| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अवताराञ्छृणु विभोर्द्वादशप्रमितान्परान् ॥ ज्योतिर्लिङ्गस्वरूपान्वै नानोति कारकान्मुने ॥ १ ॥
सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः ॥ उज्जयिन्यां महाकाल ओंकारे चामरेश्वरः ॥ २॥
केदारो हिमव त्पृष्टे डाकिन्याम्भीमशंकरः ॥ वाराणस्यां च विश्वेशस्त्र्यम्बको गौतमीतटे ॥ ३ ॥
वैद्यनाथश्चिताभूमौ नागेशो दारुकावने ॥ सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये ॥ ४॥
अवतारद्वादशकमेतच्छम्भोः परात्मनः ॥ सर्वानन्दकरं पुंसान्दर्शनात्स्पर्शनान्मुने॥५॥
तत्राद्यस्सोमनाथो हि चन्द्रदुःखक्षयंकरः॥क्षयकुष्ठादिरोगाणां नाशकः पूजनान्मुने ॥ ६॥
शिवावतारस्सोमेशो लिंगरूपेण संस्थितः॥सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा ॥ ७॥
चंद्रकुण्डं च तत्रैव सर्वपापविनाशकम् ॥ तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते॥ ८ ॥
सोमेश्वरं महालिंगं शिवस्य परमात्मकम्॥दृष्ट्वा प्रमुच्यते पापाद्भुक्तिं मुक्तिं च विन्दति ॥ ९ ॥
मल्लिकार्जुनसंज्ञश्चावतारश्शंकरस्य वै ॥ द्वितीयः श्रीगिरौ तात भक्ताभीष्टफलप्रदः ॥ 3.42.१० ॥
संस्तुतो लिंगरूपेण सुतदर्शनहेतुतः ॥ गतस्तत्र महाप्रीत्या स शिवः स्वगिरेर्मुने ॥ ११॥
ज्योतिर्लिंगं द्वितीयन्तद्दर्शनात्पूजनान्मुने ॥ महासुखकरं चान्ते मुक्तिदन्नात्र संशयः ॥ १२॥
महाकालाभिधस्तातावतारश्शंकरस्य वै ॥ उज्जयिन्यां नगर्य्यां च बभूव स्वजनावनः ॥ १३ ॥
दूषणाख्यासुरं यस्तु वेदधर्मप्रमर्दकम् ॥ ।उज्जयिन्यां गतं विप्रद्वेषिणं सर्वनाशनम् ॥ १४ ॥
वेदविप्रसुतध्यातो हुङ्कारेणैव स द्रुतम् ॥ भस्मसात्कृतवांस्तं च रत्नमाल निवासिनम् ॥ १५ ॥
तं हत्वा स महाकालो ज्योतिर्लिंगस्वरूपतः ॥ देवैस्स प्रार्थितोऽतिष्ठत्स्वभक्तपरिपालकः ॥ १६ ॥ ।
महाकालाह्वयं लिंगं दृष्ट्वाभ्यर्च्य प्रयत्नतः ॥ सर्वान्कामानवाप्नोति लभते परतो गतिम् ॥ १७ ॥
ओङ्कारः परमेशानो धृतः शम्भो परात्मनः ॥ अवतारश्चतुर्थो हि भक्ताभीष्टफलप्रदः ॥ १८ ॥
विधिना स्थापितो भक्त्या स्वलिंगात्पार्थिवान्मुने ॥ प्रादुर्भूतो महादेवो विन्ध्यकामप्रपूरकः ॥ १९ ॥
देवैस्संप्रार्थितस्तत्र द्विधारूपेण संस्थितः ॥ भुक्तिमुक्तिप्रदो लिंगरूपो वै शक्तवत्सल ॥ 3.42.२० ॥
प्रणवे चैव चोंकारनामासील्लिंगमुत्तमम् ॥ परमेश्वरनामासीत्पार्थिवश्च मुनीश्वर ॥ २१॥
भक्ताभीष्टप्रदो ज्ञेयो योपि दृष्टोर्चितो मुने ॥ ज्योतिर्लिंगे महादिव्ये वर्णिते ते महामुने॥२२॥
केदारेशोवतारस्तु पंचमः परमश्शिवः ॥ ज्योतिर्लिंगस्वरूपेण केदारे संस्थितस्य च ॥ २३ ॥
नरनारायणाख्यौ याववतारौ हरेर्मुने ॥ तत्प्रार्थितश्शिवस्तत्स्थैः केदारे हिमभूधरे ॥ २४ ॥
ताभ्यां च पूजितो नित्यं केदारेश्वरसंज्ञकः ॥ भक्ताभीष्टप्रदः शम्भुर्दर्शनादर्चनादपि ॥ २५॥
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ॥ सर्वकामप्रदस्तात सोवतारश्शिवस्य वै ॥ २६॥
भीमशंकरसंज्ञस्तु षष्ठः शम्भोर्महाप्रभोः ॥ अवतारो महालीलो भीमासुरविनाशनः ॥ २७॥
सुदक्षिणाभिधम्भक्तङ्कामरूपेश्वरन्नृपम्॥यो ररक्षाद्भुतं हत्वासुरन्तं भक्तदुःखदम् ॥ २८॥
भीमशङ्करनामा स डाकिन्यां संस्थितस्स्वयम् ॥ ज्योतिर्लिंगस्वरूपेण प्रार्थितस्तेन शंकरः ॥ २९॥
विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः ॥ सर्वब्रह्माण्डरूपश्च भुक्तिमुक्तिप्रदो मुने ॥ 3.42.३० ॥
पूजितस्सर्वदेवैश्च भक्त्या विष्ण्वादिभिस्सदा ॥ कैलासपतिना चापि भैरवेणापि नित्यशः ॥ ३१ ॥
ज्योतिर्लिंगस्वरूपेण संस्थितस्तत्र मुक्तिदः ॥ स्वयं सिद्धस्वरूपो हि तथा स्वपुरि स प्रभुः ॥ ३२ ॥
काशीविश्वेशयोर्भक्त्या तन्नामजपकारकाः ॥ निर्लिप्ताः कर्मभिर्न्नित्यं केवल्यपदभागिनः ॥ ३३ ॥
त्र्यंबकाख्योऽवतारो यः सोष्टमो गौतमीतटे ॥ प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः ॥ ३४॥
गौतमस्य प्रार्थनया ज्योतिर्लिंग स्वरूपतः ॥ स्थितस्तत्राचलः प्रीत्या तन्मुनेः प्रीतिकाम्यया॥३५॥
तस्य सन्दर्शनात्स्पर्शाद्दर्शनाच्च महेशितुः ॥ सर्वे कामाः प्रसिध्यन्ति ततो मुक्तिर्भवेदहो ॥ ३६॥
शिवानुग्रहतस्तत्र गंगा नाम्ना तु गौतमी ॥ संस्थिता गौतमप्रीत्या पावनी शंकरप्रिया ॥ ३७॥।
वैद्यनाथावतारो हि नवमस्तत्र कीर्तितः ॥ आविर्भूतो रावणार्थं बहुलीलाकरः प्रभुः॥३८॥
तदानयनरूपं हि व्याजं कृत्वा महेश्वरः ॥ ज्योतिर्लिंगस्वरूपेण चिताभूमौ प्रतिष्ठितः ॥ ३९॥
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ॥ दर्शनात्पूजनाद्भक्त्या भुक्तिमुक्तिप्रदः स हि ॥ 3.42.४०॥
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ॥ पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ॥ ४१ ॥
नागेश्वरावतारस्तु दशमः परिकीर्तितः ॥ आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा ॥ ४२॥
हत्वा दारुकनामानं राक्षसन्धर्मघातकम् ॥ स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ॥ ४३॥
लोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक्॥सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः ॥ ४४ ॥
तद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ॥ विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ॥ ४५॥।
रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः ॥ रामचन्द्रप्रियकरो रामसंस्थापितो मुने ॥ ४६॥
ददौ जयवरं प्रीत्या यो रामाय सुतोषितः ॥ आविर्भूतस्य लिंगस्तु शंकरो भक्तवत्सलः ॥ ४७॥
रामेण प्रार्थितोऽत्यर्थं ज्योतिर्लिंगस्वरूपतः ॥ सन्तस्थौ सेतुबन्धे च रामसंसेवितो मुने ॥ ४८ ॥
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ॥ भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः॥४९॥
तं च गंगाजलेनैव स्नापयिष्यति यो नरः ॥ रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ॥ 3.42.५० ॥
इह भुक्त्वाखिलान्भोगान्देवतादुर्ल्लभानपि॥अतः प्राप्य परं ज्ञानं कैवल्यं मोक्षमाप्नुयात् ॥ ५१ ॥
घुश्मेश्वरावतारस्तु द्वादशश्शंकरस्य हि ॥ नानालीलाकरो घुश्मानन्ददो भक्तवत्सलः॥५२ ॥
दक्षिणस्यान्दिशि मुने देवशैलसमीपतः ॥ आविर्बभूव सरसि घुश्माप्रियकरः प्रभुः ॥ ५३॥
सुदेह्यमारितं घुश्मापुत्रं साकल्यतो मुने ॥ तुष्टस्तद्भक्तितश्शम्भुर्योरक्षद्भक्तवत्सलः ॥ ५४॥
तत्प्रार्थितस्स वै शम्भुस्तडागे तत्र कामदाः॥ज्योतिर्लिंग स्वरूपेण तस्थौ घुश्मेश्वराभिधः ॥ ५५।
तन्दृष्ट्वा शिवलिंगन्तु समभ्यर्च्य च भक्तितः॥इह सर्वसुखम्भुक्त्वा ततो मुक्तिं च विन्दति॥५६॥
इति ते हि समाख्याता ज्योतिर्लिंगावली मया॥द्वादशप्रमिता दिव्या भुक्तिमुक्तिप्रदायिनी॥५७॥
एतां ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि॥मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति॥५८॥
शतरुद्राभिदा चेयम्वर्णिता संहिता मया॥शतावतारसत्कीर्तिस्सर्वकामफलप्रदा॥५९॥
इमां यः पठते नित्यं शृणुयाद्वा समाहितः ॥ सर्वान्कामानवाप्नोति ततो मुक्तिं लभेद्ध्रुवम् ॥ 3.42.६०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सनत्कुमार .नन्दीश्वरसंवादे द्वादशज्योतिर्लिंगावतारवर्णनं नाम द्विचत्वारिंशोध्यायः ॥ ४२ ॥ समाप्तेयं तृतीया शतरुद्रसंहिता ॥
इति तृतीया शतरुद्रसंहिता ।३।

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In