| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
सनत्कुमार सुप्रीत्या शिवस्य परमात्मनः ॥ अवतारं शृणु विभोर्जटिलाह्वं सुपावनम्। ॥ १॥
पुरा सती दक्षकन्या त्यक्त्वा देहं पितुर्मखे ॥ स्वपित्राऽनादृता जज्ञे मेनायां हिमभूधरात्॥२॥
सा गत्वा गहनेऽरण्ये तेपे सुवि मलं तपः ॥ शंकरम्पतिमिच्छन्ती सखीभ्यां संयुता शिवा॥
तत्तपःसुपरीक्षार्थं सप्तर्षीन्प्रैषयच्छिवः॥तपःस्थानं तु पार्वत्या नानालीलाविशारदः ॥ ४॥
ते गत्वा तत्र मुनयः परीक्षां चक्रुरादरात् ॥ तस्याः सुयत्नतो नैव समर्था ह्यभवंश्च ते ॥ ५॥।
तत्रागत्य शिवं नत्वा वृत्तान्तं च निवेद्य तत्॥तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ६॥
गतेषु मुनिषु स्वस्थानं शंकरः स्वयम्॥परीक्षितुं शिवावृत्तमैच्छत्सूतिकरः प्रभुः॥७॥
सुप्रसन्नस्तपस्वीच्छाशमनादयमीश्वरः॥ब्रह्मचर्य्यस्वरूपोऽभूत्तदाद्भुततरः प्रभुः॥८।
अतीव स्थविरो विप्रदेहधारी स्वतेजसा॥प्रज्वलन्मनसा हृष्टो दण्डी छत्री महोज्जलः।९॥
धृत्वैवं जटिलं रूपं जगाम गिरिजावनम्॥अतिप्रीतियुतः शम्भुश्शङ्करो भक्तवत्सलः॥3.33.१०॥
तत्रापश्यस्त्थितान्देवीं सखीभिः परिवारिताम्॥वेदिकोपरि शुद्धान्तां शिवामिव विधोः कलाम् ॥ ११॥
शंभुर्निरीक्ष्य तान्देवीं ब्रह्मचारिस्वरूपवान्॥उपकण्ठं ययौ प्रीत्या चोत्सुकी भक्तवत्सलः॥१२॥
आगतं सा तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम्॥अंगेषु लोमशं शान्तं दण्डचर्मसमन्वितम् ॥ १३॥
ब्रह्मचर्य्यधरं वृद्धं जटिलं सकमण्डलुम्॥अपूजयत्परप्रीत्या सर्वपूजोपहारकैः॥१४॥
ततस्ता पार्वतीदेवी पूजितं परया मुदा ॥ कुशलं पर्यपृच्छत्तं ब्रह्मचारिणमादरात् ॥ १५॥
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः॥इद्ं वनं भासयसि वद वेदविदां वर॥ १६॥
नन्दीश्वर उवाच।।
इति पृष्टस्तु पार्वत्या ब्रह्मचारी स वै द्विजः ॥ प्रत्युवाच द्रुतम्प्रीत्या शिवाभावपरीक्षया ॥ १७ ॥
ब्रह्मचार्य्युवाच ।।
अहमिच्छाभिगामी च ब्रह्मचारी द्विजोस्मि वै ॥ तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ १८॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा ब्रह्मचारी स शंकरो भक्तवत्सलः ॥ ।तस्थिवानुपकण्ठं स गोपायन्रूपमात्मनः ॥ १९ ॥
ब्रह्मचार्य्युवाच ।।
किम्ब्रवीमि महादेवि कथनीयन्न विद्यते ॥ महानर्थकरं वृत्तं दृश्यते विकृतं महत् ॥ 3.33.२०॥
नवे वयसि सद्भोगसाधने सुखकारणे ॥ महोपचारसद्भोगैर्वृथैव त्वं तपस्यसि॥२॥
का त्वं कस्यासि तनया किमर्थं विजने वने ॥ तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः ॥ २२ ॥
नन्दीश्वर उवाच ।।
इति तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ॥ उवाच वचनं प्रीत्या ब्रह्मचारिणमुत्तमम्॥२३॥
पार्वत्युवाच ।।
शृणु विप्र ब्रह्मचारिन्मदवृत्तमखिलं मुने॥जन्म मे भारते वर्षे साम्प्रतं हिमवद्गृहे ॥ २४ ॥
पूर्वं दक्षगृहे जन्म सती शङ्करकामिनी ॥ योगेन त्यक्तदेहाहं तातेन पतिनिन्दिना ॥ २५ ॥
अत्र जन्मनि संप्राप्य सुपुण्येन शिवो द्विज ॥ मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह॥२६॥
प्रयाते शङ्करे तापाद्व्रीडिताहं पितुर्गृहात् ॥ आगच्छमत्र तपसे गुरुवाक्येन संयता ॥ २७॥
मनसा वचसा साक्षात्कर्मणा पतिभावतः ॥ सत्यम्ब्रवीमि नोऽसत्यं संवृतः शङ्करो मया ॥ २८ ॥
जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् ॥ तथापि मनसौत्सुक्यात्तप्यते मे तपोऽधुना॥२९॥
हित्वेन्द्रप्रमुखान्देवान्विष्णुम्ब्रह्माणमप्यहम्॥पतिम्पिनाकपाणिं वै प्राप्तुमिच्छामि सत्यतः॥3.33.३०॥
नन्दीश्वर उवाच ।।
इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम्॥मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ३१॥
जटिल उवाच ।।
हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ॥ रुद्रार्थं विबुधान्हित्वा करोषि विपुलन्तपः ॥ ३२॥
जानाम्यहं च तं रुद्रं शृणु त्वम्प्रवदामि ते॥वृषध्वजस्स रुद्रो हि विकृतात्मा जटाधरः॥३३॥
एकाकी च सदा नित्यं विरागी च विशेषतः ॥ तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि ॥ ३४॥
सर्वं विरुद्धं रूपादि तव देवि हरस्य च।मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु ॥ ३५॥
नन्दीश्वर उवाच।।
इत्युक्त्वा च पुना रुद्रो ब्रह्मचारिस्वरूपवान्॥निनिन्द बहुधात्मानं तदग्रे तां परीक्षितुम्॥३६॥
तच्छ्रुत्वा पार्वती देवी विप्रवाक्यं दुरासदम्॥प्रत्युवाच महाक्रुद्धा शिवनिन्दापरं च तम्॥३७॥
एतावद्धि मया ज्ञातं कश्चिद्धन्यो भविष्यति ॥ परन्तु सकलं ज्ञातमवध्यो दृश्यतेऽधुना ॥ ३८॥
ब्रह्मचारिस्वरूपेण कश्चित्त्वं धूर्त आगतः ॥ शिवनिन्दा कृता मूढ त्वया मन्युरभून्मम ॥ ३९॥
शिवं त्वं च न जानासि शिवात्त्वं हि बहिर्मुखः ॥ त्वत्पूजा च कृता यन्मे तस्मात्तापयुताऽभवम् ॥ 3.33.४०॥
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान्॥आजन्मसंचितं पुण्यं तस्य भस्मीभवत्युत ॥ ४१॥
शिवविद्वेषिणं स्पृष्ट्वा प्रायश्चित्तं समाचरेत् ॥ ४२॥
रे रे दुष्ट त्वया प्रोक्तमहं जानामि शंकरम्॥निश्चयेन न विज्ञातः शिव एव परः प्रभुः ॥ ४३॥
यथा तथा भवेद्रुद्रो मायया बहुरूपवान् ॥ ममाभीष्टप्रदोऽत्यन्तं निर्विकारः सताम्प्रियः ॥ ४४ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा तं शिवा देवी शिवतत्त्वं जगाद सा ॥ यत्र ब्रह्मतया रुद्रः कथ्यते निर्गुणोऽव्ययः ॥ ४५॥
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः॥पुनर्वचनमादातुं यावदेव प्रचक्रमे ॥ ४६॥
प्रोवाच गिरिजा तावत्स्वसखीं विजयान्द्रुतम् ॥ शिवासक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी॥४७॥ ॥
गिरिजोवाच।।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ॥ पुनर्वक्तुमनाश्चायं शिवनिन्दां करिष्यति ॥ ४८॥
न केवलं भवेत्पापं निन्दाकर्तुः शिवस्य हि ॥ यो वै शृणोति तन्निन्दां पापभाक्स भवेदिह ॥ ४९॥
शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः॥ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम्॥3.33.५०॥
अयन्दुष्टः पुनर्निंदां करिष्यति शिवस्य हि ॥ ब्राह्मणत्वादवध्यश्च त्याज्योऽदृश्यश्च सर्वथा ॥ ५१ ॥
स्थलमेतद्द्रुतं हित्वा यास्यामोऽन्यत्र मा चिरम् ॥ यथा संभाषणं न स्यादनेनाविदुषा पुनः ॥ ९२ ॥
।। नन्दीश्वर उवाच ।।
इत्युक्त्वा चोमया यावत्पदमुत्क्षिप्यते मुने ॥ असौ तावच्छिवः साक्षादाललम्बे पटं स्वयम्॥५३॥
कृत्वा स्वरूपं दिव्यं च शिवाध्यानं यथा तथा॥दर्शयित्वा शिवायै तामुवाचावाङ्मुखी शिवः ॥ ५४॥
शिव उवाच।।
कुत्र त्वं यासि मां हित्वा न त्वन्त्याज्या मया शिवे॥मया परीक्षितासि त्वं दृढभक्तासि मेऽनघे ॥ ५५॥
ब्रह्मचारिस्वरूपेण भावमिच्छुस्त्वदीयकम्॥तवोपकण्ठमागत्य प्रावोचं विविधं वचः॥५६॥
प्रसन्नोस्मि दृढं भक्त्या शिवे तव विशेषतः॥चित्तेप्सितं वरं ब्रूहि नादेयं विद्यते तव॥५७॥
अद्यप्रभृति ते दासस्तपोभिः प्रेमनिर्भरे॥कृतोऽस्मि तव सौन्दर्य्यात्क्षण एको युगायते॥५८॥
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ॥ एहि प्रिये त्वया साकं द्रुतं यामि स्वकं गिरिम्॥५९॥
इत्युक्तवति देवेशे शिवाति मुदमाप सा ॥ तपोदुःखन्तु यत्सर्वं तज्जहौ द्रुतमेव हि ॥ 3.33.६ ०॥
ततः प्रहृष्टा सा दृष्ट्वा दिव्यरूपं शिवस्य तत्॥प्रत्युवाच प्रभुं प्रीत्या लज्जयाधो मुखी शिवा ॥ ६१ ॥
शिवोवाच ।।
यदि प्रसन्नो देवेश करोषि च कृपां मयि ॥ पतिर्मे भव देवेश इत्युक्तश्शिवया शिवः । । ६२ ॥
गृहीत्वा विधिवत्पाणिं कैलासं स तया ययौ ॥ पतिं तं गिरिजा प्राप्य देवकार्यं चकार सा । ।६३। ।
इति प्रोक्तस्तु ते तात ब्रह्मचारि स्वरूपकः । ।शिवावतारो हि मया शिवाभावपरीक्षकः । । ६४ । ।
इदमाख्यानमनघं परमं व्याहृतं मया । ।य एतच्छृणुयात्प्रीत्या सुखी गतिमाप्नुयात् ॥ ६५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां ब्रह्मचारिशिवावतारवर्णनं नाम त्रयस्त्रिंशोऽध्यायः । ।३३। । इति चतुरशीतिरवताराः ( ८४)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In