| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
नन्दीश्वर महाप्राज्ञ विज्ञातन्तदनन्तरम् ॥ ममोपरि कृपां कृत्वा प्रीत्या त्वन्तद्वदाधुना ॥ १॥
नन्दीश्वर उवाच।।
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ॥ निनदन्ननु वेगेन तं ग्रहीतुम्प्रचक्रमे ॥ २॥
अत्रान्तरे महाघोरं प्रत्यक्षभयकारणम् ॥ गगनव्यापि दुर्धर्षं शैवतेजस्समुद्भवम् ॥ ३॥
वीरभद्रस्य तद्रूमदृश्यन्तु ततः क्षणात् ॥ तद्वै हिरण्मयं सौम्यं न सौरन्नाग्निसम्भवम् ॥ ४॥
न तडिच्चन्द्रसदृशमनौपम्यम्महेश्वरम् ॥ तदा तेजांसि सर्वाणि तस्मिँल्लीनानि शंकरे ॥ ५॥
न तद्व्योम महत्तेजो व्यक्तान्तश्चाभवत्ततः ॥ रुद्रसाधारणं चैव चिह्नितं विकृताकृति ॥ ६॥
ततस्संहाररूपेण सुव्यक्तं परमेश्वरः ॥ पश्यतां सर्वदेवानां जयशब्दादिमंगलैः ॥ ७॥
सहस्रबाहुर्जटिलश्चन्द्रार्द्धकृतशेखरः ॥ समृद्धोग्रशरीरेण पक्षाभ्याञ्चञ्चुना द्विजः ॥ ८॥
अतितीक्ष्णो महादंष्ट्रो वज्रतुल्यनखायुधः ॥ कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसन्निभः ॥ ९॥
युगान्तोद्यतजीमूतभीमगम्भीरनिस्वनः॥महाकुपितकृत्याग्निव्यावृत्तनयनत्रयः॥3.12.१०॥
स्पष्टदंष्ट्राधरोष्ठश्च हुंकारसंयुतो हरः ॥ ईदृग्विधस्वरूपश्च ह्युग्र आविर्बभूव ह ॥ ११॥
अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ॥ बिभ्रद्धाम सहस्रांशोरधः खद्योतविभ्रमम् ॥ १२ ॥
अथ विभ्रम्य पक्षाभ्यां नाभिपादान्विदारयन् ॥ पादान्बबंध पुच्छेन बाहुभ्याम्बाहु मण्डलम् ॥ १३॥
भिन्दन्नुरसि बाहुभ्यान्निजग्राह हरो हरिम् ॥ ततो जगाम गगनन्देवैस्सह महर्षिभिः ॥ १४॥
सहसैवाभयाद्विष्णुं स हि श्येन इवोरगम् ॥ उत्क्षिप्योत्क्षिप्य संगृह्य निपात्य च निपात्य च ॥ १५ ॥
उड्डीयोड्डीय भगवान्पक्षघातविमोहितम् ॥ हरीं हरस्तं वृषभं विवेशानन्त ईश्वरः ॥ १६॥
अनुयान्तं सुरास्सर्वे नमोवाक्येन तुष्टुवुः ॥ प्रणेमुस्सादरं प्रीत्या ब्रह्माद्याश्च मुनीश्वराः ॥ १७ ॥
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ॥ तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ॥ १८ ॥
नाम्नामष्टशतेनैव स्तुत्वा ताम्मृडमेव च ॥ पुनश्च प्रार्थयामास नृसिंहः शरभेश्वरम् ॥ १९॥
यदायदा ममाज्ञेयं मतिस्स्याद्गर्वदूषिता ॥ तदातदाऽपनेतव्या त्वयैव परमेश्वर ॥ 3.12.२०॥ ॥
नन्दीश्वर उवाच।।
एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी॥नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः ॥ २१॥
तद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम्॥शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः ॥ २२॥
नन्दीश्वर उवाच।।
अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम्॥तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम् ॥ २३॥
।। देवा ऊचुः ।।
ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ॥ दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर ॥ २४॥
ब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ॥ त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ॥ २५॥
यतो हरसि संसारं हर इत्युच्यते बुधैः॥निगृहीतो हरिर्यस्माद्धर इत्युच्यते बुधैः॥२६॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा॥अतोऽस्मान्पाहि भगवन् सुरादानैरभीप्सितैः॥२७॥
त्वं महापुरुषः शम्भुः सर्वेशस्सुरनायकः ॥ निःस्वात्मा निर्विकारात्मा परब्रह्म सतां गतिः॥२८॥
दीनबन्धुर्दया सिन्धुऽरद्भुतोतिः परात्मदृक्॥प्राज्ञो विराट्विभुस्सत्यः सच्चिदानन्दलक्षणः॥२९॥
।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शम्भुर्देवानां परमेश्वरः ॥ उवाच तान् सुरान्देवमहर्षींश्च पुरातनान् ॥ 3.12.३० ॥
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ॥ एक एव तदा विष्णुः शिवे लीनो न चान्यथा ॥ ३१ ॥
एको विष्णुर्नृसिंहात्मा सदर्पश्च महाबलः ॥ जगत्संहारकरणे प्रवृत्तो नरकेसरी ॥ ३२ ॥
प्रार्थनीयो नमस्तस्मै मद्भक्तैस्सिद्धिकारिभिः ॥ मद्भक्तप्रवरश्चैव मद्भक्तवर दायकः ॥ ३३ ॥
नन्दीश्वर उवाच ।।
एतावदुक्त्वा भगवान् पक्षिराजो महाबलः ॥ पश्यतां सर्वदेवानान्तत्रैवान्तरधीयत ॥ ३४ ॥
वीरभद्रोऽपि भगवान्गणाध्यक्षो महाबलः ॥ नृसिंहकृत्तिं निष्कृष्य समादाय ययौ गिरिम् ॥ ३५ ॥
नृसिंहकृत्तिवसनस्तदाप्रभृति शंकरः ॥ तद्वक्त्रं मुण्डमालायां नायकत्वेन कल्पितम् ॥ ३६ ॥
ततो देवा निरातङ्का कीर्त्तयन्तः कथामिमाम् ॥ विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ॥ ३७ ॥
य इदम्परमाख्यानं पुण्यं वेदरसान्वितम् ॥ पठति शृणुयाच्चैव सर्व्वान्कामानवाप्नुयात् ॥ ३८ ॥
धन्यं यशस्यमायुष्यमारोग्यम्पुष्टिवर्द्धनम् ॥ सर्वविघ्रप्रशमनं सर्वव्याधिविनाशनम् ॥ ३९ ॥
दुःखप्रशमनं वाञ्छासिद्धिदं मंगलालयम् ॥ अपमृत्युहरं बुद्धिप्रदं शत्रुविनाशनम् ॥ 3.12.४०॥
इदन्तु शरभाकारं परं रूपम्पिनाकिनः ॥ प्रकाशनीयं भक्तेषु शंकरस्य चरेषु वै ॥ ४१ ॥
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ॥ नवधा भक्तिदं दिव्यमन्तःकरणबुद्धिदम् ॥ ४२॥
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ॥ पठेत्प्रतिष्ठाकाले तु शिवसन्निधिकारणम् ॥ ४३ ॥
चौरव्याघ्रनृसिंहात्मकृत राजभयेषु च ॥ अन्येषूत्पातभूकम्पदस्य्वादिपांसुवृष्टिषु ॥ ४४ ॥
उल्कापाते महावाते विनावृष्ट्यतिवृष्टिषु ॥ पठेद्यः प्रयतो विद्वाञ् शिवभक्तो दृढव्रतः ॥ ४५ ॥
यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ॥ रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ॥ ४६ ॥
रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ॥ ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने ॥ ४७ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
अथ गृहपत्यवतारकथा ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In