| |
|

This overlay will guide you through the buttons:

अथ भैरवावतारमाह ॥
नन्दीश्वर उवाच।।
सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम् ॥ यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत् ॥ १ ॥
भैरवः पूर्णरूपो हि शंकरस्य परात्मनः ॥ मूढास्तं वै न जानन्ति मोहिताश्शिवमायया ॥ २॥
सनत्कुमार नो वेत्ति महिमानं महेशितुः॥चतुर्भुजोऽपि विष्णुर्वै चतुर्व्वक्त्रोऽपि वै विधिः ॥ ॥ ३॥
चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ॥ तया संमोहितास्सर्वे नार्चयन्त्यपि तम्परम् ॥ ४ ॥
वेद चेद्यदि वात्मानं स एव परमेश्वरः ॥ तदा विहन्ति ते सर्व्वे स्वेच्छया न हि केऽपि तम्॥५॥
सर्व्वगोऽपि महेशानो नेक्ष्यते मूढबुद्धिभिः॥देववद् बुध्यते लोके योऽतीतो मनसां गिराम् ॥ ६॥
अत्रेतिहासं वक्ष्येऽहं परमर्षे पुरातनम् ॥ शृणु तं श्रद्धया तात परमं ज्ञानकारणम् ॥ ७ ॥
मेरुशृङ्गेऽद्भुते रम्ये स्थितम्ब्रह्माणमीश्वरम्॥जग्मुर्देवर्षयः सर्व्वे सुतत्त्वं ज्ञातुमिच्छया ॥ ८॥
तत्रागत्य विधिन्नत्वा पप्रच्छुस्ते महादरात् ॥ कृताञ्जलिपुटास्सर्वे नतस्कन्धा मुनीश्वराः ॥ ९॥
देवर्षय ऊचुः।।
देवदेव प्रजानाथ सृष्टिकृल्लोकनायक ॥ तत्त्वतो वद चास्मभ्यं किमेकं तत्त्वमव्ययम् ॥ 3.8.१० ॥
नन्दीश्वर उवाच ।।
स मायया महेशस्य मोहितः पद्मसम्भवः ॥ अविज्ञाय परम्भावं संभावं प्रत्युवाच ह ॥ ११॥
ब्रह्मोवाच ।।
हे सुरा ऋषयः सर्व्वे सुमत्या शृणुतादरात् ॥ वच्म्यहं परमं तत्त्वमव्ययं वै यथार्थतः ॥ १२ ॥
जगद्योनिरहं धाता स्वयम्भूरज ईश्वरः ॥ अनादिभागहं ब्रह्म ह्येक आत्मा निरञ्जनः॥१३॥
प्रवर्तको हि जगतामहमेव निवर्त्तकः ॥ संवर्तको मदधिको नान्यः कश्चित्सुरोत्तमाः ॥ १४ ॥
तस्यैवं वदतो धातुर्विष्णुस्तत्र स्थितो मुने ॥ प्रोवाच प्रहसन्वाक्यं संक्रुद्धो मोहितोऽजया ॥ १५॥
न चैतदुचिता ब्रह्मन्योगयुक्तस्य मूर्खता॥अविज्ञाय परं तत्त्वं वृथैतत्ते निगद्यते॥१६॥
कर्ता वै सर्वलोकानां परमात्मा परः पुमान्॥यज्ञो नारायणो देवो मायाधीशः परा गतिः॥१७॥
ममाज्ञया त्वया ब्रह्मन्सृष्टिरेषा विधी यते ॥ जगतां जीवनं नैव मामनादृत्य चेश्वरम् ॥ १८॥
एवं त्रिप्रकृतौ मोहात्परस्परजयैषिणौ ॥ प्रोचतुर्निगमांश्चात्र प्रमाणे सर्वथा तनौ ॥ १९॥
प्रष्टव्यास्ते विशेषेण स्थिता मूर्तिधराश्च ते ॥ पप्रच्छतुः प्रमाणज्ञानित्युक्त्वा चतुरोऽपि तान्॥3.8.२०॥
विधिविष्णू ऊचतुः।।
वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः॥यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्॥२१॥
नन्दीश्वर उवाच।।
इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः॥अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्॥२२॥
यदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू॥तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २३॥
श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः॥युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्॥२४॥
यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते॥यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि ॥ २५ ॥
यजुर्वेद उवाच ।।
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ॥ येन प्रमाणं खलु नस्स एकः सर्व्वदृक् छिवः ॥ २६॥
सामवेद उवाच ।।
येनेदम्भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ॥ यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ॥ २७॥
अथर्ववेद उवाच ।।
यं प्रपश्यन्ति देवेशम्भक्त्यनुग्रहिणो जनाः ॥ तमाहुरेकं कैवल्यं शंकरं दुःखतः परम् ॥ २८ ॥
नन्दीश्वर उवाच ।।
श्रुत्युक्तमिदमाकर्ण्यातीवमायाविमोहितौ ॥ स्मित्वाहतुर्विधिहरी निगमांस्तान्विचेतनौ ॥ २९ ॥
विधिहरी ऊचतुः ।।
हे वेदाः किमिदं यूयम्भाषन्ते गतचेतनाः ॥ किञ्जातं वोऽद्य सर्व्वं हि नष्टं सुवयुनं परम् ॥ 3.8.३० ॥
कथम्प्रमथनाथोऽसौ रममाणो निरन्तरम् ॥ दिगम्बरः पीतवर्णो शिवया धूलिधूसरः ॥ ३१ ॥
विरूपवेषो जटिलो वृषगो व्यालभूषणः ॥ परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम् ॥ ३२ ॥
इत्युदीरितमाकर्ण्य प्रणवः सर्वगस्तयोः ॥ अमूर्तो मूर्तिमान्प्रीत्या जृम्भमाण उवाच तौ ॥ ३३ ॥
प्रणव उवाच ।।
न हीशो भगवाञ्छक्त्या ह्यात्मनो व्यतिरिक्तया ॥ कदाचिद्रमते रुद्रो लीलारूपधरो हरः ॥ ३४॥
असौ हि परमेशानस्स्वयंज्योतिस्सनातनः ॥ आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा ॥ ३५ ॥
नन्दीश्वर उवाच ।।
इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ॥ नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६ ॥
प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ॥ पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ॥ ३७ ॥
ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ॥ विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ॥ ३८ ॥
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ॥ आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ॥ ३९॥
विधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ॥ दृष्टः क्षणेन च महापुरुषो नीललोहितः ॥ 3.8.४० ॥
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ॥ हिरण्यगर्भस्तं दृष्ट्वा विहसन्प्राह मोहितः ॥ ४१६ ॥
ब्रह्मोवाच ।।
नीललोहित जाने त्वां मा भैषीश्चन्द्रशेखर ॥ भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्भवान् ॥ ४२ ॥
रोदनाद्रुद्रनामापि योजितोऽसि मया पुरा ॥ मामेव शरणं याहि पुत्र रक्षाङ्करोमि ते ॥ ४३ ॥
।। नन्दीश्वर उवाच ।।
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ॥ चुकोपातीव च तदा कुर्वन्निव लयम्मुने ॥ ४४ ॥
स कोपतस्समुत्पाद्य पुरुषं भैरवं क्वचित् ॥ प्रज्वलन्तं सुमहसा प्रीत्या च परमेश्वरः ॥ ४५॥
ईश्वर उवाच ।।
प्राक्च पंकजजन्मासौ शास्यस्ते कालभैरव ॥ कालवद्राजसे साक्षात्कालराजस्ततो भवान् ॥ ४६ ॥
विश्वं भर्तुं समर्थोसि भीषणाद्भैरवः स्मृतः ॥ त्वत्तो भेष्यति कालोऽपि ततस्त्वं कालभैरवः ॥ ४७ ॥
आमर्दयिष्यति भवान्रुष्टो दुष्टात्मनो यतः ॥ आमर्दक इति ख्यातिं ततस्सर्वत्र यास्यसि ॥ ४८॥
यतः पापानि भक्तानां भक्षयिष्यसि तत्क्षणात् ॥ पापभक्षण इत्येव तव नाम भविष्यति ॥ ४९॥
या मे मुक्तिपुरी काशी सर्व्वाभ्योऽहि गरीयसी ॥ आधिपत्यं च तस्यास्ते कालराज सदैव हि ॥ 3.8.५०॥
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ॥ शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ५१॥
नन्दीश्वर उवाच ।।
एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ॥ वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः ॥ ५२॥
यदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥ अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः ॥ ५३॥
अथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ॥ शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ॥ ५४॥
भीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ॥ इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने ॥ ९९॥
परब्रह्म शिवः साक्षात्सच्चिदानन्दलक्षणः ॥ परमात्मा गुणातीत इति ज्ञानमवापतुः ॥ ५६ ॥
सनत्कुमार सर्वज्ञ शृणु मे परमं शुभम् ॥ यावद्गर्वो भवेत्तावज्ज्ञानगुप्तिर्विशेषतः ॥ ५७ ॥
त्यक्त्वाभि मानं पुरुषो जानाति परमेश्वरम् ॥ गर्विणं हन्ति विश्वेशो जातो गर्वापहारकः ॥ ५८॥
अथ विष्णुविधी ज्ञात्वा विगर्वौ परमेश्वरः॥प्रसन्नोऽभून्महादेवोऽकरोत्तावभयौ प्रभुः ॥ ५९॥
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ॥ प्राह स्वां मूर्तिमपरां भैरवन्तं कपर्दिनम् ॥ 3.8.६०॥
महादेव उवाच ।।
त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ॥ कपालम्वैधसम्वापि नीललोहित धारय ॥ ॥ ६१॥
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ॥ चर त्वं सततं भिक्षां कपालव्रतमाश्रितः ॥ ६२॥
इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ॥ उत्पाद्य चैकां कन्यान्तु ब्रह्महत्याभिविश्रुताम् ॥ ६३ ॥
यावद्वाराणसीन्दिव्याम्पुरीमेषां गमिष्यति ॥ तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणम् ॥ ६४ ॥
सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ॥ वाराणसीं यदा गच्छेत्तन्मुक्तां भव तत्क्षणात् ॥ ६५ ॥
नन्दीश्वर उवाच ।।
नियोज्य तामिति तदा ब्रह्महत्यां च ताम्प्रभुः ॥ महाद्भुतश्च स शिवोऽप्यन्तर्धानमगात्ततः ॥ ६६ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In