| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा॥ चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १॥
गणेशस्य श्रुता तात सम्यक् जनिः अनुत्तमा॥ चरित्रम् अपि दिव्यम् वै सुपराक्रम-भूषितम् ॥ १॥
gaṇeśasya śrutā tāta samyak janiḥ anuttamā.. caritram api divyam vai suparākrama-bhūṣitam .. 1..
ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ॥ शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ॥ २ ॥
ततस् किम् अभवत् तात तत्त्वम् वद सुरेश्वरः ॥ ॥ २ ॥
tatas kim abhavat tāta tattvam vada sureśvaraḥ .. .. 2 ..
ब्रह्मोवाच ॥ साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ॥ श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३ ॥
ब्रह्मा उवाच ॥ साधु पृष्टम् मुनि-श्रेष्ठ भवता करुण-आत्मना ॥ श्रूयताम् दत्त-कर्णम् हि वक्ष्ये अहम् ऋषि-सत्तम ॥ ३ ॥
brahmā uvāca .. sādhu pṛṣṭam muni-śreṣṭha bhavatā karuṇa-ātmanā .. śrūyatām datta-karṇam hi vakṣye aham ṛṣi-sattama .. 3 ..
शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ॥ दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४ ॥
शिवा शिवः च विप्र-इन्द्र द्वयोः च सुतयोः परम् ॥ दर्शम् दर्शम् च तद्-लीलाम् महत् प्रेम समावहत् ॥ ४ ॥
śivā śivaḥ ca vipra-indra dvayoḥ ca sutayoḥ param .. darśam darśam ca tad-līlām mahat prema samāvahat .. 4 ..
पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ॥ सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ ॥ ५॥
पित्रोः लालयतोः तत्र सुखम् च अति व्यवर्द्धत ॥ सदा प्रीत्या मुदा च अति खेलनम् चक्रतुः सुतौ ॥ ५॥
pitroḥ lālayatoḥ tatra sukham ca ati vyavarddhata .. sadā prītyā mudā ca ati khelanam cakratuḥ sutau .. 5..
तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ॥ महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६॥
तौ एव तनयौ तत्र माता पित्रोः मुनि-ईश्वर ॥ महा-भक्त्या यदा युक्तौ परिचर्याम् प्रचक्रतुः ॥ ६॥
tau eva tanayau tatra mātā pitroḥ muni-īśvara .. mahā-bhaktyā yadā yuktau paricaryām pracakratuḥ .. 6..
षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ॥ स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी ॥ ७ ॥
षण्मुखे च गणेशे च पित्रोः तत् अधिकम् सदा ॥ स्नेहः व्यवर्द्धत महान् शुक्ल-पक्षे यथा शशी ॥ ७ ॥
ṣaṇmukhe ca gaṇeśe ca pitroḥ tat adhikam sadā .. snehaḥ vyavarddhata mahān śukla-pakṣe yathā śaśī .. 7 ..
कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ॥ शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८॥
कदाचिद् तौ स्थितौ तत्र रहसि प्रेम-संयुतौ ॥ शिवा शिवः च देव-ऋषे सु विचार-परायणौ ॥ ८॥
kadācid tau sthitau tatra rahasi prema-saṃyutau .. śivā śivaḥ ca deva-ṛṣe su vicāra-parāyaṇau .. 8..
शिवा शिवावूचतुः ।।
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ॥ विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम्॥ ९॥
विवाह-योग्यौ संजातौ सुतौ इति च तौ उभौ ॥ विवाहः च कथम् कार्यः पुत्रयोः उभयोः शुभम्॥ ९॥
vivāha-yogyau saṃjātau sutau iti ca tau ubhau .. vivāhaḥ ca katham kāryaḥ putrayoḥ ubhayoḥ śubham.. 9..
षण्मुखश्च प्रियतमो गणेशश्च तथैव च॥ इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः॥ 2.4.19.१०॥
षण्मुखः च प्रियतमः गणेशः च तथा एव च॥ इति चिंता-समुद्विग्नौ लीला-आनन्दौ बभूवतुः॥ २।४।१९।१०॥
ṣaṇmukhaḥ ca priyatamaḥ gaṇeśaḥ ca tathā eva ca.. iti ciṃtā-samudvignau līlā-ānandau babhūvatuḥ.. 2.4.19.10..
स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ॥ तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११॥
स्व-पित्रोः मतम् आज्ञाय तौ सुतौ अपि संस्पृहौ ॥ तद्-इच्छया विवाह-अर्थम् बभूवतुः अथो मुने ॥ ११॥
sva-pitroḥ matam ājñāya tau sutau api saṃspṛhau .. tad-icchayā vivāha-artham babhūvatuḥ atho mune .. 11..
अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ॥ परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२॥
अहम् च परिणेष्यामि हि अहम् च एव पुनर् पुनर् ॥ परस्परम् च नित्यम् वै विवादे तद्-परौ उभौ ॥ १२॥
aham ca pariṇeṣyāmi hi aham ca eva punar punar .. parasparam ca nityam vai vivāde tad-parau ubhau .. 12..
श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ॥ लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३॥
श्रुत्वा तद्-वचनम् तौ च दंपती जगताम् प्रभू ॥ लौकिक-आचारम् आश्रित्य विस्मयम् परमम् गतौ ॥ १३॥
śrutvā tad-vacanam tau ca daṃpatī jagatām prabhū .. laukika-ācāram āśritya vismayam paramam gatau .. 13..
किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ॥ इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४ ॥
किम् कर्तव्यम् कथम् कार्यः विवाह-विधिः एतयोः ॥ इति निश्चित्य ताभ्याम् वै युक्तिः च रचिता अद्भुता ॥ १४ ॥
kim kartavyam katham kāryaḥ vivāha-vidhiḥ etayoḥ .. iti niścitya tābhyām vai yuktiḥ ca racitā adbhutā .. 14 ..
कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ॥ कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५ ॥
कदाचिद् समये स्थित्वा समाहूय स्व-पुत्रकौ ॥ कथयामासतुः तत्र पुत्रयोः पितरौ तदा ॥ १५ ॥
kadācid samaye sthitvā samāhūya sva-putrakau .. kathayāmāsatuḥ tatra putrayoḥ pitarau tadā .. 15 ..
शिवाशिवावूचतुः ।।
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥ श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् ॥ १६ ॥
अस्माकम् नियमः पूर्वम् कृतः च सुख-दः हि वाम् ॥ श्रूयताम् सु सुतौ प्रीत्या कथयावः यथार्थकम् ॥ १६ ॥
asmākam niyamaḥ pūrvam kṛtaḥ ca sukha-daḥ hi vām .. śrūyatām su sutau prītyā kathayāvaḥ yathārthakam .. 16 ..
समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ॥ तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि ॥ १७ ॥
समौ द्वौ अपि सत्-पुत्रौ विशेषः ना अत्र लभ्यते ॥ तस्मात् पणः कृतः शंदः पुत्रयोः उभयोः अपि ॥ १७ ॥
samau dvau api sat-putrau viśeṣaḥ nā atra labhyate .. tasmāt paṇaḥ kṛtaḥ śaṃdaḥ putrayoḥ ubhayoḥ api .. 17 ..
यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ॥ तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः ॥ १८॥
यः च एव पृथिवीम् सर्वाम् क्रान्त्वा पूर्वम् उपाव्रजेत् ॥ तस्य एव प्रथमम् कार्यः विवाहः शुभ-लक्षणः ॥ १८॥
yaḥ ca eva pṛthivīm sarvām krāntvā pūrvam upāvrajet .. tasya eva prathamam kāryaḥ vivāhaḥ śubha-lakṣaṇaḥ .. 18..
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ॥ जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै॥ १९॥
तयोः एवम् वचः श्रुत्वा शरजन्मा महा-बलः ॥ जगाम मन्दिरात् तूर्णम् पृथिवी-क्रमणाय वै॥ १९॥
tayoḥ evam vacaḥ śrutvā śarajanmā mahā-balaḥ .. jagāma mandirāt tūrṇam pṛthivī-kramaṇāya vai.. 19..
गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ॥ सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ॥ 2.4.19.२० ॥
गणनाथः च तत्र एव संस्थितः बुद्धि-सत्तमः ॥ सु बुद्ध्या चित्ते एव पुनर् पुनर् ॥ २।४।१९।२० ॥
gaṇanāthaḥ ca tatra eva saṃsthitaḥ buddhi-sattamaḥ .. su buddhyā citte eva punar punar .. 2.4.19.20 ..
किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ॥ क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१ ॥
किम् कर्तव्यम् क्व गंतव्यम् लंघितुम् ना एव शक्यते ॥ क्रोश-मात्रम् गतः स्यात् वै गम्यते न मया पुनर् ॥ २१ ॥
kim kartavyam kva gaṃtavyam laṃghitum nā eva śakyate .. krośa-mātram gataḥ syāt vai gamyate na mayā punar .. 21 ..
किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ॥ विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥ २२ ॥
किम् पुनर् पृविवीम् एताम् क्रांत्वा च उपार्जितम् सुखम् ॥ विचार्य इति गणेशः तु यत् चकार शृणुष्व तत् ॥ २२ ॥
kim punar pṛvivīm etām krāṃtvā ca upārjitam sukham .. vicārya iti gaṇeśaḥ tu yat cakāra śṛṇuṣva tat .. 22 ..
स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ॥ उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३॥
स्नानम् कृत्वा यथान्यायम् समागत्य स्वयम् गृहम् ॥ उवाच पितरम् तत्र मातरम् पुनर् एव सः ॥ २३॥
snānam kṛtvā yathānyāyam samāgatya svayam gṛham .. uvāca pitaram tatra mātaram punar eva saḥ .. 23..
गणेश उवाच ।।
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ॥ भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ॥ २४॥ ॥
आसने स्थापिते हि अत्र पूजा-अर्थम् भवतोः इह ॥ भवन्तौ संस्थितौ तातौ पूर्य्यताम् मे मनोरथः ॥ २४॥ ॥
āsane sthāpite hi atra pūjā-artham bhavatoḥ iha .. bhavantau saṃsthitau tātau pūryyatām me manorathaḥ .. 24.. ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ॥ अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५॥
इति श्रुत्वा वचः तस्य पार्वती-परमेश्वरौ ॥ अस्थाताम् आसने तत्र तद्-पूजा-ग्रहणाय वै ॥ २५॥
iti śrutvā vacaḥ tasya pārvatī-parameśvarau .. asthātām āsane tatra tad-pūjā-grahaṇāya vai .. 25..
तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ॥ एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ॥ २६॥
तेन अथ पूजितौ तौ च प्रक्रान्तौ च पुनर् पुनर् ॥ एवम् च कृतवान् सप्त प्रणामाः तु तथा एव सः ॥ २६॥
tena atha pūjitau tau ca prakrāntau ca punar punar .. evam ca kṛtavān sapta praṇāmāḥ tu tathā eva saḥ .. 26..
बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ॥ स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ ॥ २७॥
बद्धांजलिः अथ उवाच गणेशः बुद्धि-सागरः ॥ स्तुत्वा बहु तिथः तात पितरौ प्रेम-विह्वलौ ॥ २७॥
baddhāṃjaliḥ atha uvāca gaṇeśaḥ buddhi-sāgaraḥ .. stutvā bahu tithaḥ tāta pitarau prema-vihvalau .. 27..
गणेश उवाच ।।
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ॥ शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम ॥ २८॥
भो मातर् भो पितर् त्वम् च शृणु मे परमम् वचः ॥ शीघ्रम् च एव अत्र कर्तव्यः विवाहः शोभनः मम ॥ २८॥
bho mātar bho pitar tvam ca śṛṇu me paramam vacaḥ .. śīghram ca eva atra kartavyaḥ vivāhaḥ śobhanaḥ mama .. 28..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ॥ महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा॥ २९॥
इति एवम् वचनम् श्रुत्वा गणेशस्य महात्मनः ॥ महा-बुद्धि-निधिम् तम् तौ पितरौ ऊचतुः तदा॥ २९॥
iti evam vacanam śrutvā gaṇeśasya mahātmanaḥ .. mahā-buddhi-nidhim tam tau pitarau ūcatuḥ tadā.. 29..
शिवा शिवावूचतुः ।।
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ॥ कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ 2.4.19.३०॥
प्रक्रामेत भवान् सम्यक् पृथिवीम् च स काननाम् ॥ कुमारः गतवान् तत्र त्वम् गच्छ पुरस् आव्रज ॥ २।४।१९।३०॥
prakrāmeta bhavān samyak pṛthivīm ca sa kānanām .. kumāraḥ gatavān tatra tvam gaccha puras āvraja .. 2.4.19.30..
ब्रह्मोवाच।।
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ॥ उवाच नियतस्तत्र वचनं क्रोधसंयुतः॥ ३१॥
इति एवम् वचनम् श्रुत्वा पित्रोः गणपति द्रुतम् ॥ उवाच नियतः तत्र वचनम् क्रोध-संयुतः॥ ३१॥
iti evam vacanam śrutvā pitroḥ gaṇapati drutam .. uvāca niyataḥ tatra vacanam krodha-saṃyutaḥ.. 31..
गणेश उवाच ।।
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ॥ धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ॥ ३२॥
भो मातर् भो पितर् धर्म-रूपौ प्राज्ञौ युवाम् मतौ ॥ धर्मतः श्रूयताम् सम्यक् वचनम् मम सत्तमौ॥ ३२॥
bho mātar bho pitar dharma-rūpau prājñau yuvām matau .. dharmataḥ śrūyatām samyak vacanam mama sattamau.. 32..
मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ॥ एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३॥
मया तु पृथिवी क्रांता सप्त-वारम् पुनर् पुनर् ॥ एवम् कथम् ब्रुवाते वै पुनर् च पितरौ इह ॥ ३३॥
mayā tu pṛthivī krāṃtā sapta-vāram punar punar .. evam katham bruvāte vai punar ca pitarau iha .. 33..
ब्रह्मोवाच ।।
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ॥ महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४
तत् वचः तु तदा श्रुत्वा लौकिकीम् गतिम् आश्रितौ ॥ महा-लीला-करौ तत्र पितरौ ऊचतुः च तम् ॥ ३४
tat vacaḥ tu tadā śrutvā laukikīm gatim āśritau .. mahā-līlā-karau tatra pitarau ūcatuḥ ca tam .. 34
पितरावूचतुः ।।
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ॥ सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता ॥ ३५॥
कदा क्रांता त्वया पुत्र पृथिवी सु महत्तरा ॥ सप्त-द्वीपा समुद्र-अंता महद्भिः गहनैः युता ॥ ३५॥
kadā krāṃtā tvayā putra pṛthivī su mahattarā .. sapta-dvīpā samudra-aṃtā mahadbhiḥ gahanaiḥ yutā .. 35..
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ॥ महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत्॥ ३६॥
तयोः एवम् वचः श्रुत्वा शिव-अशंकरयोः मुने ॥ महा-बुद्धि-निधिः पुत्रः गणेशः वाक्यम् अब्रवीत्॥ ३६॥
tayoḥ evam vacaḥ śrutvā śiva-aśaṃkarayoḥ mune .. mahā-buddhi-nidhiḥ putraḥ gaṇeśaḥ vākyam abravīt.. 36..
गणेश उवाच ।।
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ॥ स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ॥ ३७॥
भवतोः पूजनम् कृत्वा शिव-अशंकरयोः अहम् ॥ स्व-बुद्ध्या हि समुद्र-अन्त-पृध्वीकृत-परिक्रमः ॥ ३७॥
bhavatoḥ pūjanam kṛtvā śiva-aśaṃkarayoḥ aham .. sva-buddhyā hi samudra-anta-pṛdhvīkṛta-parikramaḥ .. 37..
इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये॥ वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८॥
इति एवम् वचनम् देवे शास्त्रे वा धर्म-सञ्चये॥ वर्त्तते किम् च तत् तथ्यम् नहि किम् तथ्यम् एव वा ॥ ३८॥
iti evam vacanam deve śāstre vā dharma-sañcaye.. varttate kim ca tat tathyam nahi kim tathyam eva vā .. 38..
पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ॥ तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ॥ ३९॥
पित्रोः च पूजनम् कृत्वा प्रक्रांतिम् च करोति यः ॥ तस्य वै पृथिवी-जन्य-फलम् भवति निश्चितम् ॥ ३९॥
pitroḥ ca pūjanam kṛtvā prakrāṃtim ca karoti yaḥ .. tasya vai pṛthivī-janya-phalam bhavati niścitam .. 39..
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ॥ तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ 2.4.19.४० ॥
अपहाय गृहे यः वै पितरौ तीर्थम् आव्रजेत् ॥ तस्य पापम् तथा प्रोक्तम् हनने च तयोः यथा ॥ २।४।१९।४० ॥
apahāya gṛhe yaḥ vai pitarau tīrtham āvrajet .. tasya pāpam tathā proktam hanane ca tayoḥ yathā .. 2.4.19.40 ..
पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम्॥ अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१ ॥
पुत्रस्य च महत् तीर्थम् पित्रोः चरण-पंकजम्॥ अन्य-तीर्थम् तु दूरे वै गत्वा सम्प्राप्यते पुनर् ॥ ४१ ॥
putrasya ca mahat tīrtham pitroḥ caraṇa-paṃkajam.. anya-tīrtham tu dūre vai gatvā samprāpyate punar .. 41 ..
इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ॥ पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२ ॥
इदम् संनिहितम् तीर्थम् सुलभम् धर्म-साधनम् ॥ पुत्रस्य च स्त्रियाः च एव तीर्थम् गेहे सु शोभनम् ॥ ४२ ॥
idam saṃnihitam tīrtham sulabham dharma-sādhanam .. putrasya ca striyāḥ ca eva tīrtham gehe su śobhanam .. 42 ..
इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ॥ भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३ ॥
इति शास्त्राणि वेदाः च भाषन्ते यत् निरंतरम् ॥ भवद्भ्याम् तत् प्रकर्त्तव्यम् असत्यम् पुनर् एव च ॥ ४३ ॥
iti śāstrāṇi vedāḥ ca bhāṣante yat niraṃtaram .. bhavadbhyām tat prakarttavyam asatyam punar eva ca .. 43 ..
भवदीयं त्विदं रूपमसत्यं च भवेदिह ॥ तदा वेदोप्यसत्यो वै भवेदिति न संशयः ॥ ४४॥
भवदीयम् तु इदम् रूपम् असत्यम् च भवेत् इह ॥ तदा वेद उपि असत्यः वै भवेत् इति न संशयः ॥ ४४॥
bhavadīyam tu idam rūpam asatyam ca bhavet iha .. tadā veda upi asatyaḥ vai bhavet iti na saṃśayaḥ .. 44..
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ॥ अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति॥ ४५॥
शीघ्रम् च भवितव्यः मे विवाहः क्रियताम् शुभः ॥ अथ वा वेद-शास्त्रम् च न्यलीकम् कथ्यताम् इति॥ ४५॥
śīghram ca bhavitavyaḥ me vivāhaḥ kriyatām śubhaḥ .. atha vā veda-śāstram ca nyalīkam kathyatām iti.. 45..
द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत्॥ कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६॥
द्वयोः श्रेष्ठतमम् मध्ये यत् स्यात् सम्यक् विचार्य तत्॥ कर्तव्यम् च प्रयत्नेन पितरौ धर्म-रूपिणौ ॥ ४६॥
dvayoḥ śreṣṭhatamam madhye yat syāt samyak vicārya tat.. kartavyam ca prayatnena pitarau dharma-rūpiṇau .. 46..
।। ब्रह्मोवाच ।।
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ॥ विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७ ॥
इति उक्त्वा पार्वती-पुत्रः स गणेशः प्रकृष्ट-धीः ॥ विरराम महा-ज्ञानी तदा बुद्धिमताम् वरः ॥ ४७ ॥
iti uktvā pārvatī-putraḥ sa gaṇeśaḥ prakṛṣṭa-dhīḥ .. virarāma mahā-jñānī tadā buddhimatām varaḥ .. 47 ..
तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ॥ इति श्रुत्वा वचस्तस्य विस्मयं परमं गता॥ ४८॥
तौ दंपती च विश्वेशौ षार्वती-शंकरौ तदा ॥ इति श्रुत्वा वचः तस्य विस्मयम् परमम् गता॥ ४८॥
tau daṃpatī ca viśveśau ṣārvatī-śaṃkarau tadā .. iti śrutvā vacaḥ tasya vismayam paramam gatā.. 48..
ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ॥ सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९॥
ततस् शिवा शिवः च एव पुत्रम् बुद्धि-विचक्षणम् ॥ सु प्रशस्य ऊचतुः प्रीत्या तौ यथार्थ-प्रभाषिणम् ॥ ४९॥
tatas śivā śivaḥ ca eva putram buddhi-vicakṣaṇam .. su praśasya ūcatuḥ prītyā tau yathārtha-prabhāṣiṇam .. 49..
शिवाशिवावूचतुः।।
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः॥ त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ 2.4.19.५० ॥
पुत्र ते विमला बुद्धिः समुत्पन्ना महात्मनः॥ त्वया उक्तम् यत् वचः च एव ततस् च एव च ना अन्यथा ॥ २।४।१९।५० ॥
putra te vimalā buddhiḥ samutpannā mahātmanaḥ.. tvayā uktam yat vacaḥ ca eva tatas ca eva ca nā anyathā .. 2.4.19.50 ..
समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ॥ तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१॥
समुत्पन्ने च दुःखे च यस्य बुद्धिः विशिष्यते ॥ तस्य दुखम् विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१॥
samutpanne ca duḥkhe ca yasya buddhiḥ viśiṣyate .. tasya dukham vinaśyeta sūrye dṛṣṭe yathā tamaḥ .. 51..
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ॥ कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ॥ ५२ ॥
बुद्धिः यस्य बलम् तस्य निर्बुद्धेः तु कुतस् बलम् ॥ कूपे सिंहः मद-उन्मत्तः शशकेन निपातितः ॥ ५२ ॥
buddhiḥ yasya balam tasya nirbuddheḥ tu kutas balam .. kūpe siṃhaḥ mada-unmattaḥ śaśakena nipātitaḥ .. 52 ..
वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ॥ त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम्॥ ५३॥
वेद-शास्त्र-पुराणेषु बालकस्य यथा उदितम् ॥ त्वया कृतम् तु तत् सर्वम् धर्मस्य परिपालनम्॥ ५३॥
veda-śāstra-purāṇeṣu bālakasya yathā uditam .. tvayā kṛtam tu tat sarvam dharmasya paripālanam.. 53..
सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह॥ आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना॥ ५४॥
सम्यक् कृतम् त्वया यत् च तत् केन अपि भवेत् इह॥ आवाभ्याम् मानितम् तत् च न अन्यथा क्रियते अधुना॥ ५४॥
samyak kṛtam tvayā yat ca tat kena api bhavet iha.. āvābhyām mānitam tat ca na anyathā kriyate adhunā.. 54..
ब्रह्मोवाच।।
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम्॥ विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम्॥ ५५॥
इति उक्त्वा तौ समाश्वास्य गणेशम् बुद्धि-सागरम्॥ विवाह-करणे च अस्य मतिम् चक्रतुः उत्तमाम्॥ ५५॥
iti uktvā tau samāśvāsya gaṇeśam buddhi-sāgaram.. vivāha-karaṇe ca asya matim cakratuḥ uttamām.. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः॥ १९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमः नाम एकोनविंशः अध्यायः॥ १९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśavivāhopakramaḥ nāma ekonaviṃśaḥ adhyāyaḥ.. 19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In