| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ॥ गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ॥ १ ॥
पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ॥ क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ॥ २ ॥
मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ॥ अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥ ३ ॥
तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ॥ विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ॥ ४ ॥
दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ॥ प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥ ५ ॥
ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ॥ पपौ विषं महाघोरं सुरासुरगणार्दनम् ॥ ६ ॥
पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ॥ रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह ॥ ७ ॥
ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ॥ विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ॥ ८ ॥
तातो बहूनि रत्नानि निस्सृतानि ततो मुने ॥ अमृतं च पदार्थं हि सुरदानवयोर्मुने ॥ ९ ॥
तत्पपुः केवलन्देवा नासुराः कृपया हरेः ॥ ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ॥ 3.16.१० ॥
द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ॥ तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ॥ ११ ॥
जगाम सदनं शंभोः शरणम्भय विह्वलः ॥ सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन् ॥ १२ ॥
ततस्सतामभयदः शंकरो भक्तवत्सलः ॥ दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम् ॥ १३ ॥
अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ॥ शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात् ॥ १४ ॥
शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ॥ पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ॥ १५॥
ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ॥ पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः ॥ १६॥
विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ॥ बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः ॥ १७॥
ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ॥ यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ॥ १८॥
सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ॥ महागर्वाढ्यमनसा महेशाः प्राह गर्वहा ॥ १९॥
यक्षेश्वर उवाच ।।
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ॥ किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते ॥ 3.16.२०॥
देवा ऊचुः ।।
अभूदत्र महान्देव रणः परमदारुणः ॥ असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ॥ २१॥
वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ॥ अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ॥ २२ ॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ॥ गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥ २३ ॥
यक्षेश्वर उवाच ।।
हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ॥ यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥ २४ ॥
गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ॥ विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ॥ २५ ॥
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ॥ मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ॥ २६ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ॥ जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ॥ २७॥
अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ॥ कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ॥ २८॥
तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ॥ शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥ २९ ॥
अथासीत्तु नभोवाणी देवविस्मयहारिणी ॥ यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ॥ 3.16.३०॥
कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ॥ एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि ॥ ३१ ॥
अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ॥ मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम् ॥ ३२ ॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ॥ यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ॥ ३३ ॥
देवा ऊचुः ।।
देवदेव महादेव सर्वगर्वापहारक॥यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो॥३४॥
मोहिता माययाद्यापि तव यक्षस्वरूपिणः ॥ सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः॥३५॥
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो॥कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ॥ ३६॥
त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ॥ निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥ ३७ ॥
यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ॥ इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ॥ ३८ ॥
अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ॥ विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥ ३९ ॥
इत्थं स वर्णितः शम्भोरवतारः सुखावहः ॥ यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ॥ 3.16.४० ॥
इदमाख्यानममलं सर्वगर्वापहारकम् ॥ सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ ४१ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ॥ सर्वकामानवाप्नोति ततश्च लभते गतिम् ॥ ४२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ॥ १६॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In