| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ॥ अवतारं शृणु विभोरश्वत्थामाह्वयं परम् ॥ १ ॥
बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ॥ भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान् ॥ २ ॥
धनुर्भृतां वरः शूरो विप्रर्षिस्सर्वशास्त्रवित् ॥ बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः ॥ ३ ॥
धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः॥वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ४॥
कौरवाणां स आचर्य्यं आसीत्स्वबलतो द्विज ॥ महारथिषु विख्यातः षट्सु कौरवमध्यतः ॥ ५॥
साहाय्यार्थं कौरवाणां स तेपे विपुलन्तपः ॥ शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्य्यो द्विजोत्तमः ॥ ६॥
ततः प्रसन्नो भगवाच्छंकरो भक्तवत्सलः॥आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम॥७॥
तन्दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ॥ महाप्रसन्नहृदयो नतकस्सुकृताञ्जलिः ॥ ८॥
तस्य स्तुत्या च तपसा सन्तुष्टः शंकर प्रभुः॥वरम्ब्रूहीति चोवाच द्रोणन्तं भक्तवत्सलः॥९॥
तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः॥स्वांशजन्तनयन्देहि सर्वाजेयम्महाबलम्॥3.36.१०॥
तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ॥ अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने ॥ ११॥
द्रोणोऽपगच्छत्स्वन्धाम महाहृष्टो गतभ्रमः ॥ स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा ॥ १२ ॥
अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ॥ स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः॥। १३ ॥
अश्वत्थामेति विख्यातस्तस्य बभूव क्षितौ मुने ॥ प्रवीरः कंजपत्राक्षश्शत्रुपक्षक्षयङ्करः ॥ १४ ॥
यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ॥ सहायकृद्बभूवात कौरवाणां महाबलः ॥ १५ ॥
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ॥ भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ॥ १६ ॥
यद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ॥ आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ॥ १७ ॥
कृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ॥ प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ॥ १८॥
अश्वत्थामा महावीरो महादेवांशजो मुने ॥ तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ॥ १९ ॥
विनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ॥ कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ॥ 3.36.२० ॥
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ॥ रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ॥ २१ ॥
अस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ॥ ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ॥ २२ ॥
प्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ॥ उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ॥ २३॥
अर्जुन उवाच ।।
किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ॥ सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ॥ २४॥
नन्दीश्वर उवाच ।।
श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ॥ दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ॥ २५॥
कृष्ण उवाच ।।
वेत्थेदन्द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ॥ न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्॥२६॥
शिवं स्मर द्रुतं शम्भुं स्वप्रभुम्भक्तरक्षकम् ॥ येन दत्तं हि ते स्वास्त्रं सर्वकार्य्यकरम्परम् ॥ २७॥
जह्यस्त्रतेज उन्नद्धन्त्वन्तच्छैवास्त्रतेजसा ॥ इत्युक्त्वा च स्वयं कृष्णश्शिवन्दध्यौ तदर्थकः ॥ २८॥
तच्छ्रुत्वा कृष्णवचनं पार्थस्स्मृत्वा शिवं हृदि ॥ स्पृष्ट्वापस्तं प्रणम्याशु चिक्षेपास्त्रन्ततो मुने ॥ २९॥
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ॥ शैवास्त्रतेजसा सद्यस्समशाम्यन्महामुने ॥ 3.36.३०॥
मंस्था मा ह्येतदाश्चर्य्यं सर्वचित्रमये शिवे ॥ यस्स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः ॥ ३१ ॥
अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ॥ शैवन्न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने ॥ ३२ ॥
अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम्॥उत्तरागर्भगं बालं नाशितुम्मन आदधे ॥ ३३॥
ब्रह्मास्त्रमनिवार्य्यं तदन्यैरस्त्रैर्महाप्रभम् ॥ उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः ॥ ३४ ॥
ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ॥ कृष्णन्तुष्टाव लक्ष्मीशन्दह्यमाना तदस्त्रतः ॥ ३५ ॥
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ॥ अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ३६ ॥
स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ॥ सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ॥ ३७ ॥
स्वरूपं शंकरादेशात्कृतं शैववरेण ह ॥ कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ॥ ३८ ॥
ततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ॥ अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ॥ ३९ ॥
अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ॥ नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ॥ 3.36.४० ॥
इत्थं महेश्वरस्तात चक्रे लीलाम्पराम्प्रभुः ॥ अवतीर्य्य क्षितौ द्रौणिरूपेण मुनिसत्तम ॥ ४१ ॥
शिवावतारोऽश्वत्थामा महाबलपराक्रमः ॥ त्रैलोक्यमुखदोऽद्यापि वर्तते जाह्नवीतटे ॥ ४२ ॥
अश्वत्थामावतारस्ते वर्णितश्शंकर प्रभोः ॥ सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः ॥ ४३ ॥
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ॥ स सिद्धिम्प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत् ॥ ४४ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In