| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ॥ नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम् ॥ १ ॥
इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ॥ नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः ॥ २ ॥
अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ॥ यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः ॥ ३ ॥
पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ॥ तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः ॥ ४॥
नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ॥ चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः ॥ ५ ॥
एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ॥ तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ॥ ६ ।
स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ॥ अविषादं महाभागा पित्रादेशात्सुबुद्धयः ॥ ७ ॥
स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ॥ नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात् ॥ ८ ॥
भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ॥ दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने ॥ ९॥
नभग उवाच ।।
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ॥ सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च ॥ 3.29.१०॥
तदा विस्मृतमस्माभिरिदानीं पितरं तव ॥ विभजामो वयं भागं तं गृहाण न संशयः ॥ ११॥
तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ॥ तदोपकण्ठमागत्य पितरं समभाषत ॥ १२ ॥
नभग उवाच ।।
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ॥ पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले॥१३॥
तत आगत्य मे पृष्टा दायदानार्थमादरात्॥ते त्वामूचुर्विभागं मे तदर्थमहमागतः ॥ १४॥
नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः॥आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने ॥ १५॥
मनुरुवाच ।।
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ॥ न ह्यहं परमं दायं सर्वथा भोगसाधनम् ॥ १६ ॥
तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ॥ तव वै जीवनोपाय वदामि शृणु तत्त्वतः ॥ १७ ॥
सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ॥ तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति ॥ १८॥
तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ॥ सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत् ॥ १९॥
तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ॥ धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम् ॥ 3.29.२०॥
नन्दीश्वर उवाच ।।
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ॥ जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ॥ २१ ॥
तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ॥ सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ॥ २२ ॥
समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ॥ तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ॥ २३ ॥
तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ॥ विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ॥ २४ ॥
सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ॥ भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ॥ २५ ॥
अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ॥ उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ॥ २६ ॥
ईश्वर उवाच ।।
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ॥ प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ॥ २७ ॥
नन्दीश्वर उवाच ।।
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ॥ प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ॥ २८ ॥
नभगः उवाच ।।
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ॥ कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम् ॥ २९ ॥
नन्दीश्वर उवाच ।।
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ॥ प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ॥ 3.29.३० ॥
कृष्णदर्शन उवाच ।।
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ॥ याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः ॥ ३१ ॥
नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ॥ आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने ॥ ३२ ॥
पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ॥ स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम् ॥ ३३ ॥
मनुरुवाच ।।
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ॥ तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः ॥ ३४ ॥
अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ॥ इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया ॥ ३५ ॥
स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ॥ यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः ॥ ३६ ॥
अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ॥ तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः ॥ ३७॥
क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ॥ सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः ॥ ३८ ॥
विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ॥ तदनुग्रहतस्तात समर्थः सर्वकर्मणि ॥ ३९ ॥
किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ॥ प्रसादय महादेवं सर्वथा सकलेश्वरम् ॥ 3.29.४० ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ॥ प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम् ॥ ४१ ॥
नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ॥ प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः ॥ ४२ ॥
नभग उवाच ।।
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ॥ इत्याह मे पिता नूनं किमुताध्वरशेषितम् ॥ ४३ ॥
अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ॥ अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये ॥ ४४ ॥
इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ॥ तुष्टाव तं महेशानं कृष्णदर्शनमानतः ॥ ४५ ॥
श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ॥ तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत् ॥ ४६ ॥
एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ॥ वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि ॥ ४७ ॥
महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ॥ तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक् ॥ ४८॥
अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान्॥उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः ॥ ४९ ॥
कृष्णदर्शन उवाच ।।
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ॥ त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः ॥ 3.29.५०॥
अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ॥ ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम् ॥ ५१ ॥
महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ॥ गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना ॥ ५२ ॥
इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ॥ सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम ॥ ५३ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ॥ सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः ॥ ५४ ॥
विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ॥ स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा ॥ ५५ ॥
सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ॥ भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ ॥ ५६ ॥
इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ॥ कृष्णदर्शननामा वै नभगानन्ददायकः ॥ ५७॥
इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ॥ पठतां शृण्वतां वापि सर्व कामफलप्रदम् ॥ ५८ ॥
य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ॥ कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम् ॥ ५९ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः॥२९॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In