| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शृणु लीलाम्परात्मनः ॥ भक्तवात्सल्यसंयुक्तां तद्दृढत्वविदर्भिताम् ॥ १॥
शिवोप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ॥ बाणार्थे च तदा तत्रार्जुनोपि समगात्ततः ॥ २ ॥
एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ॥ अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा॥३॥
गण प्रोवाच तं तत्र किमर्थं गृह्यते शरः ॥ बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम ॥ ४ ॥
इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तमः॥सोर्जुनः शंकरं स्मृत्वा वचनं च तमब्रवीत् ॥ ५ ॥
अर्जुन उवाच ।।
अज्ञात्वा किंच वदसि मूर्खोसि त्वं वनेचर ॥ बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः ॥ ६॥
रेखारूपं च पिच्छानि मन्नामांकित एव च ॥ त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव ॥ ७॥
।। नन्दीश्वर उवाच ।।
इत्येवन्तद्वचः श्रुत्वा विहस्य स गणेश्वरः ॥ अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे ॥ ८ ॥
तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ॥ वेषतश्च तपस्वी त्वं न यथार्थं छलायते ॥ ९ ॥
तपस्वी च कथं मिथ्या भाषते कुरुते नरः ॥ नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम् ॥ 3.40.१० ॥
बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसत ॥ समर्थस्सर्वथा कर्तुं विग्रहानुग्रहौ पुनः ॥ ११ ॥
वर्तते तस्य वाणीयं यो नीतश्च त्वयाधुना ॥ अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन ॥ १२ ॥
तपःफलं कथं त्वं च हातुमिच्छसि तापस ॥ चौर्य्याच्छलार्द्यमानाच्च विस्मयात्सत्य भञ्जनात् ॥ १३॥
तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ॥ तस्माच्च तपसस्तेद्य भविष्यति फलं कुतः ॥ १४॥
तस्माच्च मुच्यते बाणात्कृतघ्नस्त्वं भविष्यसि ॥ ममैव स्वामिनो बाणस्तवार्थे मोचितो ध्रुवम् ॥ १५ ॥
शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ॥ अत्यन्तं च कृतघ्नोसि तपोशुभकरस्तथा ॥ १६ ॥
सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ॥ प्रयोजनं चेद्बाणेन स्वामी च याच्यतां मम ॥ १७ ॥
ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ॥ राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया॥१८॥
उपकारं परित्यज्य ह्यपकारं समीहसे॥नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम् ॥ १९ ॥
नन्दीश्वर उवाच ।।
इत्येवं वचनन्तस्य श्रुत्वा पार्थोर्जुनस्तदा ॥ क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत्॥ 3.40.२० ॥
।। अर्जुन उवाच ।।
शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ॥ यथा जातिस्तथा त्वां च जानामि हि वनेचर ॥ २१ ॥
अहं राजा भवांश्चौरः कथं युद्धप्रयुक्तता ॥ युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन ॥ २२ ॥
तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ॥ दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः ॥ २३ ॥
कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ॥ त्वमेव याचसे नैव बाणं मां किं वनेचरः ॥ २४ ॥
ददामि ते तथा बाणान्सन्ति मे बहवो ध्रुवम् ॥ राजा च ग्रहणं चैव न दास्यति तथा भवेत् ॥ २५ ॥
किम्पुनश्च तथा बाणान्प्रयच्छामि वनेचर ॥ यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना ॥ २६ ॥
यथागच्छतु ते भर्ता किमर्थं भाषतेऽधुना ॥ आगत्य च मया सार्द्धं जित्वा युद्धे च माम्पुनः ॥ २७ ॥
नीत्वा बाणमिमं भिल्ल स्वामी ते वाहिनीपतिः॥निजालयं सुखं यातु विलंबः क्रियते कथम्॥२८॥
नन्दीश्वर उवाच।।
महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि॥इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत्॥२९॥
भिल्ल उवाच।।
अज्ञोसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम्॥देहि बाणं सुखन्तिष्ठ त्वन्यथा क्लेशभाग्भवेः ॥ 3.40.३०॥
नन्दीश्वर उवाच ।।
इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ॥ गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ॥ ३१ ॥
अर्जुन उवाच।।
मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर॥आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा ॥ ३२॥
न शोभते त्वया युद्धं करिष्ये स्वामिना तव॥उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः ॥ ३३॥
श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ॥ गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु ॥ ३४ ॥
नन्दीश्वर उवाच ।।
इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ॥ शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ॥ ३५॥
अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात्॥सर्वं निवेदयामास तस्यै भिल्लपरात्मने ॥ ३६॥
स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः॥आजगाम स्वसैन्येन शंकरो भिल्लरूपधृक् ॥ ३७ ॥
अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः॥दृष्ट्वा गृहीत्वा सशरन्धनुः सन्मुख आययौ ॥ ३८॥
अथो किरातश्च पुनः प्रेषयामास तं चरम्॥तन्मुखेन जगौ वाक्यम्भारताय महात्मने ॥ ३९ ॥
किरात उवाच ।।
पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ॥ मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम्॥3.40.४०॥
भ्रातरस्तव दुःखार्त्ताः कलत्रं च ततः परम् ॥ पृथिवी हस्ततस्तेद्य यास्यतीति मतिर्मम ॥ ४१॥
।। नन्दीश्वर उवाच ।।
इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ॥ सर्वथार्जुनरक्षार्थं धृतरूपेण शंभुना ॥ ४२ ॥
इत्युक्तस्तु तदागत्य सगणश्शंकरश्च तत् ॥ विस्तराद्वृत्तमखिलमर्जुनाय न्यवेदयत् ॥ ४३॥
तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ॥ वाहिनीपतये वाच्यम्विपरीतम्भविष्यति ॥ ४४॥
यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ॥ कुलस्य दूषणं चाहं भविष्यामि न संशयः ॥ ४५ ॥
भ्रातरश्चैव दुखार्ताः भवन्तु च तथा ध्रुवम् ॥ विद्याश्च निष्फलाः स्युस्तास्तस्मादागच्छ वै ध्रुवम् ॥ ४६ ॥
सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ॥ तथा वनेचराद्राजा न बिभेति कदाचन ॥ ४७ ॥
नन्दीश्वर उवाच ।।
इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ॥ सर्वं निवेदयामास तदुक्तं हि विशेषतः ॥ ४८ ॥
अथ सोपि किराताह्वो महादेवस्ससैन्यकः ॥ तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा ॥ ४९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायाम किरातावतारवर्णने भिल्लार्जुनसंवादोनाम चत्वारिंशोऽध्यायः ॥ ४०॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In