| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अथान्यच्चरितं शम्भो श्शृणु प्रीत्या महामुने ॥ यथा बभूव दुर्वासाश्शंकरो धर्महेतवे ॥ १ ॥
ब्रह्मपुत्रो बभूवातितपस्वी ब्रह्मवित्प्रभुः ॥ अनसूयापतिर्धीमान्ब्रह्माज्ञाप्रतिपालकः ॥ २ ॥
सुनिर्देशाद्ब्रह्मणो हि सस्त्रीकः पुत्रकाम्यया ॥ स त्र्यक्षकुलनामानं ययौ च तपसे गिरिम् ॥ ३ ॥
प्राणानायम्य विधिवन्निर्विन्ध्यातटिनीतटे ॥ तपश्चचार सुमहदद्वन्द्वोऽब्दशतम्मुनिः ॥ ४ ॥
य एक ईश्वरः कश्चिदविकारो महाप्रभुः ॥ स मे पुत्रवरं दद्यादिति निश्चितमानसः ॥ ५ ॥
बहुकालो व्यतीयाय तस्मिंस्तपति सत्तपः ॥ आविर्बभूव तत्कात्तु शुचिर्ज्वाला महीयसी ॥ ६ ॥
तया सन्निखिला लोका दग्धप्राया मुनीश्वराः ॥ तथा सुरर्षयः सर्वे पीडिता वासवादयः ॥ ७ ॥
अथ सर्वे वासवाद्या सुराश्च मुनयो मुने ॥ ब्रह्मस्थानं ययुश्शीघ्रं तज्ज्वालातिप्रपीडिताः ॥ ८ ॥
नत्वा नुत्वा विधिन्देवास्तत्स्वदुःखन्न्यवेदयन् ॥ ब्रह्मा सह सुरैस्तात विष्णुलोकं ययावरम् ॥ ९॥
तत्र गत्वा रमानाथं नत्वा नुत्वा विधिस्सुरैः ॥ स्वदुःखन्तत्समाचख्यौ विष्णवेऽनन्तकं मुने ॥ 3.19.१० ॥
विष्णुश्च विधिना देवै रुद्रस्थानं ययौ द्रुतम् ॥ हरं प्रणम्य तत्रेत्य तुष्टाव परमेश्वरम् ॥ १ १॥
स्तुत्वा बहुतया विष्णुं स्वदुःखं च न्यवेदयत् ॥ शर्वं ज्वालासमुद्भूतमत्रेश्च तपसः परम् ॥ १२॥
अथ तत्र समेस्तास्तु ब्रह्मविष्णुमहेश्वराः ॥ मुने संमन्त्रयाञ्चक्रुरन्योन्यं जगतां हितम् ॥ १३ ॥
तदा ब्रह्मादयो देवास्त्रयस्ते वरदर्षभाः ॥ जग्मुस्तदाश्रमं शीघ्रं वरन्दातुन्तदर्षये ॥ १४ ॥
स्वचिह्नचिह्नितांस्तान्स दृष्ट्वात्रिर्मुनिसत्तमः ॥ प्रणनाम च तुष्टाव वाग्भिरिष्टाभिरादरात् ॥ १५ ॥
ततस्स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ॥ ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान् ॥ १६ ॥
हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगताम्मताः ॥ प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः ॥ १७ ॥
एक एव मया ध्यात ईश्वरः पुत्रहेतवे ॥ यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह ॥ १८ ॥
यूयं त्रयस्तुराः कस्मादागता वरदर्षभाः ॥ एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम् ॥ १९ ॥
इति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ॥ यादृक्कृतस्ते संकल्पस्तथैवाभून्मुनीश्वर ॥ 3.19.२० ॥
वयं त्रयो भवेशानास्समाना वरदर्षभाः ॥ अस्मदंशभवास्तस्माद्भविष्यन्ति सुतास्त्रयः ॥ २१ ॥
विदिता भुवने सर्वे पित्रोः कीर्तिविवर्द्धनाः ॥ इत्युक्तास्ते त्रयो देवास्स्वधामानि ययुर्मुदा ॥ २२ ॥
वरं लब्ध्वा मुनिस्सोऽथ जगाम स्वाश्रमं मुदा ॥ युतोऽनुसूयया प्रीतो ब्रह्मानंदप्रदो मुने ॥ २३ ॥
अथ ब्रह्मा हरिश्शम्भुरवतेरुः स्त्रियां ततः ॥ पुत्ररूपैः प्रसन्नात्मनानालीला प्रकाशकाः ॥ २४ ॥
विधेरंशाद्विधुर्जज्ञेऽनसूयायां मुनीश्वरात् ॥ आविर्बभूवोदधितः शिप्तो देवेस्स एव हि ॥ २५ ॥
विष्णोरंशात्स्त्रियान्तस्यामत्रेर्दत्तो व्यजायत ॥ संन्यासपद्धतिर्येन वर्द्धिता परमा मुने ॥ २६ ॥
दुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तमः ॥ जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः ॥ २७ ॥
भूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ॥ चक्रे धर्मपरीक्षाञ्च बहूनां स दयापरः ॥ २८ ॥
सूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ॥ तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर। ॥ २९ ॥
सोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ॥ नियमं हि चकारासावेकादश्या व्रते दृढम् ॥ 3.19.३० ॥
एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ॥ करिष्यामीति सुदृढसंकल्पस्तु नराधिपः ॥ ३१॥
ज्ञात्वा तन्नियमन्तस्य दुर्वासा मुनिसत्तमः॥तदन्तिकं गतश्शिष्यैर्बहुभिश्शंकरांशजः ॥ ३२॥
पारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ॥ कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत् ॥ ३३ ॥
ततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ॥ विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु ॥ ३४॥
धर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ॥ जलम्प्राश्यास्थितस्तत्र तदागमनकांक्षया ॥ ३५॥
एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ॥ कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः ॥ ३६ ॥
चुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ॥ प्रोवाच वचनन्तूग्रं स मुनिश्शंकरांशजः ॥ ३७ ॥
दुर्वासा उवाच ।।
मां निमन्त्र्य नृपाभोज्य जलं पीतन्त्वयाधम ॥ दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम् ॥ ३८॥
इत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ॥ समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम् ॥ ३९॥
प्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम्॥शिवरूपं तमज्ञात्वा शिवमायाविमोहितम्॥3.19.४०॥
एतस्मिन्नन्तरे व्योमवाण्युवाचाशरीरिणी॥अम्बरीषम्महात्मानं ब्रह्मभक्तं च वैष्णवम्॥४१॥
व्योमवाण्युवाच।।
सुदर्शनमिदं चक्रं हरये शम्भुनार्पितम्॥शांतं कुरु प्रज्वलितमद्य दुर्वाससे नृप॥४२॥
दुर्वासायं शिवः साक्षात्स चक्रं हरयेऽर्पितम् ॥ एवं साधारणमुनिं न जानीहि नृपोत्तम ॥ ४३॥
तव धर्मपरीक्षार्थमागतोऽयं मुनीश्वरः ॥ शरणं याहि तस्याशु भविष्यत्यन्यथा लयः ॥ ४४॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा च नभोवाणी विरराम मुनीश्वर ॥ अस्तावीत्स हरांशं तमम्बरीषोऽपि चादरात् ॥ ४५ ॥
अम्बरीष उवाच।।
यद्यस्ति दत्तमिष्टं च स्वधर्मो वा स्वनुष्ठितः ॥ कुलं नो विप्रदैवं चेद्धरेरस्त्रं प्रशाम्यतु ॥ ४६ ॥
यदि नो भगवान्प्रीतो मद्भक्तो भक्तवत्सलः ॥ सुदर्शनमिदं चास्त्रं प्रशाम्यतु विशेषतः ॥ ४७ ॥
नन्दीश्वर उवाच ।।
इति स्तुवति रुद्राग्रे शैवं चक्रं सुदर्शनम् ॥ अशाम्यत्सर्वथा ज्ञात्वा तं शिवांशं सुलब्धधीः ॥ ४८॥
अथाम्बरीषस्स नृपः प्रणनाम च तं मुनिम् ॥ शिवावतारं संज्ञाय स्वपरीक्षार्थमागतम् ॥ ४९॥
सुप्रसन्नो बभूवाथ स मुनिः शंकरांशजः॥भुक्त्वा तस्मै वरं दत्त्वा स्वाभीष्टं स्वालयं ययौ ॥ 3.19.५० ॥
अम्बरीषपरीक्षायां दुर्वासश्चरितम्मुने ॥ प्रोक्तामन्यच्चरित्रन्त्वं शृणु तस्य मुनीश्वर ॥ ५१ ॥
पुनर्दाशरथेश्चक्रे परीक्षां नियमेन वै ॥ मुनिरूपेण कालेन यः कृतो नियमो मुने ॥ ५२ ॥
तदैव मुनिना तेन सौमित्रिः प्रेषितो हठात् ॥ तन्तत्याज द्रुतं रामो बन्धुं पणवशान्मुने ॥ ५३ ॥
सा कथा विहिता लोके मुनिभिर्बहुधोदिता ॥ नातो मे विस्तरात्प्रोक्ता ज्ञाता यत्सर्वधा बुधैः ॥ ५४ ॥
नियमं सुदृढं दृष्ट्वा सुप्रसन्नोऽभवन्मुनिः ॥ दुर्वासास्सुप्रसन्नात्मा वरन्तस्मै प्रदत्तवान् ॥ ५५ ॥
श्रीकृष्णनियमस्यापि परीक्षां स चकार ह ॥ तां शृणु त्वं मुनिश्रेष्ठ कथयामि कथां च ताम् ॥ ५६ ॥
ब्रह्मप्रार्थनया विष्णुर्वसुदेवसुतोऽभवत् ॥ धराभारावतारार्थं साधूनां रक्षणाय च॥५७॥
हत्वा दुष्टान्महापापान् ब्रह्मद्रोहकरान्मलान् ॥ ररक्ष निखिलान्साधून्ब्राह्मणान्कृष्णनामभाक् ॥ ५८ ॥
ब्रह्मभक्तिं चकाराति स कृष्णो वसुदेवजः ॥ नित्यं हि भोजयामास सुरसान्ब्राह्मणान्बहून् ॥ ५९ ॥
ब्रह्मभक्तो विशेषेण कृष्णश्चेति प्रथामगात ॥ संद्रष्टुकामस्स मुनिः कृष्णान्तिकमगान्मुने ॥ 3.19.६० ॥
रुक्मणीसहितं कृष्णं सन्नं? कृत्वा रथे स्वयम् ॥ संयोज्य संस्थितो वाहं सुप्रसन्न उवाह तम् ॥ ६१॥
मुनी रथात्समुत्तीर्य दृष्ट्वा तां दृढताम्पराम् ॥ तस्मै भूत्वा सुप्रसन्नो वज्राङ्गत्ववरन्ददौ ॥ ६२॥
द्युनद्यामेकदा स्नानं कुर्वन्नग्नो बभूव ह ॥ लज्जितोभून्मुनिश्रेष्ठो दुर्वासाः कौतुकी मुने ॥ ६३॥
तज्ज्ञात्वा द्रौपदी स्नानं कुर्वती तत्र चादरात्॥तल्लज्जां छादयामास भिन्नस्वाञ्चलदानतः ॥ ६४ ॥
तदादाय प्रवाहेनागतं स्वनिकटं मुनिः ॥ तेनाच्छाद्य स्वगुह्यं च तस्यै तुष्टो बभूव सः ॥ ६५ ॥
द्रौपद्यै च वरम्प्रादात्तदञ्चलविवर्द्धनम् ॥ पाण्डवान्सुखिनश्चक्रे द्रौपदी तद्वरात्पुनः ॥ ६६॥
हंसडिम्भौ नृपौ कौचित्सावमानकरौ खलौ ॥ दत्त्वा निदेशं च हरेर्नाशयामास स प्रभुः ॥ ६७ ॥
ब्रह्मतेजोविशेषेण स्थापयामास भूतले ॥ संन्यासपद्धतिञ्चैव यथाशास्त्र विधिक्रमम् ॥ ६८॥
बहूनुद्धारयामास सूपदेशं विबोध्य च ॥ ज्ञानं दत्त्वा विशेषेण बहून्मुक्तांश्चकार सः॥६९॥
इत्थं चक्रे स दुर्वासा विचित्रं चरितम्बहु॥धन्यं यशस्यमायुष्यं शृण्वतस्सर्वकामदम् ॥ 3.19.७० ॥
य इदं शृणुयाद्भक्त्या दुर्वासश्चरितम्मुदा॥श्रावयेद्वा परां यश्च स सुखीह परत्र च ॥ ७१॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां दुर्वासश्चरित्रवर्णनं नामैकोनविंशोऽध्यायः॥१९॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In