| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ॥ सुरभिर्विनता चेला ताम्रा क्रोधवशा तथा ॥ १ ॥
अदितिः दितिः च सुरसा अरिष्टा इला दनुः एव च ॥ सुरभिः विनता च इला ताम्रा क्रोधवशा तथा ॥ १ ॥
aditiḥ ditiḥ ca surasā ariṣṭā ilā danuḥ eva ca .. surabhiḥ vinatā ca ilā tāmrā krodhavaśā tathā .. 1 ..
कदूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ॥ पूर्वमन्वंतरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥ २ ॥
कदूः मुनिः च विप्र-इन्द्र तासु अपत्यानि मे शृणु ॥ पूर्व-मन्वंतरे श्रेष्ठे द्वादश आसन् सुर-उत्तमाः ॥ २ ॥
kadūḥ muniḥ ca vipra-indra tāsu apatyāni me śṛṇu .. pūrva-manvaṃtare śreṣṭhe dvādaśa āsan sura-uttamāḥ .. 2 ..
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेंतरे ॥ उपस्थिते सुयशसश्चाक्षुषस्यांतरे मनोः ॥ ३ ॥
तुषिताः नाम ते अन्योन्यम् ऊचुः वैवस्वतेंतरे ॥ उपस्थिते सुयशसः चाक्षुषस्य अंतरे मनोः ॥ ३ ॥
tuṣitāḥ nāma te anyonyam ūcuḥ vaivasvateṃtare .. upasthite suyaśasaḥ cākṣuṣasya aṃtare manoḥ .. 3 ..
हिताय सर्वलोकानां समागम्य परस्परम् ॥ आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै ॥ ४ ॥
हिताय सर्व-लोकानाम् समागम्य परस्परम् ॥ आगच्छतः तु तान् ऊचुः अदितिम् च प्रविश्य वै ॥ ४ ॥
hitāya sarva-lokānām samāgamya parasparam .. āgacchataḥ tu tān ūcuḥ aditim ca praviśya vai .. 4 ..
मन्वंतरे प्रसूयामस्सतां श्रेयो भविष्यति ॥ एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ ५ ॥
मन्वंतरे प्रसूयामः सताम् श्रेयः भविष्यति ॥ एवम् उक्ताः तु ते सर्वे चाक्षुषस्य अन्तरे मनोः ॥ ५ ॥
manvaṃtare prasūyāmaḥ satām śreyaḥ bhaviṣyati .. evam uktāḥ tu te sarve cākṣuṣasya antare manoḥ .. 5 ..
मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया॥तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥ ६ ॥
मारीचात् कश्यपात् जाताः ते अदित्याम् दक्ष-कन्यया॥तत्र विष्णुः च शक्रः च जज्ञाते पुनर् एव हि ॥ ६ ॥
mārīcāt kaśyapāt jātāḥ te adityām dakṣa-kanyayā..tatra viṣṇuḥ ca śakraḥ ca jajñāte punar eva hi .. 6 ..
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ विवस्वान्सविता चैव मित्रावरुण एव च ॥ ७ ॥
अर्यमा च एव धाता च त्वष्टा पूषा तथा एव च ॥ विवस्वान् सविता च एव मित्रावरुणः एव च ॥ ७ ॥
aryamā ca eva dhātā ca tvaṣṭā pūṣā tathā eva ca .. vivasvān savitā ca eva mitrāvaruṇaḥ eva ca .. 7 ..
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ पूर्वमासन्ये तुषितास्सुराः ॥ ८ ॥
अंशः भगः च अति तेजाः आदित्याः द्वादश स्मृताः ॥ पूर्वम् आसन् ये तुषिताः सुराः ॥ ८ ॥
aṃśaḥ bhagaḥ ca ati tejāḥ ādityāḥ dvādaśa smṛtāḥ .. pūrvam āsan ye tuṣitāḥ surāḥ .. 8 ..
पुरैव तस्यांतरे तु आदित्या द्वादश स्मृताः ॥ इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥ ९ ॥
पुरा एव तस्य अंतरे तु आदित्याः द्वादश स्मृताः ॥ इति प्रोक्तानि क्रमशस् अदिति-अपत्यानि शौनक ॥ ९ ॥
purā eva tasya aṃtare tu ādityāḥ dvādaśa smṛtāḥ .. iti proktāni kramaśas aditi-apatyāni śaunaka .. 9 ..
सप्तविंशति याः प्रोक्तास्सोमपत्न्योऽथ सुव्रताः॥तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ 5.32.१०॥
सप्तविंशति याः प्रोक्ताः सोम-पत्न्यः अथ सुव्रताः॥तासाम् अपत्यानि अभवन् दीप्तयः अमित-तेजसः ॥ ५।३२।१०॥
saptaviṃśati yāḥ proktāḥ soma-patnyaḥ atha suvratāḥ..tāsām apatyāni abhavan dīptayaḥ amita-tejasaḥ .. 5.32.10..
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ बहुपुत्रस्य विदुषश्चतस्रो यास्सुताः स्मृताः ॥ ११॥
अरिष्टनेमि-पत्नीनाम् अपत्यानि इह षोडश ॥ बहुपुत्रस्य विदुषः चतस्रः याः सुताः स्मृताः ॥ ११॥
ariṣṭanemi-patnīnām apatyāni iha ṣoḍaśa .. bahuputrasya viduṣaḥ catasraḥ yāḥ sutāḥ smṛtāḥ .. 11..
कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ॥ भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥ १२ ॥
कृशाश्वस्य तु देव-ऋषे देव-प्रहरणाः स्मृताः ॥ भार्म्यायाम् अर्चिषि मुने धूम्रकेशः तथा एव च ॥ १२ ॥
kṛśāśvasya tu deva-ṛṣe deva-praharaṇāḥ smṛtāḥ .. bhārmyāyām arciṣi mune dhūmrakeśaḥ tathā eva ca .. 12 ..
स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ॥ स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती ॥ १३ ॥
स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ॥ स्वधा असूत पितॄन् वेदम् अथर्व-अङ्गिरसम् सती ॥ १३ ॥
svadhā satī ca dve patnyau svadhā jyeṣṭhā satī parā .. svadhā asūta pitṝn vedam atharva-aṅgirasam satī .. 13 ..
एते युगसहस्रांते जायंते पुनरेव हि॥सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥ १४ ॥
एते युग-सहस्र-अंते जायंते पुनर् एव हि॥सर्व-देव-निकायाः च त्रयस्त्रिंशत् तु काम-जाः ॥ १४ ॥
ete yuga-sahasra-aṃte jāyaṃte punar eva hi..sarva-deva-nikāyāḥ ca trayastriṃśat tu kāma-jāḥ .. 14 ..
यथा सूर्य्यस्य नित्यं हि उदयास्तमयाविह ॥ एवं देवानिकास्ते च संभवंति युगेयुगे॥१५॥
यथा सूर्य्यस्य नित्यम् हि उदय-अस्तमयौ इह ॥ एवम् देवानिकाः ते च संभवन्ति युगे युगे॥१५॥
yathā sūryyasya nityam hi udaya-astamayau iha .. evam devānikāḥ te ca saṃbhavanti yuge yuge..15..
दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम्॥हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ १६॥
दित्याम् बभूवतुः पुत्रौ कश्यपात् इति नः श्रुतम्॥हिरण्यकशिपुः च एव हिरण्याक्षः च वीर्यवान् ॥ १६॥
dityām babhūvatuḥ putrau kaśyapāt iti naḥ śrutam..hiraṇyakaśipuḥ ca eva hiraṇyākṣaḥ ca vīryavān .. 16..
सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ॥ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः॥१७॥
सिंहिका हि अभवत् कन्या विप्रचित्तेः परिग्रहः ॥ हिरण्यकशिपोः पुत्राः चत्वारः प्रथित-ओजसः॥१७॥
siṃhikā hi abhavat kanyā vipracitteḥ parigrahaḥ .. hiraṇyakaśipoḥ putrāḥ catvāraḥ prathita-ojasaḥ..17..
अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ॥ प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः॥१८॥
अनुह्रादः च ह्रादः च संह्रादः च एव वीर्यवान् ॥ प्रह्रादः च अनुजः तत्र विष्णु-भक्ति-विचार-धीः॥१८॥
anuhrādaḥ ca hrādaḥ ca saṃhrādaḥ ca eva vīryavān .. prahrādaḥ ca anujaḥ tatra viṣṇu-bhakti-vicāra-dhīḥ..18..
अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा॥ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्॥१९॥
अनुह्रादस्य सूर्यायाम् पुलोमा महिषः तथा॥ह्रादस्य धमनिः भार्या असूत॥१९॥
anuhrādasya sūryāyām pulomā mahiṣaḥ tathā..hrādasya dhamaniḥ bhāryā asūta..19..
संह्रादस्य कृतिर्भार्यासूतः पंचजनं ततः ॥ विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद्बलिः ॥ ।5.32.२०॥
संह्रादस्य कृतिः भार्या-सूतः पंचजनम् ततस् ॥ विरोचनः तु प्राह्रादिः देव्याः तस्य अभवत् बलिः ॥ ।५।३२।२०॥
saṃhrādasya kṛtiḥ bhāryā-sūtaḥ paṃcajanam tatas .. virocanaḥ tu prāhrādiḥ devyāḥ tasya abhavat baliḥ .. .5.32.20..
बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर॥बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥ २१ ॥
बलेः पुत्र-शतम् तु आसीत् अशनायाम् मुनि-ईश्वर॥बलिः आसीत् महाशैवः शिव-भक्ति-परायणः ॥ २१ ॥
baleḥ putra-śatam tu āsīt aśanāyām muni-īśvara..baliḥ āsīt mahāśaivaḥ śiva-bhakti-parāyaṇaḥ .. 21 ..
दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः॥तत्पुत्रो बाणनामा यत्सोऽषि शैववरस्सुधीः ॥ यस्संतोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥ २२ ॥
दान-शीलः उदारः च स्मृतः॥तद्-पुत्रः बाण-नामा यत् सः असि शैव-वरः सुधीः ॥ यः संतोष्य शिवम् सम्यक् गाणपत्यम् अवाप ह ॥ २२ ॥
dāna-śīlaḥ udāraḥ ca smṛtaḥ..tad-putraḥ bāṇa-nāmā yat saḥ asi śaiva-varaḥ sudhīḥ .. yaḥ saṃtoṣya śivam samyak gāṇapatyam avāpa ha .. 22 ..
सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ॥ कृष्णं यस्समरे वीरस्सुप्रसन्नं चकार ह॥२३॥
सा कथा श्रुत-पूर्वा ते बाणस्य हि महात्मनः ॥ कृष्णम् यः समरे वीरः सु प्रसन्नम् चकार ह॥२३॥
sā kathā śruta-pūrvā te bāṇasya hi mahātmanaḥ .. kṛṣṇam yaḥ samare vīraḥ su prasannam cakāra ha..23..
हिरण्याक्षसुताः पंच पंडितास्तु महाबलाः ॥ कुकुरः शकुनिश्चैव भूतसंतापनस्तथा ॥ २४
हिरण्याक्ष-सुताः पंच पंडिताः तु महा-बलाः ॥ कुकुरः शकुनिः च एव भूतसंतापनः तथा ॥ २४
hiraṇyākṣa-sutāḥ paṃca paṃḍitāḥ tu mahā-balāḥ .. kukuraḥ śakuniḥ ca eva bhūtasaṃtāpanaḥ tathā .. 24
महानादश्च विक्रांतः कालनाभस्तथैव च ॥ इत्युक्ता दितिपुत्राश्च दनोः पुत्रान्मुने शृणु॥२५॥
महानादः च विक्रांतः कालनाभः तथा एव च ॥ इति उक्ताः दिति-पुत्राः च दनोः पुत्रान् मुने शृणु॥२५॥
mahānādaḥ ca vikrāṃtaḥ kālanābhaḥ tathā eva ca .. iti uktāḥ diti-putrāḥ ca danoḥ putrān mune śṛṇu..25..
अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ अयोमुखश्शंबरश्च कपोलो वामनस्तथा॥२६॥
अभवन् दनु-पुत्राः च शतम् तीव्र-पराक्रमाः ॥ अयोमुखः शंबरः च कपोलः वामनः तथा॥२६॥
abhavan danu-putrāḥ ca śatam tīvra-parākramāḥ .. ayomukhaḥ śaṃbaraḥ ca kapolaḥ vāmanaḥ tathā..26..
वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ॥ स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥ २७॥
वैश्वानरः पुलोमा च विद्रावण-महाशिरौ ॥ स्वर्भानुः वृषपर्वा च विप्रचित्तिः च वीर्यवान् ॥ २७॥
vaiśvānaraḥ pulomā ca vidrāvaṇa-mahāśirau .. svarbhānuḥ vṛṣaparvā ca vipracittiḥ ca vīryavān .. 27..
एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ॥ एषां पुत्राञ्च्छृणु मुने प्रसंगाद्वच्मि तेऽनघ ॥ २८ ॥
एते सर्वे दनोः पुत्राः कश्यपात् अनुजज्ञिरे ॥ एषाम् पुत्रान् शृणु मुने प्रसंगात् वच्मि ते अनघ ॥ २८ ॥
ete sarve danoḥ putrāḥ kaśyapāt anujajñire .. eṣām putrān śṛṇu mune prasaṃgāt vacmi te anagha .. 28 ..
स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥ २९ ॥
स्वभार्नोः तु प्रभा कन्या पुलोम्नः तु शची सुता ॥ उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥ २९ ॥
svabhārnoḥ tu prabhā kanyā pulomnaḥ tu śacī sutā .. upadānavī hayaśirā śarmmiṣṭhā vārṣaparvaṇī .. 29 ..
पुलोमा पुलोमिका चैव वैश्वानरसुते उभे ॥ बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः ॥ 5.32.३०॥
पुलोमा पुलोमिका च एव वैश्वानर-सुते उभे ॥ बहु-अपत्ये महा-वीर्ये मारीचेः तु परिग्रहः ॥ ५।३२।३०॥
pulomā pulomikā ca eva vaiśvānara-sute ubhe .. bahu-apatye mahā-vīrye mārīceḥ tu parigrahaḥ .. 5.32.30..
तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ मरीचिर्जनयामास महता तपसान्वितः ॥ ३१॥
तयोः पुत्र-सहस्राणि षष्टिः दानव-नन्दनाः ॥ मरीचिः जनयामास महता तपसा अन्वितः ॥ ३१॥
tayoḥ putra-sahasrāṇi ṣaṣṭiḥ dānava-nandanāḥ .. marīciḥ janayāmāsa mahatā tapasā anvitaḥ .. 31..
पौलोमाः कालखंजाश्च दानवानां महाबला ॥ अवध्या देवतानां च हिरण्यपुरवासिनः ॥ ३२॥
पौलोमाः कालखंजाः च दानवानाम् महा-बला ॥ अवध्याः देवतानाम् च हिरण्यपुर-वासिनः ॥ ३२॥
paulomāḥ kālakhaṃjāḥ ca dānavānām mahā-balā .. avadhyāḥ devatānām ca hiraṇyapura-vāsinaḥ .. 32..
पितामहप्रसादेन ये हताः सव्यसाचिना ॥ सिंहिकायामथोत्पन्ना विप्रचित्तेस्सुतास्तथा ॥ ३३ ॥
पितामह-प्रसादेन ये हताः सव्यसाचिना ॥ सिंहिकायाम् अथ उत्पन्नाः विप्रचित्तेः सुताः तथा ॥ ३३ ॥
pitāmaha-prasādena ye hatāḥ savyasācinā .. siṃhikāyām atha utpannāḥ vipracitteḥ sutāḥ tathā .. 33 ..
दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ३४ ॥
दैत्य-दानव-संयोगात् जाताः तीव्र-पराक्रमाः ॥ सैंहिकेयाः इति ख्याताः त्रयोदश महा-बलाः ॥ ३४ ॥
daitya-dānava-saṃyogāt jātāḥ tīvra-parākramāḥ .. saiṃhikeyāḥ iti khyātāḥ trayodaśa mahā-balāḥ .. 34 ..
राहुः शल्यो सुबलिनो बलश्चैव महाबलः ॥ वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥ ३५ ॥
राहुः शल्यः सु बलिनः बलः च एव महा-बलः ॥ वातापिः नमुचिः च एव अथ इल्वलः स्वसृपः तथा ॥ ३५ ॥
rāhuḥ śalyaḥ su balinaḥ balaḥ ca eva mahā-balaḥ .. vātāpiḥ namuciḥ ca eva atha ilvalaḥ svasṛpaḥ tathā .. 35 ..
अजिको नरकश्चैव कालनाभस्तथैव च ॥ शरमाणश्शरकल्पश्च एते वंशविवर्द्धनाः ॥ ३६ ॥
अजिकः नरकः च एव कालनाभः तथा एव च ॥ शरमाणः शर-कल्पः च एते वंश-विवर्द्धनाः ॥ ३६ ॥
ajikaḥ narakaḥ ca eva kālanābhaḥ tathā eva ca .. śaramāṇaḥ śara-kalpaḥ ca ete vaṃśa-vivarddhanāḥ .. 36 ..
एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ॥ बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः .॥३७॥
एषाम् पुत्राः च पौत्राः च दनु-वंश-विवर्द्धनाः ॥ बहवः च समुद्भूताः विस्तर-त्वात् न वर्णिताः ।॥३७॥
eṣām putrāḥ ca pautrāḥ ca danu-vaṃśa-vivarddhanāḥ .. bahavaḥ ca samudbhūtāḥ vistara-tvāt na varṇitāḥ ...37..
संह्रादस्य तु दैतेया निवातकवचाः कुले ॥ उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥ ३८॥
संह्रादस्य तु दैतेयाः निवात-कवचाः कुले ॥ उत्पन्नाः मरुतः तस्मिन् तपसा भावितात्मनः ॥ ३८॥
saṃhrādasya tu daiteyāḥ nivāta-kavacāḥ kule .. utpannāḥ marutaḥ tasmin tapasā bhāvitātmanaḥ .. 38..
षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ॥ काकी श्येनी च भासी च सुग्रीवी च शुकी तथा॥३९॥
षण्मुख-आद्याः महासत्त्वाः ताम्रायाः परिकीर्तिताः ॥ काकी श्येनी च भासी च सुग्रीवी च शुकी तथा॥३९॥
ṣaṇmukha-ādyāḥ mahāsattvāḥ tāmrāyāḥ parikīrtitāḥ .. kākī śyenī ca bhāsī ca sugrīvī ca śukī tathā..39..
गृद्ध्रिकाश्वी ह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः ॥ काकी काकानजनयदुलूकी प्रत्युलूककान् ॥ 5.32.४०॥
गृद्ध्रिका अश्वी हि उलूकी च ताम्रा कन्याः प्रकीर्तिताः ॥ काकी काकान् अजनयत् उलूकी प्रत्युलूककान् ॥ ५।३२।४०॥
gṛddhrikā aśvī hi ulūkī ca tāmrā kanyāḥ prakīrtitāḥ .. kākī kākān ajanayat ulūkī pratyulūkakān .. 5.32.40..
श्येनी श्येनांस्तथा भासी भासा न्गृद्धी तु गृध्रकान् ॥ शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥ ४१ ॥
श्येनी श्येनान् तथा भासी भासाः तु गृध्रकान् ॥ शुकी शुकान् अजनयत् सुग्रीवी शुभ-पक्षिणः ॥ ४१ ॥
śyenī śyenān tathā bhāsī bhāsāḥ tu gṛdhrakān .. śukī śukān ajanayat sugrīvī śubha-pakṣiṇaḥ .. 41 ..
अश्वानुष्ट्रान्गर्दभांश्च ताम्रा च कश्यपप्रिया ॥ जनयामास चेत्येवं ताम्रावंशाः प्रकीर्तिताः ॥ ४२ ॥
अश्वान् उष्ट्रान् गर्दभान् च ताम्रा च कश्यप-प्रिया ॥ जनयामास च इति एवम् ताम्रा-वंशाः प्रकीर्तिताः ॥ ४२ ॥
aśvān uṣṭrān gardabhān ca tāmrā ca kaśyapa-priyā .. janayāmāsa ca iti evam tāmrā-vaṃśāḥ prakīrtitāḥ .. 42 ..
विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ॥ सुपर्णः पततां श्रेष्ठो नारुणस्स्वेन कर्मणा ॥ ४३ ॥
विनतायाः च पुत्रौ द्वौ अरुणः गरुडः तथा ॥ सुपर्णः पतताम् श्रेष्ठः न अरुणः स्वेन कर्मणा ॥ ४३ ॥
vinatāyāḥ ca putrau dvau aruṇaḥ garuḍaḥ tathā .. suparṇaḥ patatām śreṣṭhaḥ na aruṇaḥ svena karmaṇā .. 43 ..
सुरसायास्सहस्रं तु सर्पाणाममितौजसाम् ॥ अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ ४४ ॥
सुरसायाः सहस्रम् तु सर्पाणाम् अमित-ओजसाम् ॥ अनेक-शिरसाम् तेषाम् खेचराणाम् महात्मनाम् ॥ ४४ ॥
surasāyāḥ sahasram tu sarpāṇām amita-ojasām .. aneka-śirasām teṣām khecarāṇām mahātmanām .. 44 ..
येषां प्रधाना राजानः शेषवासुकितक्षकाः ॥ ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥ ४५ ॥
येषाम् प्रधानाः राजानः शेष-वासुकि-तक्षकाः ॥ ऐरावतः महापद्मः कंबल-अश्वतरौ उभौ ॥ ४५ ॥
yeṣām pradhānāḥ rājānaḥ śeṣa-vāsuki-takṣakāḥ .. airāvataḥ mahāpadmaḥ kaṃbala-aśvatarau ubhau .. 45 ..
ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ॥महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥ ४६ ॥
ऐला-पुत्रः तथा पद्मः कर्कोटक-धनंजयौ॥महानील-महाकर्णौ धृतराष्ट्रः बलाहकः ॥ ४६ ॥
ailā-putraḥ tathā padmaḥ karkoṭaka-dhanaṃjayau..mahānīla-mahākarṇau dhṛtarāṣṭraḥ balāhakaḥ .. 46 ..
कुहरः पुष्पदन्तश्च दुर्मुखास्सुमुखस्तथा ॥ बहुशः खररोमा च पाणिरित्येवमादयः ॥ ४७ ॥
कुहरः पुष्पदन्तः च दुर्मुखाः सुमुखः तथा ॥ बहुशस् खर-रोमा च पाणिः इति एवमादयः ॥ ४७ ॥
kuharaḥ puṣpadantaḥ ca durmukhāḥ sumukhaḥ tathā .. bahuśas khara-romā ca pāṇiḥ iti evamādayaḥ .. 47 ..
गणाः क्रोधवशायाश्च तस्यास्सर्वे च दंष्ट्रिणः ॥ अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥ ४८ ॥
गणाः क्रोधवशायाः च तस्याः सर्वे च दंष्ट्रिणः ॥ अंड-जाः पक्षिणः अप्-जाः च वराह्याः पशवः मताः ॥ ४८ ॥
gaṇāḥ krodhavaśāyāḥ ca tasyāḥ sarve ca daṃṣṭriṇaḥ .. aṃḍa-jāḥ pakṣiṇaḥ ap-jāḥ ca varāhyāḥ paśavaḥ matāḥ .. 48 ..
अनायुषायाः पुत्राश्च पंचाशच्च महाबलाः ॥ अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥ ४९ ॥
अनायुषायाः पुत्राः च पंचाशत् च महा-बलाः ॥ अभवन् बलवृक्षौ च विक्षरः अथ बृहन् तथा ॥ ४९ ॥
anāyuṣāyāḥ putrāḥ ca paṃcāśat ca mahā-balāḥ .. abhavan balavṛkṣau ca vikṣaraḥ atha bṛhan tathā .. 49 ..
शशांस्तु जनयामास सुरभिर्महिषांस्तथा॥इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥ 5.32.५० ॥
शशान् तु जनयामास सुरभिः महिषान् तथा॥इलाः वृक्षान् लताः वल्लीः तृण-जातीः तु सर्वशस् ॥ ५।३२।५० ॥
śaśān tu janayāmāsa surabhiḥ mahiṣān tathā..ilāḥ vṛkṣān latāḥ vallīḥ tṛṇa-jātīḥ tu sarvaśas .. 5.32.50 ..
खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥ अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान्॥५१॥
खशा तु यक्ष-रक्षांसि मुनिः अप्सरसः तथा ॥ अरिष्टा असूत सर्पान् च प्रभावैः मानव-उत्तमान्॥५१॥
khaśā tu yakṣa-rakṣāṃsi muniḥ apsarasaḥ tathā .. ariṣṭā asūta sarpān ca prabhāvaiḥ mānava-uttamān..51..
एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ॥ येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ५२ ॥
एते कश्यप-दायादाः कीर्तिताः ते मुनि-ईश्वर ॥ येषाम् पुत्राः च पौत्राः च शतशस् अथ सहस्रशस् ॥ ५२ ॥
ete kaśyapa-dāyādāḥ kīrtitāḥ te muni-īśvara .. yeṣām putrāḥ ca pautrāḥ ca śataśas atha sahasraśas .. 52 ..
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इति श्री-शिवमहापुराणे पञ्चम्याः मुमासंहितायाम् कश्यपवंशवर्णनम् नाम द्वात्रिंशः अध्यायः ॥ ३२ ॥
iti śrī-śivamahāpurāṇe pañcamyāḥ mumāsaṃhitāyām kaśyapavaṃśavarṇanam nāma dvātriṃśaḥ adhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In