| |
|

This overlay will guide you through the buttons:

एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः । प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ ९.१॥
एतत् श्रुत्वा तु वचनम् नारद-आद्याः महा-ऋषयः । प्रणम्य वर-दम् विष्णुम् पप्रच्छुः संशय-अन्विता ॥ ९।१॥
etat śrutvā tu vacanam nārada-ādyāḥ mahā-ṛṣayaḥ . praṇamya vara-dam viṣṇum papracchuḥ saṃśaya-anvitā .. 9.1..
मुनयः ऊचुः
कथितो भवता सर्गो मुख्यादीनां जनार्दन । इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ ९.२॥
कथितः भवता सर्गः मुख्य-आदीनाम् जनार्दन । इदानीम् संशयम् च इमम् अस्माकम् छेत्तुम् अर्हसि ॥ ९।२॥
kathitaḥ bhavatā sargaḥ mukhya-ādīnām janārdana . idānīm saṃśayam ca imam asmākam chettum arhasi .. 9.2..
कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् । पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ९.३॥
कथम् स भगवान् ईशः पूर्वजः अपि पिनाकधृक् । पुत्र-त्वम् अगच्छंभुः ब्रह्मणः अव्यक्त-जन्मनः ॥ ९।३॥
katham sa bhagavān īśaḥ pūrvajaḥ api pinākadhṛk . putra-tvam agacchaṃbhuḥ brahmaṇaḥ avyakta-janmanaḥ .. 9.3..
कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः । अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ ९.४॥
कथम् च भगवान् जज्ञे ब्रह्मा लोकपितामहः । अण्ड-जः जगताम् ईशः तत् नः वक्तुम् इह अर्हसि ॥ ९।४॥
katham ca bhagavān jajñe brahmā lokapitāmahaḥ . aṇḍa-jaḥ jagatām īśaḥ tat naḥ vaktum iha arhasi .. 9.4..
श्रृणुध्वमृषयः सर्वे शंकरस्यामितौजसः । पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ ९.५॥
श्रृणुध्वम् ऋषयः सर्वे शंकरस्य अमित-ओजसः । पुत्र-त्वम् ब्रह्मणः तस्य पद्मयोनि-त्वम् एव च ॥ ९।५॥
śrṛṇudhvam ṛṣayaḥ sarve śaṃkarasya amita-ojasaḥ . putra-tvam brahmaṇaḥ tasya padmayoni-tvam eva ca .. 9.5..
अतीतकल्पावसाने तमोभूतं जगत्त्रयम् । आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ ९.६॥
अतीत-कल्प-अवसाने तमः-भूतम् जगत्त्रयम् । आसीत् एकार्णवम् सर्वम् न देव-आद्याः न च ऋषयः ॥ ९।६॥
atīta-kalpa-avasāne tamaḥ-bhūtam jagattrayam . āsīt ekārṇavam sarvam na deva-ādyāḥ na ca ṛṣayaḥ .. 9.6..
तत्र नारायणो देवो निर्जने निरुपप्लवे । आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ ९.७॥
तत्र नारायणः देवः निर्जने निरुपप्लवे । आश्रित्य शेष-शयनम् सुष्वाप पुरुषोत्तमः ॥ ९।७॥
tatra nārāyaṇaḥ devaḥ nirjane nirupaplave . āśritya śeṣa-śayanam suṣvāpa puruṣottamaḥ .. 9.7..
सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् । सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ ९.८॥
सहस्र-शीर्षा भूत्वा स सहस्र-अक्षः सहस्रपाद् । सहस्र-बाहुः सर्वज्ञः चिन्त्यमानः मनीषिभिः ॥ ९।८॥
sahasra-śīrṣā bhūtvā sa sahasra-akṣaḥ sahasrapād . sahasra-bāhuḥ sarvajñaḥ cintyamānaḥ manīṣibhiḥ .. 9.8..
पीतवासा विशालाक्षो नीलजीमूतसन्निभः । महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ ९.९॥
पीत-वासाः विशाल-अक्षः नील-जीमूत-सन्निभः । महा-विभूतिः योग-आत्मा योगिनाम् हृदय-आलयः ॥ ९।९॥
pīta-vāsāḥ viśāla-akṣaḥ nīla-jīmūta-sannibhaḥ . mahā-vibhūtiḥ yoga-ātmā yoginām hṛdaya-ālayaḥ .. 9.9..
कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् । त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ ९.१॥
कदाचिद् तस्य सुप्तस्य लीला-अर्थम् दिव्यम् अद्भुतम् । त्रैलोक्य-सारम् विमलम् नाभ्याम् पङ्कजम् उद्वभौ ॥ ९।१॥
kadācid tasya suptasya līlā-artham divyam adbhutam . trailokya-sāram vimalam nābhyām paṅkajam udvabhau .. 9.1..
शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् । दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ ९.११॥
शत-योजन-विस्तीर्णम् तरुण-आदित्य-सन्निभम् । दिव्य-गन्ध-मयम् पुण्यम् कर्णिका-केसर-अन्वितम् ॥ ९।११॥
śata-yojana-vistīrṇam taruṇa-āditya-sannibham . divya-gandha-mayam puṇyam karṇikā-kesara-anvitam .. 9.11..
तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ ९.१२॥
तस्य एवम् सु चिरम् कालम् वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भः भगवान् तम् देशम् उपचक्रमे ॥ ९।१२॥
tasya evam su ciram kālam vartamānasya śārṅgiṇaḥ . hiraṇyagarbhaḥ bhagavān tam deśam upacakrame .. 9.12..
स तं करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ ९.१३॥
स तम् करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरम् वाक्यम् मायया तस्य मोहितः ॥ ९।१३॥
sa tam kareṇa viśvātmā samutthāpya sanātanam . provāca madhuram vākyam māyayā tasya mohitaḥ .. 9.13..
अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते । एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ ९.१४॥
अस्मिन् एकार्णवे घोरे निर्जने तमसा आवृते । एकाकी कः भवान् शेते ब्रूहि मे पुरुष-ऋषभ ॥ ९।१४॥
asmin ekārṇave ghore nirjane tamasā āvṛte . ekākī kaḥ bhavān śete brūhi me puruṣa-ṛṣabha .. 9.14..
तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः । उवाच देवं ब्रह्माणं मेघगम्भीरनिःस्वनः ॥ ९.१५॥
तस्य तत् वचनम् श्रुत्वा विहस्य गरुडध्वजः । उवाच देवम् ब्रह्माणम् मेघ-गम्भीर-निःस्वनः ॥ ९।१५॥
tasya tat vacanam śrutvā vihasya garuḍadhvajaḥ . uvāca devam brahmāṇam megha-gambhīra-niḥsvanaḥ .. 9.15..
भो भो नारायणं देवं लोकानां प्रभवाव्ययम् । महायोगीश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ ९.१६॥
भो भो नारायणम् देवम् लोकानाम् प्रभव-अव्ययम् । महा-योगि-ईश्वरम् माम् त्वम् जानीहि पुरुषोत्तमम् ॥ ९।१६॥
bho bho nārāyaṇam devam lokānām prabhava-avyayam . mahā-yogi-īśvaram mām tvam jānīhi puruṣottamam .. 9.16..
मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् । सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ ९.१७॥
मयि पश्य जगत् कृत्स्नम् त्वाम् च लोकपितामहम् । स पर्वत-महा-द्वीपम् समुद्रैः सप्तभिः वृतम् ॥ ९।१७॥
mayi paśya jagat kṛtsnam tvām ca lokapitāmaham . sa parvata-mahā-dvīpam samudraiḥ saptabhiḥ vṛtam .. 9.17..
एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः । जानन्नपि महायोगी को भवानिति वेधसम् ॥ ९.१८॥
एवम् आभाष्य विः च आत्मा प्रोवाच पुरुषम् हरिः । जानन् अपि महा-योगी कः भवान् इति वेधसम् ॥ ९।१८॥
evam ābhāṣya viḥ ca ātmā provāca puruṣam hariḥ . jānan api mahā-yogī kaḥ bhavān iti vedhasam .. 9.18..
ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ ९.१९॥
ततस् प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाच अम्बुजाभाक्षम् स स्मितम् श्लक्ष्णया गिरा ॥ ९।१९॥
tatas prahasya bhagavān brahmā vedanidhiḥ prabhuḥ . pratyuvāca ambujābhākṣam sa smitam ślakṣṇayā girā .. 9.19..
अहं धाता विधाता च स्वयंभूः प्रपितामहः । मय्येव संस्थितं विश्वं ब्रह्माऽहं विश्वतोमुखः ॥ ९.२॥
अहम् धाता विधाता च स्वयंभूः प्रपितामहः । मयि एव संस्थितम् विश्वम् ब्रह्मा अहम् विश्वतोमुखः ॥ ९।२॥
aham dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ . mayi eva saṃsthitam viśvam brahmā aham viśvatomukhaḥ .. 9.2..
श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः । अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ ९.२१॥
श्रुत्वा वाचम् स भगवान् विष्णुः सत्य-पराक्रमः । अनुज्ञाप्य अथ योगेन प्रविष्टः ब्रह्मणः तनुम् ॥ ९।२१॥
śrutvā vācam sa bhagavān viṣṇuḥ satya-parākramaḥ . anujñāpya atha yogena praviṣṭaḥ brahmaṇaḥ tanum .. 9.21..
त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ ९.२२॥
त्रलोक्यम् एतत् सकलम् स देव-असुर-मानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयम् आगतः ॥ ९।२२॥
tralokyam etat sakalam sa deva-asura-mānuṣam . udare tasya devasya dṛṣṭvā vismayam āgataḥ .. 9.22..
तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः । अजातश्मश्रुर्भगवान् पितामहमथाब्रवीत् ॥ ९.२३॥
तदा अस्य वक्त्रात् निष्क्रम्य पन्नग-इन्द्र-निकेतनः । अजात-श्मश्रुः भगवान् पितामहम् अथा अब्रवीत् ॥ ९।२३॥
tadā asya vaktrāt niṣkramya pannaga-indra-niketanaḥ . ajāta-śmaśruḥ bhagavān pitāmaham athā abravīt .. 9.23..
भवानप्येवमेवाद्य शाश्वतं हि ममोदरम् । प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ ९.२४॥
भवान् अपि एवम् एव अद्य शाश्वतम् हि मम उदरम् । प्रविश्य लोकान् पश्य एतान् विचित्रान् पुरुष-ऋषभ ॥ ९।२४॥
bhavān api evam eva adya śāśvatam hi mama udaram . praviśya lokān paśya etān vicitrān puruṣa-ṛṣabha .. 9.24..
ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ ९.२५॥
ततस् प्रह्लादनीम् वाणी श्रुत्वा तस्य अभिनन्द्य च । श्रीपतेः उदरम् भूयस् प्रविवेश कुशध्वजः ॥ ९।२५॥
tatas prahlādanīm vāṇī śrutvā tasya abhinandya ca . śrīpateḥ udaram bhūyas praviveśa kuśadhvajaḥ .. 9.25..
तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः । पर्यटित्वाथ देवस्य ददृशेऽन्तं न वै हरेः ॥ ९.२६॥
तान् एव लोकान् गर्भ-स्थान् अपश्यत् सत्य-विक्रमः । पर्यटित्वा अथ देवस्य ददृशे अन्तम् न वै हरेः ॥ ९।२६॥
tān eva lokān garbha-sthān apaśyat satya-vikramaḥ . paryaṭitvā atha devasya dadṛśe antam na vai hareḥ .. 9.26..
ततो द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्माऽसौ नाभ्यां द्वारमविन्दत ॥ ९.२७॥
ततस् द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्मा असौ नाभ्याम् द्वारम् अविन्दत ॥ ९।२७॥
tatas dvārāṇi sarvāṇi pihitāni mahātmanā . janārdanena brahmā asau nābhyām dvāram avindata .. 9.27..
तत्र योगबलेनासौ प्रविश्य कनकाण्डजः । उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ ९.२८॥
तत्र योग-बलेन असौ प्रविश्य कनक-अण्ड-जः । उज्जहार आत्मनः रूपम् पुष्करात् चतुराननः ॥ ९।२८॥
tatra yoga-balena asau praviśya kanaka-aṇḍa-jaḥ . ujjahāra ātmanaḥ rūpam puṣkarāt caturānanaḥ .. 9.28..
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः । ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ ९.२९॥
विरराज अरविन्द-स्थः पद्मगर्भ-सम-द्युतिः । ब्रह्मा स्वयंभूः भगवान् जगद्योनिः पितामहः ॥ ९।२९॥
virarāja aravinda-sthaḥ padmagarbha-sama-dyutiḥ . brahmā svayaṃbhūḥ bhagavān jagadyoniḥ pitāmahaḥ .. 9.29..
समन्यमानो विश्वेशमात्मानं परमं पदम् । प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ ९.३॥
समन्यमानः विश्वेशम् आत्मानम् परमम् पदम् । प्रोवाच पुरुषम् विष्णुम् मेघ-गम्भीरया गिरा ॥ ९।३॥
samanyamānaḥ viśveśam ātmānam paramam padam . provāca puruṣam viṣṇum megha-gambhīrayā girā .. 9.3..
कृतं किं भवतेदानीमात्मनो जयकाङ्क्षया । एकोऽहं प्रबलो नान्यो मां वै कोऽभिभविष्यति ॥ ९.३१॥
कृतम् किम् भवता इदानीम् आत्मनः जय-काङ्क्षया । एकः अहम् प्रबलः न अन्यः माम् वै कः अभिभविष्यति ॥ ९।३१॥
kṛtam kim bhavatā idānīm ātmanaḥ jaya-kāṅkṣayā . ekaḥ aham prabalaḥ na anyaḥ mām vai kaḥ abhibhaviṣyati .. 9.31..
श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकमन्त्रिणः । सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ ९.३२॥
श्रुत्वा नारायणः वाक्यम् ब्रह्मणः लोक-मन्त्रिणः । सान्त्व-पूर्वम् इदम् वाक्यम् बभाषे मधुरम् हरिः ॥ ९।३२॥
śrutvā nārāyaṇaḥ vākyam brahmaṇaḥ loka-mantriṇaḥ . sāntva-pūrvam idam vākyam babhāṣe madhuram hariḥ .. 9.32..
भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ ९.३३॥
भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्य-अभियोगेन द्वाराणि पिहितानि मे ॥ ९।३३॥
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ . na mātsarya-abhiyogena dvārāṇi pihitāni me .. 9.33..
किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया । को हि बाधितुमन्विच्छेद् देवदेवं पितामहम् ॥ ९.३४॥
किन्तु लीला-अर्थम् एव एतत् न त्वाम् बाधितुम् इच्छया । कः हि बाधितुम् अन्विच्छेत् देवदेवम् पितामहम् ॥ ९।३४॥
kintu līlā-artham eva etat na tvām bādhitum icchayā . kaḥ hi bādhitum anvicchet devadevam pitāmaham .. 9.34..
न तेऽन्यथाऽवमन्तव्यं मान्यो मे सर्वथा भवान् । सर्वमन्वय कल्याणं यन्मयाऽपहृतं तव ॥ ९.३५॥
न ते अन्यथा अवमन्तव्यम् मान्यः मे सर्वथा भवान् । कल्याणम् यत् मया अपहृतम् तव ॥ ९।३५॥
na te anyathā avamantavyam mānyaḥ me sarvathā bhavān . kalyāṇam yat mayā apahṛtam tava .. 9.35..
अस्माच्च कारणाद् ब्रह्मन् पुत्रो भवतु मे भवान् । पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ ९.३६॥
अस्मात् च कारणात् ब्रह्मन् पुत्रः भवतु मे भवान् । पद्मयोनिः इति ख्यातः मद्-प्रिय-अर्थम् जगत्-मय ॥ ९।३६॥
asmāt ca kāraṇāt brahman putraḥ bhavatu me bhavān . padmayoniḥ iti khyātaḥ mad-priya-artham jagat-maya .. 9.36..
ततः स भगवान् देवो वरं दत्त्वा किरीटिने । प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ ९.३७॥
ततस् स भगवान् देवः वरम् दत्त्वा किरीटिने । प्रहर्षम् अतुलम् गत्वा पुनर् विष्णुम् अभाषत ॥ ९।३७॥
tatas sa bhagavān devaḥ varam dattvā kirīṭine . praharṣam atulam gatvā punar viṣṇum abhāṣata .. 9.37..
भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः । सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ ९.३८॥
भवान् सर्व-आत्मकः अनन्तः सर्वेषाम् परम-ईश्वरः । सर्व-भूत-अन्तरात्मा वै परम् बह्म सनातनम् ॥ ९।३८॥
bhavān sarva-ātmakaḥ anantaḥ sarveṣām parama-īśvaraḥ . sarva-bhūta-antarātmā vai param bahma sanātanam .. 9.38..
अहं वै सर्वलोकानामात्मा लोकोमहेश्वरः । मन्मयं सर्वमेवेदं ब्रह्माऽहं पुरुषः परः ॥ ९.३९॥
अहम् वै सर्व-लोकानाम् आत्मा लोकः महेश्वरः । मद्-मयम् सर्वम् एव इदम् ब्रह्मा अहम् पुरुषः परः ॥ ९।३९॥
aham vai sarva-lokānām ātmā lokaḥ maheśvaraḥ . mad-mayam sarvam eva idam brahmā aham puruṣaḥ paraḥ .. 9.39..
नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः । एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ ९.४॥
न आवाभ्याम् विद्यते हि अन्यः लोकानाम् परम-ईश्वरः । एका मूर्तिः द्विधा भिन्ना नारायण-पितामहौ ॥ ९।४॥
na āvābhyām vidyate hi anyaḥ lokānām parama-īśvaraḥ . ekā mūrtiḥ dvidhā bhinnā nārāyaṇa-pitāmahau .. 9.4..
तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् । इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ ९.४१॥
तेन एवम् उक्तः ब्रह्माणम् वासुदेवः अब्रवीत् इदम् । इयम् प्रतिज्ञा भवतः विनाशाय भविष्यति ॥ ९।४१॥
tena evam uktaḥ brahmāṇam vāsudevaḥ abravīt idam . iyam pratijñā bhavataḥ vināśāya bhaviṣyati .. 9.41..
किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ ९.४२॥
किम् न पश्यसि योगेशम् ब्रह्म-अधिपतिम् अव्ययम् । प्रधान-पुरुष-ईशानम् वेद अहम् परमेश्वरम् ॥ ९।४२॥
kim na paśyasi yogeśam brahma-adhipatim avyayam . pradhāna-puruṣa-īśānam veda aham parameśvaram .. 9.42..
यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् । अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ ९.४३॥
यम् न पश्यन्ति योगि-इन्द्राः सांख्याः अपि महेश्वरम् । अन् आदि-निधनम् ब्रह्म तम् एव शरणम् व्रज ॥ ९।४३॥
yam na paśyanti yogi-indrāḥ sāṃkhyāḥ api maheśvaram . an ādi-nidhanam brahma tam eva śaraṇam vraja .. 9.43..
ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् । भवान्न नूनमात्मानं वेद्मि तत्परमाक्षरम् ॥ ९.४४॥
ततस् क्रुद्धः अम्बुजाभाक्षम् ब्रह्मा प्रोवाच केशवम् । भवान् न नूनम् आत्मानम् वेद्मि तत् परम-अक्षरम् ॥ ९।४४॥
tatas kruddhaḥ ambujābhākṣam brahmā provāca keśavam . bhavān na nūnam ātmānam vedmi tat parama-akṣaram .. 9.44..
ब्रह्माणं जगतामेकमात्मानं परमं पदम् । नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ ९.४५॥
ब्रह्माणम् जगताम् एकम् आत्मानम् परमम् पदम् । न आवाभ्याम् विद्यते हि अन्यः लोकानाम् परम-ईश्वरः ॥ ९।४५॥
brahmāṇam jagatām ekam ātmānam paramam padam . na āvābhyām vidyate hi anyaḥ lokānām parama-īśvaraḥ .. 9.45..
संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय । तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ ९.४६॥
संत्यज्य निद्राम् विपुलाम् स्वम् आत्मानम् विलोकय । तस्य तत् क्रोध-जम् वाक्यम् श्रुत्वा विष्णुः अभाषत ॥ ९।४६॥
saṃtyajya nidrām vipulām svam ātmānam vilokaya . tasya tat krodha-jam vākyam śrutvā viṣṇuḥ abhāṣata .. 9.46..
मामैवं वद कल्याण परिवादं महात्मनः । न मेह्यविदितं ब्रह्मन् नान्यथाऽहं वदामि ते ॥ ९.४७॥
माम् आ एवम् वद कल्याण परिवादम् महात्मनः । न मे इहि अविदितम् ब्रह्मन् न अन्यथा अहम् वदामि ते ॥ ९।४७॥
mām ā evam vada kalyāṇa parivādam mahātmanaḥ . na me ihi aviditam brahman na anyathā aham vadāmi te .. 9.47..
किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी । मायाशेषविशेषाणां हेतुरात्मसमुद्भवा ॥ ९.४८॥
किन्तु मोहयति ब्रह्मन् भवन्तम् पारमेश्वरी । माया अशेष-विशेषाणाम् हेतुः आत्म-समुद्भवा ॥ ९।४८॥
kintu mohayati brahman bhavantam pārameśvarī . māyā aśeṣa-viśeṣāṇām hetuḥ ātma-samudbhavā .. 9.48..
एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह । ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ ९.४९॥
एतावत् उक्त्वा भगवान् विष्णुः तूष्णीम् बभूव ह । ज्ञात्वा तत् परमम् तत्त्वम् स्वम् आत्मानम् महेश्वरम् ॥ ९।४९॥
etāvat uktvā bhagavān viṣṇuḥ tūṣṇīm babhūva ha . jñātvā tat paramam tattvam svam ātmānam maheśvaram .. 9.49..
कुतोह्यपरिमेयात्मा भूतानां परमेश्वरः । प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥ ९.५॥
कुतस् हि अपरिमेय-आत्मा भूतानाम् परम-ईश्वरः । प्रसादम् ब्रह्मणे कर्तुम् प्रादुरासीत् ततस् हरः ॥ ९।५॥
kutas hi aparimeya-ātmā bhūtānām parama-īśvaraḥ . prasādam brahmaṇe kartum prādurāsīt tatas haraḥ .. 9.5..
ललाटनयनोऽनन्तो जटामण्डलमण्डितः । त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ ९.५१॥
। त्रिशूल-पाणिः भगवान् तेजसाम् परमः निधिः ॥ ९।५१॥
. triśūla-pāṇiḥ bhagavān tejasām paramaḥ nidhiḥ .. 9.51..
दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः । मालामत्यद्भुताकारां धारयन्पादलम्बिनीम् ॥ ९.५२॥
दिव्याम् विशालाम् ग्रथिताम् ग्रहैः स अर्क-इन्दु-तारकैः । मालाम् अति अद्भुत-आकाराम् धारयन् पाद-लम्बिनीम् ॥ ९।५२॥
divyām viśālām grathitām grahaiḥ sa arka-indu-tārakaiḥ . mālām ati adbhuta-ākārām dhārayan pāda-lambinīm .. 9.52..
तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः । मोहितो माययात्यर्थं पीतवासलमब्रवीत् ॥ ९.५३॥
तम् दृष्ट्वा देवम् ईशानम् ब्रह्मा लोकपितामहः । मोहितः मायया अत्यर्थम् पीत-वासलम् अब्रवीत् ॥ ९।५३॥
tam dṛṣṭvā devam īśānam brahmā lokapitāmahaḥ . mohitaḥ māyayā atyartham pīta-vāsalam abravīt .. 9.53..
क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः । तेजोराशिरमेयात्मा समायाति जनार्दन ॥ ९.५४॥
कः एष पुरुषः अनन्तः शूलपाणिः त्रिलोचनः । तेजः-राशिः अमेय-आत्मा समायाति जनार्दन ॥ ९।५४॥
kaḥ eṣa puruṣaḥ anantaḥ śūlapāṇiḥ trilocanaḥ . tejaḥ-rāśiḥ ameya-ātmā samāyāti janārdana .. 9.54..
तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः । अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥ ९.५५॥
तस्य तत् वचनम् श्रुत्वा विष्णुः दानव-मर्दनः । अपश्यत् ईश्वरम् देवम् ज्वलन्तम् विमले अम्भसि ॥ ९।५५॥
tasya tat vacanam śrutvā viṣṇuḥ dānava-mardanaḥ . apaśyat īśvaram devam jvalantam vimale ambhasi .. 9.55..
ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम् । प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ ९.५६॥
ज्ञात्वा तम् परमम् भावम् ऐश्वरम् ब्रह्म-भावनम् । प्रोवाच उत्थाय भगवान् देवदेवम् पितामहम् ॥ ९।५६॥
jñātvā tam paramam bhāvam aiśvaram brahma-bhāvanam . provāca utthāya bhagavān devadevam pitāmaham .. 9.56..
अयं देवो महादेवः स्वयंज्योतिः सनातनः । अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥ ९.५७॥
अयम् देवः महादेवः स्वयंज्योतिः सनातनः । अन् आदि-निधनः अचिन्त्यः लोकानाम् ईश्वरः महान् ॥ ९।५७॥
ayam devaḥ mahādevaḥ svayaṃjyotiḥ sanātanaḥ . an ādi-nidhanaḥ acintyaḥ lokānām īśvaraḥ mahān .. 9.57..
शंकरः शंभुरीशानः सर्वात्मा परमेश्वरः । भूतानामधिपो योगी महेशो विमलः शिवः ॥ ९.५८॥
शंकरः शंभुः ईशानः सर्वात्मा परमेश्वरः । भूतानाम् अधिपः योगी महेशः विमलः शिवः ॥ ९।५८॥
śaṃkaraḥ śaṃbhuḥ īśānaḥ sarvātmā parameśvaraḥ . bhūtānām adhipaḥ yogī maheśaḥ vimalaḥ śivaḥ .. 9.58..
एष धाता विधाता च प्रधानपुरुषेश्वरः । यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ ९.५९॥
एष धाता विधाता च प्रधान-पुरुष-ईश्वरः । यम् प्रपश्यन्ति यतयः ब्रह्म-भावेन भाविताः ॥ ९।५९॥
eṣa dhātā vidhātā ca pradhāna-puruṣa-īśvaraḥ . yam prapaśyanti yatayaḥ brahma-bhāvena bhāvitāḥ .. 9.59..
सृजत्येष जगत् कृत्स्नं पाति संहरते तथा । कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ ९.६॥
सृजति एष जगत् कृत्स्नम् पाति संहरते तथा । कालः भूत्वा महादेवः केवलः निष्कलः शिवः ॥ ९।६॥
sṛjati eṣa jagat kṛtsnam pāti saṃharate tathā . kālaḥ bhūtvā mahādevaḥ kevalaḥ niṣkalaḥ śivaḥ .. 9.6..
ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः । वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शंकरः ॥ ९.६१॥
ब्रह्माणम् विदधे पूर्वम् भवन्तम् यः सनातनः । वेदान् च प्रददौ तुभ्यम् सः अयम् आयाति शंकरः ॥ ९।६१॥
brahmāṇam vidadhe pūrvam bhavantam yaḥ sanātanaḥ . vedān ca pradadau tubhyam saḥ ayam āyāti śaṃkaraḥ .. 9.61..
अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् । वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ९.६२॥
अस्य एव च अपराम् मूर्ति विश्वयोनिम् सनातनीम् । वासुदेव-अभिधानाम् माम् अवेहि प्रपितामह ॥ ९।६२॥
asya eva ca aparām mūrti viśvayonim sanātanīm . vāsudeva-abhidhānām mām avehi prapitāmaha .. 9.62..
किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ ९.६३॥
किम् न पश्यसि योगेशम् ब्रह्म-अधिपतिम् अव्ययम् । दिव्यम् भवतु ते चक्षुः येन द्रक्ष्यसि तत् परम् ॥ ९।६३॥
kim na paśyasi yogeśam brahma-adhipatim avyayam . divyam bhavatu te cakṣuḥ yena drakṣyasi tat param .. 9.63..
लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः । बुबुधे परमेशानं पुरतः समवस्थितम् ॥ ९.६४॥
लब्ध्वा शैवम् तदा चक्षुः विष्णोः लोकपितामहः । बुबुधे परमेशानम् पुरतस् समवस्थितम् ॥ ९।६४॥
labdhvā śaivam tadā cakṣuḥ viṣṇoḥ lokapitāmahaḥ . bubudhe parameśānam puratas samavasthitam .. 9.64..
स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः । प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ ९.६५॥
स लब्ध्वा परमम् ज्ञानम् ऐश्वरम् प्रपितामहः । प्रपेदे शरणम् देवम् तम् एव पितरम् शिवम् ॥ ९।६५॥
sa labdhvā paramam jñānam aiśvaram prapitāmahaḥ . prapede śaraṇam devam tam eva pitaram śivam .. 9.65..
ओंकारं समनुस्मृत्य संस्तभ्यात्मानमात्मना । अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ ९.६६॥
ओंकारम् समनुस्मृत्य संस्तभ्य आत्मानम् आत्मना । अथर्वशिरसा देवम् तुष्टाव च कृताञ्जलिः ॥ ९।६६॥
oṃkāram samanusmṛtya saṃstabhya ātmānam ātmanā . atharvaśirasā devam tuṣṭāva ca kṛtāñjaliḥ .. 9.66..
संस्तुतस्तेन। भगवान् ब्रह्मणा परमेश्वरः । अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ ९.६७॥
संस्तुतः तेन। भगवान् ब्रह्मणा परमेश्वरः । अवाप परमाम् प्रीतिम् व्याजहार स्मयन् इव ॥ ९।६७॥
saṃstutaḥ tena. bhagavān brahmaṇā parameśvaraḥ . avāpa paramām prītim vyājahāra smayan iva .. 9.67..
मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् । मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ ९.६८॥
मद्-समः त्वम् न संदेहः मद्-भक्तः च यतस् भवान् । मया एव उत्पादितः पूर्वम् लोक-सृष्टि-अर्थम् अव्ययम् ॥ ९।६८॥
mad-samaḥ tvam na saṃdehaḥ mad-bhaktaḥ ca yatas bhavān . mayā eva utpāditaḥ pūrvam loka-sṛṣṭi-artham avyayam .. 9.68..
त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः । वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥ ९.६९॥
त्वम् आत्मा हि आदिपुरुषः मम देह-समुद्भवः । वरम् वरय विश्वात्मन् वर-दः अहम् तव अनघ ॥ ९।६९॥
tvam ātmā hi ādipuruṣaḥ mama deha-samudbhavaḥ . varam varaya viśvātman vara-daḥ aham tava anagha .. 9.69..
स देवदेववचनं निशम्य कमलोद्भवः । निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ ९.७॥
स देवदेव-वचनम् निशम्य कमलोद्भवः । निरीक्ष्य विष्णुम् पुरुषम् प्रणम्य आह वृषध्वजम् ॥ ९।७॥
sa devadeva-vacanam niśamya kamalodbhavaḥ . nirīkṣya viṣṇum puruṣam praṇamya āha vṛṣadhvajam .. 9.7..
भगवन् भूतभव्येश महादेवाम्बिकापते । त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ ९.७१॥
भगवन् भूत-भव्य-ईश महादेव अम्बिकापते । त्वाम् एव पुत्रम् इच्छामि त्वया वा सदृशम् सतम् ॥ ९।७१॥
bhagavan bhūta-bhavya-īśa mahādeva ambikāpate . tvām eva putram icchāmi tvayā vā sadṛśam satam .. 9.71..
मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमं भावं याथातथ्येन ते शिव ॥ ९.७२॥
मोहितः अस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमम् भावम् याथातथ्येन ते शिव ॥ ९।७२॥
mohitaḥ asmi mahādeva māyayā sūkṣmayā tvayā . na jāne paramam bhāvam yāthātathyena te śiva .. 9.72..
त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् । प्रसीद तव पादाब्जं नमामि शरणागतः ॥ ९.७३॥
त्वम् एव देव भक्तानाम् भ्राता माता पिता सुहृद् । प्रसीद तव पाद-अब्जम् नमामि शरण-आगतः ॥ ९।७३॥
tvam eva deva bhaktānām bhrātā mātā pitā suhṛd . prasīda tava pāda-abjam namāmi śaraṇa-āgataḥ .. 9.73..
स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः । व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ ९.७४॥
स तस्य वचनम् श्रुत्वा जगन्नाथः वृषध्वजः । व्याजहार तदा पुत्रम् समालोक्य जनार्दनम् ॥ ९।७४॥
sa tasya vacanam śrutvā jagannāthaḥ vṛṣadhvajaḥ . vyājahāra tadā putram samālokya janārdanam .. 9.74..
यदर्थितं भगवता तत्करिष्यामि पुत्रक । विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ ९.७५॥
यत् अर्थितम् भगवता तत् करिष्यामि पुत्रक । विज्ञानम् ऐश्वरम् दिव्यम् उत्पत्स्यति तव अनघ ॥ ९।७५॥
yat arthitam bhagavatā tat kariṣyāmi putraka . vijñānam aiśvaram divyam utpatsyati tava anagha .. 9.75..
त्वमेव सर्वभूतानामादिकर्ता नियोजितः । तथा कुरुष्व देवेश मयां लोकपितामह ॥ ९.७६॥
त्वम् एव सर्व-भूतानाम् आदिकर्ता नियोजितः । तथा कुरुष्व देवेश मयाम् लोकपितामह ॥ ९।७६॥
tvam eva sarva-bhūtānām ādikartā niyojitaḥ . tathā kuruṣva deveśa mayām lokapitāmaha .. 9.76..
एष नारायणोऽनन्तो ममैव परमा तनुः । भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ ९.७७॥
एष नारायणः अनन्तः मम एव परमा तनुः । भविष्यति तव ईशानः योगक्षेम-वहः हरिः ॥ ९।७७॥
eṣa nārāyaṇaḥ anantaḥ mama eva paramā tanuḥ . bhaviṣyati tava īśānaḥ yogakṣema-vahaḥ hariḥ .. 9.77..
एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः । संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ ९.७८॥
एवम् व्याहृत्य हस्ताभ्याम् प्रीत-आत्मा परमेश्वरः । संस्पृश्य देवम् ब्रह्माणम् हरिम् वचनम् अब्रवीत् ॥ ९।७८॥
evam vyāhṛtya hastābhyām prīta-ātmā parameśvaraḥ . saṃspṛśya devam brahmāṇam harim vacanam abravīt .. 9.78..
तृष्टोऽस्मि सर्वथाऽहंते भक्त्या तव जगन्मय । वरं वृणीष्वं न ह्यावां विभिन्नौ परमार्थतः ॥ ९.७९॥
तृष्टः अस्मि सर्वथा अहम् ते भक्त्या तव जगत्-मय । वरम् वृणीष्वम् न हि आवाम् विभिन्नौ परमार्थतः ॥ ९।७९॥
tṛṣṭaḥ asmi sarvathā aham te bhaktyā tava jagat-maya . varam vṛṇīṣvam na hi āvām vibhinnau paramārthataḥ .. 9.79..
श्रुत्वाऽथ देववचनं विष्णुर्विश्वजगन्मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ९.८॥
श्रुत्वा अथ देव-वचनम् विष्णुः विश्व-जगत्-मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ९।८॥
śrutvā atha deva-vacanam viṣṇuḥ viśva-jagat-mayaḥ . prāha prasannayā vācā samālokya caturmukham .. 9.8..
एष एव वरः श्लाघ्यो यदहं परमेश्वरम् । पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ ९.८१॥
एषः एव वरः श्लाघ्यः यत् अहम् परमेश्वरम् । पश्यामि परमात्मानम् भक्तिः भवतु मे त्वयि ॥ ९।८१॥
eṣaḥ eva varaḥ ślāghyaḥ yat aham parameśvaram . paśyāmi paramātmānam bhaktiḥ bhavatu me tvayi .. 9.81..
तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत । भवान् सर्वस्य कार्यस्य कर्ताह़मधिदैवतम् ॥ ९.८२॥
तथा इति उक्त्वा महादेवः पुनर् विष्णुम् अभाषत । भवान् सर्वस्य कार्यस्य कर्ता अहम् अधिदैवतम् ॥ ९।८२॥
tathā iti uktvā mahādevaḥ punar viṣṇum abhāṣata . bhavān sarvasya kāryasya kartā aham adhidaivatam .. 9.82..
त्वन्मयं मन्मयं चैव सर्वमेतन्न संशयः । भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ ९.८३॥
त्वद्-मयम् मद्-मयम् च एव सर्वम् एतत् न संशयः । भवान् सोमः तु अहम् सूर्यः भवान् रात्रिः अहम् दिनम् ॥ ९।८३॥
tvad-mayam mad-mayam ca eva sarvam etat na saṃśayaḥ . bhavān somaḥ tu aham sūryaḥ bhavān rātriḥ aham dinam .. 9.83..
भवान् प्रकृतिरव्यक्तमहं पुरुष एव च । भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ ९.८४॥
भवान् प्रकृतिः अव्यक्तम् अहम् पुरुषः एव च । भवान् ज्ञानम् अहम् ज्ञाता भवान् माया अहम् ईश्वरः ॥ ९।८४॥
bhavān prakṛtiḥ avyaktam aham puruṣaḥ eva ca . bhavān jñānam aham jñātā bhavān māyā aham īśvaraḥ .. 9.84..
भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः । योऽहं सनिष्कलो देवः सोऽपि नारायणः परः ॥ ९.८५॥
भवान् विद्या-आत्मिका शक्तिः शक्तिमान् अहम् ईश्वरः । यः अहम् स निष्कलः देवः सः अपि नारायणः परः ॥ ९।८५॥
bhavān vidyā-ātmikā śaktiḥ śaktimān aham īśvaraḥ . yaḥ aham sa niṣkalaḥ devaḥ saḥ api nārāyaṇaḥ paraḥ .. 9.85..
एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः । त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति । पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ९.८६॥
एकीभावेन पश्यन्ति योगिनः ब्रह्म-वादिनः । त्वाम् अन् आश्रित्य विश्वात्मन् न योगी माम् उपैष्यति । पालय एतत् जगत् कृत्स्नम् स देव-असुर-मानुषम् ॥ ९।८६॥
ekībhāvena paśyanti yoginaḥ brahma-vādinaḥ . tvām an āśritya viśvātman na yogī mām upaiṣyati . pālaya etat jagat kṛtsnam sa deva-asura-mānuṣam .. 9.86..
इतीदमुक्त्वा भगवाननादिःस्वमायया मोहितभूतभेदःजगाम जन्मर्द्धिविनाशहीनंधामैकमव्यक्तमनन्तशक्तिः ॥ ९.८७॥
इति इदम् उक्त्वा भगवान् अनादिः स्व-मायया मोहित-भूत-भेदः जगाम जन्म-ऋद्धि-विनाश-हीनम् धाम एकम् अव्यक्तम् अनन्त-शक्तिः ॥ ९।८७॥
iti idam uktvā bhagavān anādiḥ sva-māyayā mohita-bhūta-bhedaḥ jagāma janma-ṛddhi-vināśa-hīnam dhāma ekam avyaktam ananta-śaktiḥ .. 9.87..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः ॥ ९॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे नवमः अध्यायः ॥ ९॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge navamaḥ adhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In