| |
|

This overlay will guide you through the buttons:

तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः ॥ गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम् ॥ १॥
गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् ॥ तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम् ॥ २॥
अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् ॥ यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत् ॥ ३॥
पीडितास्ते गणास्तेन ययुश्चैव दिशो दश ॥ गणेशा वारितास्ते च नाजग्मुस्स्वामिनम्प्रति ॥ ४॥
शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् ॥ नानाविधैश्चायुधैर्हि महाबलपराक्रमौ ॥ ५॥
शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् ॥ अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा ॥ ६ ॥
आयुधानि शिवस्सो वै ह्यर्जुनस्याच्छिनत्तदा ॥ कवचानि च सर्वाणि शरीरं केवलं स्थितम्॥ ७ ॥
तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः ॥ वाहिनीपतिना तेन भयात्क्लिष्टोपि धैर्यवान् ॥ ८॥
तद्युद्धेन मही सर्वा चकंपे ससमुद्रका ॥ देवा दुःखं समापन्नः किं भविष्यति वा पुनः ॥ ९॥
एतस्मित्रंतरे देवः शिवो गगनमास्थितः ॥ युद्धं चकार तत्रस्थस्सोर्जुनश्च तथाऽकरोत्॥3.41.१०॥
उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ॥देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम् ॥ ११॥
अथार्जुनोत्तरे ज्ञात्वा स्मृत्वा शिवपदांबुजम्॥दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः ॥ १२॥
धृत्वा पादौ तदा तस्य भ्रामयामास सोर्जुनः ॥ विजहास महादेवो भक्तवत्सल ऊतिकृत् ॥ १३॥
दातुं स्वदासतां तस्मै भक्तवश्यतया मुने ॥ शिवेनैव कृतं ह्येतच्चरितन्नान्यथा भवेत् ॥ १४॥
पश्चाद्विहस्य तत्रैव शंकरो रूपम द्भुतम् ॥ दर्शयामास सहसा भक्तवश्यतया शुभम् ॥ १५ ॥
यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तमम्॥व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम् ॥ १६ ॥
तद्दृष्ट्वा सुंदरं रूपं ध्यानप्राप्तं शिवस्य तु ॥ बभूव विस्मितोतीव ह्यर्जुनो लज्जितः स्वयम् ॥ १७ ॥
अहो शिवश्शिवस्सोय यो मे प्रभुतया वृतः ॥ त्रिलोकेशः स्वयं साक्षाद्धा कृतं किं मयाऽधुना ॥ १८॥
प्रभोर्बलवती माया मायिनामपि मोहिनी ॥ किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम् ॥ १९ ॥
धियेति संविचार्य्यैव साञ्जलिर्नतमस्तकः ॥ प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः ॥ 3.41.२०॥
अर्जुन उवाच ॥ देवदेव महादेव करुणाकर शंकर॥ममापराधः सर्वेश क्षन्तव्यश्च त्वया पुनः ॥ २१॥
किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना ॥ धिङ् मां समरकर्तारं स्वामिना भवता प्रभो॥२२॥
नन्दीश्वर उवाच।।
इत्येवं पाण्डवस्सोथ पश्चात्तापमवाप सः ॥ पादयोर्निपपाताशु शंकरस्य महाप्रभोः ॥ २३॥
अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् ॥ समाश्वास्येति बहुशो महेशो भक्तवत्सलः ॥ २४ ॥
शंकर उवाच ।।
न खिद्य पार्थ भक्तोसि मम त्वं हि विशेषतः॥परीक्षार्थं मया तेऽद्य कृतमेवं शुचञ्जहि ॥ २५ ॥
नंदीश्वर उवाच ।।
इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् ॥ विलज्जं कारयामास गणैश्च स्वामिनो गणैः ॥ २६ ॥
पुनश्शिवोऽर्जुनम्प्राह पाण्डवं वीरसम्मतम् ॥ हर्षयन् सर्वथा प्रीत्या शंकरो भक्तवत्सलः ॥ २७॥
शिव उवाच ।।
हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोस्मि वरं वृणु ॥ प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया ॥ २८ ॥
इच्छया च कृतं मेऽद्य नापराधस्तवाधुना ॥ नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत्॥२९॥
ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् ॥ एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम् ॥ 3.41.३०॥
नन्दीश्वर उवाच ।।
इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शंकरेण सः॥उवाच शंकरं भक्त्या सावधानतया स्थितः ॥ ३१॥
अर्जुन उवाच ।।
भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम्॥वर्णनीयं मया देव कृपालुस्त्वं सदाशिव ॥ ३२ ॥
इत्युक्त्वा संस्तुतिं तस्य शंकरस्य महाप्रभोः ॥ चकार पाण्डवस्सोथ सद्भक्तिं वेदसंमताम् ॥ ३३॥
अर्जुन उवाच।।
नमस्ते देवदेवाय नमः कैलासवासिने ॥ सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः ॥ ३४॥
कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते॥मनः प्रसन्नरूपाय सहस्रवदनाय च ॥ ३५ ॥
नीलकंठ नमस्तेस्तु सद्योजाताय वै नमः ॥ वृषध्वज नमस्तेस्तु वामांगगिरिजाय च॥३६॥
दशदोष नमस्तुभ्यन्नमस्ते परमात्मने ॥ डमरुकपालहस्ताय नमस्ते मुण्डमालिने ॥ ३७ ॥
शुद्धस्फटिकसंकाशशुद्धकर्पूरवर्ष्मणे ॥ पिनाकपाणये तुभ्यन्त्रिशूलवरधारिणे ॥ ३८॥
व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ॥ नागांगाय नमस्तुभ्यं गंगाधर नमोस्तु ते॥ ३९ ॥
सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ॥ नन्द्यादिगणसेव्याय गणेशाय च ते नमः ॥ 3.41.४० ॥
नमो गणेशरूपाय कार्तिकेयानुगाय च ॥ भक्तिदाय च भक्तानां मुक्तिदाय नमोनमः ॥ ४१ ॥
अगुणाय नमस्तेस्तु सगुणाय नमोनमः ॥ अरूपाय सरूपाय सकलायाकलाय च ॥ ४२ ॥
नमः किरातरूपाय मदनुग्रहकारिणे ॥ युद्धप्रियाय वीराणां नानालीलानुकारिणे ॥ ४३ ॥
यत्किंचिद्दृश्यते रूपन्तत्तेजस्तावकं स्मृतम् ॥ चिद्रूपस्त्वं त्रिलोकेषु रमसेन्वयभेदतः ॥ ४४ ॥
गुणानान्ते न संख्यास्ति यथा भूरजसामिह ॥ आकाशे तारकाणां हि कणानां वृष्ट्यपामपि॥४५॥
न ते गुणास्तु संख्यातुं वेदा वै सम्भवन्ति हि ॥ मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः ॥ ४६॥
सोसि योसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि॥दासोहं ते महेशान स्वामी त्वं मे महेश्वर॥४७॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शंकर ॥ सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम् ॥ ४८॥
शंकर उवाच।।
वचसा किम्बहूक्तेन शृणुष्व वचनम्मम ॥ शीघ्रं वृणु वरम्पुत्र सर्वन्तच्च ददामि ते ॥ ४९॥
नन्दीश्वर उवाच।।
इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् ॥ साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम् ॥ 3.41.५० ॥
अर्जुन उवाच ।।
किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः ॥ तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो ॥ ५१॥
शत्रूणां संकटं यच्च तद्गतन्दर्शनात्तव॥ऐहिकीं च परां सिद्धिम्प्राप्नुयां वै तथा कुरु ॥ ५२ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा तं नमस्कृत्य शंकरम्भक्तवत्सलम् ॥ नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः ॥ ५३ ॥
शिवोपि च तथाभूतञ्ज्ञात्वा पाण्डवमर्जुनम् ॥ निजभक्तवरं स्वामी महातुष्टो बभूव ह ॥ ५४ ॥
अस्त्रम्पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः ॥ ददौ तस्मै महेशानो वचनश्चेदमब्रवीत् ॥ ५५ ॥
शिव उवाच ।।
स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ॥ अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ॥ ५६ ॥
कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ॥ स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः ॥ ५७ ॥
मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ॥ धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ॥ ५८ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ॥ पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत ॥ ५९ ॥
अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ॥ जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम् ॥ 3.41.६० ॥
सर्व्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् ॥ मिलित्वा तं सुखं प्रापुर्द्रौपदी चाति सुव्रता ॥ ६१ ॥
शिवं परं च सन्तुष्टम्पाण्डवाः सर्व एव हि ॥ नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः ॥ ६२ ॥
आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता ॥ पपात सुकरार्थं च तेषाञ्चैव महात्मनाम् ॥ ६३॥
धन्यं च शंकरं चैव नमस्कृत्य शिवम्मुदा ॥ अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति ॥ ६४ ॥
एतस्मिन्नन्तरे कृष्णश्श्रुत्वार्जुनमथागतम्॥मेलनाय समायातश्श्रुत्वा सुखमुपागतः ॥ ६५॥
अतश्चैव मयाख्यातः शंकरः सर्वदुःखहा ॥ स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम् ॥ ६६ ॥
इत्युक्तस्ते किराताह्वोवतारश्शंकस्य वै ॥ तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात्॥६७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In