| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ॥ आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १॥
अथ शम्भुः समाहूय नन्दि-आदीन् सकलान् गणान् ॥ आज्ञापयामास मुदा गन्तुम् स्वेन च तत्र वै ॥ १॥
atha śambhuḥ samāhūya nandi-ādīn sakalān gaṇān .. ājñāpayāmāsa mudā gantum svena ca tatra vai .. 1..
।। शिव उवाच ।।
अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ॥ कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥ २ ॥
अपि यूयम् सह मया संगच्छध्वम् गिरेः पुरम् ॥ कियत् गणान् इह आस्थाप्य महा-उत्सव-पुरस्सरम् ॥ २ ॥
api yūyam saha mayā saṃgacchadhvam gireḥ puram .. kiyat gaṇān iha āsthāpya mahā-utsava-purassaram .. 2 ..
ब्रह्मोवाच ।।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ॥ स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम् ॥ ३ ॥
अथ ते समनुज्ञप्ताः गणेशाः निर्ययुः मुदा ॥ स्वम् स्वम् बलम् उपादाय तान् कथंचिद् वदामि अहम् ॥ ३ ॥
atha te samanujñaptāḥ gaṇeśāḥ niryayuḥ mudā .. svam svam balam upādāya tān kathaṃcid vadāmi aham .. 3 ..
अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥ शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति ॥ ४ ॥
अभ्यगात् शंखकर्णः च गण-कोट्या गणेश्वरः ॥ शिवेन सार्द्धम् संगन्तुम् हिमाचल-पुरम् प्रति ॥ ४ ॥
abhyagāt śaṃkhakarṇaḥ ca gaṇa-koṭyā gaṇeśvaraḥ .. śivena sārddham saṃgantum himācala-puram prati .. 4 ..
दशकोट्या केकराक्षो गणानां समहोत्सवः ॥ अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५॥
दश-कोट्या केकर-अक्षः गणानाम् स महा-उत्सवः ॥ अष्ट-कोट्या च विकृतः गणानाम् गणनायकः ॥ ५॥
daśa-koṭyā kekara-akṣaḥ gaṇānām sa mahā-utsavaḥ .. aṣṭa-koṭyā ca vikṛtaḥ gaṇānām gaṇanāyakaḥ .. 5..
चतुष्कोट्या विशाखश्च गणानां गणनायकः॥ पारिजातश्च नवभिः कोटिभिर्गणपुंगवः ॥ ६॥
चतुष्कोट्या विशाखः च गणानाम् गणनायकः॥ पारिजातः च नवभिः कोटिभिः गण-पुंगवः ॥ ६॥
catuṣkoṭyā viśākhaḥ ca gaṇānām gaṇanāyakaḥ.. pārijātaḥ ca navabhiḥ koṭibhiḥ gaṇa-puṃgavaḥ .. 6..
षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ॥ गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः ॥ ७॥
षष्टिः सर्वान्तकः श्रीमान् तथा एव विकृत-आननः ॥ कोटि-कोटिभिः गणनायकः ॥ ७॥
ṣaṣṭiḥ sarvāntakaḥ śrīmān tathā eva vikṛta-ānanaḥ .. koṭi-koṭibhiḥ gaṇanāyakaḥ .. 7..
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ॥ षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८॥
पञ्चभिः च कपाल-आख्यः गणेशः कोटिभिः तथा ॥ षड्भिः सन्दारकः वीरः गणानाम् कोटिभिः मुने ॥ ८॥
pañcabhiḥ ca kapāla-ākhyaḥ gaṇeśaḥ koṭibhiḥ tathā .. ṣaḍbhiḥ sandārakaḥ vīraḥ gaṇānām koṭibhiḥ mune .. 8..
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९॥
कोटि-कोटिभिः एवा इह कन्दुकः कुण्डकः तथा ॥ विष्टम्भः गणपः अष्टाभिः गणानाम् कोटिभिः तथा ॥ ९॥
koṭi-koṭibhiḥ evā iha kandukaḥ kuṇḍakaḥ tathā .. viṣṭambhaḥ gaṇapaḥ aṣṭābhiḥ gaṇānām koṭibhiḥ tathā .. 9..
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ॥ तथा संनादको वीरो गणेशो मुनिसत्तम॥ 2.3.40.१०॥
सहस्र-कोट्या गणपः पिप्पलः मुदितः ययौ ॥ तथा संनादकः वीरः गणेशः मुनि-सत्तम॥ २।३।४०।१०॥
sahasra-koṭyā gaṇapaḥ pippalaḥ muditaḥ yayau .. tathā saṃnādakaḥ vīraḥ gaṇeśaḥ muni-sattama.. 2.3.40.10..
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ॥ महाकेशस्सहस्रेण कोटीनां गणपो ययौ ॥ ११॥
आवेशनः तथा अष्टाभिः कोटिभिः गणनायकः ॥ महाकेशः सहस्रेण कोटीनाम् गणपः ययौ ॥ ११॥
āveśanaḥ tathā aṣṭābhiḥ koṭibhiḥ gaṇanāyakaḥ .. mahākeśaḥ sahasreṇa koṭīnām gaṇapaḥ yayau .. 11..
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने॥ अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः ॥ १२ ॥
कुण्डः द्वादश-कोट्या हि तथा पर्वतकः मुने॥ अष्टाभिः कोटिभिः वीरः समगात् चन्द्र-तापनः ॥ १२ ॥
kuṇḍaḥ dvādaśa-koṭyā hi tathā parvatakaḥ mune.. aṣṭābhiḥ koṭibhiḥ vīraḥ samagāt candra-tāpanaḥ .. 12 ..
कालश्च कालकश्चैव महाकालश्शतेन वै ॥ कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥ १३ ॥
कालः च कालकः च एव महाकालः शतेन वै ॥ कोटीनाम् गणनाथः हि तथा एवा अग्निक-नामकः ॥ १३ ॥
kālaḥ ca kālakaḥ ca eva mahākālaḥ śatena vai .. koṭīnām gaṇanāthaḥ hi tathā evā agnika-nāmakaḥ .. 13 ..
कोट्यग्निमुख एवागाद् गणानां गणनायकः ॥ आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ १४ ॥
कोटि-अग्नि-मुखः एव आगात् गणानाम् गणनायकः ॥ आदित्यमूर्द्धा कोट्या च तथा च एव घनावहः ॥ १४ ॥
koṭi-agni-mukhaḥ eva āgāt gaṇānām gaṇanāyakaḥ .. ādityamūrddhā koṭyā ca tathā ca eva ghanāvahaḥ .. 14 ..
सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ॥ अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥ १५॥
सन्नाहः शत-कोट्या हि कुमुदः गणपः तथा ॥ अमोघः कोकिलः च एव शत-कोट्या गणाधिपः ॥ १५॥
sannāhaḥ śata-koṭyā hi kumudaḥ gaṇapaḥ tathā .. amoghaḥ kokilaḥ ca eva śata-koṭyā gaṇādhipaḥ .. 15..
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ॥ काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥ १६॥
सुमन्त्रः कोटि-कोट्या च गणानाम् गणानायकः ॥ काकपादोदरः कोटि-षष्ट्या सन्तानकः तथा ॥ १६॥
sumantraḥ koṭi-koṭyā ca gaṇānām gaṇānāyakaḥ .. kākapādodaraḥ koṭi-ṣaṣṭyā santānakaḥ tathā .. 16..
महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ॥ नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ १७॥
महाबलः च नवभिः मधुपिंगः च कोकिलः ॥ नीलः नवत्या कोटीनाम् पूर्णभद्रः तथा एव च ॥ १७॥
mahābalaḥ ca navabhiḥ madhupiṃgaḥ ca kokilaḥ .. nīlaḥ navatyā koṭīnām pūrṇabhadraḥ tathā eva ca .. 17..
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ॥ ययौ नवतिकोट्या तु गणेशानो हि रोमकः ॥ १८॥
सप्त-कोट्या चतुर्वक्त्रः करणः विंश-कोटिभिः ॥ ययौ नवति-कोट्या तु गणेशानः हि रोमकः ॥ १८॥
sapta-koṭyā caturvaktraḥ karaṇaḥ viṃśa-koṭibhiḥ .. yayau navati-koṭyā tu gaṇeśānaḥ hi romakaḥ .. 18..
यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ॥ तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक्॥ १९॥
यज्वाशः शतमन्युः च मेघमन्युः च नारद ॥ तावत्-कोट्या ययुः सर्वे गणेशाः हि पृथक् पृथक्॥ १९॥
yajvāśaḥ śatamanyuḥ ca meghamanyuḥ ca nārada .. tāvat-koṭyā yayuḥ sarve gaṇeśāḥ hi pṛthak pṛthak.. 19..
काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ॥ विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः ॥ 2.3.40.२० ॥
काष्ठाङ्गुष्ठः चतुष्षष्ट्या कोटीनाम् गणनायकः ॥ विरूपाक्षः सुकेशः च वृषाभः च सनातनः ॥ २।३।४०।२० ॥
kāṣṭhāṅguṣṭhaḥ catuṣṣaṣṭyā koṭīnām gaṇanāyakaḥ .. virūpākṣaḥ sukeśaḥ ca vṛṣābhaḥ ca sanātanaḥ .. 2.3.40.20 ..
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ॥ सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः ॥ २१॥
तालकेतुः षष्-आस्यः च चञ्च्व-आस्यः च सनातनः ॥ सम्वर्तकः तथा चैत्रः लकुलीशः स्वयम्प्रभुः ॥ २१॥
tālaketuḥ ṣaṣ-āsyaḥ ca cañcva-āsyaḥ ca sanātanaḥ .. samvartakaḥ tathā caitraḥ lakulīśaḥ svayamprabhuḥ .. 21..
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा ॥ २२॥
लोक-अन्तकः च दीप्त-आत्मा तथा दैत्य-अन्तकः मुने ॥ देवः भृंगिरिटिः श्रीमान् देवदेव-प्रियः तथा ॥ २२॥
loka-antakaḥ ca dīpta-ātmā tathā daitya-antakaḥ mune .. devaḥ bhṛṃgiriṭiḥ śrīmān devadeva-priyaḥ tathā .. 22..
अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ॥ ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः ॥ २३॥
अशनिः भानुकः च एव चतुष्षष्ट्या सहस्रशस् ॥ ययुः शिव-विवाह-अर्थम् शिवेन सहसा उत्सवाः ॥ २३॥
aśaniḥ bhānukaḥ ca eva catuṣṣaṣṭyā sahasraśas .. yayuḥ śiva-vivāha-artham śivena sahasā utsavāḥ .. 23..
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ॥ वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः ॥ २४ ॥
भूत-कोटि-सहस्रेण प्रमथाः कोटिभिः त्रिभिः ॥ वीरभद्रः चतुष्षष्ट्या ॥ २४ ॥
bhūta-koṭi-sahasreṇa pramathāḥ koṭibhiḥ tribhiḥ .. vīrabhadraḥ catuṣṣaṣṭyā .. 24 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ॥ तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे ॥ २५ ॥
कोटि-कोटि-सहस्राणाम् शतैः विंशतिभिः वृताः ॥ तत्र जग्मुः च नन्दि-आद्याः गणपाः शंकर-उत्सवे ॥ २५ ॥
koṭi-koṭi-sahasrāṇām śataiḥ viṃśatibhiḥ vṛtāḥ .. tatra jagmuḥ ca nandi-ādyāḥ gaṇapāḥ śaṃkara-utsave .. 25 ..
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ॥ उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे ॥ २६ ॥
क्षेत्रपालः भैरवः च कोटि-कोटि-गणैः युतः ॥ उद्वाहः शंकरस्य इति आययौ प्रीत्या महा-उत्सवे ॥ २६ ॥
kṣetrapālaḥ bhairavaḥ ca koṭi-koṭi-gaṇaiḥ yutaḥ .. udvāhaḥ śaṃkarasya iti āyayau prītyā mahā-utsave .. 26 ..
एते चान्ये च गणपा असङ्ख्याता महाबलाः ॥ तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे ॥ २७॥
एते च अन्ये च गणपाः असङ्ख्याताः महा-बलाः ॥ तत्र जग्मुः महा-प्रीत्या स उत्साहाः शंकर-उत्सवे ॥ २७॥
ete ca anye ca gaṇapāḥ asaṅkhyātāḥ mahā-balāḥ .. tatra jagmuḥ mahā-prītyā sa utsāhāḥ śaṃkara-utsave .. 27..
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८॥
सर्वे सहस्र-हस्ताः च जटा-मुकुट-धारिणः ॥ चन्द्र-रेखा-अवतंसाः च नीलकण्ठाः त्रि-लोचनाः ॥ २८॥
sarve sahasra-hastāḥ ca jaṭā-mukuṭa-dhāriṇaḥ .. candra-rekhā-avataṃsāḥ ca nīlakaṇṭhāḥ tri-locanāḥ .. 28..
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥ हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥ २९ ॥
रुद्राक्ष-आभरणाः सर्वे तथा सत्-भस्म-धारिणः ॥ हार-कुण्डल-केयूर-मुकुट-आद्यैः अलंकृताः ॥ २९ ॥
rudrākṣa-ābharaṇāḥ sarve tathā sat-bhasma-dhāriṇaḥ .. hāra-kuṇḍala-keyūra-mukuṭa-ādyaiḥ alaṃkṛtāḥ .. 29 ..
ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ॥ सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥ 2.3.40.३०॥
ब्रह्म-विष्णु-इन्द्र-संकाशाः अणिम-आदि-गुणैः युताः ॥ सूर्य्य-कोटि-प्रतीकाशाः तत्र रेजुः गणेश्वराः ॥ २।३।४०।३०॥
brahma-viṣṇu-indra-saṃkāśāḥ aṇima-ādi-guṇaiḥ yutāḥ .. sūryya-koṭi-pratīkāśāḥ tatra rejuḥ gaṇeśvarāḥ .. 2.3.40.30..
पृथिवीचारिणः केचित् केचित्पातालचारिणः ॥ केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१॥
पृथिवी-चारिणः केचिद् केचिद् पाताल-चारिणः ॥ केचिद् व्योम-चराः केचिद् सप्त-स्वर्ग-चराः मुने ॥ ३१॥
pṛthivī-cāriṇaḥ kecid kecid pātāla-cāriṇaḥ .. kecid vyoma-carāḥ kecid sapta-svarga-carāḥ mune .. 31..
किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥ आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे॥ ३२॥
किम् बहु-उक्तेन देवर्षे सर्व-लोक-निवासिनः ॥ आययुः स्व-गणाः शम्भोः प्रीत्या वै शङ्कर-उत्सवे॥ ३२॥
kim bahu-uktena devarṣe sarva-loka-nivāsinaḥ .. āyayuḥ sva-gaṇāḥ śambhoḥ prītyā vai śaṅkara-utsave.. 32..
इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ॥ ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥ ३३॥
इत्थम् देवैः गणैः च अन्यैः सहितः शङ्करः प्रभुः ॥ ययौ हिमगिरि-पुरम् विवाह-अर्थम् निजस्य वै ॥ ३३॥
ittham devaiḥ gaṇaiḥ ca anyaiḥ sahitaḥ śaṅkaraḥ prabhuḥ .. yayau himagiri-puram vivāha-artham nijasya vai .. 33..
यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ॥ तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर॥ ३४॥
यदा आजगाम सर्व-ईशः विवाह-अर्थे सुर-आदिभिः ॥ तदा तत्र हि अभूत् वृत्तम् तत् शृणु त्वम् मुनि-ईश्वर॥ ३४॥
yadā ājagāma sarva-īśaḥ vivāha-arthe sura-ādibhiḥ .. tadā tatra hi abhūt vṛttam tat śṛṇu tvam muni-īśvara.. 34..
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता॥ तत्राजगाम सुप्रीत्या परेषां सुंभयावहा॥ ३५॥
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सव-संयुता॥ तत्र आजगाम सु प्रीत्या परेषाम् सुंभय-आवहा॥ ३५॥
rudrasya bhaginī bhūtvā caṇḍī sūtsava-saṃyutā.. tatra ājagāma su prītyā pareṣām suṃbhaya-āvahā.. 35..
प्रेतासनसमारूढा सर्पाभरणभूषिता॥ पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥ ३६॥
प्रेत-आसन-समारूढा सर्प-आभरण-भूषिता॥ पूर्णम् कलशम् आदाय हैमम् मूर्ध्नि महा-प्रभम् ॥ ३६॥
preta-āsana-samārūḍhā sarpa-ābharaṇa-bhūṣitā.. pūrṇam kalaśam ādāya haimam mūrdhni mahā-prabham .. 36..
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना॥ कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला॥ ३७॥
स्व-परीवार-संयुक्ता दीप्त-आस्या दीप्त-लोचना॥ कुतूहलम् प्रकुर्वन्ती जात-हर्षा महा-बला॥ ३७॥
sva-parīvāra-saṃyuktā dīpta-āsyā dīpta-locanā.. kutūhalam prakurvantī jāta-harṣā mahā-balā.. 37..
तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ॥ विराजन्ते स्म बहुशस्तथा नानाविधास्तदा॥ ३८॥
तत्र भूत-गणाः दिव्याः विरूपः कोटिशस् मुने ॥ विराजन्ते स्म बहुशस् तथा नानाविधाः तदा॥ ३८॥
tatra bhūta-gaṇāḥ divyāḥ virūpaḥ koṭiśas mune .. virājante sma bahuśas tathā nānāvidhāḥ tadā.. 38..
तैस्समेताग्रतश्चण्डी जगाम विकृतानना॥ कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी॥ ३९॥
तैः समेता अग्रतस् चण्डी जगाम विकृत-आनना॥ कुतूहल-अन्विता प्रीता प्रीति-उपद्रव-कारिणी॥ ३९॥
taiḥ sametā agratas caṇḍī jagāma vikṛta-ānanā.. kutūhala-anvitā prītā prīti-upadrava-kāriṇī.. 39..
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा॥ कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते॥ 2.3.40.४०॥
चण्ड्या सर्वे रुद्र-गणाः पृष्ठतस् च कृताः तदा॥ कोटि-एकादश-संख्याकाः रौद्र-रुद्र-प्रियाः च ते॥ २।३।४०।४०॥
caṇḍyā sarve rudra-gaṇāḥ pṛṣṭhatas ca kṛtāḥ tadā.. koṭi-ekādaśa-saṃkhyākāḥ raudra-rudra-priyāḥ ca te.. 2.3.40.40..
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम्॥ भेरीझंकारशब्देन शंखानां निनदेन च ॥ ४१ ॥
तदा डमरु-निर्घोषैः व्याप्तम् आसीत् जगत्त्रयम्॥ भेरी-झंकार-शब्देन शंखानाम् निनदेन च ॥ ४१ ॥
tadā ḍamaru-nirghoṣaiḥ vyāptam āsīt jagattrayam.. bherī-jhaṃkāra-śabdena śaṃkhānām ninadena ca .. 41 ..
तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ॥ कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ॥ ४२ ॥
तथा दुन्दुभि-निर्घोषैः शब्दः कोलाहलः अभवत् ॥ कुर्वन् जगत् मंगलम् च नाशयेत् मंगल-इतरत् ॥ ४२ ॥
tathā dundubhi-nirghoṣaiḥ śabdaḥ kolāhalaḥ abhavat .. kurvan jagat maṃgalam ca nāśayet maṃgala-itarat .. 42 ..
गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ॥ अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने ॥ ४३ ॥
गणानाम् पृष्ठतस् भूत्वा सर्वे देवाः समुत्सुकाः ॥ अन्वयुः सर्व-सिद्धाः च लोकपाल-आदिकाः मुने ॥ ४३ ॥
gaṇānām pṛṣṭhatas bhūtvā sarve devāḥ samutsukāḥ .. anvayuḥ sarva-siddhāḥ ca lokapāla-ādikāḥ mune .. 43 ..
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ॥ शुशुभे ध्रियमाणेन क्षत्रेण महता मुने॥ ४४॥
मध्ये व्रजन् रमेशः अथ गरुडासनम् आश्रितः ॥ शुशुभे ध्रियमाणेन क्षत्रेण महता मुने॥ ४४॥
madhye vrajan rameśaḥ atha garuḍāsanam āśritaḥ .. śuśubhe dhriyamāṇena kṣatreṇa mahatā mune.. 44..
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ॥ पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ॥ ४५
चामरैः वीज्यमानः असौ स्व-गणैः परिवारितः ॥ पार्षदैः विलसद्भिः च स्व-भूषा-विधि-भूषितः ॥ ४५
cāmaraiḥ vījyamānaḥ asau sva-gaṇaiḥ parivāritaḥ .. pārṣadaiḥ vilasadbhiḥ ca sva-bhūṣā-vidhi-bhūṣitaḥ .. 45
तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ॥ वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा ॥ ॥ ४६॥
तथा अहम् अपि अशोभम् वै व्रजन् मार्गे विराजितः ॥ वेदैः मूर्ति-धरैः शास्त्रैः पुराणैः आगमैः तथा ॥ ॥ ४६॥
tathā aham api aśobham vai vrajan mārge virājitaḥ .. vedaiḥ mūrti-dharaiḥ śāstraiḥ purāṇaiḥ āgamaiḥ tathā .. .. 46..
सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ॥ परिवारैस्संयुतो हि शिवसेवनतत्परः ॥ ४७॥
सनक-आदि-महा-सिद्धैः स प्रजापतिभिः सुतैः ॥ परिवारैः संयुतः हि शिव-सेवन-तत्परः ॥ ४७॥
sanaka-ādi-mahā-siddhaiḥ sa prajāpatibhiḥ sutaiḥ .. parivāraiḥ saṃyutaḥ hi śiva-sevana-tatparaḥ .. 47..
स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ॥ नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥ ४८॥
स्व-सैन्य-मध्य-गः शक्रः ऐरावत-गज स्थितः ॥ नाम-अ विभूषितः अत्यन्तम् व्रजन् रेजे सुरेश्वरः ॥ ४८॥
sva-sainya-madhya-gaḥ śakraḥ airāvata-gaja sthitaḥ .. nāma-a vibhūṣitaḥ atyantam vrajan reje sureśvaraḥ .. 48..
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ॥ विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति ॥ ४९॥
तदा तु व्रजमानाः ते ऋषयः बहवः च ते ॥ विरेजुः अति स उत्कण्ठः शिवस्य उद्वाहनम् प्रति ॥ ४९॥
tadā tu vrajamānāḥ te ṛṣayaḥ bahavaḥ ca te .. virejuḥ ati sa utkaṇṭhaḥ śivasya udvāhanam prati .. 49..
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ॥ भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥ 2.3.40.५०॥
शाकिन्यः यातुधानाः च वेतालाः ब्रह्मराक्षसाः ॥ भूत-प्रेत-पिशाचाः च तथा अन्ये प्रमथ-आदयः ॥ २।३।४०।५०॥
śākinyaḥ yātudhānāḥ ca vetālāḥ brahmarākṣasāḥ .. bhūta-preta-piśācāḥ ca tathā anye pramatha-ādayaḥ .. 2.3.40.50..
तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ॥ गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥ ५१॥
तुम्बुरुः नारदः हाहा हूहूः च इति आदयः वराः ॥ गन्धर्वाः किन्नराः जग्मुः वाद्यान् आध्माय हर्षिताः ॥ ५१॥
tumburuḥ nāradaḥ hāhā hūhūḥ ca iti ādayaḥ varāḥ .. gandharvāḥ kinnarāḥ jagmuḥ vādyān ādhmāya harṣitāḥ .. 51..
जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ॥ गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः ॥ ५२॥
जगतः मातरः सर्वाः देवकन्याः च सर्वशस् ॥ गायत्री च एव सावित्री लक्ष्मीः अन्याः सुर-स्त्रियः ॥ ५२॥
jagataḥ mātaraḥ sarvāḥ devakanyāḥ ca sarvaśas .. gāyatrī ca eva sāvitrī lakṣmīḥ anyāḥ sura-striyaḥ .. 52..
एताश्चान्याश्च देवानां पत्नयो भवमातरः ॥ उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः॥ ५३॥
एताः च अन्याः च देवानाम् पत्नयः भव-मातरः ॥ उद्वाहः शंकरस्य इति जग्मुः सर्वाः मुदा अन्विताः॥ ५३॥
etāḥ ca anyāḥ ca devānām patnayaḥ bhava-mātaraḥ .. udvāhaḥ śaṃkarasya iti jagmuḥ sarvāḥ mudā anvitāḥ.. 53..
शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ॥ यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः ॥ ५४॥
शुद्ध-स्फटिक-संकाशः वृषभः सर्व-सुन्दरः ॥ यः धर्मः उच्यते वेदैः शास्त्रैः सिद्ध-महा-ऋषिभिः ॥ ५४॥
śuddha-sphaṭika-saṃkāśaḥ vṛṣabhaḥ sarva-sundaraḥ .. yaḥ dharmaḥ ucyate vedaiḥ śāstraiḥ siddha-mahā-ṛṣibhiḥ .. 54..
तमारूढो महादेवो वृषभं धर्मवत्सलः॥ शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन् ॥ ५५॥
तम् आरूढः महादेवः वृषभम् धर्म-वत्सलः॥ शुशुभेति इव देवर्षि-सेवितः सकलैः व्रजन् ॥ ५५॥
tam ārūḍhaḥ mahādevaḥ vṛṣabham dharma-vatsalaḥ.. śuśubheti iva devarṣi-sevitaḥ sakalaiḥ vrajan .. 55..
एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः॥ हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ॥ ५६ ॥
एभिः समेतैः स फलैः महा-ऋषिभिः बभौ महेशः बहुशस् उति अलंकृतः॥ हिमालय-आह्वस्य धरस्य संव्रजन् पाणिग्रह-अर्थम् सदनम् शिवायाः ॥ ५६ ॥
ebhiḥ sametaiḥ sa phalaiḥ mahā-ṛṣibhiḥ babhau maheśaḥ bahuśas uti alaṃkṛtaḥ.. himālaya-āhvasya dharasya saṃvrajan pāṇigraha-artham sadanam śivāyāḥ .. 56 ..
इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ॥ हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ॥ ५७॥ ।
इति उक्तम् शम्भु-चरितम् गमनम् परम-उत्सवम् ॥ हिमालय-पुर-उद्भूतम् सत्-वृत्तम् शृणु नारद ॥ ५७॥ ।
iti uktam śambhu-caritam gamanam parama-utsavam .. himālaya-pura-udbhūtam sat-vṛttam śṛṇu nārada .. 57.. .
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ॥ ४०॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे यात्रावर्णनम् नाम चत्वारिशः अध्यायः ॥ ४०॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe yātrāvarṇanam nāma catvāriśaḥ adhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In