| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ॥ रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ॥ १ ॥
शिव उवाच ।।
सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ॥ कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ॥ २ ॥
मर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति॥तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ॥ ३॥
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च॥उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ॥ ४ ॥
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ॥ द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ॥ ५॥
तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके॥भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः ॥ ६॥
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे॥तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम ॥ ७॥
श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम॥८॥
ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम्॥जन्ममृत्युजराहीनाः परब्रह्मसमाधयः ॥ ९ ॥
द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह ॥ दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः ॥ 3.4.१०॥
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ॥ यदा तदा भविष्यामि सुतारो नामतः कलौ ॥ ११ ॥
तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ॥ दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ॥ १२॥
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ॥ ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ॥ १३ ॥
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥ तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ॥ १४॥
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ॥ विशोकश्च विशेषश्च विपापः पापनाशनः ॥ १५ ॥
शिष्यैः साहाय्यं व्यासस्य करिष्ये चतुरानन ॥ निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह ॥ १६॥
चतुर्थे द्वापरे चैव यदा व्यासोंऽगिराः स्मृतः ॥ तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ॥ १७॥
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ॥ भविष्यंति महात्मानस्तन्नामानि ब्रुवे विधे॥१८॥
सुमुखो दुर्मुखश्चैव दुदर्भो दुरतिक्रमः ॥ शिष्यैः साहाय्यं व्यासस्य करिष्येऽहं तदा विधे ॥ १९ ॥
पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः ॥ तदा योगी भविष्यामि कंको नाम महातपाः ॥ 3.4.२०॥
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ॥ भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे ॥ २१ ॥
सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः ॥ विभुः सनत्कुमारश्च निर्मलो निरहंकृतिः ॥ २२॥
तत्रापि कंकनामाहं साहाय्यं सवितुर्विधे ॥ व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः ॥ २३ ॥
परिवर्ते पुनः षष्ठे द्वापरे लोककारकः ॥ कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति ॥ २४॥
तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ॥ व्यासस्य सुसाहा य्यार्थं निवृत्तिपथवर्द्धनः ॥ २५ ॥
तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः ॥ सुधामा विरजाश्चैव संजयो विजयस्तथा ॥ २६ ॥
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥ तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे ॥ २७ ॥
योगं संद्रढयिष्यामि महायोगविचक्षणः ॥ काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः ॥ २८ ॥
साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः ॥ उद्धरिष्यामि भक्तांश्च संसारभयतो विधे ॥ २९॥
तत्रापि मम चत्वारो भविष्यन्ति सुता युगे ॥ सारस्वतश्च योगीशो मेघवाहः सुवाहनः ॥ 3.4.३०॥
अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ॥ कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ॥ ३१॥
तत्राप्यहं भविष्यामि नामतो दधिवाहनः ॥ व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ॥ ३२ ॥
कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ॥ चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ॥ ३३ ॥
नवमे परिवर्ते तु तस्मिन्नेव युगे विधे ॥ भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ॥ ३४॥
व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ॥ तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ॥ ३५॥
पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा ॥ चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः ॥ ३६॥
तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते ॥ करिष्यामि साहाय्यं वै वेदव्यासस्य सन्मुने ॥ ३७॥
तेन रूपेण भक्तानां बहूनां दुःखिनां विधे ॥ उद्धारं भवतोऽहं वै करिष्यामि दयाकरः ॥ ३८ ॥
सोऽवतारो विधे मे हि ऋषभाख्यस्सुयोगकृत् ॥ सारस्वतव्यासमनः कर्त्ता नानोतिकारकः ॥ ३९॥
अवतारेण मे येन भद्रायुर्नृपबालकः ॥ जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः ॥ 3.4.४०॥
प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः ॥ ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः ॥ ४१॥
पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः ॥ उपादिदेश तद्धर्मान्राज्ययोगान्प्रजापते ॥ ४२॥
ततः स कवचं दिव्यं शंखं खङ्गं च भास्वरम् ॥ ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम् ॥ ४३॥
तदङ्ग भस्मनामृश्य कृपया दीनवत्सलः ॥ स द्वादशसहस्रस्य गजानां च बलं ददौ ॥ ४४॥
इति भद्रायुषं सम्यगनुश्वास्य समातृकम्॥ययौ स्वैरगतस्तस्यां पूजितस्त्वृषभः प्रभुः ॥ ४५ ॥
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ॥ राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ॥ ४६ ॥
इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ॥ सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ॥ ४७ ॥
ऋषभस्य चरित्रं हि परमं पावनं महत् ॥ स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ॥ ४८ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामृषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In