मध्ये पितॄणाम् तु मूर्तिः सन्ध्या गरीयसी ।तस्मात् देव-असुराः सर्वे मुनयः मानवाः तथा ॥ ७।४८॥
tayoḥ madhye pitṝṇām tu mūrtiḥ sandhyā garīyasī .tasmāt deva-asurāḥ sarve munayaḥ mānavāḥ tathā .. 7.48..
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ।रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ॥ ७.४९॥
उपासते तदा युक्ताः रात्रि-अह्नोः मध्यमाम् तनुम् ।रजः-मात्र-आत्मिकाम् ब्रह्मा तनुम् अन्याम् अगृह्णत ॥ ७।४९॥
upāsate tadā yuktāḥ rātri-ahnoḥ madhyamām tanum .rajaḥ-mātra-ātmikām brahmā tanum anyām agṛhṇata .. 7.49..
ततोऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ।तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ॥ ७.५॥
ततस् अस्य जज्ञिरे पुत्राः मनुष्याः रजसा आवृताः ।ताम् अपि आशु स तत्याज तनुम् सद्यस् प्रजापतिः ॥ ७।५॥
tatas asya jajñire putrāḥ manuṣyāḥ rajasā āvṛtāḥ .tām api āśu sa tatyāja tanum sadyas prajāpatiḥ .. 7.5..
ज्योत्स्ना सा चाभवद्विप्राः प्राक्सन्ध्या याऽभिधीयते ।ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुंगवाः ॥ ७.५१॥
ज्योत्स्ना सा च अभवत् विप्राः प्राक्सन्ध्या या अभिधीयते ।ततस् स भगवान् ब्रह्मा संप्राप्य द्विज-पुंगवाः ॥ ७।५१॥
jyotsnā sā ca abhavat viprāḥ prāksandhyā yā abhidhīyate .tatas sa bhagavān brahmā saṃprāpya dvija-puṃgavāḥ .. 7.51..
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ।अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.५२॥
मूर्ति तमः-रजः प्रायाम् पुनर् एव अभ्ययूयुजत् ।अन्धकारे क्षुधा आविष्टाः राक्षसाः तस्य जज्ञिरे ॥ ७।५२॥
mūrti tamaḥ-rajaḥ prāyām punar eva abhyayūyujat .andhakāre kṣudhā āviṣṭāḥ rākṣasāḥ tasya jajñire .. 7.52..
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ।सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे ॥ ७.५३॥
पुत्राः तमः-रजः प्रायाः बलिनः ते निशाचराः ।सर्पाः यक्षाः तथा बूताः गन्धर्वाः संप्रजज्ञिरे ॥ ७।५३॥
putrāḥ tamaḥ-rajaḥ prāyāḥ balinaḥ te niśācarāḥ .sarpāḥ yakṣāḥ tathā būtāḥ gandharvāḥ saṃprajajñire .. 7.53..
रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः ।वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ॥ ७.५४॥
रजः-तमोभ्याम् आविष्टान् ततस् अन्यान् असृजत् प्रभुः ।वयांसि वयसः सृष्ट्वा अवीन् वै वक्षसः असृजत् ॥ ७।५४॥
rajaḥ-tamobhyām āviṣṭān tatas anyān asṛjat prabhuḥ .vayāṃsi vayasaḥ sṛṣṭvā avīn vai vakṣasaḥ asṛjat .. 7.54..
मुखतोऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे ।पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ॥ ७.५५॥
मुखतः अजान् ससर्ज अन्यान् उदरात् गाः च निर्ममे ।पद्भ्याम् च अश्वान् स मातङ्गान् रासभान् गवयान् मृगान् ॥ ७।५५॥
mukhataḥ ajān sasarja anyān udarāt gāḥ ca nirmame .padbhyām ca aśvān sa mātaṅgān rāsabhān gavayān mṛgān .. 7.55..
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः । ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ ७.५६॥
उष्ट्रान् अश्वतरान् च एव न्यङ्कून् अन्यान् जातयः । ओषध्यः फल-मूलिन्यः रोमभ्यः तस्य जज्ञिरे ॥ ७।५६॥
uṣṭrān aśvatarān ca eva nyaṅkūn anyān jātayaḥ . oṣadhyaḥ phala-mūlinyaḥ romabhyaḥ tasya jajñire .. 7.56..
गायत्रं च ऋचश्चैव त्रिवृत्स्तोंम रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ७.५७॥
गायत्रम् च ऋचः च एव त्रिवृत्-स्तोंम रथन्तरम् । अग्निष्टोमम् च यज्ञानाम् निर्ममे प्रथमान् मुखात् ॥ ७।५७॥
gāyatram ca ṛcaḥ ca eva trivṛt-stoṃma rathantaram . agniṣṭomam ca yajñānām nirmame prathamān mukhāt .. 7.57..
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ७.५८॥
यजूंषि त्रैष्टुभम् छन्दः स्तोमम् पञ्चदशम् तथा । बृहत्साम तथा उक्थम् च दक्षिणात् असृजत् मुखात् ॥ ७।५८॥
yajūṃṣi traiṣṭubham chandaḥ stomam pañcadaśam tathā . bṛhatsāma tathā uktham ca dakṣiṇāt asṛjat mukhāt .. 7.58..
सामानि जागतं छन्दस्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ७.५९॥
सामानि जागतम् छन्द-स्तोमम् सप्तदशम् तथा । वैरूपम् अतिरात्रम् च पश्चिमात् असृजत् मुखात् ॥ ७।५९॥
sāmāni jāgatam chanda-stomam saptadaśam tathā . vairūpam atirātram ca paścimāt asṛjat mukhāt .. 7.59..
एकविशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ ७.६॥
एकविशम् अथर्वाणम् आप्तोर्यामाणम् एव च । अनुष्टुभम् स वैराजम् उत्तरात् असृजत् मुखात् ॥ ७।६॥
ekaviśam atharvāṇam āptoryāmāṇam eva ca . anuṣṭubham sa vairājam uttarāt asṛjat mukhāt .. 7.6..
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ ७.६१॥
उच्चावचानि भूतानि गात्रेभ्यः तस्य जज्ञिरे । ब्रह्मणः हि प्रजा-सर्गम् सृजतः तु प्रजापतेः ॥ ७।६१॥
uccāvacāni bhūtāni gātrebhyaḥ tasya jajñire . brahmaṇaḥ hi prajā-sargam sṛjataḥ tu prajāpateḥ .. 7.61..
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः। सृष्ट्वा चतुष्टयं सर्गं दवर्षिपितृमानुषम्॥ ७.६२॥
यक्षान् पिशाचान् गन्धर्वान् तथा एव अप्सरसः शुभाः। सृष्ट्वा चतुष्टयम् सर्गम् दव-ऋषि-पितृ-मानुषम्॥ ७।६२॥
yakṣān piśācān gandharvān tathā eva apsarasaḥ śubhāḥ. sṛṣṭvā catuṣṭayam sargam dava-ṛṣi-pitṛ-mānuṣam.. 7.62..
ततो सृजच्च भूतानि स्थावराणिचराणिच। नरकिन्नररक्षांसि वयः पशुमृगोरगान् ॥ ७.६३॥
ततस् सृजत् च भूतानि स्थावराणि चराणि च। नर-किन्नर-रक्षांसि वयः पशु-मृग-उरगान् ॥ ७।६३॥
tatas sṛjat ca bhūtāni sthāvarāṇi carāṇi ca. nara-kinnara-rakṣāṃsi vayaḥ paśu-mṛga-uragān .. 7.63..
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् । तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे॥ ७.६४॥
अव्ययम् च व्ययम् च एव द्वयम् स्थावर-जङ्गमम् । तेषाम् ये यानि कर्माणि प्राच्-सृष्टौ प्रतिपेदिरे॥ ७।६४॥
avyayam ca vyayam ca eva dvayam sthāvara-jaṅgamam . teṣām ye yāni karmāṇi prāc-sṛṣṭau pratipedire.. 7.64..
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते॥ ७.६५॥
तानि एव ते प्रपद्यन्ते सृज्यमानाः पुनर् पुनर् । हिंस्र-अहिंस्रे मृदु-क्रूरे धर्म-अधर्म-आवृत-अनृते॥ ७।६५॥
tāni eva te prapadyante sṛjyamānāḥ punar punar . hiṃsra-ahiṃsre mṛdu-krūre dharma-adharma-āvṛta-anṛte.. 7.65..
तद्भाविताः प्रपद्यन्ते तस्मात् तत्तस्य रोचते । महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु॥ ७.६६॥
तद्-भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते । महाभूतेषु नानात्वम् इन्द्रियार्थेषु मूर्तिषु॥ ७।६६॥
tad-bhāvitāḥ prapadyante tasmāt tat tasya rocate . mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu.. 7.66..
विनियोगं च भूतानां धातैव व्यदधात् स्वयम् । नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम्॥ ७.६७॥
विनियोगम् च भूतानाम् धाता एव व्यदधात् स्वयम् । नाम-रूपम् च भूतानाम् कृत्यानाम् च प्रपञ्चनम्॥ ७।६७॥
viniyogam ca bhūtānām dhātā eva vyadadhāt svayam . nāma-rūpam ca bhūtānām kṛtyānām ca prapañcanam.. 7.67..
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः । आर्षाणि चैव नामानि याश्च वेदेषु सृष्टयः ॥ ७.६८॥
वेद-शब्देभ्यः एव आदौ निर्ममे स महेश्वरः । आर्षाणि च एव नामानि याः च वेदेषु सृष्टयः ॥ ७।६८॥
veda-śabdebhyaḥ eva ādau nirmame sa maheśvaraḥ . ārṣāṇi ca eva nāmāni yāḥ ca vedeṣu sṛṣṭayaḥ .. 7.68..
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः । यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥ ७.६९॥
शर्वरी-अन्ते प्रसूतानाम् तानि एव एभ्यः ददाति अजः । यथा ऋत्तौ ऋतु-लिङ्गानि नाना रूपाणि पर्यये ॥ ७।६९॥
śarvarī-ante prasūtānām tāni eva ebhyaḥ dadāti ajaḥ . yathā ṛttau ṛtu-liṅgāni nānā rūpāṇi paryaye .. 7.69..
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ७.७॥
दृश्यन्ते तानि तानि एव तथा भावाः युग-आदिषु ॥ ७।७॥
dṛśyante tāni tāni eva tathā bhāvāḥ yuga-ādiṣu .. 7.7..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः॥ ७॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे सप्तमः अध्यायः॥ ७॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge saptamaḥ adhyāyaḥ.. 7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In