| |
|

This overlay will guide you through the buttons:

श्रीगणेशाय नमः ॥
अथ तृतीया शतरुद्रसंहिता प्रारभ्यते॥
वन्दे महानन्दमनन्तलीलम्महेश्वरं सर्व्वविभुम्महान्तम्॥गौरीप्रियं कार्तिकविघ्नराजसमुद्भवं शंकरमादिदेवम् ॥ १॥
शौनक उवाच ।।
व्यासशिष्यमहाभाग सूत ज्ञानदयानिधे ॥ वद शंभ्ववतारांश्च यैरकार्षीत्सतां शिवम् ॥ १॥
सूत उवाच ।।
मुने शौनक सद्भक्त्या दत्तचित्तो जितेन्द्रियः ॥ अवताराञ्छिवस्याहं वच्मि ते मुनये शृणु ॥ २॥
एतत्पृष्टः पुरा नन्दी शिवमूर्तिस्सतां गतिः ॥ सनत्कुमारेण मुने तमुवाच शिवं स्मरन् ॥ ३॥
नन्दीश्वर उवाच ।।
असंख्याता हि कल्पेषु विभोः सर्व्वेश्वरस्य वै॥अवतारास्तथापीह वच्म्यहं तान्यथामति ॥ ४ ॥
एकोनविंशकः कल्पो विज्ञेयः श्वेत लोहितः ॥ सद्योजातावतारस्तु प्रथमः परिकीर्तितः ॥ ५॥
तस्मिंस्तत्परमं ब्रह्म ध्यायतो ब्रह्मणस्तथा॥उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ॥ ६ ॥
तं दृष्ट्वा पुरुषं ब्रह्मा ब्रह्मरूपिणमीश्वरम् ॥ ज्ञात्वा ध्यात्वा स हृदये ववन्दे प्रयताञ्जलिः। ७ ॥ ।
सद्योजातं शिवं बुद्ध्वा जहर्ष भुवनेश्वरः ॥ मुहुर्मुहुश्च सद्बुद्ध्या परं तं समचिन्तयत्॥८॥
ततोऽस्य ध्यायतः श्वेताः प्रादुर्भूता यशस्विनः ॥ कुमाराः परविज्ञानपरब्रह्मस्वरूपिणः ॥ ९॥
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ॥ शिष्यास्तस्य महात्मानो यैस्तद्ब्रह्म समावृतम्॥3.1.१०॥
सद्योजातश्च वै शम्भुर्ददौ ज्ञानं च वेधसे ॥ सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥ ११॥ (इति सद्योजाताव तारः१)
ततो विंशतिमः कल्पो रक्तो नाम प्रकीर्तितः ॥ ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥ १२॥
ध्यायतः पुत्रकामस्य प्रादुर्भू तो विधेस्सुतः ॥ रक्तमाल्याम्बरधरो रक्ताक्षो रक्तभूषणः॥१३॥
स तं दृष्ट्वा महात्मानं कुमारं ध्यानमाश्रितः॥वामदेवं शिवं ज्ञात्वा प्रणनाम कृतांजलिः ॥ १४ ॥
ततस्तस्य सुता ह्यासंश्चत्वारो रक्तवाससः ॥ विरजाश्च विवाहश्च विशोको विश्वभावनः ॥ १५ ॥
वामदेवः स वै शम्भुर्ददौ ज्ञानं च वेधसे ॥ सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥ १६ ॥ (इति वामदेवावतारः २)
एकविंशतिमः कल्पः पीतवासा इति स्मृतः ॥ ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥ १७॥
ध्यायतः पुत्रकामस्य विधेर्जातः कुमारकः॥पीतवस्त्रादिक प्रौढो महातेजा महाभुजः॥१८॥
तं दृष्ट्वा ध्यानसंयुक्तं ज्ञात्वा तत्पुरुषं शिवम्॥प्रणनाम ततो बुद्ध्या गायत्रीं शांकरीं विधिः॥१९॥
जपित्वा तु महादेवीं सर्वलोकनमस्कृताम्॥प्रसन्नस्तु महादेवो ध्यानयुक्तेन चेतसा॥3.1.२०॥
ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ॥ पीतवस्त्रा हि सकला योगमार्गप्रवर्तकाः ॥ २१॥ (इतितत्पुरुषावतारः ३)
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः।पुनरन्यः प्रवृत्तस्तु कल्पो नाम्ना शिवस्तु स ॥ २२॥
एकार्णवे संव्यतीते दिव्यवर्षसहस्रके ॥ स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २३॥
ततोऽपश्यन्महातेजा प्रादुर्भूतं कुमारकम्॥कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा॥२४॥
धृतकृष्णाम्बरोष्णीषं कृष्णयज्ञोपवीतिनम्॥कृष्णेन मौलिनायुक्तं कृष्णस्नानानुलेपनम्॥२५॥
स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ॥ ववन्दे देवदेवेशमद्भुतं कृष्णपिंगलम् ॥ २६॥
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिंतयत् ॥ तुष्टाव वाग्भिरिष्टाभिर्भक्तवत्सलमव्ययम् ॥ २७ ॥
अथास्य पार्श्वतः कृष्णाः कृष्णस्नानानुलेपनाः॥चत्वारस्तु महात्मानः संबभूवुः कुमारकाः॥२८॥
कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ॥ इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ॥ २९॥
एवंभूता महात्मानो ब्रह्मणः सृष्टिहेतवे ॥ योगं प्रवर्त्तया मासुर्घोराख्यं महदद्भुतम् ॥ 3.1.३० ॥ (इत्यघोरावतारश्चतुर्थः ४)
अथान्यो ब्रह्मणः कल्पः प्रावर्त्तत मुनीश्वराः ॥ विश्वरूप इति ख्यातो नामतः परमाद्भुतः॥३१॥
ब्रह्मणः पुत्रकामस्य ध्यायतो मनसा शिवम् ॥ प्रादुर्भूता महानादा विश्वरूपा सरस्वती ॥ ३२॥
तथाविधः स भगवानीशानः परमेश्वरः ॥ शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः ॥ ३३ ॥
तं दृष्ट्वा प्रणनामासौ ब्रह्मेशानमजं विभुम् ॥ सर्वगं सर्वदं सर्वं सुरूपं रूपवर्जितम् ॥ ३४॥
ईशानोऽपि तथादिश्य सन्मार्गं ब्रह्मणे विभुः ॥ सशक्तिः कल्पयांचक्रे स बालांश्चतुरः शुभान् ॥ ३५ ॥
जटीमुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ॥ योगेनादिश्य सद्धर्मं कृत्वा योगगतिं गताः ॥ ३६॥ ( इतीशानावतारः पञ्चमः ५)
एवं संक्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ॥ सनत्कुमार सर्वज्ञ लोकानां हितकाम्यया ॥ ३७॥
अथ तेषां महाप्राज्ञ व्यवहारं यथायथम् ॥ त्रिलोकहितकारं हि सर्वं ब्रह्माण्डसंस्थितम्॥३८॥
ईशानः पुरुषो घोरो वामसंज्ञस्तथैव च ॥ ब्रह्मसंज्ञो महेशस्य मूर्तयः पंच विश्रुताः ॥ ३९॥
ईशानः शिवरूपश्च गरीयान्प्रथमः स्मृतः ॥ भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ 3.1.४०॥
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ॥ गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ॥ ४१॥
धर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः ॥ ४२॥
वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ॥ अहंकृतेरधिष्ठानो बहुकार्यकरः सदा ॥ ४३ ॥
ईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ॥ श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ॥ ४४ ॥
त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ॥ पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ॥ ४५ ॥
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ॥ ४६॥
रशनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ॥ ४७॥
प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ॥ ४८॥
इमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ॥ श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः॥४९॥
यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम्॥स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ॥ ५० ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवस्य पञ्चब्रह्मावतारवर्णनं नाम प्रथमोऽध्यायः ॥ १॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In