| |
|

This overlay will guide you through the buttons:

शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ॥ महाकलमुखान् भक्त्योपासनाकाण्डसेवितान् ॥ १ ॥
तत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ॥ शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ॥ २॥
तारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ॥ भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ॥ ३॥
भुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ॥ भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ॥ ४ ॥
श्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ॥ चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः ॥ ५ ॥
पञ्चमो भैरवः ख्यातः सर्वदा भक्तकामदः ॥ भैरवी गिरिजा तत्र सदुपासककामदा ॥ ६ ॥
छिन्नमस्तकनामासौ शिवः षष्ठः प्रकीर्तितः ॥ भक्तकामप्रदा चैव गिरिजा छिन्नमस्तका ॥ ७ ॥
धूमवान् सप्तमः शम्भुस्सर्वकामफलप्रदः ॥ धूमवती शिवा तत्र सदुपासककामदा ॥ ८ ॥
शिवावतारः सुखदो ह्यष्टमो बगलामुखः ॥ शक्तिस्तत्र महानन्दा विख्याता बगलामुखी ॥ ९ ॥
शिवावतारो मातङ्गो नवमः परिकीर्तितः ॥ मातंगी तत्र शर्वाणी सर्वकामफलप्रदा ॥ 3.17.१० ॥
दशमः कमलः शम्भुर्भुक्तिमुक्तिफलप्रदः ॥ कमला गिरिजा तत्र स्वभक्तपरिपालिनी ॥ ११ ॥
एते दशमिताः शैवा अवतारास्सुखप्रदाः ॥ भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदास्सताम् ॥ १२॥
एते दशावतारा हि शंकरस्य महात्मनः ॥ नानासुखप्रदा नित्यं सेवतां निर्विकारतः ॥ १ ३॥
एतद्दशावताराणां माहात्म्यं वर्णितं मुने ॥ सर्वकामप्रदं ज्ञेयं तंत्रशास्त्रादिगर्भितम् ॥ १४॥
एतासामादिशक्तीनामद्भुतो महिमा मुने ॥ सर्वकामप्रदो ज्ञेयस्तत्रंशास्त्रादिगर्भितः ॥ १५॥
शत्रुमारणकार्य्यादौ तत्तच्छक्तिः परा मता ॥ खल दण्डकरी नित्यम्ब्रह्मतेजोविवर्द्धिनी॥ १६॥
इत्युक्तास्ते मया ब्रह्मन्नवतारा महेशितुः॥सशक्तिका दशमिता महाकालमुखाश्शुभाः॥ १७॥
शैवपर्वसु सर्वेषु योऽधीते भक्तितत्परः ॥ एतदाख्यानममलं सोतिशम्भुप्रियो भवेत् ॥ १८॥
ब्रह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत ॥ धनाधिपो हि वैश्यः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १९॥
शांकरा निजधर्मस्थाः शृण्वन्तश्चरितन्त्विदम्॥सुखिनः स्युर्विशेषेण शिवभक्ता भवन्तु च ॥ 3.17.२०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवदशावतारवर्णनं नाम सप्तदशोऽध्यायः ॥ १७।

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In