| |
|

This overlay will guide you through the buttons:

।।नन्दीश्वर उवाच ।।
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ॥ शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥ १॥
एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ॥ विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ ॥ २॥
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ॥ नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥ ३॥
चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ॥ बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ॥ ४॥
अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ॥ आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा॥५॥
तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ॥ निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ॥ ६ ॥
नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ॥ कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका ॥ ७ ॥
।। शिवोवाच ।।
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ॥ अतो भव धरायां हि मानुषस्त्वं च भैरव ॥ ८ ॥
नन्दीश्वर उवाच ।।
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ॥ हाहाकारो महानासीद्दुःखमाप स लीलया ॥ ९ ॥
ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ॥ आश्वासयद्भैरवं हि नानाऽनुनयकोविदः ॥ 3.21.१० ॥
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥ मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ॥ ११ ॥
तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥ शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ॥ १२ ॥
महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥ सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥
इति ते कथितं तात महेशचरितं वरम् ॥ धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥
इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः॥२१॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In