| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ अवतारं परमानन्दं वैश्यनाथाह्वयं मुने ॥ १ ॥
नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ॥ बभूव वारवनिता शिवभक्ता सुसुन्दरी ॥ २ ॥
महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ॥ नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा ॥ ३ ॥
सर्वसंगीत विद्यासु निपुणातिमनोहरा ॥ तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च ॥ ४ ॥
समानर्च सदा साम्बं सा वेश्या शंकरं मुदा ॥ शिवनामजपासक्ता भस्मरुद्राक्षभूषणा ॥ ५॥
शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ॥ ननर्त परया भक्त्या गायन्ती शिवसद्यशः ॥ ६ ॥
रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥ करतालैश्च गीतैश्च सदा नर्तयति स्म सा ॥ ७ ॥
नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ॥ वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता ॥ ८ ॥
रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः ॥ मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ॥ ९ ॥
शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह ॥ नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन् ॥ 3.26.१० ॥
एवं सा कुर्वती वेश्या कौतुकम्परमादरात् ॥ शिवभक्तिरता नित्यं महानन्दभराऽभवत् ॥ । ॥ ११ ॥
शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ॥ बहुकालो व्यतीयाय तस्याः परमसौख्यतः ॥ १२ ॥
एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् ॥ परीक्षितुं च तद्भावमाजगाम शुभो व्रती ॥ १३ ॥
त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ॥ शिवनामजपासक्तो जटिलः शैववेषभृत् ॥ १४ ॥
स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् ॥ महारत्नपरिस्तीर्णं राजते परकौतुकी ॥ १५ ॥
तमागतं सुसंपूज्य सा वेश्या परया मुदा ॥ स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत् ॥ ॥ १६ ॥
तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् ॥ तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता ॥ १७ ॥
महानन्दोवाच ।।
महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः ॥ मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः ॥ १८ ॥
नन्दीश्वर उवाच ।।
इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ॥ वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥ १९ ॥
वैश्यनाथ उवाच ।।
अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः ॥ त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम् ॥ 3.26.२० ॥
वेश्योवाच ।।
वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥ अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥ २१ ॥
यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ॥ दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम् ॥ २२ ॥
वैश्य उवाच ।।
तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ॥ ददामि रत्नवलयं त्रिरात्रं भव मे वधूः ॥ २३ ॥
एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥ त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥ २४ ॥
वेश्योवाच ।।
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥ सहधर्मं चरामीति सत्यंसत्यं न संशयः ॥ २५ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ॥प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत् ॥ २६॥
अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम्॥लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत्॥२७॥
वैश्यनाथ उवाच।।
इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् ॥ रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः ॥ २८॥
नन्दीश्वर उवाच।।
एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् ॥ नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम् ॥ २९ ॥
सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ॥ सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते ॥ 3.26.३० ॥
ततो निशीथसमये मुने वैश्यपतीच्छया ॥ अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे ॥ ३१ ॥
महाप्रज्वलितो वह्निः सुसमीरसहायवान् ॥ नाट्यमण्डपिकां तात तामेव सहसावृणोत् ॥ ३२ ॥
मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात्॥मर्कटं मोचयामास सा वेश्या तत्र बन्धनात् ॥ ३३॥
स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ॥ भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून् ॥ ३४ ॥
स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम्॥दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः ॥ ३५॥
दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा॥ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे ॥ ३६ ॥
निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥ नानालीलो महेशानः कौतुकान्नरदेहवान् ॥ ३७ ॥
वैश्यपतिरुवाच ।।
शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ॥ सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे ॥ ३८ ॥
चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ॥ शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम् ॥ ३९ ॥
यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥ तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून् ॥ 3.26.४० ॥
नन्दीश्वर उवाच ।।
तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ॥ स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः ॥ ४१ ॥
ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् ॥ विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः ॥ ४२ ॥
दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ॥ अनुतापं च युवती प्रपेदे मुनिसत्तम ॥ ४३॥
अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ॥ सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः ॥ ४४॥
महानन्दोवाच।।
रत्नकंकणमादाय मया सत्यमुदाहृतम् ॥ दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ॥ ४५ ॥
कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ॥ तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥ ४६ ॥
स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः ॥ एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु ॥ ४७॥
सत्याश्रयः परो धर्म सत्येन परमा गतिः ॥ सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम् ॥ ४८॥
नन्दीश्वर उवाच ।।
इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः ॥ सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे ॥ ४९ ॥
सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥ तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत् ॥ 3.26.५० ॥
तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् ॥ वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः ॥ ५१ ॥
सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् ॥ शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥ ५२ ॥
तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् ॥ समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः ॥ ५३ ॥
शिव उवाच ।।
सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ॥ परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥ ५४॥
मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् ॥ दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम् ॥ ५५॥
सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा॥अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥ ५६॥
यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते॥त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते ॥ ५७॥
नन्दीश्वर उवाच ।।
इति ब्रुवति गौरीशे शंकरे भक्तवत्सले ॥ महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत ॥ ५८॥
वेश्योवाच ।।
न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ॥ तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये ॥ ५९॥
ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ॥ सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः ॥ 3.26.६०॥
सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् ॥ पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते ॥ ६१ ॥
नन्दीश्वर उवाच ।।
ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः ॥ ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम् ॥ ६२॥
वैश्यनाथावतारस्ते वर्णितः परमो मया ॥ महानन्दासुखकरो भक्तानन्दप्रदस्सदा॥६३॥
इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् ॥ शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम् ॥ ६४॥
इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ च्यवते न स्वधर्मात्स परत्र लभते गतिम् ॥ ६५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥ ( ७६)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In