This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे प्रथमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe prathamaḥ sargaḥ ..3..
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्॥ १॥
प्रविश्य तु महा-अरण्यम् दण्डक-अरण्यम् आत्मवान् । रामः ददर्श दुर्धर्षः तापस-आश्रम-मण्डलम्॥ १॥
praviśya tu mahā-araṇyam daṇḍaka-araṇyam ātmavān . rāmaḥ dadarśa durdharṣaḥ tāpasa-āśrama-maṇḍalam.. 1..
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् । यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्॥ २॥
कुश-चीर-परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् । यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य-मण्डलम्॥ २॥
kuśa-cīra-parikṣiptam brāhmyā lakṣmyā samāvṛtam . yathā pradīptam durdarśam gagane sūrya-maṇḍalam.. 2..
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा । मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्॥ ३॥
शरण्यम् सर्व-भूतानाम् सु सम्मृष्ट-अजिरम् सदा । मृगैः बहुभिः आकीर्णम् पक्षि-संघैः समावृतम्॥ ३॥
śaraṇyam sarva-bhūtānām su sammṛṣṭa-ajiram sadā . mṛgaiḥ bahubhiḥ ākīrṇam pakṣi-saṃghaiḥ samāvṛtam.. 3..
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः । विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः॥ ४॥
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः । विशालैः अग्नि-शरणैः स्रुच्-भाण्डैः अजिनैः कुशैः॥ ४॥
pūjitam ca upanṛttam ca nityam apsarasām gaṇaiḥ . viśālaiḥ agni-śaraṇaiḥ sruc-bhāṇḍaiḥ ajinaiḥ kuśaiḥ.. 4..
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्॥ ५॥
समिद्भिः तोय-कलशैः फल-मूलैः च शोभितम् । आरण्यैः च महा-वृक्षैः पुण्यैः स्वादु-फलैः वृतम्॥ ५॥
samidbhiḥ toya-kalaśaiḥ phala-mūlaiḥ ca śobhitam . āraṇyaiḥ ca mahā-vṛkṣaiḥ puṇyaiḥ svādu-phalaiḥ vṛtam.. 5..
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया॥ ६॥
बलि-होम-अर्चितम् पुण्यम् ब्रह्मघोष-निनादितम् । पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया॥ ६॥
bali-homa-arcitam puṇyam brahmaghoṣa-nināditam . puṣpaiḥ ca anyaiḥ parikṣiptam padminyā ca sa padmayā.. 6..
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्॥ ७॥
फल-मूल-अशनैः दान्तैः चीर-कृष्ण-अजिन-अम्बरैः । सूर्य-वैश्वानर-आभैः च पुराणैः मुनिभिः युतम्॥ ७॥
phala-mūla-aśanaiḥ dāntaiḥ cīra-kṛṣṇa-ajina-ambaraiḥ . sūrya-vaiśvānara-ābhaiḥ ca purāṇaiḥ munibhiḥ yutam.. 7..
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्॥ ८॥
पुण्यैः च नियत-आहारैः शोभितम् परम-ऋषिभिः । तत् ब्रह्म-भवन-प्रख्यम् ब्रह्मघोष-निनादितम्॥ ८॥
puṇyaiḥ ca niyata-āhāraiḥ śobhitam parama-ṛṣibhiḥ . tat brahma-bhavana-prakhyam brahmaghoṣa-nināditam.. 8..
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् । तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्॥ ९॥
ब्रह्म-विद्भिः महाभागैः ब्राह्मणैः उपशोभितम् । तत् दृष्ट्वा राघवः श्रीमान् तापस-आश्रम-मण्डलम्॥ ९॥
brahma-vidbhiḥ mahābhāgaiḥ brāhmaṇaiḥ upaśobhitam . tat dṛṣṭvā rāghavaḥ śrīmān tāpasa-āśrama-maṇḍalam.. 9..
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः । दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः॥ १०॥
अभ्यगच्छत् महा-तेजाः विज्यम् कृत्वा महत् धनुः । दिव्य-ज्ञान-उपपन्नाः ते रामम् दृष्ट्वा महा-ऋषयः॥ १०॥
abhyagacchat mahā-tejāḥ vijyam kṛtvā mahat dhanuḥ . divya-jñāna-upapannāḥ te rāmam dṛṣṭvā mahā-ṛṣayaḥ.. 10..
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् । ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्॥ ११॥
अभिजग्मुः तदा प्रीताः वैदेहीम् च यशस्विनीम् । ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्म-चारिणम्॥ ११॥
abhijagmuḥ tadā prītāḥ vaidehīm ca yaśasvinīm . te tu somam iva udyantam dṛṣṭvā vai dharma-cāriṇam.. 11..
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः॥ १२॥
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढ-व्रताः॥ १२॥
lakṣmaṇam ca eva dṛṣṭvā tu vaidehīm ca yaśasvinīm . maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍha-vratāḥ.. 12..
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ १३॥
रूप-संहननम् लक्ष्मीम् सौकुमार्यम् सु वेष-ताम् । ददृशुः विस्मित-आकाराः रामस्य वन-वासिनः॥ १३॥
rūpa-saṃhananam lakṣmīm saukumāryam su veṣa-tām . dadṛśuḥ vismita-ākārāḥ rāmasya vana-vāsinaḥ.. 13..
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः॥ १४॥
वैदेहीम् लक्ष्मणम् रामम् नेत्रैः अनिमिषैः इव । आश्चर्य-भूतान् ददृशुः सर्वे ते वन-वासिनः॥ १४॥
vaidehīm lakṣmaṇam rāmam netraiḥ animiṣaiḥ iva . āścarya-bhūtān dadṛśuḥ sarve te vana-vāsinaḥ.. 14..
अत्रैनं हि महाभागाः सर्वभूतहिते रताः । अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ १५॥
अत्रा एनम् हि महाभागाः सर्व-भूत-हिते रताः । अतिथिम् पर्ण-शालायाम् राघवम् संन्यवेशयन्॥ १५॥
atrā enam hi mahābhāgāḥ sarva-bhūta-hite ratāḥ . atithim parṇa-śālāyām rāghavam saṃnyaveśayan.. 15..
ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः॥ १६॥
ततस् रामस्य सत्कृत्य विधिना पावक-उपमाः । आजह्रुः ते महाभागाः सलिलम् धर्म-चारिणः॥ १६॥
tatas rāmasya satkṛtya vidhinā pāvaka-upamāḥ . ājahruḥ te mahābhāgāḥ salilam dharma-cāriṇaḥ.. 16..
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः । मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः॥ १७॥
मङ्गलानि प्रयुञ्जानाः मुदा परमया युताः । मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः॥ १७॥
maṅgalāni prayuñjānāḥ mudā paramayā yutāḥ . mūlam puṣpam phalam sarvam āśramam ca mahātmanaḥ.. 17..
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् । धर्मपालो जनस्यास्य शरण्यश्च महायशाः॥ १८॥
निवेदयित्वा धर्म-ज्ञाः ते तु प्राञ्जलयः अब्रुवन् । धर्म-पालः जनस्य अस्य शरण्यः च महा-यशाः॥ १८॥
nivedayitvā dharma-jñāḥ te tu prāñjalayaḥ abruvan . dharma-pālaḥ janasya asya śaraṇyaḥ ca mahā-yaśāḥ.. 18..
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः । इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव॥ १९॥
पूजनीयः च मान्यः च राजा दण्ड-धरः गुरुः । इन्द्रस्य एव चतुर्भागः प्रजाः रक्षति राघव॥ १९॥
pūjanīyaḥ ca mānyaḥ ca rājā daṇḍa-dharaḥ guruḥ . indrasya eva caturbhāgaḥ prajāḥ rakṣati rāghava.. 19..
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः । ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ २०॥
राजा तस्मात् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः । ते वयम् भवता रक्ष्याः भवत्-विषय-वासिनः । नगर-स्थः वन-स्थः वा त्वम् नः राजा जनेश्वरः॥ २०॥
rājā tasmāt varān bhogān ramyān bhuṅkte namaskṛtaḥ . te vayam bhavatā rakṣyāḥ bhavat-viṣaya-vāsinaḥ . nagara-sthaḥ vana-sthaḥ vā tvam naḥ rājā janeśvaraḥ.. 20..
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः । रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः॥ २१॥
न्यस्त-दण्डाः वयम् राजन् जित-क्रोधाः जित-इन्द्रियाः । रक्षणीयाः त्वया शश्वत् गर्भ-भूताः तपोधनाः॥ २१॥
nyasta-daṇḍāḥ vayam rājan jita-krodhāḥ jita-indriyāḥ . rakṣaṇīyāḥ tvayā śaśvat garbha-bhūtāḥ tapodhanāḥ.. 21..
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् । वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ २२॥
एवम् उक्त्वा फलैः मूलैः पुष्पैः अन्यैः च राघवम् । वन्यैः च विविध-आहारैः स लक्ष्मणम् अपूजयन्॥ २२॥
evam uktvā phalaiḥ mūlaiḥ puṣpaiḥ anyaiḥ ca rāghavam . vanyaiḥ ca vividha-āhāraiḥ sa lakṣmaṇam apūjayan.. 22..
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्॥ २३॥
तथा अन्ये तापसाः सिद्धाः रामम् वैश्वानर-उपमाः । न्याय-वृत्ताः यथान्यायम् तर्पयामासुः ईश्वरम्॥ २३॥
tathā anye tāpasāḥ siddhāḥ rāmam vaiśvānara-upamāḥ . nyāya-vṛttāḥ yathānyāyam tarpayāmāsuḥ īśvaram.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे प्रथमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe prathamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In